भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 33

33.1

इति श्रीसमाधिराजे सूत्रधारणानुशंसापरिवर्तो नाम द्वात्रिंशतितमः ॥ 32 ॥
(वैद्य 218)
33 क्षेमदत्तपरिवर्तः ।
अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे अचिन्त्ये अपरिमिते यदासीत् । तेन कालेन तेन समयेन घोषदत्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स खलु पुनः कुमार घोषदत्तस्तथागतो ऽर्हन् सम्यक्संबुद्धो अप्रमेयानचिन्त्यानपरिमाणानसंख्येयान् सत्त्वानास्रवक्षयायार्हत्त्वे प्रतिष्ठाप्य परिनिर्वाप्य अप्रमेयानसंख्येयांश्च सत्त्वाननुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे प्रतिष्ठाप्य परिनिर्वृतो ऽभूत् । तेन च कुमार कालेन तेन समयेन राजाभूच्छ्रीघोषो नाम । स तस्य तथागतस्य पूजार्थं तथागतधातुगर्भाणि चतुरशीतिस्तूपकोटिसहस्राणि कारयामास । एकैकस्मिंश्च स्तूपे चतुरशीतिचतुरशीतिदीपार्ध्यकोटीनियुतसहस्राणि प्रतिष्ठापयामास । एवं वाद्यानां तूर्याणां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकानाम् । एकैकत्र च स्तूपे चतुरशीतिचतुरशीतिकोटिसहस्राणि प्रतिष्ठापयामास । इहि हि कुमार स राजा श्रीघोषस्तथागतशरीराणां पूजां कृत्वा चतुरशीत्या बोधिसत्त्वकोटीनियुतशतसहस्त्राणां महान्तं बोधिसत्त्वसंनिपातं कारयित्वा तेषां बोधिसत्त्वानां महासत्त्वानां सर्वसुखोपधानेन पूजायामुद्युक्तो ऽभूत् । सर्वे च ते बोधिसत्त्वा महासत्त्वा धर्मभाणका अभूवन् अनाच्छेद्यप्रतिभानाः समाधिप्रतिलब्धाः असङ्गधारणीप्रतिलब्धा भूतगुणधर्मदेशकाः परिशुद्धधर्मदेशकाः बोधिसत्त्ववशिपारमिप्राप्ताः । तेन च कुमार कालेन तेन समयेन तत्रैव पर्षदि क्षेमदत्तो नाम बोधिसत्त्वो महासत्त्वो ऽभूच्छिशुर्दहरः कृष्णकेशः प्रथमयौवनसमन्वागते भद्रके वयसि वर्तमानः अविक्रीडितावी कामेषु कौमारब्रह्मचारी एकवर्ष उपसंपदा । तेन च कुमार कालेन तेन च समयेन राज श्रीघोषस्तं महान्तं बोधिसत्त्वमहासत्त्वगणमध्येषते स्म यदुत षट्पारमितासंगीतौ । बोधिसत्त्वपिटकमहाधारण्युपायकौशल्यवशिविनयासङ्गाभिनिर्हारार्थं तान् बोधिसत्त्वान् महासत्त्वानध्येष्य रात्रौ संनिषण्णायां
तथागतचैत्यस्य पुरतः तत्रानेकानि दीपार्ध्यकोटिनियुतशतसहस्राणि प्रज्वालितानि । सिक्तसंमृष्टशोधितश्च मण्डलमात्रः कृतो ऽभूत् पुष्पाभिकीर्णो नानाविचित्रशयनासनप्रज्ञप्तः । राजापि श्रीघोषः सान्तःपुरग्रामनगरजनपदपारिषद्यः सपौरो निष्क्रान्तः । वाद्यतूर्यतालावचरपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः परिगृहीताभिस्तथागतचैत्यस्य पूजां कृत्वा सार्धमन्तःपूरेण प्रासादतलमभिरूढो ऽभुद्धर्मश्रवणाय । महती च देवमानुषिका परिषत् संनिपतिता धर्मश्रवणार्थिका । अद्राक्षीत् क्षेमदत्तो बोधिसत्त्वो महासत्वस्तानि च महान्ति दीपार्ध्यकोटीनियुतशतसहस्राणि संप्रज्वलितानि । अवभासेनैव (वैद्य 219) स्फुटमभूत् । सदेवमानुषिकां च जनतां धर्मश्रवणाय संनिपतितां विदित्वा तस्यैतदभूत् - अहमपि महायानसंप्रस्थितः । यन्न्वहमिमं समाधिमाकाङ्क्षस्तथागतपूजां कुर्याम्,यथारूपया पूजया सदेवमानुषासुरलोकश्चित्रीकारप्राप्तो भवेदात्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवेद्धर्मालोकप्राप्तः । इमां च सर्वां तथागतपूजामभिभवेयं येयं श्रीघोषेण राज्ञा कृता । राजा च श्रीघोषश्चित्रीकारप्राप्तो भवेदात्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सान्तःपुरपरिवारः ॥
अथ खलु क्षेमदत्तो बोधिसत्त्व एवंचित्तः प्रीतिसौमनस्यजातस्तं महान्तं जनकायं संनिपतितं विदित्वा धर्मश्रवणिकानां रात्रौ संनिषण्णायां तथागतचैत्यस्य पुरतः स्थित्वा दक्षिणं बाहुं चीवरपरिवेष्टितं कृत्वा तैलप्लुतं कृत्वा दीपयामास । अथ खलु क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्याध्याशयेनानुत्तरां सम्यक्संबोधिं पर्येषमाणस्य तथा प्रदीप्ते दक्षिणे पाणौ नाभूत् चित्तस्य मुखवर्णस्य वा अन्यथात्वम् । अथ खलु कुमारः समनन्तरप्रदीप्ते क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्य पाणौ संप्रज्वलिते संज्योतीभूते एकज्वालाप्राप्ते, अथ खलु तस्यां वेलायां महापृथिवीचालः प्रादुरभूत् । तस्य पाणौ दीप्यमानस्य प्रभया तान्यनेकानि दीपार्ध्यकोटीनयुतशतसहस्राणि ध्यामीकृतान्यभूवन् । सर्वासु च दिक्षु महानवभासो ऽभूत्, येनावभासेन सर्वा दिशो ऽवभासिताः समन्तात् स्फुटा अभूवन् । स प्रीतिसौमनस्यजात इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं वल्गुना मनोरमेण स्वरेण विशिष्टया वाचानुप्रबद्धैः पदव्यञ्जनैर्विस्तरेण सर्वपर्षदं विज्ञापयन् संप्रकाशयति स्म । तत्र द्वादश सहस्राणि त्रायत्रिंशत्कायिकानां देवानां संनिपतितानि धर्मश्रवणाय । ते प्रीतिसौमनस्यजाता विविधां दिव्यां पूजामकार्षुः, अप्सरोगणाश्च दिव्याः संगीतीः प्रयोजयामासुः । अद्राक्षीद्राजा श्रीघोषः उपरिष्टात् प्रासादतलगतः स्वजनपुरस्कृतः अन्तःपुरमध्यगतो ऽष्टाङ्गपोषधसमादत्तः क्षेमदत्तं बोधिसत्त्वं महासत्त्वं बाहुनावभासयन्तं सर्वाः प्रभा अभिभूय दिव्यया अतिक्रान्तमानुषिकयावभासितम् । दृष्ट्वा च पुनरस्यैतदभूत् - अभिज्ञाप्राप्तो बतायं क्षेमदत्तो बोधिसत्त्वो महासत्त्वो भविष्यतीति । स तीव्रं प्रेम च प्रसादं च गौरवं च चिपस्थाप्य सपरिवारो महाकुशलमूलपुण्यस्कन्धोपस्तब्धः सार्धमशीत्यान्तःपुरिकाभिस्ततः प्रासादतलादात्मानमुत्प्राक्षिपत् यदुत् क्षेमदत्तस्य बोधिसत्त्वस्य दर्शनाय प्रीतिसंमोदनाय । स गौरवनिर्जातेन कुशलमूलेन दृष्ट एव धर्मे सपरिवारो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगपरिग्रहं प्रतिलभते । स देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगपरिगृहीतः
पुनरेव राजा श्रीघोषः सपरिवारः परिपूर्णाद्धस्तशतसहस्रिकात् प्रासादात् पतितः । न चास्य कायविहेठश्चित्तविहेठो वा अवलीनता वाभूत् ॥
(वैद्य 220)
अथ खलु राजा श्रीघोषः उभौ बाहू प्रगृह्य महता जनकायेन सार्धं महान्तं निर्नादनिर्घोषमाक्रन्द्रं चाकार्षीत् यदुत क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्य बाहुं दह्यमानं दृष्ट्वा संप्रज्वलितम् । स राजा तेन महता जनकायेन सार्धं प्रारोदीदश्रूणि प्रवर्तयमानः ॥
अथ खलु क्षेमदत्तो बोधिसत्त्वो महासत्त्वः राजानं श्रीघोषमामन्त्रयते स्म - किं पुनस्त्त्वं महाराज अनेन महता जनकायेन सार्धं महान्तं निर्नादनिर्घोषमाक्रन्दं कुर्वन् रोदिषि अश्रूणि च प्रवर्तयसि? अथ खलु राजा श्रीघोषः क्षेमदत्तं बोधिसत्त्वं गाथाभिगीतेन प्राभाषत -
क्षेमदत्तं महाप्राज्ञं पण्डितं धर्मभाणकम् ।

अङ्गहीनं विदित्वैनं जनो ऽयं तेन रोदिति

33.2

एतादृशं रूपमिदं तेजोराशिसमुद्गतम् ।
बाहुहीनं विदित्वा हि भूयो ऽहमपि दुःखितः

33.3

यस्त्वया दीपितो बाहुः प्रभा मुक्ता दिशो दश ।
इमे जिह्मीकृता दीता दिव्यया त्वत्प्रभूतया

33.4

प्रकम्पितेयं पृथिवी चित्तं ते न च लीइयते ।
तत उत्पादितं चित्तं नैषो अवरकोविदः

33.5

हस्तशतसहस्रातः प्रासादात् पतितो ह्यहम् ।
सार्धमन्तःपुरेणेह न च मे कायु हिंसितः

33.6

साधु ते ज्ञानमाश्चर्यं साधु चित्तमनुत्तरम् ।
साधु वीर्यं च स्वारब्धं साधुं चाध्याशयो महान्

33.7

यस्य हस्तौ विदह्यन्ते न जात्वस्तीह इञ्जना ।
प्रीतिप्रामोद्यजातश्च भूयो धर्मं प्रभाषते

33.8

पूर्णमास्यां यथा चन्द्रः सूर्यो वासौ नभस्तले ।
सुमेरुगिरिराजो वा एवं शोभसि मारिष

33.9

अहं पि एवं प्रणिधिं परिपूरेय पण्डितः ।
काये प्रेमं जहित्वाहं कुर्यामर्थं च प्राणिनाम्

33.10

धर्मप्रेम्णा च हृष्यामि प्रीइतिर्मे ऽत्र अचिन्तिया ।
यत् पुनो अङ्गहीनो ऽसि तेन मे दुःखमुत्तमम्

33.11

क्षेमदत्तो हि राजानं देवनागेहि पूजितः ।
अनन्तप्रतिभानेन इमा गाथा अभाषत

33.12

नैवं स्यादङ्गहीनो ऽसौ यस्य बाहुर्न विद्यते ।
स तु देवाङ्गहीनः स्याद यस्य शीलं न विद्यते

33.13

(वैद्य 221)
अनेन पूतिकायेन पूजिता मे तथागताः ।
अचिन्तिया दक्षिणीयाः सर्वलोकस्य चेतियाः

33.14

अनन्ता यास्त्रिसाहस्रा परिपूरिताः ।
प्रदद्याल्लोकनाथेभ्यो बुद्धज्ञानगवेषकः

33.15

अस्त्येषा लौकिकी पूजा अन्या पूजा अचिन्तिया ।
ये धर्मान् शून्यान् जानन्ति त्यजन्ते कायजीवितम्

33.16

सत्यवाक्यं करिष्यामि महाराज शृणोहि मे ।
या चेयं जनता सर्वा इमां गाथां विजानथ

33.17

येन सत्येन बुद्धो ऽहं भेष्ये लोकस्य चेतियः ।
तेन सत्येन धरणी षडविकारं प्रकम्पतु

33.18

भाषिता व इयं वाचा धरणी च प्रकम्पिता ।
आश्चर्यमद्भतप्राप्ता देवकोट्यः प्रहर्षिताः

33.19

हर्षिता देवमनुजा बोधिचित्तमुपादयुः ।
प्रस्थिता अग्रयानस्मिन्नप्रमेया अचिन्तियाः

33.20

यात्तकानां कृतो अर्थः क्षेमदत्तेन भिक्षुणा ।
बुद्धानां वर्तते ज्ञानं यत्राक्षयमचिन्तियम्

33.21

येन सत्येन धर्मो ऽसौ बाहुर्नाम न विद्यते ।
तेन सत्येन मे बाहुर्भोति क्षिप्रं यथा पुरा

33.22

येन सत्येन धर्मो ऽसौ क्षेमदत्तो न विद्यते ।
दिशो दश गवेषद्भिः शुन्यत्वान्नोपलभ्यते

33.23

यो ऽपि निश्चरते शब्दस्तं पु शून्यं विजानथ ।
प्रतिश्रुत्कोपमः शब्दो धर्मानेवं विजानथ

33.24

सदा विशारदो भोति शुन्यतायां गतिंगतः ।
तस्य सत्येन वाक्येन सर्वलोको न दह्यते

33.25

यावन्तस्त्रिभवे सत्त्वा ये देवा ये च मानुषाः ।
सर्वज्ञतायास्तेजेन सर्वे भोन्ति समाहिताः

33.26

यावन्त्युपद्रवाः केचिद् ये दिव्या ये च मानुषाः ।
अवैवर्तिकतेजेन सर्वे ते भोन्ति निर्वृताः

33.27

भाषिताश्च इमा गाथा बाहुश्च पुनरुत्थितः ।
क्षेमदत्तस्य कायश्च लक्षणेहि विचित्रितः

33.28

(वैद्य 222)
देवकोटीसहस्राणि अन्तरिक्षे स्थितानि च ।
मन्दारपुष्पैस्तं भिक्षुमोकिरन्ति च तत्क्षणम्

33.29

अमानुष्येहि पुष्पेहि जम्बुद्वीपो ह्ययं स्फुटः ।
अप्सरःकोटिनियुतै संगीत्यः संप्रयोजिताः

33.30

इमं नादं नदन्तस्य क्षेमदत्तस्य तत्क्षणम् ।
बुद्धकोटीसहस्राणि पश्यन्तीदं विकुर्वितम्

33.31

स्वकस्वकेषु क्षेत्रेषु आरोचेत् सुमहायशाः ।
भिक्षूणां भिक्षुणीनां च उपासक उपासिकाम्

33.32

क्षेमदत्तो ह्यसौ भिक्षुः पण्डितः सुमहाबलः ।
येनासौ दीपितो बाहुर्बुद्धज्ञानस्य कारणात्

33.33

तेन क्षेत्रसहस्राणि यथा गङ्गाय वालिकाः ।
ओभासिताः प्रदीपेन कल्पोद्दाह इव स्थिते

33.34

पुष्पचन्दनचूर्णैश्च सर्वक्षेत्राः स्फुटा अभूत् ।
यावद्भूमिमुपादाय जानुमात्रमभूत् स्फुटम्

33.35

सर्वरत्नैः सर्वपुष्पैर्बुद्धक्षेत्रमभूत् स्फुटम् ।
क्षेमदत्तस्य पूजायै नागा वर्षन्ति मौक्तिकम्

33.36

सर्वरत्नामयैर्व्यूहैरिदं क्षेत्रमलंकृतम् ।
संस्तृतं रत्नमुक्ताभिओः क्षेमदत्तस्य पूजया

33.37

देवा नागाश्च यक्षाश्च किन्नराप्सरमहोरगाः ।
प्रस्थिता अग्रबोधीये यथा गङ्गाय वालिकाः

33.38

शाक्यसिंहो ऽपि संबुद्धो गृध्रकूटस्मि पर्वते ।
पुरतो भिक्षुसंधस्य सिंहनादं नदी जिनः

33.39

क्षेमदत्तो ऽहमभवं श्रीघोषो ऽप्यजितो ऽभवत् ।
कल्पकोटीसहस्राणि चरन् संबोधिचारिकाम्

33.40

सहदर्शनेन भिक्षुस्य क्षेमदत्तस्य तत्क्षणम् ।
अचिन्त्याभिस्तदा स्त्रीभिः स्त्रीभावो विनिवर्तितः

33.41

व्याकृतास्ते नरेन्द्रेण नास्ति तेषां विनिवर्तना ।
स्वयंभुवो भविष्यन्ति सर्वे लोकविनायकाः

33.42

श्रुत्वा सूत्रमिदं विद्वान् संलेखगुणदर्शनम् ।
काये प्रेम न कुर्वीत इह धर्मे सुशिक्षितः

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc