भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 5

5.1

इति श्रीसमाधिराजे बुद्धानुस्मृतिपरिवर्तो नाम चतुर्थः ॥
(वैद्य 23)
5 घोषदत्तपरिवर्तः ।
तत्र भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले ऽप्रमेये ऽचिन्त्ये ऽपरिमाणे यदासीत् तेन कालेन तेन समयेन भगवान् घोषदत्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन कालेन तेन समयेन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अशीतिः श्रावककोट्यः प्रथमसन्निपातो ऽभूत् सर्वेषामर्हताम् । द्वितीयः श्रावकसन्निपातः सप्ततिकोट्यो ऽर्हतामभूत् । तृतीयः सन्निपातः षष्टिः श्रावककोट्यो ऽर्हतामभूत् । तेन खलु पुनः समयेन तस्य भगवतो घोषदत्तस्यार्हतः सम्यक्संबुद्धस्य चत्वारिंशद्वर्षसहस्राण्यायुःप्रमाणमभूत् । अयं च जम्बुद्वीप ऋद्धः स्फीतश्च क्षेमश्च सुभिक्षश्च रमणीयश्च बहुजनाकीर्णमनुष्यश्चाभूत् । तेन खलु पुनः समयेन अस्मिन् जम्बुद्वीपे द्वौ राजानावभूताम् । दृढबलश्च नाम महाबलश्च नाम । तत्रैको राजा अर्धं जम्बुद्वीपं परिभुङ्क्ते, द्वितीयो ऽप्यर्धं परिभुङ्क्ते ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं च बहुजनाकीर्णमनुष्यं च ॥ तेन कालेन तेन समयेन राज्ञो महाबलस्य विजिते भगवान् घोषदत्तस्तथागतो ऽर्हन् सम्यक्संबुद्ध उत्पन्नो ऽभूत् । इति हि कुमार राज्ञा महाबलेन स घोषदत्तस्तथागतः परिपूर्णं वर्षसहस्रं निमन्त्रितो ऽभूत् सार्धं बोधिसत्त्वसंघेन भिक्षुसंघेन च कल्पिकेन परिभोगेणानवद्येन चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेण । तेन च कुमार कालेन तेन समयेन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वसंघस्य सश्रावकसंघस्य चोत्सदो लाभसत्कारश्लोको ऽभूत् । श्राद्धाश्च ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सबोधिसत्त्वसंघस्य चोत्सदं लाभसत्कारमकार्षुः । ते च श्राद्धा ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य लाभसत्कारायोद्युक्ता अभूवन् लोकामिषपूजायै यदुत राज्ञ एव च महाबलस्यानुशिक्षमाणरूपम् । इति हि
कुमार तस्य भगवतो घोषदत्तस्य एतदभूत् - परिहीयन्ते बतेमे सत्त्वाः शीलपोषधसमादानतस्तथागतानामुपसंक्रमणतस्तथागतपर्युपासनतो ब्रह्मचर्यावासतः प्रव्रज्योपसंपन्नभिक्षुभावतश्च । त एते सत्त्वास्तदनन्तरं सुखगुरुकाः । तत् कस्य हेतोः? तथा हि तदनन्तरं सुखमिदं यदुत लोकामिषपूजा । त एते सत्वा दृष्टधर्मगुरुकाश्च संपरायगुरुकाश्च नात्यन्तनिष्ठाः कुशलमूलाय । तत्रेयं कुमार कतमा दुष्टधर्मगुरुकता? यदुत पञ्चकामगुणाभिप्रायता । (वैद्य 24) तत्र कुमार कतमा सांपरायिकगुरुकता? यदुत स्वर्गलोकाध्यालम्बनता । कतमा चात्यन्तनिष्ठकुशलमूलगुरुकता? यदुतात्यन्तविशुद्धिः । अत्यन्तविमुक्तिः । अत्यन्तयोगक्षेमता । अत्यन्तब्रह्मचर्यावासः । अत्यन्तपर्यवसानम् । अत्यन्तकुशलमूलनिष्ठा । अत्यन्तपरिनिर्वाणम् । यन्नवहमेतेषां सत्त्वानां तथा तथा धर्मं देशयेयं यदमी सत्त्वा यथानुत्तरया धर्मपूजया धर्मप्रतिपत्त्या च तथागतं पूजयेयुः ॥
अथ खलु कुमार घोषदत्तस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां राज्ञो महाबलस्य तेषां च ब्राह्मणगृहपतीनां संवेजनाभिप्राय इमा गाथा अभाषत -
दानप्रदानेन अन्योन्य सेवतां तेषान्यमन्यस्मि न भोति गौरवम् ।
ना तादृशीं सेवन वर्णयन्ति बुद्धा विदू येष प्रहीण वासना

5.2

ते तादृशा भोन्ति नराः सुसेविता ये धर्म देशेन्ति हिताय प्राणिनाम् ।
तेषान्यमन्यस्मि अभेद्य प्रेम यन्मारकोटीभिरशक्यु भिन्दितुम्

5.3

लोकामिषेणो नर सेवतां नृणां सर्वेषं सांदृष्टिक भोति अर्थः ।
निरामिषं धर्म निषेवतां हि महान्त अर्थो भवती नराणाम्

5.4

निरामिषं चित्तु उपस्थपित्वा निरामिषं धर्म प्रकाशयित्वा ।
निरामिषं येष भवेत प्रेम ते तादृशाः क्षिप्र भवन्ति बुद्धाः

5.5

न जातु कामान् प्रतिसेवमानः पुत्रेषु दारेषु जनित्व तृष्णाम् ।
गृहं च सेवन्तु जुगुप्सनीयमनुत्तरां प्राप्स्यति सो ऽग्रबोधिम्

5.6

ये काम वर्जेन्ति यथाग्निकर्षूं पुत्रेषु दारेषु जहित्व तृष्णाम् ।
(वैद्य 25)
उत्त्रस्तु गेहादभिनिष्क्रमन्ति न दुर्लभा तेष्वियमग्रबोधिः

5.7

न कश्चि बुद्धः पुरिमेण आसी अनागते भेष्यति वावतिष्ठते ।
येहि स्थितैरेवमगारमध्ये प्राप्ता इयमुत्तम अग्रबोधिः

5.8

प्रहाय राज्यं यथ खेटपिण्डं वसेत रण्येषु विवेककामः ।
क्लेशान् प्रहाय प्रतिहत्य मारं बुद्ध्यन्ति बोधिं विरजामसंस्कृताम्

5.9

यो बुद्धवीरान् यथ गङ्गवालुका उपस्थिहेय्या बहुकल्पकोटियः ।
यश्चो गृहातः परिखिन्नमानसो ऽभिनिष्क्रमेय्या अयु तत्र उत्तमः

5.10

अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि ।
नोपस्थिता भोन्ति नरोत्तमा जिना यथ प्रव्रजित्वा चरियाण धर्मम्

5.11

यश्चैव बोधिं प्रतिकाङ्क्षमाणः सत्त्वार्थ निर्विण्णु कुसंस्कृतातः ।
रण्यामुखः सप्त पदानि प्रक्रमे अयं ततः पुण्यविशिष्ट भोति

5.12

अश्रौषीत् खलु पुनः कुमार राजा महाबलो भगवता घोषदत्तेन तथागतेनार्हता सम्यक्संबुद्धेन इमामेवंरूपां प्रवर्तितां नैष्क्रम्यप्रतिसंयुक्तां कथाम् । श्रुत्वा च विमृशति - यथाहं भगवतो भाषितस्यार्थमाजानामि, न भगवान् दानपारमितां वर्णयति, न शीलपारमितां वर्णयति । अत्यन्तनिष्ठां संवर्णयति । अत्यन्तविशुद्धिम् । अत्यन्तब्रह्मचर्यावासम् । अत्यन्तनिर्वाणं संवर्णयति । तस्यैतदभूत् - नेदं सुकरमगारमध्यावसता अनुत्तरधर्मप्रतिपत्तिं संपादयितुम्, अर्थं वा अनुप्राप्तुम् । परिहीणो ऽस्म्यनुत्तराया धर्मप्रतिपत्तितः । यन्न्वहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयम् । इति हि (वैद्य 26) कुमार राजा महाबलः सार्धमशीत्या ब्राह्मणगृहपतिशतसहस्रैः परिवृतः पुरस्कृतो येन भगवान् घोषदत्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रामत् । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य एकान्ते ऽस्थात् । अथ खलु कुमार भगवान् घोषदत्तो राज्ञो महाबलस्य अध्याशयं विदित्वा इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं देशयते । अथ खलु कुमार राजा महाबल इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः केशश्मश्रण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितो ऽभूत् । स तथा प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान् । उद्गृह्य पर्यवाप्य धारयित्वा वाचयिओत्वा भावनायोगमनुयुक्तो व्यहार्षीत् । स तेनैव कुशलमूलेन दशकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत्, विंशतिं च बुद्धकोटीरारागयामास । तेषां च तथागतानामन्तिकादिमं समाधिमश्रौषीत् । श्रुत्वा तेभ्यो बुद्धेभ्यस्तेनोद्गृहीतः पर्यवाप्तो धारितो वाचितो भावनायोगमनुयुक्तो व्यहार्षीत् । स ततः पश्चात् तेनैव कुशलमूलेन दशानां कल्पकोटीनामत्ययेन परिपूर्णेन कल्पशतसहस्रेण अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽभूत् । सो ऽप्रमेयाणां सत्त्वानामर्थं कृत्वा पश्चाद् बुद्धपरिनिर्वाणेन परिनिर्वृतो ऽभूत् । तत्र कुमार यान्यशीतिप्राणिशतसहस्राणि राज्ञा महाबलेन सार्धं भगवन्तं घोषदत्तं तथागतमुपसंक्रान्तानि, ते ऽपि सर्वे इमं समाधिं
श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः
प्रीतिसौमनस्यजाताः केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिता अभूवन् । ते ऽपि तथा प्रव्रजिता इमं समाधिमुद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्ता विहृत्य तेनैव कुशलमूलेन विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमन् । सर्वत्र च कल्पे कल्पे बुद्धकोटीर्बुद्धकोटीरारागयामास । सर्वेषां च तेषां तथागतानामन्तिके इमं समाधिं श्रुत्वोद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्ता विहृत्य तेनैव पूर्वक्रेण कुशलमूलेन विंशतीनां कल्पकोटीनामत्ययेन ततः पश्चात् परिपूर्णदशभिः कल्पसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंबुद्धा दृढशूरनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पन्ना अभुवन् । ते ऽप्यप्रमेयानसंख्येयान् सत्त्वान् परिपाच्य तेषां चार्थं कृत्वा बुद्धपरिनिर्वृता अभूवन् । तदनेनापि ते कुमार पर्यायेण एवं वेदितव्यं यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य सर्वज्ञज्ञानस्याहरणाय संवर्तत इति ॥ अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य तस्यां वेलायामेतदेव पूर्वयोगपरिवर्तं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -
स्मराम्यहं पूर्वमतीतमध्वनि अचिन्तिये कल्पि नराण उत्तमः ।
(वैद्य 27)
उत्पन्नु लोकार्थकरो महर्षि नामेन सो उच्यति घोषदत्तः

5.13

अशीति कोट्यः परिपूर्ण तस्य प्रथमो गणो आसि य श्रावकाणाम् ।
द्वितीय चासीत् परिपूर्ण सप्ततिस्तृतीय चो षष्ट्यरहन्तकोटियः

5.14

सर्वे च क्षीणास्रव निष्किलेशाः सर्वे च ऋद्धीबलपारमिं गताः ।
वर्षं सहस्रा दुवि विशं चायुः क्षेत्रं च आसीत् परिशुद्ध शोभनम्

5.15

अभिषेकप्राप्ता परहित अप्रमेया वशितेहि भूमिहि च सुप्रतिष्ठिताः ।
आसन्न ते द्रुमवरि बोधि बोधितुं ये बोधिसत्वास्त अभूषि तायिनः

5.16

इह जम्बुद्वीपस्मि अभूषि राजा दृढबलो नाम महाबलश्च ।
उपार्धु राज्यस्य तदेकु भुञ्जते द्वितीय चाधस्य अभूषि राजा

5.17

महाबलस्यो विजितस्मि बुद्धो उत्पन्न सो देवमनुष्यपूजितः ।
लभित्व राजा सुगतस्मि श्रद्धाम् उपस्थिही वर्षसहस्र पूर्णम्

5.18

तस्यानुशिक्षी बहु अन्यसत्त्वाः कुर्वन्ति सत्कार तथागतस्य ।
लोकामिषेणैव हि धर्मपूजया सश्रावकस्य अतुलो ऽभू उत्सदः

5.19

अभूषि चित्तं पुरुषोत्तमस्य देशिष्य धर्ममिमि धर्मकामाः ।
यन्नून सर्वे प्रजहित्व कामानिह प्रव्रजेयुर्मम शासनस्मिन्

5.20

(वैद्य 28)
स भाषते गाथ नराणमुत्तमः संलेखिधर्मं सुगतान शिक्षाम् ।
गृहवासदोषांश्च अनन्तदुःखान् प्रतिपत्ति धर्मेष्विह धर्मपूजा

5.21

श्रुणित्व गाथां तद राजपार्थिवो एको विचिन्तेति रहोगतो नृपः ।
न शक्य गेहस्मि स्थिहित्व सर्वे प्रतिपद्यितुमुत्तधर्मपूजा

5.22

स राज्य त्यक्त्वा यथ खेटपिण्डं प्राणिसहस्रेभिरशीतिभिः सह ।
उपसंक्रमी तस्य जिनस्य अन्तिकं वन्दित्व पादौ पुरतः स्थितो ऽभूत्

5.23

तेषां जिनो आशयु जानमानो देशेतिमं शान्त समाधि दुर्दृशम् ।
ते प्रीतिप्रामोद्यसुखेन प्रीणितास्तुष्टा उदग्रास्तद प्रव्रजिंसु

5.24

ते प्रव्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्व ।
न जातु गच्छे विनिपातदुर्गतिं कल्पान कोट्यः परिपूर्ण विंशतिम्

5.25

ते तेन सर्वे कुशलेन कर्मणा अद्राक्षु बुद्धान सहस्रकोटियः ।
सर्वेषु चो तेषु जिनानुशासने ते प्रव्रजित्वेमु समाधि भावयी

5.26

ते पश्चिमे कालि अभूषि बुद्धा दृढशूरनामान अनन्तवीर्याः ।
कृत्वा च अर्थं बहुप्राणिकोटिनां ते पश्चिकालेस्मि शिखीव निर्वृताः

5.27

(वैद्य 29)
महाबलो राजा य आसि पूर्वं स ज्ञानशूरो अभु बुद्ध लोके ।
तदा बहु प्राणिसहस्रकोटियः स्थपेत्व बोधाय स पश्चि निर्वृतः

5.28

तस्माच्छ्रुणित्वा इमु पश्चिकाले धारेय सूत्रमिमु बुद्धवर्णितम् ।
धारेत्विममीदृश धर्मकोषं भविष्यथा क्षिप्र नराणमुत्तमाः

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc