भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 32

32.1

इति श्रीसमाधिराजे सर्वधर्मस्वभावनिर्देशपरिवर्तो नामैकत्रिंशतितमः ॥ 31 ॥
(वैद्य 195)
32 सूत्रधारणानुशंसापरिवर्तः ।
अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन महाभिज्ञापरिकर्म धारयितुकामेनायं समाधिर्धारयितव्यः उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो भावयितव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्य । कतमच्च तत् कुमार सर्वधर्माणामभिज्ञापरिकर्म? यदुत सर्वधर्माणामपरिग्रहः अपरामर्शः शीलस्कन्धस्यामन्यना समाधिस्कन्धस्य अप्रचारः प्रज्ञास्कन्धस्य विवेकदर्शनं विमुक्तिस्कन्धस्य यथाभूतदर्शनं विमुक्तिज्ञानदर्शनस्कन्धस्य स्वभावशून्यतादर्शनं सर्वधर्माणाम् । ययाभिज्ञया समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वसमाधिविकुर्वितानि विकुर्वन् सर्वसत्त्वानां धर्मं देशयति । इदमुच्यते कुमार महाभिज्ञापरिकर्मेति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
महाभिज्ञापरिकर्म अविवादेन देशितम् ।
विवादे यस्तु चरति सोद्गृह्णन् न विमुच्यते

32.2

अभिज्ञा तस्य सा प्रज्ञा बौद्धं ज्ञानमचिन्तियम् ।
उद्ग्रहे यः स्थितो भोति ज्ञानं तस्य न विद्यते

32.3

बहवो ऽचिन्तिया धर्मा ये शब्देन प्रकाशिताः ।
यस्तत्र निविशेच्छब्दे संघाभाष्यं न जानति

32.4

संघाभाष्यमजानानः किं संघाय तु भाषितम् ।
अधर्मं भाषते धर्मं धर्मतायामशिक्षितः

32.5

लोकधातुसहस्रेषु ये मया सूत्र भाषिताः ।
नानाव्यञ्जन एकार्था न शक्यं परिकीर्तितुम्

32.6

एकं पदार्थं चिन्तेत्वा सर्वे ते भोन्ति भाविताः ।
यावन्तः सर्वबुद्धेहि बहु धर्माः प्रकाशिताः

32.7

नैरात्म्यं सर्वधर्माणां ये नरा अर्थकोविदाः ।
अस्मिन् पदे तु शिक्षित्वा बुद्धधर्मा न दुर्लभाः

32.8

सर्वधर्मा बुद्धधर्मा धर्मतायां य शिक्षिताः ।
ये धर्मतां प्रजानन्ति न विरोधेन्ति धर्मताम्

32.9

(वैद्य 196)
सर्वा वाग् बुद्धवागेव सर्वशब्दो ह्यवस्तुकः ।
दिशो दश गवेषित्वा बुद्धवाग् नैव लभ्यते

32.10

एषा वाचा बुद्धवाचा गवेषित्वा दिशो दश ।
न लभ्यते ऽनुत्तरैषा न लब्धा न च लप्स्यते

32.11

अनुत्तरा बुद्धवाचा बुद्धवाचा निरुत्तरा ।
अणुर्न लप्स्यते ऽत्रेति तेनोक्तेयमनुत्तरा

32.12

अणु नोत्पद्यते धर्मो अणुशब्देन देशितः ।
अणुमात्रो न चो लब्धो लोके शब्देन देशितः

32.13

अलब्धिर्लब्धधर्माणां लब्धौ लब्धिर्न विद्यते ।
य एवं धर्म जानन्ति बुध्यन्ते बोधिमुत्तमाम्

32.14

ते बुद्धानुत्तरां बोधिं धर्मचक्रं प्रवर्तयी ।
धर्मचक्रं प्रवर्तित्वा बुद्धधर्मान् प्रकाशयी

32.15

बोधिसत्त्वाश्च बुध्यन्ते बुद्धज्ञानमनुत्तरम् ।
तेन बुद्धा इति प्रोक्ता बुद्धज्ञाना प्रबोधनात्

32.16

अभावो अप्रणिहितमानिमित्तं च शून्यता ।
एभिर्विमोक्षद्वारेहिर्द्वारं बुद्धः प्रकाशयी

32.17

चक्षुः श्रोत्रं च घ्राणं च जिह्वा कायो मनस्तथा ।
एते शून्याः स्वभावेन संबुद्धैः संप्रकाशिताः

32.18

एतादृशानां धर्माणां स्वभावं यः प्रजानति ।
नासौ विवादं कुरुते ज्ञात्वा धर्माण लक्षणम्

32.19

एष गोचरु शूराणां बोधिसत्त्वान तायिनाम् ।
न ते कदाचित् काङ्क्षन्ति जानन्ते धर्मशून्यताम्

32.20

धर्मस्वभावं जानाति बुद्धस्तेनोच्यते हि सः ।
बोधये विनयी सत्त्वानप्रमेयानचिन्तियान्

32.21

सत्कृतो बुद्धशब्देन शीलशब्देन सो कृतः ।
शीलशब्दो बुद्धशब्द उभौ तावेकलक्षणौ

32.22

यावन्तः कीर्तिताः शब्दा हीन उत्कृष्टमध्यमाः ।
समाहितैकशब्देन बुद्धशब्देन देशिताः

32.23

न बुद्धधर्मा देशस्था न प्रदेशस्थ कीर्तिताः ।
न चोत्पन्ना निरुद्धा व एकत्वेन पृथक् तथा

32.24

(वैद्य 197)
न ते नवाः पुराणा वा न तेषामस्ति मन्यना ।
न च नीला न पीता व नावदता न लोहिताः

32.25

अनाभिलाप्या अग्राह्या एवं घोषेण देशिताः ।
न च घोषस्य सा भूमिः प्रातिहार्यं मुनेरिदम्

32.26

अनास्रवा हि ते धर्मा- नेन उच्यन्ति हि ।
स्तृता अपर्यापन्ना दशदिशे एषा बुद्धान देशना

32.27

परिनिर्वृतस्य बुद्धस्य दृश्यते बुद्धविग्रहः ।
तत्स्थानं मनसीकुर्वन् प्रातिहार्यं स पश्यति

32.28

न चासौ लभ्यते सत्त्वो निर्वृतिर्येन स्पर्शिता ।
एवं च दिशितो धर्मो बहवः सत्त्व मोचिताः

32.29

यथा चन्द्रश्च सूर्यश्च कांसपात्रीय दृश्यते ।
न च याति स्वकं बिम्बमेवं धर्माण लक्षणम्

32.30

प्रतिभासोपमा धर्मा यैर्हि ज्ञाता स्वभावतः ।
नैव ते रूपकायेन पश्यन्ते बुद्धविग्रहम्

32.31

अविग्रहो ह्ययं धर्मो विग्रहो नात्र कश्चन ।
अविग्रहश्च यो धर्म एष बुद्धस्य विग्रहः

32.32

धर्मकायेन पश्यन्ति ये ते पश्यन्ति नायकम् ।
धर्मकाया हि संबुद्धा एतत् संबुद्धदर्शनम्

32.33

प्रतीत्य प्रतिनिर्दिष्टा अप्रति प्रतिदेशिताः ।
इमां गतिं विजानीत श्रामण्येन हि ये ऽर्थिकाः

32.34

अप्राप्ति प्राप्ति निर्दिष्टा सत्त्वानां ज्ञात्व आशयम् ।
यो संधाभाष्योत्तरते न सो केन विहन्यते

32.35

यस्य भोति मया प्राप्तमप्राप्तं तेन चोच्यते ।
येन श्रामण्यमप्राप्तं तेन श्रमण उच्यते

32.36

कथं गम्भीरिमे धर्मा वक्ष्यन्ते ये न शिक्षिताः ।
ते च गम्भीरनामेन न शक्यं परिकीर्तितुम्

32.37

अवस्तुकाः पञ्च स्कन्धा अभूत्वा एत उत्थिताः ।
नात्र उत्थाप्यको ह्यस्ति यस्य स्कन्धाः समुत्थिताः

32.38

यल्लक्षणाः पञ्च स्कन्धाः सर्वधर्मास्तल्लक्षणाः ।
तल्लक्षणास्ते निर्दिष्टा लक्षणं च न विद्यते

32.39

(वैद्य 198)
यथान्तरीक्षं गगनमेवं धर्माण लक्षणम् ।
पूर्वान्तमपरान्तं च प्रत्युत्पन्नं च पश्यन्तः

32.40

अग्राह्यं गगनं प्रोक्तं ग्राह्यमत्र न लभ्यते ।
एष स्वभावो धर्माणामग्राह्यो गगनोपमः

32.41

एवं च देशिता धर्मा न श्रावको विपश्यति ।
यश्चो न पश्यती धर्मं तस्य धर्मा अचिन्तियाः

32.42

अस्वभावा इमे धर्माः स्वभावैषां न लभ्यते ।
योगिनां गोचरो ह्येष ये युक्ता बुद्धबोधये

32.43

य एवं जानाति धर्मान् स न धर्मेषु सज्जते ।
असज्जमानो धर्मेषु धर्मसंज्ञा प्रबोधयी

32.44

विभाविताः सर्वधर्मा बोधिसत्त्वेन तायिना ।
धर्मसंज्ञा विभावित्वा बुद्धधर्मान्न मन्यते

32.45

अमन्यमाना हि सा कोटी कल्पेत्वा कोटि व्याहृता ।
य एवं कोटिं जानाति कल्पकोटिं न मन्यते

32.46

पुरिमां कोटि कल्पित्वा बालः संसारि संसरि ।
न चास्य लभ्यते स्थानं गवेषित्वा दिशो दश

32.47

शून्यं ज्ञात्वा च संसारं बोधिसत्त्वो न सज्जते ।
चरन्ति चैव बोध्यर्थं चरिस्तेषां न लभ्यते

32.48

शकुनानां यथाकाशे पदं तेषां न लभ्यते ।
एवंस्वभावा सा बोधिर्बोधिसत्त्वैश्च बुध्यते

32.49

यथा मायां विदर्शेति मायाकारः सुशिक्षितः ।
नानाप्रकाररूपाणि न च रूपोपलभ्यते

32.50

अलब्धिलब्धिर्नो मन्ये लब्धे लब्धिर्न विद्यते ।
मायोपमं च तज्ज्ञानं न मायायां च तत् स्थितम्

32.51

एवं शून्येषु धर्मेषु बालबुद्धिं विकल्पयेत् ।
विकल्पे चरमाणानां गतयः षट परायणम्

32.52

जातिजरोपगाः सत्त्वा जातिस्तेषां न क्षीयते ।
जातिमरणस्कन्धानां दुःखं तेषामनन्तकम्

32.53

दुःखो जातिसंसारो बालबुद्धीहि कल्पितः ।
कल्पास्तेषां न क्षीयन्ते कल्पकोट्यश्च संसरी

32.54

(वैद्य 199)
अयुक्ताः संप्रयुक्ताश्च कर्मयोगस्मि ते स्थिताः ।
कर्मणस्ते न मुच्यते कर्मोपादानि ये रताः

32.55

कर्मौघे वहतां तेषां कर्म न क्षीयते सदा ।
पुनः पुनश्च म्रीयन्ते मारपक्षे स्थिताः सदा

32.56

माराभिभूता दुष्प्रज्ञाः संक्लिष्टेन हि कर्मणा ।
अनुभोन्ति जातिमरणं तत्रतत्रोपपत्तिषु

32.57

मरणं ते निगच्छन्ति अन्धा बालाः पृथग्जनाः ।
हन्यन्ते च विहन्यन्ते गतिश्चैषां न भद्रिका

32.58

परस्परं च घातेन्ति शस्त्रेभिर्बालबुद्धयः ।
एवं प्रयुज्यमानानां दुःखं तेषां प्रवर्धते

32.59

पुत्रा मह्यं धनं मह्यं बालबुद्धीहि कल्पितम् ।
असतं कर्म कल्पित्वा संसारो भूयु वर्धते

32.60

संसारं वर्धयन्तस्ते संसरन्ति पृथग्जनाः ।
पृथक् पृथक् च गच्छन्ति तेन चोक्ताः पृथग्जनाः

32.61

पृथुधर्मा प्रवक्ष्यन्ति उज्झित्वा बुद्धशासनम् ।
न ते मोक्षं लभिष्यन्ति मारस्य वशमागताः

32.62

कामनां कारणं बालाः स्त्रियं सेवन्ति पूतिकाम् ।
पूतिकां गति गच्छन्ति पतन्ते तेन दुर्गतिम्

32.63

कामान्न बुद्धा वर्णेन्ति नापि स्त्रीणां निषेवणम् ।
महाभयो ऽहिपाशो ऽयमिस्त्रिपाशः सुदारुणः

32.64

विवर्जयन्ति तं धीराश्चण्डमाशीविषं यथा ।
न विश्वसन्ति इस्त्रीणां नैष मार्गो हि बोधये

32.65

भावेन्ति बोधिमार्गं च सर्वबुद्धैर्निषेवितम् ।
भावयित्वा च तं मार्गं भोन्ति बुद्धा अनुत्तराः

32.66

अनुत्तराश्च ते युक्ता भोन्ति लोकस्य चेतियाः ।
अनुत्तरेण ज्ञानेन बुद्धा भोन्ति अनुत्तराः

32.67

पोषधं च निषेवन्ति शीलस्कन्धे समादपी ।
समादपेन्ति बोधाय सत्त्वकोटीरचिन्तियाः

32.68

कुर्वन्ति ते ऽर्थं सत्त्वानामप्रमेयचिन्तियम् ।
ते ते शूरा महाप्रज्ञा ताडेन्त्यमृतदुन्दुभिम्

32.69

(वैद्य 200)
कम्पेन्ति मारभवनं चालेन्ति मारकायिकान् ।
समादपेन्ति बोधाय मारकोटीरचिन्तियाः

32.70

परवादीन्निगृह्णन्ति निर्जिनन्ति च तीर्थिकान् ।
कम्पेन्ति वसुधां सर्वां ससमुद्रां सपर्वताम्

32.71

विकुर्वमाणा कायेभिरनेकर्द्धिविकुर्वितैः ।
निदर्शेन्ति महाप्रज्ञाः प्रातिहार्यानचिन्तियान्

32.72

क्षेत्रकोटी प्रकम्पेन्ति यथा गङ्गाय वालिका ।
पराजिनित्वा ते मारा बोधिं बुध्यन्त्यनुत्तराम्

32.73

निर्मिण्वन्ति च ते वृक्षान् रतनैः सुविचित्रितान् ।
फलपुष्पेहि संयुक्तान् गन्धवन्तान् मनोरमान्

32.74

प्रासादांश्च विमानानि कूटागारान् सहर्षिकान् ।
निर्मिण्वन्ति च ते शूराः पुष्करिण्यो मनोरमाः

32.75

अष्टाङ्गजलसंपन्नाः स्वच्छाः शीता अनाविलाः ।
पिबन्ति ये ततो वारि तिस्रस्तृष्णा जहन्ति ते

32.76

अविवर्त्याश्च ते भोन्ति पीत्वा वारि निरुत्तरम् ।
अनुत्तरेण ज्ञानेन भोन्ति बुद्धा अनुत्तराः

32.77

अनुत्तरां गतिं शान्तां गच्छन्तीति विजानथ ।
इमां गतिमजानन्तः प्रनष्टाः सर्वतीर्थिकाः

32.78

ते च तद्गतिकाः सत्त्वा ये तेषां भोन्ति निश्रिताः ।
पतिष्यन्ति महाघोरामवीचिमपरायणाः

32.79

यास्तत्र वेदना घोरा न शक्यास्ताः प्रकीर्तितुम् ।
अहं च ताः प्रजानामि बोधिसत्त्वाश्च तायिनः

32.80

ये चेह धर्मे काङ्क्षन्ति एवं गम्भीरि दुर्दृशे ।
अभूमिस्तत्र बालानामुपलम्भस्मि ये स्थिताः

32.81

निर्मिण्वन्ति वियूहांस्ते नैकरूपनिदर्शनान् ।
येन ते सर्वि गच्छन्ति बुद्धक्षेत्राननुत्तरान्

32.82

यावन्त्यो बुद्धक्षेत्रेषु रूपनिर्हारसंपदः ।
सर्वास्ता इह दर्शेन्ति बोधिसत्त्वा महर्द्धिकाः

32.83

महाधर्मेण संनद्धा महावीरा महाबलाः ।
महाशून्यार्थवज्रेण प्रहाराणि ददन्ति ते

32.84

रश्मिकोटिसहस्राणि यथा गङ्गाय वालिका ।
कायतो निश्चरन्त्येषां येभिर्लोकः प्रभासते

32.85

(वैद्य 201)
न ते स्त्रीष्वभिरज्यन्ते न च तेषां विरागता ।
विभावितैतेषां संज्ञा इस्त्रिसंज्ञा स्वभावतः

32.86

अशून्या बुद्धक्षेत्रास्ते येषु शूरा भवन्ति ते ।
किं तेषां मारु पापीयानन्तरायं करिष्यति

32.87

दृष्टीकृतेषु ये स्थित्वा बहु बुद्धा विरागिताः ।
व्यापादेन उपस्तब्धा इच्छालोभप्रतिस्थिताः

32.88

सर्वसंज्ञा विभावित्वा संज्ञावैवर्तिये स्थिताः ।
य एवं ज्ञास्यते ज्ञानं बुद्धज्ञानमचिन्तियम्

32.89

पूर्वान्तमपरान्तं च प्रत्युत्पन्नं च पश्यति ।
एवं च देशिता धर्मा न चात्र किंचि देशितम्

32.90

न च ज्ञानेन जानाति न चाज्ञानेन सीदति ।
ज्ञानाज्ञाने विकल्पेत्वा बुद्धज्ञानेति वुच्चति

32.91

विज्ञप्तिवाक्यसंकेतं बोधिसत्त्वः प्रजानति ।
करोति अर्थं सत्त्वानामप्रमेयचिन्तियम्

32.92

संज्ञा संजाननार्थेन उद्ग्रहेण निदर्शिता ।
अनुद्ग्रहश्च सा संज्ञा विविक्तार्थेन देशिता

32.93

यच्चो विविक्तं सा संज्ञा या विविक्ता स देशना ।
संज्ञास्वभावो ज्ञातश्च एवं संज्ञा न भेष्यति

32.94

प्रहास्याम इमां संज्ञां यस्य संज्ञा प्रवर्तते ।
संज्ञा प्रपञ्चे चरति न स संज्ञातु मुच्यते

32.95

कस्येयं संज्ञा उत्पन्ना केन संज्ञा उत्पादिता ।
केन सा स्पर्शिता संज्ञा केन संज्ञा निरोधिता

32.96

धर्मो न लब्धो बुद्धेन यस्य संज्ञा उत्पद्यते ।
इह चिन्तेथ तं अर्थं ततः संज्ञा न भेष्यति

32.97

कदा संज्ञा अनुत्पन्ना कस्य संज्ञा विरुध्यते ।
विमोक्ष चिअतचारस्य कथं तत्र उत्पद्यते

32.98

यदा विमोक्षं स्पृशति सर्व चिन्ता अचिन्तिया ।
अचिन्तिया यदा चिन्ता तदा भोति अचिन्तियः

32.99

चिन्ताभूमौ स्थिहित्वान पूर्वमेव विचिन्तिता ।
सर्वचिन्तां जहित्वान ततो भेष्यत्यचिन्तियः

32.100

(वैद्य 202)
शुक्लधर्मविपाको ऽयमसंस्कारेण पश्यति ।
एकक्षणेन जानाति सर्वसत्त्वविचिन्तितम्

32.101

यथा सत्त्वास्तथा चिन्ता यथा चिन्ता तथा जिनाः ।
अचिन्तियेन बुद्धेन इयं चिन्ता प्रकाशिता

32.102

यो रहो एकु चिन्तेति कदा चिन्ता न भेष्यति ।
न चिन्तां चिन्तयन्तस्य सर्वचिन्ता विगच्छति

32.103

च्युते मृते कालगते यस्य चिन्ता प्रवर्तते ।
चिन्तानुसारि विज्ञानं नासा चिन्तान्तमुच्यते

32.104

ये स्थिता इस्त्रिसंज्ञायां रागस्तेषां प्रवर्तते ।
विभावितायां संज्ञायां न रागेणोपलिप्यते

32.105

इयं चिन्ता महाचिन्ता धर्मचिन्ता निरुत्तरा ।
अनया धर्मचिन्ताय भूतचिन्ता प्रवर्तते

32.106

बहु अचिन्तिया चिन्ता दीर्घरात्रं विचिन्तिता ।
न च चिन्ताक्षयो जातश्चिन्तयित्वा अयोनिशः

32.107

यो ऽसौ चिन्तयते नाम क्षये ज्ञानं न विद्यते ।
न क्षयो भूमिज्ञानस्य क्षयस्यो एष धर्मता

32.108

घोषो वाक्पथ विज्ञप्तिः क्षयशब्देन देशिता ।
निर्विशेषाश्च ते धर्मा यथा ज्ञानं तथा क्षयः

32.109

अनुत्पन्नानिरुद्धाश्च अनिमित्ता अलक्षणाः ।
कल्पकोटिं पि भाषित्वा अनिमित्तेन देशिताः

32.110

सर्वभावान् विभावित्वा अभावे ये प्रतिष्ठिताः ।
न चान्यो दर्शितो भावो नाभावो ऽन्यो निदर्शितः

32.111

विज्ञप्ता भावशब्देन अभावस्य प्रकाशना ।
न चासौ सर्वबुद्धेहि अभावः शक्यु पश्यितुम्

32.112

यो भावः सर्वभावानामभाव एष दर्शितः ।
एवं भावान् विजानित्वा अभावो भोति दर्शितः

32.113

नासौ स्पर्शयितुं शक्यमभावो जातु केनचित् ।
स्पर्शनात्तु अभावस्य निर्वृति एष देशिता

32.114

अहं बुद्धो भवेल्लोके यस्यैषा हो मतिर्भवेत् ।
न जातु भवतृष्णार्तो बोधिं बुध्येत पण्डितः

32.115

न कंचि धर्मं प्रार्थेति बोधिसत्त्वः समाहितः ।
निष्किंचना निराभोगा एषा बोधीति उच्यते

32.116

(वैद्य 203)
बहू एवं प्रवक्ष्यन्ति वयं बोधाय प्रस्थिताः ।
इमां गतिमजानन्तो दूरे ते बुद्धबोधये

32.117

शब्देन देशिता धर्माः सर्वे संस्कार शून्यकाः ।
यश्व स्वभावः शब्दस्य गम्भीरः सूक्ष्म दुर्दृशः

32.118

महाभिज्ञाय निर्देश इदं सूत्रं प्रवुच्चति ।
अर्थाय बोधिसत्त्वानां सर्वबुद्धेहि देशितम्

32.119

प्रतिपक्षा हतास्तेषां यावन्तः सांकिलेशिकाः ।
प्रतिष्ठिता अभिज्ञासु ऋद्धिस्तेषां सुभाविता

32.120

स्थिताः प्रणिधिज्ञानस्मिंस्तच्च ज्ञानं विभावितम् ।
अतृप्तिर्लब्धज्ञानस्य अप्रमेया अचिन्तिया

32.121

न तेषामभिसंस्कारः समाधी रिद्धिकारणम् ।
विपाक एष शूराणां नित्यकालं समाहितः

32.122

विपाकजाये ऋद्धीये गच्छन्ती क्षेत्रकोट्यः ।
पश्यन्ति लोकप्रद्योतान् यथा गङ्गाय वालिका

32.123

उपपत्तिश्च्युतिस्तेषां यथा चित्तस्य वर्तते ।
चित्तस्य वशितां प्राप्ताः कायस्तेषां प्रभास्वरः

32.124

भावनामयि ऋद्धीये ये स्थिता बुद्धश्रावकाः ।
तेभिः संस्कारऋद्धीये कलां नायान्ति षोडशीम्

32.125

न तेषां सर्वदेवेभिराशयः शक्यु जानितुम् ।
अन्यत्र लोकनाथेभ्यो ये वा तेषां समे स्थिताः

32.126

न तेषामस्ति खालित्यं न चैव पलितं शिरे ।
औदारिका जरा नास्ति न दुःखमरणं तथा

32.127

संशयो विमतिर्नास्ति काङ्क्षा तेषां न विद्यते ।
रात्रिंदिवं गवेषन्ति सूत्रकोटीशतानि ते

32.128

प्रहीणानुशयास्तेषां यावन्तः सांकिलेशिकाः ।
समचित्ताः सदा भोन्ति सर्वसत्त्वान ते ऽन्तिके

32.129

समाधिकोटिनियुतां निर्दिशन्ति दशद्दिशे ।
प्रश्नकोटीसहस्राणि व्याकुर्वन् ह्यनवस्थिताः

32.130

स्त्रीसंज्ञा पुरुषसंज्ञा च सर्वसंज्ञा विभाविताः ।
स्थिता अभावसंज्ञायां देशेन्ति भूतनिश्चयम्

32.131

परिशुद्धेन ज्ञानेन यथावद्धर्मदेशकाः ।
धर्मसंगीत्याभियुक्ताः समाधिज्ञानगोचराः

32.132

(वैद्य 204)
यापि ध्यानचरिस्तेषां नासौ भावप्रतिष्ठिता ।
अवन्ध्यं वचनं तेषामवन्ध्या धर्मदेशना

32.133

सुलब्धं तेन मानुष्यं प्रहीणाः सर्वि अक्षणाः ।
कृतज्ञाः सर्वबुद्धानां येषां सूत्रमिदं प्रियम्

32.134

कल्पा अचिन्तियास्तेहि ये संसारात्तु छोरिताः ।
यैरितः सूत्रश्रेष्ठातो धृता गाथा चतुष्पदा

32.135

दृष्टास्ते सर्वबुद्धेहि तैस्ते बुद्धाश्च सत्कृताः ।
क्षिप्रं च बोधिं प्राप्स्यन्ति तेषां सूत्रमिदं प्रियम्

32.136

न तेषां काङ्क्ष विमती सर्वधर्मेषु भेष्यती ।
आसन्ना निर्वृतिस्तेषां येषां सूत्रमिदं प्रियम्

32.137

दृष्टस्तेहि महावीरो गृध्रकूऊटे तथागतः ।
सर्वे व्याकृतु बुद्धेन द्रक्ष्यन्ति मैत्रकं जिनम्

32.138

दृष्ट्वा मैत्रेय संबुद्धं लप्स्यन्ते क्षान्ति भद्रिकाम् ।
ये केचि क्षयकालस्मिन्निह सूत्रे प्रतिष्ठिताः

32.139

स्थितास्ते भूतकोटीये भूतकोटिरचिन्तिया ।
अचिन्तियायां कोटीये काङ्क्षा तेषां न विद्यते

32.140

न तेषां विद्यते काङ्क्षा अणूमात्रापि सर्वशः ।
अणूमात्रे प्रहीणेस्मिन् बोधिस्तेषां न दुर्लभा

32.141

चरतां दुष्करं चैव क्षयकाले सुभैरवे ।
शिक्षित्व सूत्ररत्ने ऽस्मिन् प्रतिभानस्मि अक्षयम्

32.142

इदं सूत्रं प्रियं कृत्वा बुद्धानां गञ्जरक्षकाः ।
सर्वबुद्धानियं पूजा धर्मपूजा अचिन्तिया

32.143

न तेषां दुर्लभं ज्ञानं बुद्धज्ञानमचिन्तियम् ।
धारयिष्यन्तिदं सूत्रं क्षयकालेस्मि दारुणे

32.144

येभिश्च पूर्वबुद्धानामिमे सूत्रान्त धारिताः ।
तेषां कायगता एते क्षयकाले प्रवर्तिषु

32.145

ते ते नादं नदिष्यन्ति बुद्धानां क्षेत्रकोटिषु ।
संमुखं लोकनाथानां शाक्यसिंहस्य या चरी

32.146

सिंहनादं नदन्तस्ते बुद्धनादमचिन्तियम् ।
अनन्तप्रतिभानेन वक्ष्यन्ते बोधिमुत्तमाम्

32.147

(वैद्य 205)
ते ते व्याकृत बुद्धेन इक्ष्वाकुकुलसंभवाः ।
ये रक्षिष्यन्तिमां बोधिं क्षयकाले महाभये

32.148

ते ते रूपेण संपन्ना लक्षणेहि विचित्रिताः ।
विकुर्वमाणा यास्यन्ति बुद्धकोटीय वन्दकाः

32.149

मायोपमेहि पुष्पेहि हेमवर्णनिदर्शनैः ।
रूप्यामयेहि पुष्पेहि वैदूर्यस्फटिकेहि च

32.150

सर्वाणि रत्नजातानि प्रादुर्भोन्त्येषु पाणिषु ।
यैराकिरन्ति संबुद्धान् बोधिमार्गगवेषकाः

32.151

चित्रा नानाविधा पूजा वाद्यनिर्हारसंपदा ।
निश्चरी रोमकूपेभ्यो यथा गङ्गाय वालिकाः

32.152

ये च शृण्वन्ति तं शब्दं सत्त्वकोट्यो अचिन्तियाः ।
भवन्त्यविनिवर्त्यास्ते बुद्धज्ञाने अनुत्तरे

32.153

तेषां च बुद्धकोटीनां वर्णं भाषन्त्यचिन्तियम् ।
अचिन्तियेषु क्षेत्रेषु तेषां शब्दः श्रुणीयति

32.154

ये च शृण्वन्ति तं शब्दं तेषां संज्ञा निरुध्यते ।
निरोधितायां संज्ञायां बुद्धान् पश्यन्त्यनल्पकान्

32.155

एतादृशेन ज्ञानेन चरित्वा बोधिचारिकाम् ।
कृत्वार्थं सर्वसत्त्वानां भवन्त्यर्थकरा जिनाः

32.156

गुणानुशंसा इत्येते या लभन्ते ह पण्डिताः ।
अन्ये अपरिमाणाश्च यैरियं बोधि धारिता

32.157

मातृग्रामो ऽपिदं सूत्रं श्रुत्वा गाथापि धारयेत् ।
विवर्तयित्वा स्त्रीभावं स भवेद् धर्मभाणकः

32.158

न सा पुनो ऽपि स्त्रीभावमितः पश्चाद् ग्रहीष्यति ।
भवेत् प्रासादिको नित्यं लक्षणैः समलंकृतः

32.159

श्रेष्ठे ऽथ इह सूत्रस्मिन् गुणाः श्रेष्ठाः प्रकाशिताः ।
ते ऽस्य सर्वे भविष्यन्ति क्षिप्रं बोधिं च प्राप्स्यते

32.160

विशारदश्च सो नित्यं भोति सर्वासु जातिषु ।
धारयित्वा इदं सूत्रं बोधिसत्त्वान गोचरम्

32.161

जनको बोधिसत्त्वानां समाधिः शान्त भाषितः ।
य इच्छेद् बुद्धितुं बोधिमिदं सूत्रं प्रवर्तयेत्

32.162

(वैद्य 206)
आसन्नास्ते मुनीन्द्राणामासन्ना वुद्धबोधये ।
लप्स्यन्ति नचिरेणेमां भूमिं शान्तां समाहिताः

32.163

इह बोधीय ते शूरा बोधिसत्त्वाः स्थिताः सदा ।
पश्यन्ति बुद्धकोटीयो यथा गङ्गाय वालिकाः

32.164

राजा भवित्वा महीपति चक्रवर्ती
दृष्ट्वा च बुद्धान् विरजान् सुशान्तचित्तान् ।
गाथाशतैस्तां स्तविष्यति लोकनाथान्
स लभित्व शान्तं इमु विरजं समाधिम्

32.165

सो पूज कृत्व अतुलिय नायकानां
सुमहायशानां देवनरोत्तमानाम् ।
मुक्त्वा स राज्यं यथरिव खेटपिण्डं
शुद्धो विशुद्धश्चरिष्यति ब्रह्मचर्यम्

32.166

स प्रव्रजित्व जिनवरशासनस्मिं
लब्ध्वापि चैतं विरजु समाधि शान्तम् ।
कल्याणवाक्यो मधुरगिरः स भूत्वा
अधिष्ठानु धीमान् भविष्यति सूत्रकोट्याः

32.167

शून्यानिमित्तं परमप्रणीतु शान्तं धर्म प्रशान्तं चर निपुणं असङ्गम् ।
स्वभावशून्यं सद विरजं प्रशान्तं समाधिप्राप्त्या बहु जनि संप्रकाशयी

32.168

गम्भीरबुद्धी सततमनन्तबुद्धी विस्तीर्णबुद्धी अपरिमितार्थबुद्धी ।
गम्भीर शान्तं लभिय इमं समाधिमालोकप्राप्तो भविष्यति सर्वलोकः

32.169

शुचिश्च नित्यं भविष्यति ब्रह्मचारी स निरामगन्धः सततमसंकिलिष्टः ।
अन्यांश्च तत्र स्थपिष्यति सत्त्वकोटयो लब्ध्वा प्रशान्तं इमु विरजं समाधिम्

32.170

स सुतीक्ष्णप्रज्ञो भविष्यति श्रेष्ठप्रज्ञः श्रुतिसागरो ऽसौ नित्यमनन्तबुद्धिः ।
कल्याणवाक्यो मतिकुशलो विधिज्ञो धारित्व शान्तिं इमु विरजं समाधिम्

32.171

(वैद्य 207)
ये कर्मस्थाना तथरिव शिल्पस्थाना भैषज्यस्थानास्तथरिव औषधीनाम् ।
सर्वत्र धीरो भविष्यति पारप्राप्तो धारित्व सूत्रं इमु विरजं समाधिम्

32.172

काव्येषु शास्त्रेषु तथपि च हास्यलास्ये नृत्ये ऽथ गीते सुकुशल पारप्राप्तः ।
आचार्यु लोके भविष्यति नित्यकालं धारित्व शान्तं इमु विरजं समाधिम्

32.173

परिवारवान् सो भविष्यति नित्यकालं स अभेद्यपक्षः सद सहितः समग्रः ।
चरमाणु श्रेष्ठां वरां शिव बोधिचर्यां धारित्व सूत्रं इमु विरजं समाधिम्

32.174

शोकाथ शल्या तथरिव चित्तपीडा नो तस्य जातु भविष्यति पण्डितस्य ।
आरोग्यप्राप्तो भविष्यति सर्वकालं धारित्व शान्तं इमु विरजं समाधिम्

32.175

ये कायशूलास्तथरिव चित्तशूलाः ये दन्तशूलास्तथपि च शीर्षशूलाः ।
नो तस्य भोन्ती व्याधयु जीवलोके धारित्व शान्तं इमु विरजं समाधिम्

32.176

यावन्त रोगा बहुविध मर्तलोके ये कायरोगास्तथरिव चित्तरोगाः ।
ते तस्य रोगाः सतत न जातु भोन्ति धारित्व शान्तं इमु विरजं समाधिम्

32.177

चित्तस्य वा ये बहुविधु यत्किलेशाः काये वापि बहुविध रोगजाताः ।
ते तस्य नास्ती बहुविध संकिलेशा धारित्व शान्तं इमु विरज समाधिम्

32.178

यथन्तरीक्षं गगनमनोपलिप्तं प्रकृतिविशुद्धं विमल प्रभास्वरं च ।
(वैद्य 208)
चित्तं तथैव भवति विशुद्ध तस्यो धारित्व शान्तं इमु विरजं समाधिम्

32.179

चन्द्रस्य आभा तथरिव सूर्यआभा शुद्धा अग्राह्या भवति प्रभास्वराश्च ।
चित्तं तथैव भवति प्रभास्वरं च धारित्व शान्तं इमु विरजं समाधिम्

32.180

यथ अन्तरीक्षं न सुकरु चित्रणाय रङ्गान् गृहीत्वा बहुविध नैकरूपान् ।
चित्तं तथैव न सुकरु चित्रितुं सेवेत्व शान्तं इमु विरजं समाधिम्

32.181

वातो यथैव चतुर्दिश वायमानो असज्जमानो व्रजति दिशः समन्तात् ।
वातसमाना भवति स चित्तधारा जगि सो असक्तो व्रजति अनोपलिप्तः

32.182

जालेन शक्यं गृह्णितु वायमानः पाशेन चापी बन्धितु शक्य वातः ।
नो तस्य चित्तं सुकरु विजाननाय भावेत्व शान्तमिमु विरजं समाधिम्

32.183

प्रतिभासु शक्यं जलगत गृह्णनाय संप्राप्तु तोयं तथपि च तैलपात्रे ।
नो तस्य चित्तं सुकरु विजाननाय भावेत्व शान्तं इमु विरजं समाधिम्

32.184

गर्जन्ति मेघा विद्युलता चरन्ता शक्यं ग्रहीतु पाणिन मानुषेण ।
नो तस्य चित्तं सुकरु प्रमाणु ज्ञातुं भावेत्व शान्तं इमु विरजं समाधिम्

32.185

सत्त्वान शक्यं रूतरवितं ग्रहीतुं ये सन्ति सत्त्वा दशदिशि बुद्धक्षेत्र ।
चित्तस्य तस्यो न सुकरु ज्ञातु कोटिं समाधिलब्धो यद भवि बोधिसत्त्वः

32.196

(वैद्य 209)
सो तां लभित्व विरजं समाधिभूमिं असंंकिलिष्टो भवति अनोपलिप्तः ।
नो तस्य भूयो त्रिभवि निवेश जातु अनेन लब्धो भवति समाधि शान्तः

32.187

नो कामलोलो न च पुन रूपलोलो न इस्त्रिलोलो न च पुन भ्रान्तचित्तः ।
शान्तः प्रशान्तो भवति अनोपलिप्तो यद भोति लब्धो अयु विरजः समाधिः

32.188

न पुत्रलोलो न च पुन धीतलोलो नो भार्यलोलो न च परिवारलोलः ।
सुशान्तचारी भवति अनोपलिप्तो यद भोति लब्धो अयु विरजः समाधिः

32.189

न हिरण्यलोलो न च पुनरर्थलोलो न स्वर्गलोलो धनरतनेष्वसक्तः ।
सुविशुद्धचित्तो भवति स निर्विकल्पः समाधिप्राप्तो अयु भवती विशेषः

32.190

न स्वर्गहेतोश्चरति स ब्रह्मचर्यं न स्वर्गलोलो ददति सदा नु विज्ञः ।
संबोधिकामः कुशलचरिं चरन्तः । समाधिप्राप्तो अयु भवती विशेषः

32.191

नो राज्यहेतोश्चरति तपो व्रतं वा नैश्वर्यमर्थास्त्रिभुवनि प्रार्थमानः ।
संबोधिलोलो बहुजनहिताय निष्पादयी सो इमु विरजं समाधिम्

32.192

नो तस्य रागो जनयति जातु पीडां यो न स्त्रीलोलो सो भवति भ्रान्तचित्तः ।
तथापि तेन प्रकृतिप्रज्ञाय रागो लभित्व एतं विरजु समाधि शान्तम्

32.193

नो तस्य दोषो जनयति जातु पीडां व्यापादु येनो प्रतिघमथो करेय्य ।
(वैद्य 210)
मैत्राय तेनो निहत स दोषधातु प्रतिलभ्य एतं विरजु समाधि शान्तम्

32.194

नो तस्य मोहो जनयति जातु पीडां प्रज्ञाय तेनो निहत स मोह अविद्या ।
तं ज्ञानु लब्धं वितिमिरमप्रमेयं समाधिप्राप्ते इमि गुण अप्रमेयाः

32.195

अशुभाय रागः सतत सुनिगृहीतो मैत्र्याय दोषो निहतु सदा अशेषः ।
प्रज्ञाय मोहो विधमिय क्लेशजालं समाधिप्राप्तः प्रतपति सर्वलोके

32.196

नो तस्य मिद्धं जनयति जातु पीडां सुभाविता से विविध उत्किलेशाः ।
अनोपलिप्तो भवति च विप्रमुक्तः समाधिप्राप्ते इमि गुण अप्रमेयाः

32.197

नो तस्य मोहो जनयति जातु पीडां तथा हि त्यागे अभिरतु नित्यकालम् ।
सर्वस्वत्यागी भवति सुखस्य दाता य इमं समाधिं धारयति बोधिसत्त्वः

32.198

स्थामेनुपेतो भवति अनोपमेयो स बलेनुपेतो भवति नित्यकालम् ।
नो तस्य लोके भवति समः कदाचिद् य इमं समाधिं धारयति बोधिसत्त्वः

32.199

यदापि राजा स भवति चक्रवर्तीं मनुजानु लोके उपगत जम्बुद्वीपे ।
तदापि भोती बहुजनपूजनीयो विशेषप्राप्तो मतिम विशिष्टप्रज्ञः

32.200

ये भोन्ति मुख्याः कुलरतना विशिष्टाः सुप्रभूतभोगा बहुजनस्वापतेयाः ।
यत्राश्व हस्ती रथवर युग्ययाना हिरण्यस्वर्णं मणीरतनं प्रभूतम्

32.201

(वैद्य 211)
ये श्राद्ध भोन्ती इह वरबुद्धज्ञाने ते जम्बुद्वीपे कुलरतनाभियुक्ताः ।
तत्रोपपन्नः कुलरतने विशिष्टे करोति सो ऽर्थं सुविपुल ज्ञातिसंघे

32.202

अश्राद्ध ये वा इह कुल जम्बुद्विपे श्रद्धां स तेषां जनयति अप्रमत्तः ।
यं बोधिचित्ते प्रतिष्ठिति सत्त्वकाये ते बुद्ध भोन्ती जिनप्रवरः स्वयंभूः

32.203

ते च स्पृशित्व अतुलियमग्रबोधिं चक्रं प्रवर्तेन्त्यसदृश बुद्धक्षेत्रे ।
ये चो विजानी इमु तद धर्मचक्रं अनुत्पत्तिधर्मे निखिल ते संप्रतिष्ठी

32.204

सुबहुकराश्चो अमि तद बोधिसत्त्वाः सत्त्वान भोन्ति सततु ते पूजनीयाः ।
करोन्ति ते ऽर्थं अतुलिय नित्यकालं सत्त्वान चक्षुर्वितिमिरु ते जनेन्ति

32.205

बहव शतसहस्राः सत्त्वकोटी अनन्ता येष कुशलमूला भोन्ति तत्र श्रुणित्वा ।
ते अपि प्रतिलभन्ते उत्तमं बोधिचित्तं यद जिनु अनुशासी बोधिसत्त्वं महात्मा

32.206

अशून्यक्षेत्रा प्रमुदित भोन्ति नित्यं निरुपलेपा अमि तद बुद्ध भोन्ती ।
यत्र स्थिहन्ती इमि तद बोधिसत्त्वाः सत्त्वानमर्थ अपरिमितं करोन्ति

32.207

रक्षन्ति शीलं असदृशु ब्रह्मचर्यं भावी समाधी विपुलमनन्तकल्पान् ।
ध्याने विमोक्षे सुनिश्रित नित्यकालं ते बोधिसत्त्वा भवि सद बुद्धपुत्राः

32.208

ते ऋद्धिपादान् सतत् निषेवमाणा क्षेत्राणि गत्वा बहु विविधाननन्तान् ।
(वैद्य 212)
शृण्वन्ति धर्मं सुगतवरप्रभाषं सर्वं च गृह्णी प्रतिष्ठितु धारणीये

32.209

प्रभाषि सूत्रानपरिमिताननन्तान् ये धारणीये प्रतिष्ठितु बोधिसत्त्वाः ।
सत्त्वान अर्थं अपरिमितं करोन्ति ये धारणीये प्रतिष्ठितु बोधिसत्त्वाः

32.210

च्युतोपपादं जानाति सत्त्वानामागतिं गतिम् ।
यादृशं तैः कृतं कर्म विपाको ऽपि च तादृशः

32.211

कर्मणो न च संक्रान्तिरणुमात्राणि लभ्यते ।
ते ऽपि तेषां विजानन्ति बोधिसत्त्वा महायशाः

32.212

शून्यता च महात्मानां विहारो भोति उत्तमः ।
स्थापयन्ति महायाने सत्त्वकोटीरचिन्तियाः

32.213

न तेषामोवदन्तानां सत्त्वसंज्ञा प्रवर्तते ।
अप्रवृत्तिं च धर्माणां बोधिसत्त्वाः प्रकाशयी

32.214

न प्रकाशयतां धर्माणुपलम्भः प्रवर्तते ।
शून्याविहारिणो भोन्ति दृढज्ञाने प्रतिष्ठिताः

32.215

उद्दिश्येमं समाधिं च विहारं सर्वशास्तुनाम् ।
न तेषां वर्तते संज्ञा इस्त्रिसंज्ञा स्वभावता

32.216

इस्त्रिसंज्ञां विभावित्वा बोधिमण्डे निषीदति ।
बोधिमण्डे निषिदित्वा मारसंज्ञा निवर्तते

32.217

न चात्र पश्यते मारं मारसैन्यं च पण्डितः ।
न च पश्यति मारस्य तिस्रो दुहितरो ऽपि सः

32.218

बोधिमण्डे निषण्णस्य सर्वसंज्ञा प्रहीयते ।
सएर्वसंज्ञाप्रहीणस्य सर्वा कम्पति मेदिनी

32.219

सुमेरवः समुद्राश्च याव सन्ति दशा दिशे ।
तं च सत्त्वा विजानन्ति सर्वदिक्षु दशस्वपि

32.220

बोधिसत्त्वस्य ऋद्ध्येयं मेदिनी संप्रकम्पिता ।
षड्विकारं तदा काले बुध्यतो बोधिमुत्तमाम्

32.221

यावन्तः संस्कृता धर्मा ये च धर्मा असंस्कृताः ।
सर्वांस्तान् बुध्यते धर्मान् धर्मशब्देन देशितान्

32.222

(वैद्य 213)
न चात्र बुध्यते कश्चित् सिंहनादश्च वर्तते ।
वर्तनीयं विजानित्वा भोति बुद्धः प्रभाकरः

32.223

प्रतीत्य धर्मा वर्तन्ते उत्पद्यन्ते प्रतीत्य च ।
प्रतीत्यतां यद्धर्माणां सर्वे जानन्ति ते विदुः

32.224

विधिज्ञाः सर्वधर्मेषु शून्यताया गतिंगताः ।
गतिं च ते प्रजानन्ति सर्वधर्मगतिंगताः

32.225

गतिमेतां गवेषित्वा बोधिसत्त्वो न लभ्यते ।
येनैषा सर्वबुद्धानां ज्ञाता गतिरचिन्तिया

32.226

स तां गतिं गतो भोति यः सर्वां गति जानति ।
सर्वस्य माया उच्छिन्ना ज्ञात्वा सद्धर्मलक्षणम्

32.227

बोधिमण्डे निषीदित्वा सिंहनादं नदी तथा ।
विज्ञापयी क्षेत्रकोटीरप्रमेया अचिन्तियाः

32.228

तांश्च प्रकम्पयी सर्वा बुद्धवीरा महायशाः ।
यथ वैनयिकान् सत्त्वान् विनेती सत्त्वसारथिः

32.229

स्पृशित्वा उत्तमां बोधिं बोधिमण्डात्तु उत्थितः ।
विनेयान् विनयेत् सत्त्वानप्रमेयानचिन्तियान्

32.230

ततो निर्मिणि संबुद्धो अनन्तान् बुद्धनिर्मितान् ।
क्षेत्रकोटीसहस्राणि गच्छन्ती धर्मदेशकाः

32.231

स्थापयन्त्यग्रबोधीये सत्त्वकोटीरचिन्तियाः ।
देशयन्त्युत्तमं धर्मं हितार्थं सर्वप्राणिनाम्

32.232

ईदृशं तन्महाज्ञानं बुद्धज्ञानमचिन्तियम् ।
तस्माज्जनयथ च्छन्दं बोधिच्छन्दमनुत्तरम्

32.233

जनेथ गौरवं बुद्धे धर्मे संघे गुणोत्तमे ।
बोधिसत्त्वान शूराणां बोधिमग्र्यां निषेवताम्

32.234

अनोलीनेन चित्तेन सत्करोथ अतन्द्रिताः ।
भविष्यथ ततो बुद्धा नचिरेण प्रभाकराः

32.235

ये च क्षेत्रसहस्रेषु बोधिसत्त्वा इहागताः ।
पश्यन्ति लोकप्रद्योतं धर्मं देशेन्तमुत्तमम्

32.236

ओकिरन्ति महावीरा महारत्नेहि नायकम् ।
मान्दारवेहि पुष्पेहि ओकिरी बोधिकारणात्

32.237

(वैद्य 214)
अलंकरोन्तिदं क्षेत्रं बुद्धक्षेत्रमनुत्तरम् ।
रत्नजालेन च्छादेन्ति समन्तेन दिशो दश

32.238

पताका अवसक्ताश्च उच्छ्रिता ध्वजकोटयः ।
अलंकारैरनन्तैश्च इदं क्षेत्रमलंकृतम्

32.239

कूटागारांश्च मापेन्ति सर्वरत्नविचित्रितान् ।
प्रासादहर्म्यनिर्यूहानसंख्येयान् मनोरमान्

32.240

विमानान्यर्धचद्रांश्च गवाक्षान् पञ्जरांस्तथा ।
धूपिता ध्वजघटिका नानारत्नविचित्रिताः

32.241

धूप्यमानेन गन्धेन अभ्रकूटसमं स्फुटम् ।
क्षेत्रकोटीसहस्रेषु वाति गन्धो मनोरमः

32.242

ते च सर्वे स्फरित्वान गन्धवर्षं प्रवर्षिषुः ।
ये च घ्रायन्ति तं गन्धं ते बुद्धा भोन्ति नायकाः

32.243

रागशल्यं प्रहीणैषां दोषशल्यं न विद्यते ।
विध्वंसितं मोहजालं तमः सर्वं विगच्छति

32.244

ऋद्धिं च तत्र स्पर्शेन्ति बलबोध्यङ्ग इन्द्रियान् ।
ध्यानविमोक्षान् स्पर्शेन्ति भोन्ति चो दक्षिणार्हाः

32.245

पञ्चकोटीय प्रज्ञप्ता वस्त्रकोटीभि संस्तृता ।
संछन्ना रत्नजालेहि च्छत्रकोटीभि चित्रिताः

32.246

निषण्णास्तत्र ते शूरा बोधिसत्त्वाः समागताः ।
लक्षणैस्ते विरोचन्ते तथानुव्यञ्जनैरपि

32.247

वृक्षै रत्नमयैः सर्वं बुद्धक्षेत्रमलंकृतम् ।
निर्मिताः पुष्करिण्यश्च अष्टाङ्गजलपूरिताः

32.248

पानीयं ते ततः पीत्वा पुष्करिणीतटे स्थिताः ।
सर्वे तृष्णां विनोदित्वा भोन्ति लोकस्य चेतियाः

32.249

अन्योन्येषु च क्षेत्रेषु बोधिसत्त्वाः समागताः ।
बुद्धस्य वर्णं भाषन्ते शाक्यसिंहस्य तायिनः

32.250

शृण्वन्ति ये च तं वर्णं ते भोन्ती लोकनायकाः ।
अचिन्त्या अनुशंसा मे इह सूत्रे प्रकाशिताः

32.251

स्वर्णमयेहि पत्रेहि पद्मकोट्यो अचिन्तियाः ।
शुद्धस्योरगसारस्य कर्णिकास्तत्र निर्मिताः

32.252

(वैद्य 215)
वैडूर्यस्य च दण्डानि स्फटिकस्य च पञ्जराः ।
केसरा गिरिगर्भस्य मापितास्तत्र शोभनाः

32.253

ये च घ्रायन्ति तं गन्धं निश्चरन्तं मनोरमम् ।
तेषां सर्वे प्रशाम्यन्ति व्याधयः प्रीतचेतसाम्

32.254

रागो द्वेषश्च मोहश्च अशेषास्तेहि क्षीयते ।
त्रीन् दोषान् क्षपयित्वा च भोन्ति बुद्धा सुखंददाः

32.255

शब्दस्ततो निश्चरति बुद्धशब्दो ह्यचिन्तियः ।
सद्धर्मसंघशब्दश्च विनिश्चरति सर्वतः

32.256

शून्यता अनिमित्तस्य स्वरो अप्रणिहितस्य च ।
श्रुत्वा तं सत्त्वकोटीयो भोन्तिवैवर्तिका बहु

32.257

निश्चरंश्चैव शब्दो ऽसौ क्षेत्रकोटीषु गच्छति ।
स्थापेन्ति बुद्धज्ञानस्मिन् सत्त्वकोटीरचिन्तियाः

32.258

शकुन्ता कलविङ्काश्च जीवंजीवकपक्षिणः ।
ते ऽपि प्रव्याहरी शब्दं बुद्धशब्दमनुत्तरम्

32.259

रत्नामयाश्च ते वृक्षा इह क्षेत्रस्मि निर्मिताः ।
विशिष्टा दर्शनीयाश्च मणीवृक्षा मनोरमा

32.260

लम्बन्ते तेषु वृक्षेषु सर्वाभरणवेणयः ।
अनुभावेन बुद्धस्य इह क्षेत्रस्मि निर्मिताः

32.261

न सो ऽस्ति केषुचिद् व्यूहः सर्वक्षेत्रेषु सर्वशः ।
यो नेह दृश्यते क्षेत्रे तद्विशिष्टतमस्तदा

32.262

पेयालमेतदाख्यातं शाक्यसिंहेन तायिना ।
न ते ज्ञाने ऽत्र काङ्क्षति बोधिसत्वा महायशाः

32.263

कोटीय एतां बुध्यन्ति गतिस्तेषामचिन्तिया ।
ज्ञानेन ते विवर्धन्ते सागरो वा स्रवन्तिभिः

32.264

(वैद्य 216)
न तेषां लभ्यते ऽन्तो हि पिबतो वा महोदघेः ।
आख्यातो बोधिसत्त्वानां नयो ह्येष अचिन्तियः

32.265

इह कोटयां स्थिताः शूरा बोधिसत्त्वा यशस्विनः ।
स्वराङ्गानि प्रमुञ्चन्ति यथा गङ्गाय वालिकाः

32.266

ततश्चिन्त्यः स्वरो ऽप्येवं बोधिसत्त्वो न मन्यते ।
मन्यनायां प्रहीणायामासन्नो भोति बोधते

32.267

न स शीलं विलुम्पेति अपि जीवितकारणात् ।
अविलुप्तः स चरति बोधिसत्त्वो दृढवतः

32.268

नासौ भूयो विलुप्येत कमसंज्ञाय सर्वशः ।
सर्वसंज्ञाप्रहीणस्त अप्रमेयाः समाधयः

32.269

समाहितः स चरति सज्जते न समाधिषु ।
असक्तश्चाप्रमत्तश्च नासौ लोकेषु सज्जते

32.270

लोकधातूनतिक्रम्य स गच्छति सुखावतीम् ।
गतश्च तत्र संबुद्धममिताभं स पश्यति

32.271

बोधिसत्त्वांश्च तान् शूरान् लक्षणैः समलंकृतान् ।
पञ्चाभिज्ञापारमिं च प्राप्ता धारणिगोचराः

32.272

गच्छन्ति क्षेत्रकोटीयो बुद्धानां पादवन्दकाः ।
ओभाषयन्तो गच्छन्ति बुद्धक्षेत्रानचिन्तियान्

32.273

सर्वदोषप्रहीणाश्च सर्वक्लेशविशोधिताः ।
सर्वक्लेशसमुच्छिन्ना एकजातिस्थिता जिनाः

32.274

न चो अपायान् गच्छन्ति तस्मात् क्षेत्रात्तु ते नराः ।
सर्वे ऽपाया समुच्छिन्नास्तस्मिन् क्षेत्रे अशेषतः

32.275

बोधिता बुद्धश्रेष्ठेन अमिताभेन तायिना ।
करोथ मा तत्र काङ्क्षां गमिष्यथ सुखावतीम्

32.276

यः क्षेत्रश्रेष्ठस्य श्रुणित्व वर्णं
चित्तप्रसादं प्रतिलभि मातृग्रामः ।
स क्षिप्र भोती पुरुषवरः सुविद्वान्
ऋद्ध्या च याति क्षेत्रसहस्रकोटीः

32.277

यावन्ति पूजा बहुविध अप्रमेया या क्षेत्रकोटीनयुतयबिंबरेषु ।
(वैद्य 217)
तां पूज कृत्व पुरुषवरेषु नित्यं संख्याकलापी न भवति मैत्रचित्तः

32.278

शीलं समाधिं सततु निषेवमाणो ध्यानान् विमोक्षांस्तथपि च अप्रमाणान् ।
शून्यानिमित्तान् सततु निषेवमाणो नचिरेण सो हि सुगतु भवति लोके

32.279

एषा हि पूजा परमा विशिष्ट मह्यं यः शीलस्कन्धे प्रतिष्ठितु बोधिसत्त्वो ।
सद सर्वबुद्धास्तेन सुपूजिता हि क्षयान्तकाले यः स्थितु बोधिचित्ते

32.280

सुपरीन्दितास्ते बुद्धसहस्रकोट्यो ये बोधिसत्त्वा इमु क्षयि कालि घोरे ।
रक्षन्ति धर्मं सुगतवरोपदिष्टं ते मह्य पुत्राश्चरिमक धर्मपालाः

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc