समाधिराजसूत्र · अध्याय 8
इति श्रीसमाधिराजे त्रिक्षान्त्यवतारपरिवर्तो नाम सप्तमः ॥ 7 ॥
(वैद्य 41)
8 अभावसमुद्गतपरिवर्तः ।
तत्र पुनरपि भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - भूतपूर्वं कुमार अतीते ऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलरैप्रमेयैरचिन्त्यैरपरिमाणैर्यदासीत् । तेन कालेन तेन समयेन अभावसमुद्गतो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तत् किं मन्यसे कुमार केन कारणेन स तथागतो ऽभावसमुद्गत इत्युच्यते? स खलु पुनः कुमार तथागतो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रं वैहायसमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा इमामेवंरूपां वाचमभाषत - अभावसमुद्गताः सर्वधर्माः, अभावसमुद्गताः सर्वधर्मा इति । तेन च कुमार शब्देन त्रिसाहस्रमहासाहस्रो लोकधातुः स्वरेणाभिविज्ञप्तो ऽभूत् । तत्र भौमान् देवानुपादाय यावद् ब्रह्मलोकं परंपरया शब्दमुदीरयामासुः घोषमनुश्रावयामासुः - अभावसमुद्गतो बतायं तथागतो भविष्यति, यो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा अभावशब्दमुदीरयति । इति ह्यभावसमुद्गतो ऽभावसमुद्गत इति तस्य तथागतस्य नामधेयमुदपादि । तस्य च भगवतो बोधिप्राप्तस्य सर्ववृक्षपत्रेभ्यः सर्वतृणगुल्मौषधिवनस्पतिभ्यः सर्वशैलशिखरेभ्यश्चाभावसमुद्गतशब्दो निश्चरति । यावति च तत्र लोकधातौ शब्दप्रज्ञप्तिः सर्वतो ऽभावसमुद्गतविज्ञप्तिशब्दो निश्चरति । तेन च कुमार कालेन तेन समयेन तस्य भगवतो ऽभावसमुद्गतस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने महाकरुणाचिन्ती नाम राजकुमारो ऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतः । अथ खलु कुमार स महाकरुणाचिन्ती नाम राजकुमारो येन भगवान् अभावसमुद्गतस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेनोसंक्रामत् । उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्ते ऽस्थात् ॥
अथ खलु कुमार स भगवान् अभावसमुद्गतस्तथागतो ऽर्हन् सम्यक्संबुद्धो महाकरुणाचिन्तिनो राजकुमारस्याध्याशयं विदित्वा इमं समाधिं देशयामास । अथ खलु कुमार स महाकरुणाचिन्ती राजकुमारः इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्रसीदति स्म । प्रसन्नचित्तश्च केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितो ऽभूत् । स प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान् । उद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्तो व्यहार्षीत् । स तैनैव कुशलमूलेन (वैद्य 42) विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत् । विंशतीनां कल्पानामत्ययेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽभूत् । सुविचिन्तितार्थो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि । सर्वेषु च तेषु कल्पेषु विशतिं च बुद्धकोटीरारागयामास । पश्य कुमार यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य बुद्धज्ञानस्य परिपूरणाय संवर्तते ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
स्मराम्यहं पूर्वमतीतमध्वनि अचिन्तिये कल्पि नराणमुत्तमः ।
उत्पन्नु लोकार्थकरो महर्षिर्नाम्ना हि सो ऽभावसमुद्गतो ऽभूत्
स जातमात्रो गगने स्थिहित्वा सर्वेष धर्माण अभावु देशयी ।
तदानुरूपं कृतु नामधेयं शब्देन सर्वं त्रिसहस्र विज्ञपी
देवापि सर्वे प्रमुमोच शब्दं अभावु नाम्नेति जिनो भविष्यति ।
यो जातमात्रः पद सप्त प्रक्रमन्नभावु धर्माण ब्रवीति नायकः
बुद्धो यदा भेष्यति धर्मराजः सर्वेष धर्माण प्रकाशको मुनिः ।
तृणवृक्षगुल्मौषधिशैलपर्वते अभावु धर्माण रवो भविष्यति
यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भावः ।
तावन्ति खो तस्य तथागतस्य स्वरु निश्चरी लोकविनायकस्य
तस्मिंश्च काले अभु राजपुत्रः करुणाविचिन्ती सद नामधेयः ।
अभिरूप प्रासादिक दर्शनीय उपागमी तस्य जिनस्य अन्तिकम्
(वैद्य 43)
वन्दित्व पादौ मुनिपुंगवस्य प्रदक्षिणं कृत्य च गौरवेण ।
प्रसन्नचित्तो निषसाद तत्र श्रवणाय धर्मं विरजमनुत्तरम्
स चो जिनो आशयु ज्ञात्व धीरः प्रकाशयामास समाधिमेतम् ।
श्रुत्वा च सो इमु विरजं समाधिं लघु प्रव्रजी जिनवरशासने ऽस्मिन्
स प्रव्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्वा ।
कल्पान कोट्यः परिपूर्ण विंशतिं न जातु गच्छे विनिपातभूमिम्
स तेन चैवं कुशलेन कर्मणा आरागयी विंशति बुद्धकोट्यः ।
तेषां च सर्वेषु जिनान अन्तिकादिमं वरं शान्त समाधि भावयी
स पश्चिकाले अभु बुद्ध लोके सुचिन्तितार्थो सदनामधेयः ।
कृत्वा च अर्थं बहुप्राणकोटिनां स पश्चकालस्मि शिखीव निर्वृतः
तस्माद्धि य इच्छति बोधि बुद्धितुं सत्त्वांश्च उत्तरायितुं भवार्णवात् ।
धारेत सूत्रमिमु बुद्धवर्णितं न दुर्लभा भेष्यति सो ऽग्रबोधिः
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0