सांख्यकारिका · श्लोक 21-40
पुरुषस्य दर्शनाऽर्थं कैवल्याऽर्थं1 तथा प्रधानस्य
पङ्ग्व्-अन्धवद् उभयोर् अपि संयोगस् तत्-कृतः सर्गः.
प्रकृतेर् महांस्, ततो .अहं- कारस्, तस्माद् गणश् च1 षोडशकः
तस्माद् अपि षोडशकात् पञ्चभ्यः पञ्च भूतानि.
अध्यवसायो बुद्धिर् धर्मो ज्ञानं वि-राग ऐश्वर्यम्
सात्त्विकम् एतद्-रूपं तामसम् अस्माद् विपर्यस्तम्.
अभिमानो .अहं-कारस् तस्माद् द्वि-विधः प्रवर्तते सर्गः
एकादशकश् च गणस्1 तन्-मात्रः2 पञ्चकश्3 च्ऽ ऐव.
सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहं-कारात्
भूता`देस् तन्1-मात्रः स तामसस् तैजसाद् उभयं.
बुद्धीऽन्द्रियाणि चक्षुः1- श्रोत्र-घ्राण-रसन2-त्वग्-आख्यानि3
वाक्-पाणि-पाद-पायू ऽपस्थान्4 कर्म्ऽएन्द्रियान्य् आहुः.
उभया`त्मकम् अत्र मनः संकल्पकम् इन्द्रियं च सा-धर्म्यात्
गुण-परिणाम-विशेषान् नानात्वम् बाह्य2-भेदाच्3 च.1
शब्दा`दिषु1 पञ्चानाम् आलोचन-मात्रम् इष्यते वृत्तिः
वचना`दान-विहरण्ऽओत्सर्गा`नन्दाश् च2 पञ्चानाम्.
1 रूपा`दिषु व्2, व्1, ग्(ब्, द्) य्, व् 2 -स् तु व्2, व्1, म्
स्वा-लक्षण्यं1 वृत्तिस् त्रयस्य स्^ ऐषा भवत्य् अ-सामान्या
सामान्य-कऋअण-वृत्तिः प्राणा`द्या वायवः पञ्च.
युगपच् चतुष्टयस्य तु1 वृत्तिः क्रमशश् च तस्य निर्दिष्टा
दृष्टे तथा ^प्य् अ-दृष्टे त्रयस्य तत्-पूर्विका वृत्तिः.
स्वां स्वाम् प्रतिपद्यन्ते परस्-परा`कूत-हेतुकां1 वृत्तिम्
पुरुषाऽर्थ एव हेतुर् न केन चित् कार्यते करणम्.
करणं त्रयोदश-विधं तद् आहरण1-धारण-प्रकाश-करम्
कार्यं च तस्य दशधा *हार्यं, धार्यम् प्रकाश्यं च.
अन्तः-करणं त्रि-विधं दशधा बाह्यं त्रयस्य विषया`ख्यम्
साम्प्रत-कालम् बाह्यं त्रि-कालम् आभ्य्1-अन्तरं करणम्.
बुद्धीऽन्द्रियाणि तेषाम् पञ्च विशेषाऽ-विशेष-विषयाणि1
वाग् भवति शब्द-विषया शेषाणि तु2 पञ्च-विषयाणि1.
साऽन्तः-करणा बुद्धिः सर्वं विषयम् अवगाहते यस्मात्
तस्मात् त्रि-विधं करणं द्वारि द्वाराणि शेषाणि.
एते प्रदीप-कल्पाः परस्-पर-वि-लक्षणा गुण-विशेषाः
कृत्स्नम् पुरुषस्या ऽर्थम् प्रकाश्य बुद्धौ प्रयच्छन्ति.
सर्वम् प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः
स्^ ऐव च विशिनष्टि पुनः1 प्रधान-पुरुषाऽन्तरं सूक्ष्मम्.
तन्-मात्राण्य् अ-विशेषास् तेभ्यो भूतानि पञ्च पञ्चभ्यः
एते स्मृता विशेषाः शान्ता घोराश् च मूढाश् च1.
सूक्ष्मा माता-पितृ-जाः सह प्रभूतैस् त्रिधा विशेषाः स्युः
सूक्ष्मास् तेषां नियता माता-पितृ-जा निवर्तन्ते.
पूर्व्ऽओत्पन्नम् अ-सक्तं नियतम् महद्-आदि सूक्ष्म-पर्य्-अन्तम्
संसरति निर्-उपभोगम्1 भावैर् अधि2वासितं लिङ्गम्.
मूल पाठ: Sāṃkhyakārikā · Data entry Ferenc Ruzsa · GRETIL (Göttingen) · CC BY-NC-SA 4.0