समाधिराजसूत्र · अध्याय 7
इति श्रीसमाधिराजे समाधिपरिवर्तो नाम षष्ठः ॥
(वैद्य 35)
7 त्रिक्षान्त्यवतारपरिवर्तः ।
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मातर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन त्रिक्षान्तिज्ञानकुशलेन भवितव्यम् । तेन प्रथमा क्षान्तिः प्रज्ञातव्या । द्वितीया क्षान्तिः प्रज्ञातव्या । तृतीया क्षान्तिः प्रज्ञातव्या । त्रिक्षान्तिविशेषकुशलेन भवितव्यं त्रिक्षान्तिज्ञानविशेषकुशलेन च । तत् कस्य हेतोः? तथाहि कुमार यदा बोधिसत्त्वो महासत्त्वस्त्रिक्षान्तिविशेषकुशलो भवति त्रिक्षान्तिज्ञानविशेषकुशलश्च भवति, तदायं कुमार बोधिसत्त्वो महासत्त्वः क्षिप्रं समाधिं प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनायं त्रिक्षान्त्यवतारो धर्मपर्याय उद्ग्रहीतव्यः । उद्गृह्य न परेभ्यो विस्तरेण संप्रकाशयितव्यः । तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां चेति ॥
अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्येमं त्रिक्षान्त्यवतारं धर्मपर्यायं गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -
न केनचित् सार्धं करोति विग्रहं न भाषते वाचमनर्थसंहिताम् ।
अर्थे च धर्मे च सदा प्रतिष्ठितः प्रथमाय क्षान्तीय सद निर्दिशीयति
मायोपमान् जानति सर्वधर्मान् न चापि सो भोति निमित्तगोचरः ।
न हीयते ज्ञानविवृद्धभूमेः प्रथमाय क्षान्तीय इमे विशेषाः
स सर्वसूत्रान्तनयेषु कोविदः सुभाषिते ऽस्मिन्नधिमुक्तिपण्डितः ।
अनन्तज्ञानी सुगतान ज्ञाने प्रथमाय क्षान्तीय इमे विशेषाः
यः कश्चि धर्मं शृणुते सुभाषितं बुद्धान चो भाषित तन्न काङ्क्षति ।
अधिमुच्यते सर्वजिनान धर्मतां प्रथमाय क्षान्तीय इमे विशेषाः
(वैद्य 36)
नीतार्थसूत्रान्तविशेष जानति यथोपदिष्टा सुगतेन शून्यता ।
यास्मिन् पुनः पुद्गल सत्त्व पूरुषो नेयार्थतां जानति सर्वधर्मान्
ये अस्मि लोके पृथु अन्यतीर्था न तस्य तेषु प्रतिहन्यते मनः ।
कारुण्यमेतेषु उपस्थपेति प्रथमाय क्षान्तीय इमे विशेषाः
आभासमागच्छति तस्य धारणी तस्मिंश्च आभासि न जातु काङ्क्षति ।
सत्यानुपरिवर्तिनि वाच भाषते प्रथमाय क्षान्तीय इमे विशेषाः
चतुर्ण धातून सियान्यथात्वं वाय्वम्बुतेजःपृथिवीय चापि ।
न चो विवर्तेत स बुद्धबोधेः प्रथमाय क्षान्तीय इमे विशेषाः
ये शिल्पस्थाना पृथु अस्ति लोके सर्वेषु सो शिक्षितु बोधिसत्त्वः ।
न चात्मन उत्तरि किंचि पश्यति प्रथमाय क्षान्तीय इमे विशेषाः
अकम्पियः समथबलेन भोति शेलोपमो भोति विपश्यनाय ।
न क्षोभितुं शक्यु स सर्वसत्त्वैर्द्वितीयाय क्षान्तीय स निर्दिशीयति
समाहितस्तिष्ठति भाषते च समाहितश्चंक्रमते निषीदति ।
समाधिये पारमितागतो विदु द्वितीयाय क्षान्तीय इमे विशेषाः
(वैद्य 37)
समाहितो लभति अभिज्ञ पञ्च क्षेत्रशतं गच्छति धर्मदेशकः ।
नो चापि सो ऋद्धिबलात्तु हीयते द्वितीयाय क्षान्तीय इमे विशेषाः
स तादृशं शान्त समाधिमेषते समाहितस्य न स अस्ति सत्त्वः ।
यस्तस्य चित्तस्य प्रमाणु गृह्णीया द्वितीयाय क्षान्तीय इमे विशेषाः
ये लोकधातुष्विह केचि सत्त्वास्ते बुद्धज्ञानेन भणेयु धर्मान् ।
उद्गृह्णतो सर्व यतो हि भाषिउतं द्वितीयाय क्षान्तीय इमे विशेषाः
पुरिमोत्तरा दक्षिणपश्चिमासु हेष्ठे तथोर्ध्वं विदिशासु चैव ।
सर्वत्र सो पश्यति लोकनाथान् तृतीयाय क्षान्तीय स निर्दिशीयति
सुवर्णवर्णेन समुच्छ्रयेण अचिन्तियां निर्मित निर्मिणित्वा ।
देशेति धर्मं बहुप्राणिकोटिनां तृतीयाय क्षान्तीय इमे विशेषाः
य जम्बुद्वीप इह बुद्धक्षेत्रे सर्वत्र सो दृश्यति बोधिसत्त्वः ।
ज्ञातश्च भोती ससुरासुरे जगे तृतीयाय क्षान्तीय इमे विशेषाः
बुद्धान आचारु तथैव गोचरा ईर्यापथो यादृश नायकानाम् ।
सर्वत्र सो शिक्षितु भोति पण्डितस्तृतीयाय क्षान्तीय इमे विशेषाः
ये लोकधातुष्विह केचि सत्त्वास्ते बोधिसत्त्वस्य भणेयु वर्णम् ।
(वैद्य 38)
सचे ऽस्य तस्मिन् नानुनीयते मनो न शिक्षितो उच्यति बुद्धज्ञाने
ये लोकधातुइष्विह केचि सत्त्वास्ते बोधिसत्त्वस्य भणेयु वर्णम् ।
सचे ऽस्य तेषु प्रतिहन्यते मनो न शिक्षितो ऽद्यापि स बुद्धज्ञाने
अर्थेन लब्धेन न भोति सूमनो न चाप्यनर्थेन स भोति दुर्मनाः ।
शैलोपमे चित्ति सदा प्रतिष्ठितो अयं विशेषस्तृतीयाय क्षान्तियाः
घोषानुगामी इय क्षान्तिरुक्ता चिन्तामयी भावनानुलोमिकी ।
श्रुतंमया सा अनुत्पत्तिका या शिक्षा च अत्राप्ययु बोधिमार्गः
तिस्रो ऽपि क्षान्तीय सदा निरुत्तराः स बोधिसत्त्वेन भवन्ति लब्धाः ।
दृष्ट्वा ततस्तं सुगता नरोत्तमा वियाकरोन्ति विरजाय बोधये
ततो ऽस्य तं व्याकरणं श्रुणित्वा प्रकम्पिता मेदिनी षड्विकारम् ।
आभाय क्षेत्रं भवते प्रभास्वरं पुष्पाणि च वर्षिषु देवकोट्यः
तस्यो च तं व्याकरणं श्रुणित्वा सत्त्वान कोटी नियुता अचिन्तिया ।
उत्पादयी चित्त वराग्रबोधये वयं पि भेष्याम जिन आर्यचेतिकाः
क्षान्त्या इमास्तिस्र निरुत्तरा यदा संबोधिसत्त्वेन भवन्ति लब्धाः ।
न चापि सो जायति नापि म्रीयते न चापि स च्यवति नोपपद्यते
(वैद्य 39)
यदा इमा क्षान्ति त्रयो निरुत्तरा संबोधिसत्त्वेन भवन्ति लब्धाः ।
न पश्यतेः जायति यश्च म्रीयते स्थितधर्मतां पश्यति सर्वधर्मान्
तथाहि तेनो वितथेति ज्ञाता मायोपमा धर्म स्वभावशून्याः ।
न शून्यता जायति नो च म्रीयते स्वभावशून्या इमि सर्वधर्माः
यदात्त्यसौ सत्कृतु भोति केनचिद् उपस्थितो मानितु पूजितो ऽर्चितः ।
न तस्य तस्मिन्ननुनीयते मनो जानाति सो धर्मस्वभावशून्यताम्
आक्रुष्ट सत्त्वेहि प्रहारतर्जितो न तेषु क्रोधं कुरुते न मानम् ।
मैत्रीं च तेषु दृढ संजनेति तथैव सत्त्वान प्रमोचनाय
लोष्टेहि दण्डेहि च ताड्यमानः प्रतिघातु तेषु न करोति पण्डितः ।
नैरात्म्यक्षान्तीय प्रतिष्ठितस्य न विद्यते क्रोधखिलं न मानः
तथाहि तेनो वितथेति ज्ञाता मायोपमा धर्म स्वभावशून्याः ।
स तादृशे धर्मनये प्रतिष्ठितः सुसत्कृतो भोति सदेवलोके
यदापि सत्त्वाः प्रगृहीतशस्त्राश्छिन्देयु तस्यो पृथु अङ्गमङ्गम् ।
न तस्य तेषु प्रतिहन्यते मनो न चापि मैत्री करुणा तु हीयते
एवं च सो तत्र जनेति चित्तं छिन्दन्ति ते हि पृथु अङ्गमङ्गम् ।
(वैद्य 40)
तथा न मह्यं शिव शान्ति निर्वृती यावन्न स्थाप्ये इमि अग्रबोधये
एतादृशे क्षान्तिबले निरुत्तरे नैरात्म्यक्षान्तीसमताविहारिणाम् ।
संबोधिसत्त्वान महायशानां कल्पान कोट्यः सततं सुभाविताः
ततोत्तरे यात्तिक गङ्गवालिका न ताव बोधी भवतीह स्पर्शिता ।
ये बुद्धज्ञानेन न करोति कार्यं किं वा पुनर्ज्ञान तथागतानाम्
क्षपेतु वर्णं सुकरं न तेषां प्रभाषता कल्पशतान्यचिन्तिया ।
अनन्तकीर्तेन महायशानां नैरात्म्यक्षान्तीय प्रतिष्ठितानाम्
तस्माद्धि यो इच्छति बोधि बुद्धितुं तं ज्ञानस्कन्धं प्रवरं निरुत्तरम् ।
स क्षान्ति भावेतु जिनेन वर्णितां न दुर्लभा बोधि वरा भविष्यति
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0