समाधिराजसूत्र · अध्याय 4
इति श्रीसमाधिराजे भूतगुणवर्णप्रकाशनपरिवर्तो नाम तृतीयः ॥
(वैद्य 19)
4 बुद्धानुस्मृतिपरिवर्तः ।
अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - समाधिः समाधिरिति भगवन्नुच्यते । कतमस्यैतद्धर्मस्याधिवचनं समाधिरिति? एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - समाधिः समाधिरिति कुमार उच्यते यदुत चित्तनिध्याप्तिः । अनुपपत्तिः । अप्रतिसंधिः । प्रतिसंधिज्ञानम् । अपहृतभारता । तथागतज्ञानम् । बुद्धवृषभिता । रागचिकित्सा । दोषव्युपशमः । मोहस्य प्रहाणम् । युक्तयोगिता । अयुक्तविवर्जनता । अकुशलधर्मच्छन्दः । संसारान्मोक्षकामता । अध्याशयप्रतिपत्तिः । जागरिकाया आसेवनम् । प्रहाणस्यानुत्सर्गः । आरक्षा शुक्लधर्माणाम् । उपपत्तिष्वविश्वासः । अनभिसंस्कारः । कर्मणामाध्यात्मिकानामायतनानाममनसिकारः । बाह्यानामायतनानामसमुदाचारः । आत्मनो ऽनुत्कर्षणम् । परेषामपंसनता । कुशलेष्वनध्यवसानम् । पृथग्जनेष्वविश्वासः । शीलस्य निष्यन्दः । दुरासदता । महौजस्कता । आत्मज्ञानम् । अचपलता । ईर्यापथसंपदवस्थानम् । अव्यापादः । अपारुष्यम् । परेष्वनुत्पीडा । मित्राणामनुरक्षणा । गुह्यमन्त्राणामारक्षणा । अविहिंसा । शीलवतामनुत्पीडना । श्लक्ष्णवचनता । सर्वत्रैधातुके अनिःश्रितता । सर्वधर्मेषु शून्यता । आनुलोमिकी क्षान्तिः । सर्वज्ञज्ञाने तीव्रच्छन्दता समाधिः समाधिरिति कुमार उच्यते । या एवेष्वेवंरूपेषु धर्मेषु प्रतिपत्तिरप्रतिपत्तिः, अयं स कुमार उच्यते समाधिरिति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
अपावृतं मे अमृतस्य द्वारम् आचक्षितो धर्मस्वभावु यादृशः ।
निदर्शिता मे उपपत्ति यादृशी प्रकाशिता निर्वृति सानुशंसा
विवर्जनीयाः सद पापमित्राः कल्याणमित्राश्च निषेवितव्याः ।
वनेषु वस्तव्य गणान् जहित्वा मैत्रं च चित्तं सद भावनीयम्
शुद्धं च शीलं सद रक्षितव्यं धूतेषु पुष्टिः सद विन्दितव्या ।
त्यागश्च प्रज्ञा च निषेवितव्या । न दुर्लभो एष समाधि भेष्यति
(वैद्य 20)
ततो लभित्वा इम शान्तभूमि यस्यामभूमिः पृथु श्रावकाणाम् ।
प्रत्यक्षभूता सुगतस्य धर्म प्रतिलप्स्यथा बुद्धगुणानचिन्तियान्
दृष्ट्वा नरान् भाजनबुद्धिमन्तान् तान् बोधिचित्तस्मि समादहेथ ।
अनुत्तरे ज्ञानि प्रतिष्ठपित्वा न दुर्लभो एष समाधिराजः
यस्यार्थि ईर्षा पुन संजनेय्या आहारि निष्यन्दिह प्रत्यवेक्षतः ।
पर्येष्टितश्चो परिभोगतश्च न दुर्लभो एष समाधि भेष्यते
समाधिराजो यदि वैष शून्यतो विशुद्धशीलानयु मूर्ध्नि तिष्ठति ।
स्वभावतो धर्म सदा समाहिता बाला न जानन्ति अयुक्तयोगाः
येषामयं शान्त समाधिरिष्टो न तेष जातु भयबुद्धि तिष्ठति ।
सदानुपश्यन्ति नराणमुत्तममिमां निषेवित्व प्रशान्तभूमिम्
आकारतो यः स्मरते तथागतान् स भोति शान्तेन्द्रियु शान्तमानसः ।
अभ्रान्तचित्तः सततं समाहितः श्रुतेन ज्ञानेन च सागरोपमः
अस्मिन् समाधौ हि प्रतिष्ठिहित्त्वा यश्चंक्रमे चंक्रमि बोधिसत्त्वः ।
स पश्यति बुद्धसहस्रकोटियस्तदुत्तरे यात्तिक गङ्गवालुकाः
उन्मादु गच्छेय नरस्य चित्तं यो बुद्धधर्माण प्रमाणु गृह्णीयात् ।
(वैद्य 21)
नैवाप्रमाणस्य प्रमाणमस्ति अचिन्तिया सर्वगुणेहि नायकाः
न सो ऽस्ति सत्त्वो दशसु दिशासु यो लोकनाथेन समः कुतोत्तरि ।
सर्वे हि सर्वज्ञगुणरुपेतमाकाङ्क्षथ लप्स्यथ बुद्धज्ञानम्
सुवर्णवर्णेन समुच्छ्रयेण समन्तप्रासादिकु लोकनाथः ।
यस्यात्र आलम्बनि चित्तु वर्तते समाहितः सोच्यति बोधिसत्त्वः
असंस्कृतं संस्कृतु ज्ञात्व विज्ञो निमित्तसंज्ञाय विभाविताय ।
सो आनिमित्ते भवति प्रतिष्ठितः प्रजानती शून्यक सर्वधर्मान्
यो धर्मकाये भवति प्रतिष्ठितो अभाव जानाति स सर्वभावान् ।
अभावसंज्ञाय विभाविताय न रूपकायेन जिनेन्द्र पश्यति
आरोचयामि प्रतिवेदयामि वो यथा यथा बहु च वितर्कयेन्नरः ।
तथा तथा भवति तन्निमित्तचित्तस्तेहि वितर्केहि तन्निश्रितेहि
एवं मुनीन्द्रं स्मरतो नरस्य आकारतो ज्ञानतो अप्रमेयतः ।
अनुस्मृतिं भावयतः सदा च तन्निम्नचित्तं भवती तत्प्रोणम्
स चंक्रमस्थो न निषद्यमाश्रित आकाङ्क्षते पुरुषवरस्य ज्ञानम् ।
आकाङ्क्षमाणः प्रणिघेति बोधये भविष्यहं लोकि निरुत्तरो जिनः
(वैद्य 22)
स बुद्ध संजानति बुद्ध पश्यते बुद्धान चो धर्मत प्रत्यवेक्षते ।
इह समाधिस्मि प्रतिष्ठिहित्वा नमस्यते बुद्ध महानुभावान्
कायेन वाचा च प्रसन्न मानसा बुद्धान वर्णं भणती अभीक्ष्णम् ।
तथाहि सो भावितचित्तसंतती । रात्रिंदिवं पश्यति लोकनाथान्
यदापि सो भोति गिलान आतुरः प्रवर्तते वेदन मारणान्तिका ।
न बुद्धमारभ्य स्मृतिः प्रमुष्यते न वेदनाभिरनुसंहरीयति
तथा हि तेन विचिनित्व ज्ञाता अनागता आगत धर्मशून्यता ।
सो तादृशे धर्मनये प्रतिष्ठितो न खिद्यते चित्त चरन्तु चारिकाम्
तस्माच्छ्रुणित्वा इमु आनुशंसा जनेथ छन्दमतुलाय बोधये ।
मा पश्चकाले परितापु भेष्यत सुदुर्लभं सुगतवराण दर्शनम्
अहं च भाषेय प्रणीत धर्मं यूयं च श्रुत्वान समाचरेथाः ।
भैषज्य वस्त्रां च गृहीत्व आतुरो ऽपनेतु व्याधिं न प्रभोति आत्मनः
तस्माद्विधिज्ञेन विचक्षणेन इमं समाधिं प्रतिकाङ्क्षता सदा ।
शीलं श्रुतं त्यागु निषेवितव्यं न दुर्लभो एष समाधि भेष्यति
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0