भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका · श्लोक 41-60

41

चित्रं यथा *श्रयम् ऋते स्थाण्व्1-आदिभ्यो विना यथा2 छाया
तद्वद् विना ^विशेषैर् न तिष्ठति3 निर्-आश्रयं लिङ्गम्.

42

पुरुषाऽर्थ-हेतुकम् इदं निमित्त-नैमित्तिक-प्रसङ्गेन
प्रकृतेर् विभुत्व-योगान् नटवद् व्यवतिष्ठते1 लिङ्गम्.

43

सांसिद्धिकाश् च भावाः प्राकृतिका वैकृताश् च धर्मा`द्याः
दृष्टाः करणा`श्रयिणः कार्या`श्रयिणश् च कलला`द्याः.

44

धर्मेण गमनम् ऊर्ध्वं गमनम् अधस्ताद् भवत्य् अ-धर्मेण
ज्ञानेन चा ऽपवर्गो विपर्ययाद् इष्यते बन्धः.

45

वै-राग्यात् प्रकृति-लयः संसारो भवति राजसाद्1 रागात्
ऐश्वर्याद् अ-विघातो विपर्ययात् तद्-विपर्यासः.

46

एष प्रत्यय-सर्गो विपर्ययाऽ-शक्ति-तुष्टि-सिद्ध्य्-आख्यः
गुण-वैषम्य1-विमर्दात्2 तस्य च3 भेदास् तु पञ्चाशत्.

47

पञ्च विपर्यय-भेदा भवन्त्य् अ-शक्तेश्1 च करण-वैकल्यात्
अष्टाविंशति-भेदास्2 तुष्टिर् नवधा ^ष्टधा सिद्धिः.

48

भेदस् तमसो .अष्ट-विधो मोहस्य च दश-विधो महा-मोहः
तामिस्रो1 .अष्टा2-दशधा तथा भवत्य् अन्ध-तामिस्रः1.

49

एकादश्ऽ एन्द्रिय-वधाः1 सह बुद्धि-वधैर् अ-शक्तिर् उद्दिष्टा2
सप्तदश वधा3 बुद्धेर्4 विपर्ययात्5 तुष्टि-सिद्धीनाम्.

50

आध्य्-आत्मिकाश्1 चतस्रः प्रकृत्य्-उपादान-काल-भाग्या2`ख्याः
बाह्या विषय्ऽओपरमाच् च पञ्च3 नव4 तुष्टयो .अभिमताः 5.

51

ऊहः शब्दो .अध्ययनं दुःख-विघातास् त्रयः1 सु-हृत्-प्राप्तिः
दानं च सिद्धयो .अष्टौ2 सिद्धेः3 पूर्वो .अङ्कुशस् त्रि-विधः

52

न विना भावैर् लिङ्गं न विना लिङ्गेन भाव-1निर्वृत्तिः2
लिङ्गा`ख्यो भावा`ख्यस् (तस्माद् द्वि-विधः प्रवर्तते3 सर्गः.)

53

अष्ट-विकल्पो दैवस्1 तैर्यग्-योनश्2 च3 पञ्चधा भवति
मानुष्यश्4 च्ऽ ऐक5-विधः समासतो भौतिकः6 सर्गः.

54

ऊर्ध्वं सत्त्व-विशालस् तमो-विशालश् च1 मूलतः सर्गः
मध्ये रजो-विशालो ब्रह्मा`दि2 स्तम्ब-पर्य्-अन्तः3.

55

तत्र1 जरा-मरण-कृतं2 दुःखम् प्राप्नोति चेतनः पुरुषः
लिङ्गस्या ` वि3निवृत्तेस् तस्माद् दुःखं स्व-भावेन4.

56

इत्य् एष प्रकृति-कृतो1 महद्-आदि-विशेष2-भूत-पर्य्-अन्तः3
प्रति-पुरुष-विमोक्षाऽर्थं स्वाऽर्थ इव पराऽर्थ4 आरम्भः.

57

वत्स-विवृद्धि-निमित्तं क्षीरस्य यथा प्रवृत्तिर् अ-ज्ञस्य
पुरुष-विमोक्ष-निमित्तं तथा प्रवृत्तिः प्रधानस्य.

58

औत्सुक्य-निवृत्त्य्-अर्थं यथा क्रियासु प्रवर्तते लोकः
पुरुषस्य विमोक्षाऽर्थम्1 प्रवर्तते तद्वद् अ-व्यक्तम्.

59

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्
पुरुषस्य तथा *त्मानम् प्रकाश्य विनिवर्तते1 प्रकृतिः.

60

नाना-विधैर् उपायैर्1 उपकारिण्य् अन्-उपकारिणः पुंसः
गुणवत्य् अ-गुणस्य सतस् तस्या ऽर्थम् अपाऽर्थकं चरति2.

मूल पाठ: Sāṃkhyakārikā · Data entry Ferenc Ruzsa · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc