सांख्यकारिका · श्लोक 1-20
दुःख-त्रयाऽभिघाताज् जिज्ञासा तद्-अप1घातके हेतौ
दृष्टे सा ^पाऽर्था चेन् न्ऽ ऐकाऽन्ताऽत्य्-अन्ततो .अ-भावात्.
दृष्टवद् आनुश्रविकः स ह्य् अ-विशुद्धि1 क्षयाऽतिशय-युक्तः
तद्-विपरीतः श्रेयान् व्यक्ताऽ-व्यक्त-ज्ञ-विज्ञानात्.
मूल-प्रकृतिर् अ-विकृतिर् महद्-आद्याः1 प्रकृति-विकृतयः सप्त
षोडशकस् तु विकारो न प्रकृतिर् न विकृतिः पुरुषः.
दृष्टम् अनुमानम् आप्त-वचनं च1 सर्व-प्रमाण-सिद्धत्वात्
त्रि-विधं प्रमाणम् इष्टं प्रमेय-सिद्धिः प्रमाणाद् धि.
प्रति-विषयाऽध्यवसायो दृष्टं त्रि1-विधम् अनुमानम् आख्यातम्
तल् लिङ्ग-लिङ्गि2-पूर्वकम् आप्त-श्रुतिर् आप्त-वचनं तु3.
सामान्यतस् तु दृष्टाद् अतीऽन्द्रियाणाम् प्रतीतिर्1 अनुमानात्
तस्माद् अपि चा ऽ-सिद्धम् परो.अक्षम् आप्ता`गमात् सिद्धम्2.
अति-दूरात् सामीप्याद् इन्द्रिय-घातान् मनो.अन्-अवस्थानात्
सौक्ष्म्याद् व्यवधानाद् अभिभवात् समानाऽभिहाराच् च.
सौक्ष्म्यात् तद्-अन्-उपलब्धिर् ना ऽ-भावात् कार्यतस् तद्-उपलब्धिः1
महद्-आदि तच् च2 कार्यम् प्रकृति-वि-रूपं स-रूपं3 च.
अ-सद्-अ-करणाद् उपादान-ग्रहणात् सर्व-सम्भवाऽ-भावात्
शक्तस्य शक्य-करणात् कारण-भावाच् च सत्-कार्यम्.
हेतुमद् अ-नित्यम् अ-व्यापि स-क्रियम् अन्-एकम् आश्रितं लिङ्गम्
साऽवयवं पर-तन्त्रं व्यक्तं विपरीतम् अ-व्यक्तम्.
त्रि-गुणम् अ-विवेकि विषयः सामान्यम् अ-चेतनं प्रसव-धर्मि
व्यक्तं तथा प्रधानं तद्-विपरीतस् तथा च पुमान्.
प्रीत्य्-अ-प्रीति-विषादा`त्मकाः प्रकाश-प्रवृत्ति1-नियमाऽर्थाः
अन्यो.अन्याऽभिभवा`श्रय- जनन-मिथुन-वृत्तयश् च गुणाः.
सत्त्वं लघु प्रकाशकम्1 इष्टम् उपष्टम्भकं2 चलं च रजः
गुरु वरणकम् एव तमः प्रदीपवच् चा ऽर्थतो वृत्तिः.
अ-विवेक्य्-आदि हि सिद्धं1 त्रैगुण्यात् तद्-विपर्यया2ऽ-भावात्
कारण-गुणा`त्मकत्वात् कार्यस्या ऽ-व्यक्तम् अपि सिद्धम्.
भेदानां परिमाणात् समन्वयाच् छक्तितः प्रवृत्तेश् च
कारण-कार्य-विभागाद् अ-विभागाद् वैश्व-रूपस्य1
कारणम् अस्त्य् अव्यक्तं प्रवर्तते त्रि-गुणतः समुदयाच्1 च
परिणाम2तः सलिलवत् प्रति-प्रति3-गुणा`श्रय4-विशेषात्.
संघात-पराऽर्थत्वात् त्रि-गुणा`दि-विपर्ययाद् अधिष्ठानात्
पुरुषो .अस्ति भोक्तृ-भावात् कैवल्याऽर्थं1 प्रवृत्तेश् च.
जनन1-मरण-करणानां प्रति-नियमाद् अ-युगपत् प्रवृत्तेश् च
पुरुष-बहुत्वं सिद्धं त्रै-गुण्य2-विपर्ययाच् च्ऽ ऐव.
तस्माच् च विपर्यासात्1 सिद्धं साक्षित्वम् अस्य पुरुषस्य
कैवल्यम् माध्य-स्थ्यं द्रष्टृत्वम्2 अ-कर्तृ-भावश्3 च.
तस्मात् तत्-संयोगाद् अ-चेतनं चेतनावद् इव लिङ्गं
गुण-1कर्तृत्वे च2 तथा कर्त्^ एव भवत्य्3 उदासीनः4.
मूल पाठ: Sāṃkhyakārikā · Data entry Ferenc Ruzsa · GRETIL (Göttingen) · CC BY-NC-SA 4.0