भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 9

9.1

इति श्री समाधिराजे अभावसमुद्गतपरिवर्तो नामाष्टमः ॥ 8 ॥
(वैद्य 44)
9 गम्भीरधर्मक्षान्तिपरिवर्तः ।
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन गम्भीरधर्मक्षान्तिकुशलेन भवितव्यम् । कथं च कुमार बोधिसत्त्वो महासत्त्वो गम्भीरधर्मक्षान्तिकुशलो भवति? इह कुमार बोधिसत्त्वेन महासत्त्वेन मायोपमाः सर्वधर्मा यथाभूततः प्रज्ञातव्याः । स्वप्नोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा उदकचन्द्रोपमा निर्मितोपमाः प्रतिबिम्बोपमा आकाशोपमाः सर्वधर्माः प्रज्ञातव्याः । यदा च कुमार बोधिसत्त्वेन महासत्त्वेन मायोपमाः सर्वधर्माः परिज्ञाता भवन्ति, स्वप्नोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा उदकचन्द्रोपमा निर्मितोपमाः प्रतिबिम्बोपमा आकाशोपमाः सर्वधर्माः परिज्ञाता भवन्ति यथाभूततः तदायं कुमार बोधिसत्त्वो महासत्त्वो गम्भीरधर्मक्षान्तिकुशल इत्युच्यते । स गम्भीरया धर्मक्षान्त्या समन्वागतो रञ्जनीयेषु धर्मेषु न रज्यते, दोषणीयेषु धर्मेषु न दुष्यते, मोहनीयेषु धर्मेषु न मुह्यते । तत् कस्य हेतोः? तथा हि - स तं धर्मं न समनुपश्यति, तं धर्मं नोपलभते । यो रज्येत, यत्र वा रज्येत,
येन वा रज्येत । यो दुष्येत, यत्र वा दुष्येत, येन वा दुष्येत । यो मुह्येत, यत्र वा मुह्येत, येन वा मुह्येत । स तं धर्मं न समनुपश्यति, तं धर्म नोपलभते । तं धर्ममसमनुपश्यन्ननुपलभमानो ऽरक्तो ऽदुष्टो ऽमूढो ऽविपर्यस्तचित्तः समाहित इत्युच्यते । निष्प्रपञ्चः...... । तीर्णः पारगतः...... । स्थलगतः...... । क्षेमप्राप्तः । अरूपप्राप्तः । शीलवान् । ज्ञानवान् । प्रज्ञावान् । पुण्यवान् । ऋद्धिमान्...... । स्मृतिमान्...... । मतिमान्...... । गतिमान् । ह्रीमान् ...... । धृतिमान् । चारित्रवान् । धूतगुणसंलेखवान् । अनङ्गनः । निष्किंचनः । अर्हन् । क्षीणास्रवः । निष्क्लेशो वशीभूतः सुविमुक्तचित्तः सुविमुक्तप्रज्ञः आजानेयो महानागः कृतकृत्यः कृतकरणीयो ऽपहृतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः सर्वचेतोवशिपरमपारमिताप्राप्तः श्रमणः । ब्राह्मणः स्नातकः । पारगः वेदकः श्रोत्रियः । बुद्धपुत्रः । शाक्यपुत्रः । मर्दितकण्टकः । उत्क्षिप्तपरिखः । उदीर्णपरिखः । आक्षिप्तशल्यः । निर्जरः । भिक्षुः । अपरिवेष्टनः । पुरुषः । सत्पुरुषः । उत्तमपुरुषः । महापुरुषः । पुरुषसिंहः । पुरुषनागः । पुरुषाजानेयः । पुरुषधौरेयः पुरुषशूरः । पुरुषवीरः । पुरुषपुष्पः । पुरुषपद्मः । पुरुषपुण्डरीकः । पुरुषदमकः । पुरुषचन्द्रः । अकापुरुषः । पुरुषानुपलिप्तः इत्युच्यते । अथ खलु भगवास्तस्यां वेलायमिमा गाथा अभाषत -
यद लोकधातु न विवर्त भोति आकाशु भोति अयु सर्वलोकः ।
(वैद्य 45)
यथैव तं पूर्वु तथैव पश्चात् तथोपमान् जानथ सर्वधर्मान्

9.2

इदं जगद् याव च किंचि वर्तते अधस्तमेति अभूदापस्कन्धः ।
यथैव तं हेष्ठे तथैव ऊर्ध्वं तथोपमान् जानथ सर्वधर्मान्

9.3

यथान्तरीक्षस्मि न किंचिदभ्रं क्षणेन चो दृश्यति अभ्रमण्डलम् ।
पूर्वान्तु जानीय कुतः प्रसूतं तथोपमान् जानथ सर्वधर्मान्

9.4

तथागतस्यो यथ निर्वृतस्य मनसि करोन्तः प्रतिबिम्बु दृश्यते ।
यथैव तं पूर्वु तथैव पश्चात् तथोपमान् जानथ सर्वधर्मान्

9.5

यथैव फेनस्य महान्तु पिण्डमोघेन उच्छेत्तु नरो निरीक्षते ।
निरीक्ष्य सो तत्र न सारसंदर्शी तथोपमान् जानथ सर्वधर्मान्

9.6

देवे यथा वर्षति स्थूलबिन्दुके पृथक् पृथग् बुद्बुद संभवन्ति ।
उत्पन्नभग्ना न हि सन्ति बुद्बुदास्तथोपमान् जानथ सर्वधर्मान्

9.7

यथैव ग्रामान्तरि लेखदर्शनात् क्रियाः प्रवर्तन्ति पृथक् शुभाशुभाः ।
न लेखसंक्रान्ति गिराय विद्यते तथोपमान् जानथ सर्वधर्मान्

9.8

यथा नरो मानमदेन मोहितो भ्रमन्ति संजानतिमां वसुंधराम् ।
न चो महीया चलितं न कम्पितं तथोपमान् जानथ सर्वधर्मान्

9.9

(वैद्य 46)
आदर्शपृष्ठे तथ तैलपात्रे निरीक्षते नारि मुखं स्वलंकृतम् ।
सा तत्र रागं जनयित्व बाला प्रधाविता काम गवेषमाणा

9.10

मुखस्य संक्रान्ति यदा न विद्यते बिम्बे मुखं नैव कदाचि लभ्यते ।
यथा स मूढा जनयेत रागं तथोपमान् जानथ सर्वधर्मान्

9.11

यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिनं यथैव ।
स्वभावशून्या तु निमित्तभावना तथोपमान् जानथ सर्वधर्मान्

9.12

यथैव चन्द्रस्य नभे विशुद्धे ह्रदे प्रसन्ने प्रतिबिम्ब दृश्यते ।
शशिस्य संक्रान्ति जले न विद्यते तल्लक्षणान् जानथ सर्वधर्मान्

9.13

यथा नरः शैलवनान्तरे स्थितो भणेय्य गायेय्य हसेय्य रोदये ।
प्रतिश्रुत्का श्रूयति नो च दृश्यते तथोपमान् जानथ सर्वधर्मान्

9.14

गीते च वाद्ये च तथैव रोदिते प्रतिश्रुत्का जायति तं प्रतीत्य ।
गिराय घोषो न कदाचि विद्यते तथोपमान् जानथ सर्वधर्मान्

9.15

यथैव कामान् सुपिनन्त सेविय प्रतिबुद्धसत्त्वः पुरुषो न पश्यति ।
स बाल कामेष्वतिकामलोभी तथोपमान् जानथ सर्वधर्मान्

9.16

रूपान् यथा निर्मिणि मायकारो हस्तीरथानश्वरथान् विचित्रान् ।
(वैद्य 47)
न चात्र कश्चिद् रथ तत्र दृशते तथोपमान् जानथ सर्वधर्मान्

9.17

यथा कुमारी सुपिनान्तरस्मिन् सा पुत्र जातं च मृतं च पश्यति ।
जाते ऽतितुष्टा मृते दौर्मनःस्थिता तथोपमान् जानथ सर्वधर्मान्

9.18

यथा मृतां मातरमात्मजं वा स्वप्ने तु वै रोदिति उच्चशब्दम् ।
न तस्य माता म्रियते न पुत्रस्तथोपमान् जानथ सर्वधर्मान्

9.19

यथैव रात्रौ जल चन्द्र दृश्यते अच्छस्मि वारिस्मि अनाविलस्मि ।
अग्राह्य तुच्छो जल चन्द्रशून्य तथोपमान् जानथ सर्वधर्मान्

9.20

यथैव ग्रीष्माण मध्याह्नकाले तृषाभितप्तः पुरुषो व्रजेत ।
मरीचिकां पश्यति तोयराशिं तथोपमान् जानथ सर्वधर्मान्

9.21

मरीचिकायामुदकं न विद्यते स मूढ सत्त्वः पिबितुं तदिच्छति ।
अभूतवारिं पिबितुं न शक्यते तथोपमान् जानथ सर्वधर्मान्

9.22

यथैव आर्द्रं कदलीय स्कन्धं सारार्थिकः पुरुषु विपाटयेत ।
बहिर्वा अध्यात्म न सारमस्ति तथोपमान् जानथ सर्वधर्मान्

9.23

न चक्षुं प्रमाणं न श्रोत्र घ्राणं न जिह्व प्रमाणं न कायचित्तम् ।
प्रमाण यद्येत भवेयुरिन्द्रिया कस्यार्यमार्गेण भवेत कार्यम्

9.24

(वैद्य 48)
यस्मादिमे इन्द्रिय अप्रमाणा जडाः स्वभावेन अव्याकृताश्व ।
तस्माद् य निर्वाणपथैव अर्थिकः स आर्यमार्गेण करोतु कार्यम्

9.25

पूर्वान्तु कायस्य अवेक्षमाणो नैवात्र कायो नपि कायसंज्ञा ।
न यत्र कायो नपि कायसंज्ञा असंस्कृतं गोत्रमिदं प्रवुच्यति

9.26

निवृत्ति धर्माण न अस्ति धर्मा येनेति नास्ति न ते जातु अस्ति ।
अस्तीति नास्तीति च कल्पनावतामेवं चरन्तान न दुःख शाम्यति

9.27

अस्तीति नास्तीति उभे ऽपि अन्ता शुद्धी अशुद्धीति इमे ऽपि अन्ता ।
तस्मादुभे अन्त विवर्जयित्वा मध्ये ऽपि स्थानं न करोति पण्डितः

9.28

अस्तीति नास्तीति विवाद एष शुद्धी अशुद्धीति अयं विवादः ।
विवादप्राप्तान न दुःख शाम्यति अविवादप्राप्तान दुःखं निरुध्यते

9.29

स्मृतेरुपस्थानकथां कथित्वा मन्यन्ति बाला वय कायसाक्षी ।
न कायसाक्षिस्य च अस्ति मन्यना प्रहीण तस्यो पृथु सर्व मन्यना

9.30

चतुर्षु ध्यानेषु कथां कथित्वा वदन्ति बाला वयं ध्यानगोचराः ।
न क्लेशध्यायि न च अस्ति मन्यना विदित्व ज्ञानेन मदः प्रहीयते

9.31

चतुर्षु सत्त्वेषु कथां कथित्वा वदन्ति बाला वय सत्यदर्शिनः ।
(वैद्य 49)
न सत्यदर्शिस्य च काचि मन्यना अमन्यना सत्य जिनेन देशिता

9.32

रक्षेत शीलं न च तेन मन्ये श्रुणेय्य धर्मं न च तेन मन्ये ।
यनैव सो मन्यति अल्पप्रज्ञो तन्मूलकं दुःख विवर्धते ऽस्य

9.33

दुःखस्य मूलं मदु संनिदर्शितं सर्वज्ञिना लोकविनायकेन ।
मदेन मत्तान दुःखं प्रवर्धते अमन्यमानान दुखं निरुध्यते

9.34

कियद्बहून् धर्म पर्यापुणेय्या शीलं न रक्षेत श्रुतेन मत्तः ।
न बाहुश्रुत्येन स शक्यु तायितुं दुःशील येन व्रजमान दुर्गतिम्

9.35

सचेत् पुनः शीलमदेन मत्तो न बाहुश्रुत्यस्मि करोति योगम् ।
क्षयेत्व सो शीलफलमशेषं पुनो ऽपि स प्रत्यनुभोति दुःखम्

9.36

किंचापि भावेय्य समाधि लोके न चो विभावेय्य स आत्मसंज्ञाम् ।
पुनः प्रकुप्यन्ति किलेशु तस्य यथोद्रकस्येह समाधिभावना

9.37

नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत ।
स हेतु निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये

9.38

यथा नरश्चौरगणैरुपद्रुतः पलायितुमिच्छति जीवितार्थिकः ।
न तस्य पादाः प्रभवन्ति गच्छितुं गृहीत्व चौरेहि स तत्र हन्यते

9.39

(वैद्य 50)
एवं नरः शीलविहीन मूढः पलायितुमिच्छति संस्कृतातः ।
स शीलहीनो न प्रभोति गच्छितुं जराय व्याध्या मरणेन हन्यते

9.40

यथैव चौराण बहू सहस्रो नानामुखेहि प्रकरोति पापम् ।
एवं किलेशा विविधैर्मुखेभिर्यथैव चौरो हनि शुक्लपाक्षम्

9.41

येन सुनिध्याप्तु निरात्मस्कन्धा आक्रुष्ठु परिभाष्टु न शङ्कु भोति ।
स क्लेशमारस्य वशं न गच्छते यः शून्यतां जानति सो न कुप्यते

9.42

बहू जनो भाषति स्कन्धशून्यतां न च प्रजानाति यथा निरात्मकाः ।
ते अप्रजानन्त परेहि चोदिताः क्रोधाभिभूताः परुषं वदन्ति

9.43

यथा नरो आतुरु कायदुःखितो बहूहि वर्षेहि न जातु मुच्यते ।
स दीर्घगैलान्यदुखेन पीडितः पर्येषते वैद्यु चिकित्सनार्थिकः

9.44

पुनः पुनस्तेन गवेषता च आसादितो वैद्य विदू विचक्षणः ।
कारुण्यतां तेन उपस्थपेत्वा प्रयुक्तु भैषज्यमिदं निषेव्यताम्

9.45

गृहीत्व भैषज्य पृथुं वरां वरां न सेवते आतुरु येन मुच्यते ।
न वैद्यदोषो न च भैषजानां तस्यैव दोषो भवि आतुरस्य

9.46

एवमिह शासनि प्रव्रजित्वा पर्यापुणित्वा बल ध्यान इन्द्रियान् ।
न भावनायामभियुक्त भोन्ति अयुक्तयोगीन कुतो ऽस्ति निर्वृतिः

9.47

(वैद्य 51)
स्वभावशून्याः सद सर्वधर्मा वस्तुं विभावेन्ति जिनान पुत्राः ।
सर्वेण सर्वं भव सर्वशून्यं प्रादेशिकी शून्यता तीर्थिकानाम्

9.48

न विज्ञ बालेहि करोन्ति विग्रहं सत्कृत्य बालान् परिवर्जयन्ति ।
ममान्तिके एन्ति प्रदुष्टचित्ता न बालधर्मेहि करोति संस्तवम्

9.49

न विज्ञ बालान करोति सेवनां विदित्व बालान स्वभावसंततिम् ।
कियच्चिरं बालु सुसेवितो ऽपि पुनो ऽपि ते भोन्ति अमित्रसंनिभाः

9.50

न विज्ञ बालेष्विह विश्वसन्ति विज्ञाय बालान स्वभावधर्मताम् ।
स्वभावभिन्न प्रकृतीय बाला न चास्ति मित्रं हि पृथग्जनानाम्

9.51

सहधर्मिकेनो वचनेन उक्ताः क्रोधं च दोषं च अप्रत्ययं च ।
प्राविष्करोन्ति इमि बालधर्मान् इममर्थु विज्ञाय न विश्वसन्ति

9.52

बाला हि बालेहि समं समेन्ति यथा अमेध्येन अमेध्यु सार्धम् ।
विज्ञाः पुनर्विज्ञजनेन सार्धं समेन्ति सर्पिर्यथ सर्पिमण्डैः

9.53

संसारदोषाण अप्रत्यवेक्षणात् कर्माण विपाकमनोतरन्तः ।
बुद्धान चो वाक्यमश्रद्दधानास्ते च्छेद्यभेद्यस्मि चरन्ति बालाः

9.54

सुदुर्लभं लभ्य मनुष्यलाभं न शिल्पस्थानेषु भवन्ति कोविदाः ।
(वैद्य 52)
दरिद्रभूतान धनं न विद्यते अजीवमानास्तद प्रव्रजन्ति

9.55

ते प्रव्रजित्वा इह बुद्धशासने अध्युषिता भोन्तिह पात्रचीवरे ।
ते पापमित्रेहि परिगृहीतास्तां नाचरन्ते सुगतान शिक्षाम्

9.56

ते आत्मनः शीलमपश्यमानाश्चित्तव्यवस्थां न लभन्ति बालाः ।
रात्रिंदिवं भोन्ति अयुक्तयोगा न ते जुगुप्सन्ति च पापकर्मतः

9.57

कायेन चित्तेन असंयतानां न किंचि वाचाय स जल्पितव्यम् ।
सदा गवेषन्ति परस्य दोषान् अपराद्धु किं केन वा चोदयिष्ये

9.58

आहारि अध्युषित भोन्ति बाला न चास्ति मात्रज्ञतु भोजनस्मिन् ।
बुद्धस्य पुण्येहि लभित्व भोजनं तस्यैव बाला अकृतज्ञ भोन्ति

9.59

ते भोजनं स्वादुरसं प्रणीतं लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः ।
तेषां स आहारु वधाय भोति यथ हस्तिपोतान बिसा अधौतकाः

9.60

किं चापि विद्वान् मतिमान् विचक्षणो भुञ्जीत आहारु शुचि प्रणीतम् ।
न चैव अध्युषित तत्र भोति अगृघ्नु सो भुञ्जति युक्तयोगी

9.61

किं चापि विद्वान् मतिमान् विचक्षणो आभाषते बालु कुतो हि स्वागतम् ।
(वैद्य 53)
तथ संगृहीत्वा प्रियवद्यताय कारुण्यतां तत्र उपस्थपेति

9.62

यो भोति बालान हितानुकम्पी तस्यैव बाला व्यसनेन तुष्टाः ।
एतेन दोषेण जहित्व बालान् मृगोवदेको विहरेदरण्ये

9.63

इम ईदृशान् दोष विदित्व पण्डितो न जातु बालेहि करोति संगतिम् ।
विहीनप्रज्ञानुपसेवतो मे स्वर्गात्तु हानिः कुत बोधि लप्स्ये

9.64

मैत्रीविहारी च भवन्ति पण्डिताः करुणाविहारी मुदिताविहारी ।
उपेक्षकाः सर्वभवेषु नित्यं समाधि भावेत्व स्पृशन्ति बोधिम्

9.65

ते बोधि बुद्धित्व शिवामशोकां विदित्व सत्त्वान् जनव्याधिपीडितान् ।
कारुण्यतां तत्र उपस्थपेत्वा कथां कथेन्ति परमार्थयुक्ताम्

9.66

ये तां विजानन्ति जिनान धर्मतामनाभिलप्यं सुगतान सत्यम् ।
ते धर्म श्रुत्वा इम एवरूपां लप्स्यन्ति क्षान्ति अरियां निरामिषाम्

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc