समाधिराजसूत्र · अध्याय 30
इति श्रीसमाधिराजे तेजगुणराजपरिवर्तो नामोनत्रिंशतितमः ॥ 29 ॥
(वैद्य 188)
30 अनुशंसापरिवर्तः ।
अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार य आकाङ्क्षेद् बोधिसत्त्वो महासत्त्वः - किमित्यहं सर्वसत्त्वानां रुतमधिगच्छेयमिन्द्रियाणां च परापरज्ञतां विज्ञाय धर्मं देशयेयमिति,तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
अपरिमित अतीत नायकास्तेन दृष्टाः पुरतु कथ प्रयुक्ता पृच्छिता लोकनाथाः ।
प्रवर कुशलमूले तिष्ठतो बोधिसत्त्वो इमु विरजसमाधिं धारयन् मोक्षकामः
लभति सुख प्रणीतं दिव्यमानुष्यकं चो
लभति परमपूजां दिव्यमानुष्यकां सो ।
लभति सुख प्रणीतं ध्यानसौख्यार्यसौख्यम्
इमु विरज समाधिं धारयन् मोक्षकामः
वर्णु श्रुणिय उदारं हर्षु तस्यो न भोति
न पि च पुनरवर्णे मङ्कुभावं निगच्छेत् ।
शैलोपमु अकम्पेय्यो अष्टभिर्लोकधर्मैर्
इमु विरज समाधिं धारयन् मोक्षकामः
अखिलमधुरवाणी श्लक्ष्णवाचा सुयुक्ता अपगतभ्रुकुटिश्चो पूर्वआलापि भोति ।
सततस्मितमुखश्चो शिक्षितो नायकानाम् इमु विरजसमाधिं धारयन् मोक्षकामः
भवति स सुखवासः सूरतः स्निग्धचित्तो भवति सद सुदान्तो दान्तभूमिस्थितश्च ।
सुमधुर प्रियवाणी स्निग्धसत्याभिधायी इमु विरजसमाधिं धारयन् बोधिकामः
न च स कथ करोती वैग्रहीं नो विवादान् अपगतखिल दोषा वर्जितास्तेन शेषाः ।
(वैद्य 189)
प्रमुदितु सद भोती सूरतो मार्दवश्च इमु विरज समाधिं धारयन् बोधिकामः
भवति च सद विद्वांस्त्यागि नित्याभियुक्तः सुदुखित जन दृष्ट्वा तेषमन्नं ददाति ।
प्रियतरु परित्यक्तुं भोति नित्यं सुदाता इमु विरजसमाधिं धारयन् बोधिकामः
देवशतसहस्राण स्पृहां ये संजनेन्ती नाग असुर यक्षा नित्युपस्थायकास्य ।
वनि पवनि वसन्ते रक्ष तस्या करोन्ती इमु विरज समाधिं यो नरो धारयति
भणि वचनमसक्तं ब्रह्मधोषस्वरो ऽसौ हंसरवितघोषः किन्नरोद्गीतघोषः ।
पञ्चशतस्वराङ्गो हर्षणीयस्वरश्चो भवति नदितशब्दो घुष्टशब्दः सुशब्दः
यावततु पृथु क्षत्राण नरः कश्चिदेव सूक्ष्म रज करेय्या शक्य ते लक्षणाय ।
ततु बहुतरु तस्यो ये स्वरा निश्चरन्ती इमु विरज समाधिं यो नरो धारयाति
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0