समाधिराजसूत्र · अध्याय 3
इति श्रीसमाधिराजे शालेन्द्रराज(पूर्वयोग)परिवर्तो नाम द्वितीयः ॥
(वैद्य 13)
3 भूतगुणवर्णप्रकाशनपरिवर्तः ।
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हिं कुमार यो बोधिसत्त्वो महासत्त्व आकाङ्क्षति तथागतस्यार्हतः सम्यक्संबुद्धस्य भूतं बुद्धगुणवर्णं संप्रकाशयितुं नो चार्थतो वा व्यञ्जनतो वा पर्यादानं गन्तुं सर्वं च मे वचनं बुद्धपरिगृहीतं निश्चरितुमिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामर्थाय अयं समाधिरुद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । कतमे च ते कुमार तथागतस्य भूता बुद्धगुणाः? इह कुमार बोधिसत्त्वो महासत्त्वो ऽरण्यगतो वा वृक्षमूलगतो वा अभ्यवकाशगतो वा शून्यागारमध्यगतो वा एवं प्रतिसंशिक्षते - एवं स भगवांस्तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । निष्यन्दः स तथागतः पुण्यानाम् । अविप्रणाशः कुशलमूलानाम् । अलंकृतः क्षान्त्या । आगमः पुण्यनिधानानाम् । चित्रितो ऽनुव्यञ्जनैः । कुसुमितो लक्षणैः । प्रतिरूपो गोचरेण । अप्रतिकूलो दर्शनेन । अभिरतिः श्रद्धाधिमुक्तानाम् । अनभिभूतः प्रज्ञया । अनवमर्दनीयो बलैः । शास्ता सर्वसत्त्वानाम् । पिता बोधिसत्त्वानाम् । राजा आर्यपुद्गलानाम् । सार्थवाह आदिकर्मिकाणाम् । अप्रमेयो ज्ञानेन । अनन्तः प्रतिभानेन । विशुद्धःस्वरेण । आस्वादनीयो घोषेण । असेचनको रूपेण । अप्रतिसमः कायेन । अलिप्तः कामैः । अनुपलिप्तो रूपैः । असंसृष्ट आरूप्यैः । विमुक्तो दुःखेभ्यः । विप्रमुक्तः स्कन्धेभ्यः । विसंयुक्तो धातुभिः । संवृत आयतनैः । प्रतिच्छन्नो ग्रन्थैः । विमुक्तः परिदाहैः । परिमुक्तस्तृष्णायाः । ओघादुत्तीर्णः । परिपूर्णो ज्ञानेन । प्रतिष्ठितो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ज्ञाने । अप्रतिष्ठितो निर्व्ःणे । स्थितो भूतकोट्य्ःम् । स्थितः सर्वसत्त्वोल्लोकनीय्ःय्ःं भूमौ । इमे ते कुम्ःर तथ्ःगतस्य भूत्ः बुद्धगुण्ःः । एभिर्बुद्धगुणवर्णैः समन्व्ःगतो बोधिसत्त्वो मह्ःसत्त्व इमं सम्ःधिम्ःगम्य अन्ःच्छेद्येन प्रतिभ्ःनेन तथ्ःगतस्य्ःहतः सम्यक्संबुद्धस्य
भूतं बुद्धगुणवर्णं संप्रक्ःशयन् नो च्ःर्थतो नो व्यञ्जनतश्च पर्य्ःद्ःनं गच्छति । सर्वं च्ःस्य वचनं बुद्धपरिगृहीतं निश्चरति ॥
अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
न सुकरु जिनवर्ण सर्वि वक्तुं बहुमपि कल्पसहस्र भाषमाणैः ।
(वैद्य 14)
तथ गुण समुदानिता जिनेभिः इमु वरु शान्त समाधिमेषमाणैः
परमसु-अभिरूपदर्शनीयाः कन्य अलंकृतगात्र प्रेमणीयाः ।
दत्त पुरि अदीनमानसेन इमु वरु शान्त समाधिमेषता मे
तथ मयि धनधान्यदासिदासा तथ मणिमुक्तिसुवर्णरूप्यकं च ।
त्यक्त मयि अदीनमानसेन इमु वरु शान्त समाधिमेषता मे
मणिरतनविचित्रमुक्तहारा रुचिर पु वसन शङ्खसुवर्णसूत्रा ।
त्यक्त मयि पुरा विनायकेषु इमु वरु शान्त समाधिमेषता मे
अपरिमित अनन्त कल्पकोट्यः परमसुगन्धिक वार्षिकाश्च ।
त्यक्त मयि जिनान चेतियेषु परमनिरुत्तरु चित्तु संजनित्वा
तथरिव मयि दत्तु धर्मदानं पर्षगतेन जनित्व चित्रिकारम् ।
न च मम समुत्पन्न जातु चित्तं सिय मम ज्ञात्रु ददित्व धर्मदानम्
एत गुण समुदानितुं मि पूर्वा वन वरु सेवित नित्यमल्पशब्दम् ।
कृपबहुलु भवामि नित्यकालं सद मम चित्तु लभेय बुद्धज्ञानम्
न च मम क्वचिदाग्रहो अभूषि प्रियतरवस्तुन आत्मनो ऽपि भोक्तुम् ।
(वैद्य 15)
ददमि अहु प्रभूत देयधर्मं सद मम चित्तु लभेय बुद्धज्ञानम्
अखिलमधुरसंविभागशीलः स्मितवदनः श्रुतिधारि स्निग्धघोषः ।
सुमधुरवचनः प्रियो बहूनां जन मम सर्वि अतृप्त दर्शनेन
क्षणमपि च न मत्सरी भवामि भवनियुतेन न जातु ईर्ष्यमासीत् ।
सद अहु परितृप्त पिण्डपाते सकल निमन्त्रण वर्जितान्यशेषा
बहुश्रुत श्रुतधारि ये भवन्ति गाथ इतो धरये चतुष्पदां पि ।
ते मयि सद सत्कृता अभूवन् परम निरुत्तर प्रेम संजनित्वा
बहुविधमनन्त दानु दत्तं तथपि च रक्षितु शीलु दीर्घरात्रम् ।
पूज बहु कृता विनायकेषु इमु वरु शान्त समाधिमेषता मे
पृथु विविध अनन्त लोकधातून् मणिरतनैः परिपूर्य दानु दद्यात् ।
इतु धरयि समाधितश्च गाथाम् इमु तत्पुण्य विशिष्यते उदारम्
यावत् पृथु केचिदस्ति पुष्पा तथरिव गन्ध मनोरमा उदाराः ।
तेहि जिनु महेय्य पुण्यकामा बहुमपि कल्प अनन्त अप्रमेयान्
यावत् पृथु केचिदस्ति वाद्या तथ बहु भोजन अन्नपानवस्त्राः ।
तेहि जिनु महेय्य पुण्यकामा बहुमपि कल्प अनन्त अप्रमेयान्
(वैद्य 16)
यश्च नरु जनित्व बोधिचित्तम् अहु जिनु भेष्यु स्वयंभु धर्मराजः ।
गाथमिमु धरे समाहितैकां ततो विशिष्यते पुण्यमुदारम्
यावत पृथु गङ्गवालिकाः स्युस्तावत कल्प भणेय आनुशंसा ।
न च परिक्षय शक्यु कीर्त्यमाने बहुतर पुण्यसमाधि धारयित्वा
तस्मात्तर्हि कुमार बोधिसत्त्वेन् महासत्त्वेन उद्ग्रहीतव्यो धारयितव्यो वाचयितव्यः पर्यवाप्तव्यः । उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य अरणाभावनायोगमनुयुक्तेन च भवितव्यम् । तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । अथ खलु भगवास्तस्यां वेलायामिमा गाथा अभाषत -
तस्माच्छ्रुत्वेति बुद्धानामानुशंसान् सुभद्रकान् ।
क्षिप्रमुद्दिशथा एतं समाधिं बुद्धवर्णितम्
त्रिसप्ततिबुद्धकोट्यः पूर्वजातिषु सत्कृताः ।
सर्वेहि तेहि बुद्धेहि इदं सूत्रं प्रकाशितम्
महाकरुणजेतारमिदं सूत्रं निरुच्यते ।
बाहुश्रुत्यस्मि शिक्षित्वा बुद्धधर्मा न दुर्लभाः
भेष्यन्ति पश्चिमे काले निर्वृते लोकनायके ।
बहु असंयता भिक्षु बाहुश्रुत्ये अनर्थिकाः
शीलस्य वर्णं वक्ष्यन्ति शीलेन च अनर्थिकाः ।
समाधिवर्णं वक्ष्यन्ति समाधिय अनर्थिकाः
प्रज्ञाय वर्णं वक्ष्यन्ति प्रज्ञाय च अनर्थिकाः ।
विमुक्त्या बहु भाषन्ते विमुक्त्या च अनर्थिकाः
चन्दनस्य यथा कश्चिद् भाषते पुरुषो गुणान् ।
ईदृशं चन्दनं नाम गन्धजातं मनोरमम्
अथान्यः पुरुषः कश्चिदेवं पृच्छेत तं नरम् ।
गृहीत चन्दनं किंचिद् यस्य वण प्रभाषसे
(वैद्य 17)
स नरं तं प्रतिब्रूयाद् गन्धवर्णं ब्रवीम्यहम् ।
जीविकां येन कल्पेमि तं च गन्धं न वेद्म्यहम्
एवं योगे ऽप्ययुक्तानां शीलवर्णेन जीविका ।
पश्चिमे भेष्यते काले शीलं चैषां न भेष्यते
एवं योगे ऽप्ययुक्तानां समाधिवर्णेन जीविका ।
पश्चिमे भेष्यते काले समाधिश्चैषां न भेष्यते
एवं योगे ऽप्ययुक्तानां प्रज्ञावर्णन जीविका ।
भेष्यते पश्चिमे काले प्रज्ञा चैषां न भेष्यते
एवं योगे ऽप्ययुक्तानां विमुक्तिवर्णेन जीविका ।
भेष्यते पश्चिमे काले विमुक्तिश्चैषां न भेष्यते
यथ पुरुषु दरिद्रु कश्चिदेव सचे परिभूतु भवेन्महाजनस्य ।
स च लभति निधानु पश्चकाले धनपति भूत्व जनान सत्करेय्या
एवमिमु न समाधि याव लब्धो न च बहुमतो भवतीह बोधिसत्त्वः ।
मरुमनुजकुम्भाण्डराक्षसा नो यथ पुरुषु दरिद्रु अर्थहीनः
यद पुनरिय लब्ध भोति भूमी अतुलियु धर्मनिधानु पण्डितेन ।
मरु मनुज स्पृहं जनेन्ति तत्र स च धनु देति निरुत्तरं प्रजानाम्
तस्म इमि श्रुणित्व आनुशंसां परमप्रणीतयः कीर्तिता जिनेन ।
सर्व जहिय ज्ञात्रलाभसौख्यमिमु वरमुद्दिशथा समाधि शान्तम्
ये केचि बुद्धा दिशता सुनिर्वृता अनागता ये ऽपि च प्रत्युत्पन्नाः ।
सर्वे च शिक्षित्व इह समाधौ बोधिं विबुद्धा अतुलामचिन्तियाम्
(वैद्य 18)
चन्द्रप्रभः कुमारु हृष्टचित्तः पुरतु जिनस्य स्थिहित्व वाच भाषी ।
अहु पुरुषवरस्य निर्वृतस्य सुकिसरि कालि इदं धरिष्ये सूत्रम्
काय अहु त्यजित्व जीवितं च तथपि च सौख्य यदस्ति लोके ।
तत्र अहु महाभये ऽपि काले इमु वरु शान्त समाधि धारयिष्ये
महकरुण जनित्व सत्त्वकाये सुदुखित सत्त्व अनाथ प्राप्त दृष्ट्वा ।
तेष्वहमुपसंहरित्व मैत्रीमिमु वर शान्त समाधि देशयिष्ये
पञ्चशत अनून तस्मिन् काले य उत्थित तत्र समाधिधारकाणाम् ।
पूर्वंगम कुमार तेष आसीदिह वरसूत्रपरिग्रहे उदारे
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0