भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 31

31.1

इति श्रीसमाधिराजे ऽनुशंसापरिवर्तो नाम त्रिंशतितमः ॥ 30 ॥
(वैद्य 190)
31 सर्वधर्मस्वभावनिर्देशपरिवर्तः ।
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार य आकाङ्क्षेद् बोधिसत्त्वो महासत्त्वः किमित्यहं सर्वधर्माणां स्वभावं कथं जानीयामिति,तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्य उद्देष्टव्यः स्वाध्यातव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
तस्यो रागु न जातु कुप्यते न च दोषो तस्यो मोह न जातु कुप्यते वृषभिस्य ।
तेनो सर्वि किलेश च्छोरितानवशेषा यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.2

सो ऽसौ शिक्ष न जातु ओषिरी सुगतानां सो ऽसौ शूरु न जातु इस्त्रियाणां वशमेति ।
सो ऽसौ शासनि प्रीति विन्दते सुगतानां यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.3

सो ऽसौ ज्ञानविधिज्ञ पण्डितो मतिमांश्च सो ऽसौ बुद्ध अनन्त पश्यती अपर्यन्तां ।
सो ऽसौ धारणिज्ञानु जानती अपर्यन्तं यो ऽसौ धर्मस्वभावु जानती नययुक्तिम्

31.4

सो ऽसौ नेह चिरेण भेष्यति द्विपदेन्द्रः सो ऽसौ वैद्यु भिषकु भेष्यते सुखदाता ।
सो ऽसौ उद्धरि शल्य सर्वशो दुखितानां यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.5

सो ऽसौ आतुरु ज्ञात्व दुःखितानिमि सत्त्वान् सो ऽसौ भेरी सदा पराहनी अमृतस्य ।
सो ऽसौ भेष्यति नायको जिनो नचिरेण यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.6

(वैद्य 191)
सो ऽसौ भैषज्यनयेषु कोविदो वरवैद्यो आदिं जानति सर्वव्याधिनां यत्र मुक्तिः ।
सो ऽसौ भूतनयशिक्षितो मतिमन्तो शिक्षित्वा बहुसत्त्व मोचयी पृथु नष्टान्

31.7

सो ऽसौ शून्यनयेषु कोविदो मतिशूरः सो ऽसौ लोकि असक्तु भुञ्जति सद पिण्डम् ।
सो ऽसौ बोधिवराय स्थापयि बहुसत्त्वान् यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.8

सो ऽसौ क्षान्तिबलेन उद्गतो नरचन्द्रः सो ऽसौ लोष्टकदण्डताडितो न च कुप्यी ।
सो ऽसौ छिद्यतु अङ्गमङ्गशो न च क्षुभ्ये यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.9

सो ऽसौ क्षान्तिबले प्रतिष्ठितो बलवन्तो सो ऽसौ क्षान्तिय वस्तु तादृशो सुप्रशान्तः ।
सो ऽसौ क्षान्तिबलेन मन्यते मतिशूरो यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.10

सो ऽसौ वस्तु न जातु मन्यते अहु च्छिन्ना तेनो सर्वि भवा विभाविताः सद शून्याः ।
तस्यो संज्ञा प्रहीण सर्वशो निखिलेनो यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.11

ते ते धर्मस्वभावु देशयी सुप्रणीतं ते ते बोधि स्पृशी अनुत्तरां नचिरेण ।
येषां धर्मस्वभावु गोचरः सुनिध्यप्तो तेषां दत्त अनन्त दक्षिणा अपर्यन्ता

31.12

सो ऽसौ भाषति सूत्रकोटियो अपर्यन्ता यथ गङ्गनदीय वालिकास्ततु भूयः ।
नो चास्यु प्रतिभानु छिद्यते वर्णमाने यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.13

सो ऽसौ कल्पसहस्रकोटिशो नयुतानि ज्ञानेनो सद भोति उद्गतो यथ मेरुः ।
(वैद्य 192)
धर्म तस्य क्षयो न विद्यते भणमाने यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.14

विस्तीर्णं विपुलं अचिन्तियं प्रतिभानं भोती बोधिवरां गवेषतः सद तस्यो ।
नित्यं भाषति सूत्रकोटियो अपर्यन्ता यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम्

31.15

यं चैते द्विपदोत्तमा जिना भणि धर्मं सर्वं तं च श्रुणित्व गृह्णती परिपूर्णम् ।
नो वा एकपदे ऽपि विद्यते विमतिस्यो यो ऽसौ सर्वि अभाव जानती इमि धर्मान्

31.16

सो ऽसौ भोति विशिष्ट त्यागवान् सद कालं भोती दानपतिः सुखंददो दुखितानाम् ।
दृष्टा दुःखित सत्त्व तर्पयी रतनेही यो ऽसौ धर्मस्वभावु जानती सद शून्यम्

31.17

सौ ऽसौ जम्बुध्वजे भविष्यती सद राजा सत्त्वानां सद सौख्य काहिती अपर्यन्तम् ।
मैत्राये समुपेतु प्राणीनां सद काले यो ऽसौ धर्मस्वभावु जानती सद शून्यम्

31.18

पुत्रान् धीतर दासदासियो त्यज्य धीरो हस्तौ पाद शिरांसि स त्यजी तथ राज्यम् ।
नो चालीयति तस्य मानसं वृषभिस्यो यो ऽसौ धर्मस्वभावु जानती सद शून्यम्

31.19

अङ्गाङ्गं पुन तस्य छिद्यती यदि कायो नो तस्य प्रतिहन्यते मनः सुपिने ऽपि ।
तेनो पूजित भोन्ति नायका द्विपदेन्द्रा यो ऽसौ धर्मस्वभावु जानती सद शून्यम्

31.20

तेनो पूजित सर्वि नायका य अतीतास्तथ पूजित ये अनागता द्विपदेन्द्राः ।
तेही सत्कृत सर्वि नायका स्थित ये चो यो ऽसौ धर्मस्वभावु जानती सद शून्यम्

31.21

(वैद्य 193)
सो ऽसौ कोश धरेति पण्डितः सुगतानां सो ऽसौ धारणिये प्रतिष्ठितः परमायाम् ।
सो ऽसौ भेष्यति लोकनायको नचिअरेण यच्छुत्वा इमु सूत्रं धारयेत् क्षयकाले

31.22

सो ऽन्धो नैव कदाचि भेष्यती विदु जातु नो चो अङ्गविहीनु भेष्यती बहुकल्पान् ।
तेनो अक्षण अष्ट वर्जिता इमि नित्यं येनो सूत्रमिदं प्रभाषितं अप्रमुष्टम्

31.23

नासौ दुर्गतिषु गमिष्यति पुन जातु नित्यं लक्षणधारि भेष्यती अभिरूपः ।
पच्चो तस्य अभिज्ञ भाविता इमि नित्यं पुरतः सो सुगतान स्थास्यती सद शूरः

31.24

बहुकान् निर्मित निर्मिणित्वान अयु ज्ञानी प्रेषती बहुक्षेत्रकोटिषु विनयार्थम् ।
येहि दृष्ट भवन्ति निर्मिता बहु बुद्धाः तेही बोधिवराय स्थापिता बहु सत्त्वाः

31.25

स्मृतिमन्तः गतिमन्तः प्रज्ञावान् धृतिमांश्च स्थाम्ना वीर्यबलेन सो सदा समुपेतः ।
धर्मपारमिप्राप्त भेष्यति महतेजा यः श्रुत्वा इमु सूत्र धारयेत् क्षयकाले

31.26

रश्मिकोटिसहस्र निश्चरी सद तेषां व्योमाः सर्वि करोन्ति मण्डलाः सुरियाणाम् ।
येही भावित भोन्ति शून्यका इमि धर्मास्ते ते शूर भवन्ति नायका नचिरेण

31.27

एषो गोचरु शान्तु भावितो मय पूर्वं बहुकल्पान सहस्र कोटियो नियुतानि ।
(वैद्य 194)
वीर्यं मे न कदाचि सहसित इह मार्गे यदहं दीपंकरेण व्याकृतो जिनभूमी

31.28

यूयं पी मम चर्या शिक्षथा इह सूत्रे गम्भीरा परमार्थ देशिता इय नेत्री ।
यत्रामी बहु नष्ट तीर्थिका विपरिता क्षिप्त्वा बोधिमपायि भैरवे प्रपतन्ति

31.29

बहुकल्पान सहस्रकोटियो नयुतानि वेदित्वा अमु तत्र वेदना कटु तीब्राः ।
बहुकल्पा नयुतानमत्ययात् पुनरेव हेतुः सो अमृतस्य प्राप्तये भविष्यते

31.30

ये ते पश्चिमि कालि भैरवे सुगतस्यो रक्षन्ति इमु सूत्रमीदृशं प्रशान्तम् ।
तेषां बोधि वरा न दुर्लभा इय श्रेष्ठा ते ते पश्चिमि कालि व्याकृत धरि धर्मान्

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc