भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 34

34.1

इति श्रीसमाधिराजे क्षेमदत्तपरिवर्तो नाम त्रयस्त्रिंशतितमः ॥ 33 ॥
(वैद्य 223)
34 ज्ञानावतीपरिवर्तः ।
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन इमं समाधिमाकाङ्क्षता क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन कुशलमूले प्रतिष्ठिते धर्मदानेन वा आमिषदानेन वा योगः करणीयः । तेन बोधिसत्त्वेन महासत्त्वेन तद्दानं चतुसृभि परिणामनाभिः परिणामयितव्यम् । कतमाभिश्चतसृभिः? यदुत यैरुपायकौशल्यैस्तैर्बुद्धैर्भगवद्भिरनुत्तरा सम्यक्संबोधिरभिसंबुद्धा, तेषामुपायकौशल्यानां प्रतिलम्भायेदं दानकुशलमूलमवरोपयामि । अयं प्रथमः परिणामः । येभ्यः कल्याणमित्रेभ्यो ऽन्तिकात्तान्युपायकौशल्यानि शृणुयामुद्गृह्णीयां पर्यवाप्नुयां धारयेयम्, तैरनुत्तरा सम्यक्संबोधिरभिसंबुध्यते । तैर्यैः कल्याणमित्रैः सार्धं समवधानं भवेत्, एवमेतद्दानकुशलमूलमवरोपयामि । अयं द्वितीयः परिणामः । ये भोगप्रतिलाभाः सर्वलोकोपजीव्या भवेयुस्तैर्मे भोगप्रतिलाभैः समवधानं भवेत्, एवमिदं कुशलमूलवरोपयामि । अयं तृतीयः परिणामः । य आत्मभावप्रतिलाभः द्वाभ्यामनुग्रहाभ्यां सत्त्वाननुगृह्णीयादामिषानुग्रहेण च धर्मानुग्रहेण च, तस्य मे आत्मभावस्य प्रतिलम्भो भवेत्, एवमिदं कुशलमूलवरोपयामि । अयं चतुर्थः परिणामः । आभिः कुमार चतसृभिः परिणामनाभिर्बोधिसत्त्वेन महासत्त्वेन तानि कुशलमूलानि परिणामयितव्यानि ॥
पुनरपरं कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता गृहीणा वा प्रव्रजितेन वा क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन शीलवन्तो गुणवन्तः प्रज्ञावन्तो बोधिसत्त्वा महासत्त्वाः सेवितव्या भजितव्याः पर्युपासितव्या अशाठ्येन । यो ऽस्य समाधेर्धारको भिक्षुर्बोधिसत्त्वो महासत्त्वो भवेत्,स च स्यादाबाधिको बाढग्लानः, तेन स्वमांसशोणिअतेनापि स भिक्षुस्तस्मादाबाधाद् व्युत्थापयितुमुत्सोढव्यः । अध्याशयसंपन्नेन कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षत क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनाविकम्पमानेन विशारदेन स्वकं मांसशोणितमपि परित्यज्य धर्मभाणको भिक्षुराबाधाद् व्युत्थापयितव्यः । तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यम् ॥
भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे यदासीत् तेन कालेन तेन समयेनाचिन्त्यप्रणिधानविशेषसमुद्गतराजो नाम तथागतो ऽहन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स खलु पुनः कुमार अचिन्त्यप्रणिधानविशेषसमुद्गतराजस्तथागतो ऽर्हन् सम्यक्संबुद्धो यस्मिन्नेव दिवसे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्तत्रैव दिवसे परिहते अप्रमेयानसंख्येयान् बुद्धनिर्मितान् निर्माय अपरिमाणानां च सत्त्वानां विनयं कृत्वा
(वैद्य 224) आस्रवक्षयायार्हत्त्वे प्रतिष्ठाप्य अपरिमाणांश्च सत्त्वाननुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे प्रतिष्ठाप्य तत्रैव दिवसे परिनिर्वृतो ऽभूत् । तस्य खलु पुनर्भगवतः परिनिर्वृतस्य चतुरशीतिः वर्षकोटीनयुतशतसहस्राणि सद्धर्मो ऽतिष्ठत् । तस्य च भगवतो ऽचिन्त्यप्रणिधानविशेषसमुद्गतराजस्य तथागतस्य शासनान्तर्धानकालसमये पश्चिमायां पञ्चशत्यां वर्तमानायां बहवो भिक्षवः प्रादुर्भूता उपलम्भदृष्टयः । तेषामेवंरूपाः सूत्रान्ता न रोचन्ते न चाधिमुच्यन्ते प्रतिबाधन्ते प्रतिक्षिपन्ति । ईदृशानां च सूत्रान्तधारकाणां भिक्षूणां पीडां कुर्वन्तो यावज्जीविताद् व्यवरोपणमकार्षुः । तैरभिसत्काराध्यवसितैरीदृशसुत्रान्तधारकाणां भिक्षुणां सहस्रं जीविताद् व्यवरोपितमभूत् । तेन च पुनः कुमार कालेन तेन समयेन राजाभूद् ज्ञानबलो नाम जम्बुद्वीपेश्वरः सद्धर्मपरिग्राहकः पूर्वप्रणिधानसंपन्नः । तेन खलु पुनः कुमार कालेन तेन समयेन इह जम्बुद्वीपे एको भिक्षुर्धर्मभाणको ऽभूत् तस्य समाधेर्धारको भूतमतिर्नाम्ना तस्य राज्ञः कुलप्रवेशकः कल्याणमित्रो हितैषी अनुकम्पकः अर्थकामः । स चास्य राजा अतृप्तो दर्शनेनाभीक्ष्णप्रतिकाङ्क्षी चाभूद्दर्शनेन धर्मसंकथनोपसंक्रमणपर्युपासनपरिपृच्छाग्रहणधारणवाचनविज्ञापनसमर्थः । स खलु पुनर्धर्मभाणको भिक्षुः सत्त्वानामीर्याचर्याधिमुक्तिधातुवासनाकुशलो ऽभूत् । सत्त्वानामिन्द्रियबलवीर्यविमात्रताज्ञानधातुवासनाकुशलः सत्यसंधिकुशलः विसंधिप्रतिवचनकुशलः अर्थविनिश्चयकुशलः गम्भीरप्रतिभानः सत्त्वानां विनयविधिज्ञः पूर्वाभिलापी स्मितमुखः अपगतभ्रूकुटिमुखो महद्गतचित्तविहारी महाकरूणाभियुक्तः अनभिभूतः सर्वपरप्रवादिभिः । तेन च कुमार कालेन तेन च समयेन राज्ञो ज्ञानबलस्य दुहिता दारिकाभूत् षोडशवर्षा जात्या अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्कलतया समन्वागता ज्ञानावती नाम । तस्याः स भूतमतिर्भिक्षुराचार्यो ऽभूत् कुशलेषु धर्मेषु संदर्शकः समुत्तेजकः संप्रहर्षकः समादापकः । तेन च कुमार कालेन तेन समयेन तस्य धर्मभाणकस्य
भिक्षोर्महाकृष्णवैसर्पः ऊरौ प्रादुरभूत् दुश्चिकित्स्यो दुर्लभभैषज्यः । स वैद्येः ग्लानः प्रतिक्षिप्तो ऽभूत् ॥
अथ खलु राजा सान्तपुरः सपुत्रः सदुहितृपरिवारः तं भिक्षुं ग्लानं विदित्वा प्रारोदीदश्रूणि प्रवर्तयति स्म सार्धमशीत्या स्त्रीसहस्रैः सार्धं पौरैर्नागरैः सार्धं राष्ट्रेण नैगमजानपदैर्गणकमहामात्रैः सार्धममात्यदौवारिकपारिषद्यैः । ते सर्वे तं भिक्षुं ग्लानं विदित्वा प्ररोदन्तः अश्रणि प्रवर्तयामासुः - मा खल्वयं भिक्षुः कालं कुर्यादिति । तेन च कुमार कालेन तेन समयेन राज्ञो ज्ञानबलस्यान्यतरा देवता पुराणसालोहिताभूदनुबद्धा । सा तस्य राज्ञः स्वप्नान्तर्गतस्यापदर्शयति स्म - सचेत् महाराज एतस्य भिक्षोर्नवकेनासंक्लिष्टेन मानुष्येण रुधिरेणैष कृष्णवैसर्प आलिप्येत, नवकं चासंक्लिष्टं मानुषं मासं नानारससंप्रयुक्तं भोजनं दीयेत, एवमेष भिक्षुरस्मादाबाधाद् व्युत्तिष्ठेत । अथ खलु राजा ज्ञानबलस्तस्या रात्र्या अत्ययेन ततः स्वप्नान्तरात् प्रतिविबुद्धो ऽन्तःपुरमध्यगतः इमां स्वप्नप्रकृतिमन्तःपुरायारोचयामास - एवंरूपः स्वप्नो मया दृष्टः । इति हि कुमार ततः स्त्र्यागारात्ततश्च राजकुलान्न काचित् स्त्री उत्सहते तस्य (वैद्य 225) भिक्षोस्तद्भैषज्यं दातुम् । ज्ञानावत्यपि राजदुहिता इममीदृशमेव स्वप्नमद्राक्षीत् । दृष्ट्वा च पुनः प्रतिविबुद्धा अन्तःपुरमध्ये इमामेव स्वप्नप्रकृतिं मातॄणां परिवारस्य चारोचयति स्म । न च काचिदुत्सहते स्त्री तस्य भिक्षोरेतद् भैषज्यं दातुम् ॥

अथ खलु ज्ञानवती राजदुहिता तुष्टा उदग्रा आत्तमनस्का प्रमुदिता प्रीतिसौमनस्यजाता एवं व्यवसायमकार्षीत् - यन्न्वहमेतद् भैषज्यं स्वकाच्छरीराद् यथोपदिष्टं नवं रुधिरं नवं च मांसं दद्याम् । अहमेवेह राजकुले सर्वदहरा च सर्वतरुणी च असंक्लिष्टकायवाङ्भनस्कर्मा च । असंक्लिष्टं ज्ञानमेषामि असंक्लिष्टस्य धर्मभाणकस्य स्वशरीराद रुधिरं च मांसं चोपनामयिष्यामि । अप्येव नामैष भिक्षुरस्मादाबाधाद् व्युत्तिष्ठेत । अथ खलु सा ज्ञानवती राजदुहिता स्वकमावासं गत्वा तीक्ष्णं शस्त्रं गृहीत्वा धर्मान्तर्गतेन मानसेन स्वकमूरुमांसं छित्त्वा नानारससंप्रयुक्तं प्रणीतमभिसंस्कृत्य लोहितं च प्रगृह्य तं चाचार्यं प्रवेश्य राज्ञो ज्ञानबलस्य पुरतो निषद्य लोहितेन तं विसर्पमालेपयित्वा तेन च स्वभिसंस्कृतेन भोजनेन संतर्पयति । अथ खलु स भिक्षुरजानन्नपरिबुध्यमानः अपरिशङ्कमानस्तद्भक्तं परिभुक्तवान् । समनन्तरपरिभुक्ते च तस्मिन्नाहारे तस्य भिक्षोः सर्वास्ता वेदना प्रतिप्रस्रब्धाः, सर्वश्च व्याधिरपगतः । तेन विगतपरिदाहेन सर्वसुखसमर्पितेन तथा धर्मो देशितो यथा ततो ऽन्तःपुरात्ततश्च नगरजनपदराष्ट्रसंनिपाताद् द्वादशानां प्राणिसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि ॥
अथ खलु राजा ज्ञानबलः स्वकां दुहितरं गाथाभिरध्यभाषत -
कुतस्त्वया शोणितु लब्धु दारिके कुतो इदं आहृतु मांस मानुषम् ।
आहारु यः साधितु ते ऽद्य धीते येनो सुखीयं कृतु धर्मभाणकः

34.2

हतो ह्ययं वाथ मृतो ऽथ लब्धो यत् साधितं नानरसेहि व्यञ्जनम् ।
कुतश्च ते शोणितु लब्धु दारिके येनो अयं मोचितु व्याधि पापकः

34.3

पितुः श्रुणित्वा वचनं च दारिका ज्ञानावती तस्य इदं ब्रवीति ।
अलीनचित्ता च गिरं प्रभाषते शृणुष्व ताता यदहं ब्रवीमि ते

34.4

दृष्टस्तात मया स्वप्नो देवताया निदर्शितः ।
शृणुष्व मे भूमिपते भूतमर्थं विजानथ

34.5

(वैद्य 226)
सा देवता ममाविचन्मानुषं मांसशोणितम् ।
यो दद्यादस्य भिक्षुस्य व्याधेर्मुच्येत् स पापकात्

34.6

मया चोत्थाय शय्यातः प्रविश्यान्तःपुरं नृप ।
स्वप्नस्तदायमाख्यातो ज्येष्ठिकानां हि मातृणाम्

34.7

चेटिकानां मयाख्यातं का शक्ता कर्तुमीदृशम् ।
मानुषं शोणितं मांसं रससिद्धं सुसंस्कृतम्

34.8

भोजनं च प्रदातव्यं शोणितेन च लेपनम् ।
कृष्णवैसर्पतो एष कथं भिक्षुर्विमुच्यते

34.9

यदि क्रिया न क्रियते क्षिप्रमेतेन व्याधिना ।
कालं कुर्यादयं भिक्षुर्भैषज्येन विनेति वा

34.10

त्रिभवे को न सत्त्वस्त्याजयेत् स्वमांसशोणितम् ।
इमं दृष्ट्वा न को विद्वान् कुर्यात् कायस्मि निश्रयम्

34.11

अन्तःपुरस्यो प्रतिवेदयाम्यहं न एक नारीपि भणाति दास्ये ।
प्रियश्च मे भिक्षुः प्रियश्च आत्मा बोध्यर्थु त्यक्तं मय मांसशोणितम्

34.12

तेषां न कायेस्मि च भक्ति निश्रिता प्रेमापि नैवात्मनि चाणुमात्रम् ।
त्यक्त्वापि चात्मानु न भोति दुर्मनाः ये बोधि प्रार्थेन्ति शिवामशोकाम्

34.13

अन्तःपुरं ततः श्रुत्वा सर्वं तद्विस्मितं अभूत् ।
न चात्रोत्सहते काचिदेनां योजयितुं क्रियाम्

34.14

ततो मे नामितं चित्तं भिक्षोर्दास्यामि भोजनम् ।
स्वानि मांसान्यहं छित्त्वा शोणितेन च लेपनम्

34.15

स्वकमूरुं मया छित्त्वा गृहीतं मांसशोणितम् ।
मांसपेशी मया पक्वा नानारससुसंस्कृता

34.16

भिक्षोस्तस्यातुरस्याहं दास्यामि पितुरग्रतः ।
भोजनं मानुषं मांसं शोणितेन च लेपनम्

34.17

शृणोहि मह्यं वचनं नराधिपा मनुष्यमांसस्मि अविद्यमाने ।
(वैद्य 227)
छित्त्वा स्वमांसानि मयोरुतो नृपा साधेत्व दत्तानिम धर्मभाणके

34.18

एषो मयानुत्तरबोधि अर्थे स्वकात्त कायात्त कृतो महार्थः ।
भिक्षुश्च मुक्तः कृतु निर्विकारो मया च पुण्यं कृतमप्रमेयम्

34.19

राजाप्यवोचद्दुहितां कथं ते छिद्यन्ति कायात्तु स्वकात्तु मांसे ।
भैषज्ययोगे क्रियमाणि दारिके मा ते अभूद् दुःख शरीरवेदना

34.20

स राजधीता मतिमान् विशारदा तमालपी राज शृणु नराधिपा ।
श्रुत्वा च तत्र प्रतिपद्य योनिशो अचिन्तियः कर्मविपाकु तादृशः

34.21

पापेन कर्मेण कृतेन ताता निरये ऽपि सत्त्वा प्रपचन्ति दारुणे ।
निर्मांस भूत्वा च समांस भोन्ति पश्येतु कर्माण फलं अचिन्तियम्

34.22

पापेन कर्मेण निर्मांसशोणिताः क्षणेन चो भोन्ति समांसशोणिताः ।
किं वा पुना तत् कुशलेन कर्मणा अधिमुक्तितो जायति मांसशोणितम्

34.23

छिद्यन्ति मांसे न ममासि वेदना आहारि मे शोणितु नास्ति इञ्जना ।
न धर्मकायस्य व्रणो न छिद्रं यदि सर्वु छिद्येयु मम स्वमांसम्

34.24

प्रीतिं मया धर्मि परां जनित्वा छित्त्वा प्रदत्तं स्वकमूरुमांसम् ।
न चो ममा तात व्रणेन दुःखं जानामि कायो यथपूर्वमासीत्

34.25

(वैद्य 228)
औदुम्बरं पुष्पु यथैव ताता बहुकल्पकोटीषु कदाचि दृश्यते ।
एमेव एतादृश धर्मभाणको कदाचि दृश्यन्तिह जम्बुद्वीपे

34.26

यथैव जाम्बूनद निष्कु भासते पश्यन्त सत्त्वा न वितृप्तिमेन्ति ।
एमेव एतादृश धर्मभाणकान् दृष्ट्वा न तृप्यन्तिह देवमानुषाः

34.27

पीत्वा यथाच्छं सलिलं जनस्य तृषाभिभूतस्य तृषा विगच्छति ।
एमेव एते विदु धर्मभाणका धर्मामृतैस्तृष्ण विनेन्ति प्राणिनाम्

34.28

सुत्यक्तमेतन्मय मांसशोणितं यद्दत्तु भिक्षुस्य गिलानकस्य ।
विसर्पु शान्तश्च स धर्मभाणके कृतं मया गौरवु बुद्धवर्णितम्

34.29

चारित्रवन्तस्य बहुश्रुतस्य इमं समाधीवरधारकस्य ।
यन्मे तु त्यक्तं स्वकमात्ममांसमेतेष धर्माण भवेय्य लाभिनी

34.30

यथैव गन्धः सुरभी मनोरमः कालानुसारी शुभ चन्दनस्य ।
प्रवाति गन्धो दशसु दिशासु एमेव गन्धोपम धर्मभाणकाः

34.31

यथैव मेरुर्दिशतासु दृश्यते समन्तप्रासादिकु दर्शनीयः ।
अवभासयन्तो दिशतासु रोचते तथैव मेरूपम धर्मभाणकाः

34.32

यथैव स्तूपं पतमानु कश्चिद् व्युत्थापयेत् संस्करि पण्डितो नरः ।
यस्तत्र स्तूपे ऽपि प्रसादु कुर्याद् व्युत्थापितो येन स तस्य हेतुः

34.33

(वैद्य 229)
एमेवयं धर्मस्तूपो गिलानको विमोचितो लोहितलेपनेन ।
स्वकेन मांसेन च धर्मगौरवाद् दीपो मया दीपितु जम्बुद्वीपे

34.34

एषो ऽकरिष्यद् यदि भिक्षु कालं समाधिशब्दो ऽपिह जम्बुद्वीपे ।
निरुद्धु सत्त्वान सदाभविष्यत् चिकित्सिते ऽस्मिन् स समाधि लब्धः

34.35

सर्वस्य लोकस्य परित्राणु भिक्षुरन्धस्य लोकस्य च चक्षुदायकः ।
रागस्य दोषस्य मोहस्य चैव चिकित्सको ऽयं मम वैद्यराजः

34.36

महद्गते चित्ति सदा प्रतिष्ठितः प्रमाणु चर्याय न तस्य लभ्यते ।
सुविनिश्चितार्थेषु पदेषु शिक्षितो अनाभिभूतश्च परप्रवादिभिः

34.37

न मह्य भूयो विनिपाततो भयं स्त्रीत्वं पुनर्मे न च भूयु भेष्यति ।
सहस्रकल्पान च कोटियो भुयो कृत्वा परं गौरवु धर्मभाणके

34.38

यो बुद्धक्षेत्रान् यथ गङ्गवालिकाः रतनान पूर्णान् ददि नायकानाम् ।
यश्चैव पादाङ्गुलिमेक दद्यादिदं ततः पुण्यु विशिष्यते परम्

34.39

सा दारिका कालमितश्च कृत्वा अद्राक्षि बुद्धान सहस्रकोट्यः ।
सर्वेष चो शासनि प्रव्रजित्वा इमं वरं शान्तु समाधि देशयी

34.40

सर्वेष तेषां द्विपदोत्तमानां परिनिर्वृतानां चरमिस्मि काले ।
(वैद्य 230)
प्रव्रज्यलाभिन्यभु नित्यकालमसंकिलिष्टाः सुगतान पुत्रकाः

34.41

दीपप्रभस्याथ तथागतस्य चरित्व सा शासनि ब्रह्मचर्यम् ।
स्त्रीभावु तस्मिन् विनिवर्तयित्वा अभूषि भिक्षुस्तद धर्मभाणकः

34.42

मैत्रेय ज्ञानंबलु सो नरेन्द्रः सद्धर्मपरिग्राहकु नित्यकालम् ।
दीपंकरो ऽसौ अभूद्धर्मभाणको अहं च आसं तद राजधीता

34.43

स्वकेन मांसेन च शोणितेन चो उपस्थितो मे तद धर्मभाणकः ।
शाठ्यं च सर्वं परिवर्जयित्वा इमं समाधिं प्रतिकाङ्क्षता तदा

34.44

येभी तदा रोदितु भिक्षु दृष्ट्वा गिलानकं पीडितु वेदनाभिः ।
अविवर्तिकास्ते सद सर्वि भूवन् न जातु याता विनिपातभूमिम्

34.45

नाभूषि तेषां सद अक्षिरोगो न शीर्षरोगो न च कर्णरोगः ।
न घ्राणरोगो न च जिह्वरोगो न च दन्तशूलं न कदाचिदासीत्

34.46

समन्तप्रासादिकु भोन्ति नित्यं शिरीय तेजेन ज्वलन्तकायाः ।
द्वात्रिंशकेतुशतपुण्यलक्षणा उपस्थितो यैस्तद भिक्षु ग्लानकः

34.47

(वैद्य 231)
मह्यं च ते शासनि प्रव्रजित्वा प्रलुज्यमानानिमु बुद्धबोधिम् ।
धारित्व ते गञ्जु तथागतानां द्रक्ष्यन्ति बुद्धान सहस्रकोटियो

34.48

सुसंगृहीत्वानिम बुद्धबोधिं धारेत्व नित्यं च हि गौरवेण ।
ते अर्थु कृत्वा विपुलं प्रजानां द्रक्ष्यन्ति अक्षोभ्य नराणमुत्तमम्

34.49

श्रुत्वा च ते चर्य निरुत्तरामिमां लप्स्यन्ति प्रीतिं चरियां निरामिषाम् ।
श्रुत्वा च ते आत्मन पूर्वचर्यां काहिन्ति बुद्धान उदारपूजाम्

34.50

दृष्टा च भिक्षून् विदु शीलवन्तो निःशाठियेनो सद सेवितव्याः ।
अखिलं च दोषं च विवर्जयित्वा सेवेत भिक्षुं तद धर्मभाणकाः

34.51

आघातु क्रोधं च विवर्जयित्वा पूजेथ पुत्रान् मम धर्मशासने ।
मा अन्धभूता बहुकल्पकोटियो विनिपातप्राप्ताश्च भवेत दुःखिताः

34.52

न शीलु त्रायेत श्रतं च तस्य न ध्यानु त्रायेन्न अरण्यवासः ।
तदा नु त्रायेन्न च बुद्धपूजा व्यापादु कृत्वान परस्परेण

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc