सांख्यकारिका · श्लोक 61-73
प्रकृतेः सु-कुमारतरं न किं-चिद् अस्ती ऽति मे मतिर् भवति
या दृष्टा ^स्मी ऽति पुनर् न दर्शनम् उपैति पुरुषस्य.
तस्मान् न बध्यते1 .अद्धा न2 मुच्यते3 ना ऽपि संसरति कश्-चित्4
संसरति बध्यते मुच्यते च नाना*श्रया प्रकृतिः
रूपैः सप्तभिर् एव तु1 बध्नात्य् आत्मानम् आत्मना प्रकृतिः
स्^ ऐव च पुरुषाऽर्थम् प्रति2 विमोचयत्य् एकरूपेण.
एवं तत्त्वाऽभ्यासान् ना ऽस्मि न मे ना ऽहम् इत्य् अ-परिशेषम्
अ-विपर्ययाद् वि-शुद्धं केवलम् उत्पद्यते ज्ञानम्.
तेन निवृत्त-प्रसवाम् अर्थ-वशात् सप्त-रूप-विनिवृत्ताम्1
प्रकृतिम् पश्यति पुरुषः प्रेक्षकवद् अवस्थितः सु-स्थः2.
दृष्टा मय्^ एत्य्1 उपेक्षक2 एको दृष्टा ^हम् इत्य् उपरता ^न्या3
सति संयोगे .अपि तयोः प्रयोजनं णा ऽस्ति सर्गस्य.
सम्यग्-ज्ञानाऽधिगमाद् धर्मा`दीनाम् अ-कारण-प्राप्तौ
तिष्ठति संस्कार-वशाच् चक्र-भ्रमवद्1 धृत-शरीरः.
प्राप्ते शरीर-भेदे चरिताऽर्थत्वात् प्रधान-विनिवृत्तौ
ऐकाऽन्तिकम् आत्य्-अन्तिकम् उभयं कैवल्यम् आप्नोति.
पुरुषा1ऽर्थ-2ज्ञानम्3 इदं गुह्यम् परम-र्षिणा समाख्यातम्
स्थित्य्-उत्पत्ति-प्रलयाश्4 चिन्त्यन्ते5 यत्र भूतानाम्.
एतत् पवित्रम् अग्र्यम् मुनिर् अअसुरये .अनुकम्पया प्रददौ
अअसुरिर् अपि पञ्च-शिखाय तेन1 बहुधा2-कृतं तन्त्रम्.
शिष्य1-परम्-परया *गतम् इइश्वर-कृष्णेन च्ऽ ऐतद् आर्याभिः
संक्षिप्तम् आर्य-मतिना सम्यग् विज्ञाय सिद्धाऽन्तम्.
सप्तत्यां किल1 ये .अर्थास् ते .अर्थाः कृत्स्नस्य .सष्टि-तन्त्रस्य
आख्यायिका2-विरहिताः पर-वाद-विवर्जिताश् चा ऽपि3.
तस्मात् समास-दृष्टं शास्त्रम् इदं नाऽर्थतश् च परिहीणम्
तन्त्रस्य1 बृहन्मूर्तेर् दर्पण-सङ्क्रान्तम् इव बिम्बम्.
मूल पाठ: Sāṃkhyakārikā · Data entry Ferenc Ruzsa · GRETIL (Göttingen) · CC BY-NC-SA 4.0