समाधिराजसूत्र · अध्याय 10
इति श्रीसमाधिराजे गम्भीरधर्मक्षान्तिपरिवर्तो नाम नवमः ॥ 9 ॥
(वैद्य 54)
10 पुरप्रवेशपरिवर्तः ।
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार प्रतिपत्तिसारो भविष्यामीत्येवं त्वया कुमार सदा शिक्षितव्यम् । तत् कस्य हेतोः? प्रतिपत्तिसारस्य हि कुमार बोधिसत्त्वस्य महासत्त्वस्य न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः, किं पुनरयं समाधिः । अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावत् सुभाषिता चेयं भगवता बोधिसत्त्वानां महासत्त्वानामववादानुशासनी सर्वबोधिसत्त्वशिक्षा देशिता स्वाख्याता सुप्रज्ञप्ता । सर्वतथागतगोचरो ऽयं भगवन् यत्र अभूमिः सर्वश्रावकप्रत्येकबुद्धानां कः पुनर्वादो ऽन्यतीर्थिकानाम्? प्रतिपत्तिसाराश्च वयं भगवन् भविष्यामः अनपेक्षाः कायजीविते च भूत्वा तथागतस्यानु शिक्षिष्यामहे । तत् कस्य हेतोः? शिक्ःइतुकामाश्च वयं भगवंस्तथागतस्य, अभिसंबोद्धुकामा वयं भगवन्ननुत्तरां सम्यक्संबोधिम् । अर्थिका वयं भगवन् अनुत्तरायाः सम्यक्संबोधेः । विध्वंसयितुकामाश्च वयं भगवन् मारं पापीयांसम् । मोचयितुकामा वयं भगवन् सर्वसत्त्वान् सर्वभयेभ्यः सर्वदुःखेभ्यः । अधिवासयतु मे भगवान् श्वस्तने मम गृहे भक्तं भोक्तुं सार्धं बोधिसत्त्वगणेन सार्धं भिक्ःउसंघेन चानुकम्पामुपादाय । अधिवासयति स्म भगवांश्चन्द्रप्रभस्य कुमारभूतस्य तूःणींभावेन श्वस्तने गृहे भक्तं भोक्तुं सार्धं बोधिसत्त्वगणेन भिक्ःउसंघेन चानुकम्पामुपादाय । अथ खलु चन्द्रप्रभः कुमारभूतो भगवतस्तूःणींभावेनाधिवासनं विदित्वा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्ःइणीकृत्य भगवतो ऽन्तिकात् प्राक्रामत् ॥
अथ खलु चन्दप्रभः कुमारभूतो येन राजगृहं महानगरं येन च स्वकं निवेशनं तेनोपसमक्रामत् । उपसंक्रम्य चन्द्रप्रभः स्वगृहं प्राविशत् । प्रविश्य च तामेव रात्रिं प्रभूतं प्रणीतं खादनीयं भोजनीयं स्वादनीयमभिसंस्कारयति स्म । शतरसं च भोजनं संपाद्य तस्या एव रात्र्या अत्ययेन राजगृहं महानगरं सुसिक्तं सुसंमृष्टं मुक्तकुसुमाभिकीर्णं गन्धघटिकानिर्घूपितमुच्छ्रितच्छत्रध्वजपताकं (वैद्य 55) धूपनधूपितं वितानविततमवसक्तपट्टदामकलापं सरथ्यान्तरापणमपगतपाषाणःअर्करकठल्लं विचित्रपुष्पाभिकीर्णं चन्दनचूर्णाभिकीर्णं गवाक्षतोरणनिर्यूहपञ्जरजालार्धचन्द्रसमलंकृतं चन्दनानुलिप्तमकार्षीत् । सर्वावन्तं नगरमुत्पलकुमुदपद्मपुण्डरीकाभ्यवकीर्णमकार्षीत् । स्वं च गृहं सर्वालंकारव्यूहितमकार्षीत् । अथ खलु चन्द्रप्रभः कुमारभूत इमानेवंरुपान् नगरव्यूहान् गृहव्यूहान् भोजनव्यूहान् समलंकृत्य राजगृहान्महानगरान्निष्क्रम्य येन गृध्रकूटपर्वतो येन भगवांस्तेनोपसमक्रामत् । उपसंक्रम्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्ते ऽस्थात् । एकान्ते स्थितः चन्द्रप्रभः कुमारभूतो भगवतः कालमारोचयामास - कालो भगवन्, कालः सुगत, सिद्धं भक्तं यस्येदानीं कालं मन्यसे । अथ खलु भगवान् उत्थायासनात् कल्यमेव निवास्य पात्रचीवरमादाय महता भिक्षुसंघेन सार्धं परिपूर्णेन भिक्षुशतसहस्रेण संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः परिवृतः पुरस्कृतो ऽनेकैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यशतसहस्रैः पूज्यमानो ऽभिष्टूयमानो महता बुद्धानुभावेन महता बुद्धप्रातिहार्येण महता बुद्धेर्यापथेन रश्मिकोटिनियुतशतसहस्रैर्निश्चरद्भिर्नानातूर्यशतसहस्रैः पुष्पगन्धमाल्यविलेपनचूर्णचीवरैः प्रवर्षद्भिर्येन राजगृहं महानगरं तेनोपसंक्रामति स्म । चन्द्रप्रभस्य कुमारभूतस्य निवेशने प्रक्षिप्तश्च भगवता दक्षिणश्चक्ररत्नसमलंकृतः अपरिमितकुशलसंचितपादरत्न इन्द्रकीले, अथ तावदेव तस्मिन् महानगरे अनेकानि आश्चर्याद्भुतानि प्रातिहार्याणि संदृश्यन्ते स्म । इयमत्र धर्मता
। तत्रेदमुच्यते -
पुरवर प्रविशन्ति नायकस्मिन् चरणवरु स्थपितश्च इन्द्रकीले ।
चलति वसुमती शिरीय तस्य प्रमुदित भोन्ति पुरोत्तमस्मि सत्त्वाः
ये नरः क्षुधिताः पिपासिता वा न भवति तेष जिघत्स तस्मि काले ।
अपगत भवती क्षुघा पिपासा यद जिनु निक्षिपतीन्द्रकीलि पादम्
तथ पुन नर ये भवन्ति अन्धाः श्रोत्रविहीन अनाथ अल्पपुण्याः ।
सर्वि प्रतिलभन्ति चक्षु श्रोत्रं यद जिनु निक्षिपतीन्द्रकीलि पादम्
यमविषये ये केचि भोन्ति प्रेताः सुदुःखित खेटसिंघाणकभोजनाशाः ।
सर्वि सुखित भोन्ति आभस्पृष्टा यद जिनु निक्षिपतीन्द्रकीलि पादम्
(वैद्य 56)
शैलशिखरशृङ्गपर्वताश्च तथ वरपादपशालकर्णिकाराः ।
सर्वि अभिनमन्ति येन बुद्धो यद जिनु निक्षिपतीन्द्रकीलि पादम्
सनगरनिगमा ससागरान्ता प्रचलि वसुंधरि षड्विकार सर्वा ।
न भवति विहेठ कस्यपि चेह यद जिनु निक्षिपतीन्द्रकीलि पादम्
मरुमनुजकुम्भाण्डराक्षसाश्च नभःस्थित तुष्ट उदग्रचित्ताः ।
छत्र धरिय च लोकनायकस्य परमप्रीणित जनेत्व बोधिछन्दम्
श्रूयति च मनोज्ञ वाद्यशब्दस्तूर्यसहस्र अघट्टिता रणन्ति ।
प्रमुदितास्तद भोन्ति सर्वसत्त्वा यद जिनु निक्षिपतीन्द्रकीलि पादम्
वृक्षशतसहस्र ओनमन्ति सर्वि प्रपुष्पित भोन्ति तस्मि काले ।
देवशतसहस्र अन्तरीक्षे पूज करोन्ति अमानुषी जिनस्य
ऋषभगण तदा नदन्ति हृष्टा हयद्विरदाधिपती प्रवृद्धकायाः ।
मृगपतयो नदन्ति सिंहनादं यद जिनु निक्षिपतीन्द्रकीलि पादम्
महीपतय ये केचि भूमिपाला दिशिविदिशासु च आगता भवन्ति ।
धरणितलि पतन्ति हृष्टचित्ता दृष्टु जिनस्य शिरीमिममेवरूपाम्
अन्ये अभिष्टुवन्ति लोकनाथम् अपरि क्षिपन्ति जिनस्य पुष्पवृष्टिम् ।
(वैद्य 57)
अपरि दशनखाञ्जलिं करित्वा अहो जिनु कारुणिको भणन्ति वाचम्
केचि वर क्षिपन्ति मुक्तहारान् बहुविध आभरणान् जनेत्व प्रीतिम् ।
चीवर रतनान् क्षिपन्ति अन्ये अतुलियु अग्रु जिनत्व बोधिचित्तम्
केचि वर क्षिपन्ति हेमजालं अपरि पुनर्मुखफुल्लकं क्षिपन्ति ।
केचि वर क्षिपन्ति हेमनिष्कांस्तथ अपरे परिहारकान् क्षिपन्ति
कटकवर क्षिपन्ति केचि तत्र अपरि केयूर क्षिपन्ति रत्नचित्रान् ।
अम्बर कुसुमान् क्षिपन्ति अन्ये चित्त जनेत्व ऽसियां वयं पि बुद्धाःऽ
अपरि नरः क्षिपन्ति हेमचित्रांस्तथ मणिसूत्रवरान् प्रसन्नचित्ताः ।
केचि च रतनजालकं क्षिपन्ति द्वारि यदा स्थितु भोति लोकनाथः
परमदुःखित ये भवन्ति सत्त्वा बहुविधुपद्रुवु शोकशल्य प्राप्ताः ।
सर्वि सुखसमर्पिता भवन्ति पुरुषवरस्य शिरीय नायकस्य
परभृतशुकसारिकामयूरास्तथपि च सारसचाषहंसक्रौञ्चाः ।
सर्वि द्विजगणा नभे स्थिहित्वा परममनोज्ञरुतानि व्याहरन्ति
प्रमुदित तद भोन्ति पक्षिसंघा मधुरमनोज्ञरुतं प्रमुञ्चमानाः ।
रागु तथ समेन्ति दोषमोहं ये च शृणन्ति मनोज्ञ पक्षिशब्दान्
(वैद्य 58)
श्रुणिय रञ्जनीय सत्त्वकोट्यः सर्वि च लभन्ति क्षान्तिमानुलोमाम् ।
तांश्च सुगत व्याकरोति सर्वान् भविष्यथ यूय जिना अनागताश्च
न भवति किलेशु तस्मि काले सर्वि सगौरव भोन्ति धर्मराजे ।
अपगतभयदोषमोहजालाः प्रणिपतिताः सुगतमभिष्टुवन्तः
पश्यिय तद रूप नायकस्य स्पृह जनयन्ति वरस्मि बुद्धज्ञाने ।
कद वय लभे ज्ञानमेवरूपम् आशयु ज्ञात्व जिनो ऽस्य व्याकरोति
रश्मि शतसहस्र निश्चरन्ति एकैकतः सुगतस्य रोमकूपात् ।
तदुत्तरि यथ गङ्गवालिका वा न पि च निमित्तु गृहीतु शक्यु तासाम्
सूर्यप्रभ न भान्तिं तस्मि काले न पि मणि नाग्नि न सर्वदेवतानाम् ।
सर्वि प्रभ न भान्ति तस्मि काले यद प्रविशन्त पुरं विभाति बुद्धः
पद्मशतसहस्र प्रादुर्भूता धरणितु कोटिसहस्रपत्र शुद्धाः ।
यत्र दशबलः स्थपेति पादं मार्ग गतः सुगतो महागणेन
अशुचि कलिमला न भोन्ति तस्मि काले नगरवरं प्रविशन्ति नायकस्मिन् ।
नगरु सुरभि सर्वि धूपनेन गन्ध मनोज्ञ प्रवायते समन्तात्
वीथि नगरि तद भोति सर्वा अपगतलोष्टकठल्ल सिक्त गन्धैः ।
(वैद्य 59)
पुण्य दशलबस्य एवरूपा विविध विकीर्ण भवन्ति मुक्तपुष्पाः
यक्ष शतसहस्र रौद्रचित्ताः कनकनिभं द्विपदेन्द्रु दृष्ट्व बुद्धम् ।
जनयि विपुलु नायकस्मि प्रेमं शरणमुपेति च बुद्धधर्मसंघान्
ये च देवशतसहस्र कोटियो वा उपगत सर्वि नरेन्द्रदर्शनाय ।
वर्षति सुगतस्य पुष्पवर्षं गगनतले च स्थिहन्ति मुक्तपुष्पाः
ये मनुज क्षिपी जिनस्य पुष्पं गगनतले भवतीति पुष्पछत्रम् ।
ये पुन कुसुमान् क्षिपन्ति देवा धरणितले स्तृत भोन्ति दिव्यपुष्पाः
न भवति कदाचि दृष्ट्व तृप्ती देवमनुष्यकुभाण्डराक्षसानाम् ।
यद दशबलु दृष्ट्व लोकनाथं प्रमुदित भोन्ति उदग्रकल्यचित्ताः
न मनसि तद भोन्ति दिव्यपुष्पा न च पुन विस्मयु जायते च तत्र ।
यद पुरुषवरस्य कायु दृष्ट्वा तुष्ट भवन्ति उदग्र सर्वसत्त्वाः
ब्रह्म दशबलस्य दक्षिणेनो तथ पुन वामतु शक्र देवराजा ।
गगनतलगता अनल्प देवकोट्यः पुरुषवरस्य जनेन्ति चित्रिकारम्
परिवृत जिनु देवदानवेहि मरुमनुजान शिरिं ग्रसित्व सर्वाम् ।
धरणि क्रमतलेहि चित्रयन्तो प्रविशि पुरं भगवान्निमन्त्रणाय
(वैद्य 60)
कुसुमित अनुव्यञ्जनेहि काये यथ गगनं परिपूर्ण तारकेहि ।
प्रतपति स्थितु राजमार्गि बुद्धश्चन्द्रो नभःस्थ यथैव पूर्णिमास्याम्
मणिरतनु यथा विशुद्धु श्रेष्ठं व्यपगतदोषमलं प्रभासमानम् ।
दिशि विदिशि प्रमुञ्चि आभ शुद्धां तथ जिनु भासति सर्वलोकधातुम्
परिवृतु जिनु देवदानवेहि प्रविशति राजगृहं नराण श्रेष्ठः ।
धरणि क्रमतलेहि चित्रयन्तो प्रविशति चन्द्रप्रभस्य गेहि बुद्धः
पुरुवरु समलंकृतं समन्ताद् बहु ध्वज कोटिसहस्र उच्छितात्र ।
गन्धवरविलिप्त सर्वभूमी सुमनःप्रकीर्ण तथैव वार्षिकारम्
यद सुगतु कथां कथेति नाथो वीथिगतो मनुजान् कृपायमानः ।
निर्मितु जिनु तत्र निर्मिणित्वा वितरति तेषु प्रणीत बुद्धधर्मान्
दशनियुत जिनान निर्मितान कनकनिभा अभिरूप दर्शनीया ।
परिवृतु जिनु बुद्धु निर्मितेहि वितरति शून्यत शान्त बुद्धबोधिम्
प्राणिशतसहस्र तं श्रुणित्वा प्रणिदधि चित्तु वराग्रबुद्धज्ञाने ।
कद वय लभि ज्ञानमेवरूपं आशयु ज्ञात्व जिनो ऽस्य व्याकरोति
केचि स्पृह जनेन्ति तत्र काले परम अचिन्तिय लब्ध तेहि लाभाः ।
(वैद्य 61)
येहि जिनु निमन्त्रितो नरेन्द्रो न च पर्यन्त स तेषु दक्षिणायाः
केचि पुनरुपपादयि सुचित्तं श्वो वय कारुणिकं निमन्त्रयामः ।
हितकरमनुकम्पकं प्रजानां यस्य सुदुर्लभु दर्शनं भवेषु
केचि स्थित निर्यूहखोटके हि सुभगु विभूषितगात्र प्रेमणीयाः ।
दिव्य दशबलस्य मुक्तपुष्पाण्यवकिरते ऽग्रु जनित्व बोधिचित्तम्
सुरुचिर वर चम्पकस्य मालां तथ अतिमुक्तक गन्धवर्षिकां च ।
अपरि पुन क्षिपन्ति पट्टदामान् परम निरुत्तरु चित्तु संजनित्वा
केचि स्थित गृहे गृहीतपुष्पाः परमविभूषितकायु चीवरेहि ।
पुष्प विविधु गृहीत्व पट्टदामान् प्रवर्षि येन जिनो महानुभावः
पदुमकुमुदोत्पलान् क्षिपन्ति केचि अपरि क्षिपन्ति विशिष्ट हेमपुष्पान् ।
मणिरतन क्षिपन्ति केचि तस्मिन् अपरि क्षिपन्ति च चूर्ण चन्दनस्य
अपरिमित भवन्ति अच्छरीया अतुलिय ये न च शक्यु कीर्तनाय ।
पुरवरु प्रविशन्ति नायकस्मिन् बहुजनकोट्य स्थिहिंसु बुद्धज्ञाने
अबृह अतपाश्च दृष्टसत्त्याः सुदृश सुदर्शन ये च अन्य देवाः ।
तथ पुनरकनिष्ठ वीतरागा उपगत सर्वि नरेन्द्रदर्शनाय
(वैद्य 62)
तथ शुभमरुताश्च अप्रमेया अपरिमित शुभा उदग्रचित्ताः ।
शुभकृत्स्न नियुताश्च अप्रमेया उपगत पश्यितु नायकं महर्षिम्
अपरिमितु तथाप्रमाणआभा तथ पुन देव परीत्त आभ ये च ।
बहु नियुत आभस्वराण तस्मिन् उपगत पश्यितु ते ऽपि लोकनाथम्
बहव शतसहस्र पारिषद्यास्तथ पुन ब्रह्मपुरोहिताः प्रसन्नाः ।
बहुशत पुन ब्रह्मकायिकानां उपगत नायकदर्शनाय सर्वे
तथ पुन परनिर्मितापि देवास्तथ निर्माणरतिश्च शुद्धसत्त्वाः ।
प्रमुदित तुषिताथ यामदेवा उपगत सर्वि नमस्यमान बुद्धम्
त्रिदश अपु च शक्र देवराजा अप्सरकोटिशतैः सहागतो ऽत्र ।
कुसुमवर्ष संप्रवर्षमाणो उपगत बुद्धमुनीन्द्रदर्शनाय
चतुरि चतुर्दिशासु लोकपाला वैश्रवणो धृतराष्ट्र नागराजा ।
विरूढकु विरूपाक्षु हृष्टचित्ता उपगत सर्वि नरेन्द्र ते स्तुवन्ता
ऐलविल बलवन्त यक्षराजा परिवृत यक्षशतेहि प्रेमजातः ।
गगनतलि स्थिहित्व हृष्टचित्तः क्षिपति अनेक विचित्र पुष्पवर्षम्
अपरि पुनरनन्त मालधारी विविध विचित्र गृहीत्व माल्यगन्धान् ।
(वैद्य 63)
सर्वि सपरिवार हृष्टचित्ताः पुरुषवरस्य करोन्ति तत्र पूजाम्
बहव शत करोटपाणि यक्षा अपि च सुभूषि तेष यक्षकन्याः ।
सुमधुर सुमनोज्ञ यक्षवाद्यैस्तूर्यशतेहि करोन्ति बुद्धपूजाम्
ललितमधुरगीतवादितस्मिन् सुकुशलैः सह किन्नरीसहस्रैः ।
द्रुम उपगत गन्धमादनातो जिनवरु पूजितु किन्नराण राज्ञा
शंबर बल वेमचित्र राहु दानवकन्य सहस्रपारिवाराः ।
असुरगण महर्द्धिकाश्च अन्ये उपगत ते रतनानि वर्षमाणाः
शतनियुत अनन्त राक्षसानां राक्षसकोटिशतैरुपास्यमानाः ।
पृथु विविध विचित्र मुक्तपुष्पान् पुरुषवरस्य क्षिपन्ति गौरवेण ॥61 ॥
तथपि च अनवतप्तु नागराजा परमसुशिक्षिताश्च नागकन्याः ।
तूर्यशतसहस्र नादयन्त्यो उपगत पूजन तत्र लोकनाथम्
पञ्चशत अनवतप्तु पुत्रा विपुलु अनुत्तरु ज्ञान प्रार्थयन्तः ।
स्वजनपरिवृता उदग्र भूत्वा उपगत पूजयितुं स्वयं स्वयंभूम्
तथपि च अपलालु नागराजा पुरुषवरस्य कृताञ्जलिः प्रणम्य ।
(वैद्य 64)
वर रुचिर गृहीत्व नागपुष्पान् स्थित गगने मुनिराज सत्करोन्तः
तथपि च मुचिलिन्द नागराजा प्रीतमनाः परितुष्ट हर्षजातः ।
विविध रत्नमौक्तिकं गृहीत्वा उपगमि नायकु अभिकिरन्तु तत्र
तथपि च कालिको ऽपि नागराजा उपगतु मुखु तथागतस्य हृष्टचित्तः ।
वर रूचिर गृहीत्व रत्नदामान् पुरुषवरस्य पूज करित्व श्रेष्ठाम्
सो ऽपि परम गौरवं जनित्वा अनुस्मरमाणु गुणांस्तथागतस्य ।
स्वजनपरिवृतः सनागसंघो बहुविधु भाषति वर्ण नायकस्य
नन्दु तथा उपनन्दु नागराजा तथ पुनस्तक्षक कृष्णगौतमौ च ।
उपगत जिनु ते नमस्यमानाः प्रणिपतिताः सुगतस्य पादयोर्हि
उपगत एलपत्रु नागराजा परिवृत नागशतेहि रोचमानः ।
मुनिवर जिनु काश्यपं स्मरन्तो स्वक उपपत्ति अपश्यि अक्षणेषु
अहो अहु पुरि आसि काङ्क्षप्राप्तो मयि पुरि च्छिन्नु परित्तमेलपत्रम् ।
सो अहु उपपन्नु अक्षणस्मिन् न सुकरु धर्म विजानितुं जिनस्य
क्षिप्र अहु जहित्व नागयोनिं परम जुगुप्सितमेतु जन्तुकायम् ।
(वैद्य 65)
धर्ममहु विजानि शान्तिभावं पुरुषवरेण य ज्ञातु बोधिमण्डे
सागर अहिराजचक्रवर्ती परिवृतु नागत्रिकोटिसहस्रैः ।
वरुण मनस्वी गृहीत्व मुक्ताहारान् उपगतु ते भगवन्तु पूजनाय
क्षिप्त शिल जिनस्य तत्र येनो गगनस्थितेन गृहीत्व तस्मि काले ।
राजगृहि स किम्पिलो ऽपि यक्षः पुरतः स्थितः सुगतस्य गौरवेण
अलकवती समग्र राजधानी शून्य अभूषि न तत्र कश्चि यक्षः ।
सर्वि क्रिय करित्व अन्यमन्यं उपगत पश्यितु सर्वलोकनाथम्
तथपि च खरकर्ण सूचिरोमा आटविकस्तथ यक्ष भेषकश्च ।
हैमवत शतगिरिश्च यक्ष उपगत गर्दभको जिनं स्वयंभूम्
इन्द्रकेतु विकटश्च सुरूपो वक्कुलु पञ्चिकु शाक्य प्रवृद्धो ।
एते परे ऽपि च यक्षेन्द्र सहस्ता उपगत धूपघटं परिगृह्य
विकृत बहु दुःसंस्थितात्मभावा विगलितआभरणा अनेकरूपाः ।
बहव शतसहस्र तस्मि काले उपगत तत्र गृहीत्व यक्ष पुष्पान्
(वैद्य 66)
जलनिधि निवसन्ति ये सुपर्णा उपगत ब्राह्मणवेश निर्मिणित्वा ।
मुकुटधर विचित्र दर्शनीया गगनस्थिताः सुगतं नमस्यमानाः
नगरशत ये केचि जम्बुद्वीपे वनविहरेषु य तत्र देवताश्च ।
सर्व नगरदेवताः समग्रा उपगत पूज करोन्त नायकस्य
उपगत वनदेवता अनन्तास्तथपि च सर्वि य शैलदेवताश्च ।
तथपि च नदिदेवताः समग्रा उपगत पूज करोन्त नायकस्य
अटविमरुषु देवताशतानि गिरिशिखरेषु य देवता समग्राः ।
उत्ससरतडागदेवताश्च उपगत सागरदेवताश्च बुद्धम्
देवअसुरनागयक्षसंघा गरुडमहोरगकिन्नराः कुम्भाण्डाः ।
तथपि च बहु प्रेतपूतनाश्चो पुरुषवरस्य करोन्ति चित्रिकारम्
ते ऽपि च जिनवरे करित्व पूजां नगरवरं प्रविशन्ति नायकस्मिन् ।
देव असुरनागयक्षराजा । सततमतृप्त भवन्ति दर्शनेन
यथ पुरिमभवेषु लोकनाथः पुरिमजिनेषु अकार्षि पूज श्रेष्ठाम् ।
पुण्यफलविपाक एवरूपो न च जनु तृप्तु नरेन्द्र पश्यमानः
मेरु तथ सुमेरु चक्रवाला हिमगिरिस्तथ गन्धमादनश्च ।
(वैद्य 67)
आवरणा न ते जिनस्य भोन्ति आभ यदा जिनु मुञ्चि बुद्धक्षेत्रे
ये च इह समुद्र बुद्धक्षेत्रे ते ऽपि महीय समास्तदा भवन्ति ।
सर्वमिमु समन्तु बुद्धक्षेत्रं समु भवती कुसुमेहि संप्रकीर्णम्
रश्मि शतसहस्र अप्रमेया अवकिरि पादतलेहि धर्मराजा ।
सर्वि निरय शीतला भवन्ति धर्मदुःख उपनीत सुखं च वेदयन्ति
धर्म दशबल संप्रभाषि तत्रो मरुमनुजान विशुद्ध भोति चक्षुः ।
प्राणि शतसहस्र अप्रमेया नियत भवन्ति च सर्वि बुद्धज्ञाने
बहु इमि सुगतस्य प्रतिहार्या न सुकरु वक्तु च कल्पकोटियेभिः ।
पुरवर प्रविशन्ति नायकस्मिन् प्रमुदित सर्व जगज्जिनप्रवेशे
इमि गुण सुगतस्य अप्रमेया नरवृषभस्य गुणाग्रपारगस्य ।
सर्वगुणविशेषपारगस्य शिरसि नमस्यथ बुद्धपुण्यक्षेत्रम्
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0