समाधिराजसूत्र · अध्याय 2
तत्र कुमार सर्वसत्त्वेषु समचित्तो बोधिसत्त्वो महासत्त्वो हितचित्तो ऽप्रतिहतचित्तो ऽविषमचित्तं इमं सर्वधर्मस्वभावसमताविपञ्चितं नाम समाधिं प्रतिलभते । कतमश्च स कुमार सर्वधर्मस्वभावसमताविपञ्चितं नाम समाधिः प्रतिलभते । कतमश्च स कुमार सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः? यदुत कायसंवरः । वाक्संवरः । मनःसंवरः । कर्मपरिशुद्धिः । आलम्बनसमतिक्रमः । स्कन्धपरिज्ञा । धातुसमता । आयतनापकर्षः । तृष्णाप्रहाणम् । अनुत्पादसाक्षात्क्रियावतारः । हेतुदीपना । कर्मफलाविप्रणाशः । धर्मदर्शनम् । मार्गभावना । तथागतसमवधानम् । तीक्ष्णप्रज्ञता । सत्यानुप्रवेशः । धर्मज्ञानम् । प्रतिसंविदवतारज्ञानम् । अक्षरपदप्रभेदज्ञानम् । वस्तूनां समतिक्रमः । घोषपरिज्ञा । प्रामोद्यप्रतिलाभः । धर्मप्रीत्यनुभवनता । आर्जवता । मार्दवता । ऋजुकता । अकुटिलता विगतभृकुटिता । सुरतता । सुशीलता । साखिल्यम् । माधुर्यम् । स्मितमुखता । पूर्वाभिलापिता । एहीति स्वागतवादिता । अनालस्यम् । गुरुगौरवता । गुरुशुश्रूषा । उपपत्तिसंतुष्टिः । शुक्लधर्मातृप्तता । आजीवविशुद्धिः । अरण्यवासानुत्सर्गः । भूमिव्यवस्थानज्ञानम् । स्मृतेरविप्रणाशः । स्कन्धकौशल्यम् । धातुकौशल्यम् । आयतनकौशल्यम् । अभिज्ञासाक्षात्क्रियावतारः । क्लेशापकर्षणम् । वासनानुसंघिसमुद्धातः । ज्ञानविशेषगामिता । भावनानिष्यन्दः । आपत्तिव्युत्थानकौशल्यम् । पर्युत्थानविष्कम्भणम् । अनुशयप्रहाणम् । (वैद्य 5) भवसमतिक्रमः । जातिस्मरता । निष्काङ्क्षता । कर्मविपाके धर्मचित्तता । श्रुतपर्येष्टिज्ञानतीक्ष्णता । ज्ञानतृष्णा । ज्ञानानुबोधः । आजानेयभूमिः । शैलोपमचित्तता । अकम्प्यता । अचलता । अविनिवर्तनीयभूमिव्यवस्थानज्ञानम् । कुशलधर्मनिष्यन्दः । पापधर्मजुगुप्सनता । असमुदाचारता क्लेशानाम् । शिक्षाया अपरित्यागः । समाधिव्यवस्थानम् । आशयज्ञानम् । सत्त्वेषूपपत्तिविशेषज्ञानम् । समताज्ञानम् । वचनप्रतिसंधिज्ञानम् । गृहावासपरित्यागः । त्रैधातुके ऽनभिरतिः । अनवलीनचित्तता । धर्मेष्वनभिनिवेशः । सद्धर्मपरिग्रहः । धर्मगुप्तिः । कर्मविपाकप्रत्ययनता । विनयकौशल्यम् । अधिकरणव्युपशमः । अविग्रहः । अविवादः । क्षान्तिभूमिः । क्षान्तिसमादानम्
। गतिसमता । धर्मप्रविचयकौशल्यम् । प्रव्रज्याचित्तम् । धर्मविनिश्चयकौशल्यम् । धर्मपदप्रभेदज्ञानम् । धर्मपदाभिनिर्हारकौशल्यम् । अर्थानर्थसंभेदपदनिर्हारकौशल्यज्ञानम् । पूर्वान्तज्ञानम् । अपरान्तज्ञानम् । प्रत्युत्पन्नज्ञानम् । त्र्यध्वसमताज्ञानम् । त्रिमण्डलपरिशुद्धिज्ञानम् । कायावस्थानज्ञानम् । चित्तावस्थानज्ञानम् । ईर्यापथरक्षणम् । ईर्यापथविकोपनम् । ईर्यापथविकल्पनम् । ईर्यापथप्रासादिकता । अर्थानर्थकौशल्यज्ञानम् । युक्तभाणिता । लोकज्ञता । मुक्तत्यागिता । प्रततपाणिता । अनवगृहीतचित्तता । ह्रीव्यपत्रपिता । अकुशलचित्तजुगुप्सनता । धूतगुणानुत्सर्गः । चारित्रसमादानम् । प्रियसमुदाचारता । गुरूणां प्रत्युत्थानासनप्रदानता । माननिग्रहः । चित्तसंप्रग्रहः । चित्तसमुत्पादज्ञानम् । अर्थप्रतिवेधज्ञानम् । ज्ञानप्रतिवेधज्ञानम् । ज्ञानानुबोधः । अज्ञानविगमः । चित्तप्रवेशज्ञानम् । चित्तस्वभावानुबोधज्ञानम् । आहारनिर्हारकौशल्यज्ञानम् । सर्वरुतज्ञानम् । निरुक्तिव्यवस्थानज्ञानम् । अर्थविनिश्चयज्ञानम् । अनर्थविवर्जनम् । सत्पुरुषसमवधानम् । सत्पुरुषसंसेवनता । कापुरुषविवर्जनम् । ध्यानानां निष्पादनम्, तत्र चानास्वादनम् । अभिज्ञाविकुर्वणम् । नामसंकेतप्रज्ञप्तिस्वभावावतारज्ञानम् । प्रज्ञप्तिसमुद्धातः । संस्कारेषु निर्वेदः । सत्कारेष्वनभिलाषः । असत्कारेषूपेक्षा । लाभे ऽनर्थिकता । अलाभे ऽनवलीनता । यशस्यनभिलाषः । अयशस्यप्रतिघः । प्रशंसायामनुनयः । निन्दायामविषादः । सुखे ऽनभिष्वङ्गः । दुःखे ऽवैमुख्यम् । संस्काराणामनादानता । भूतवर्णे ऽसङ्गः । अभूतवर्णे ऽधिवासनता । गृहस्थप्रव्रजितैरसंस्तवः । अगोचरविवर्जनम् । गोचरप्रचारः । आचारसंपत् । अनाचारविवर्जनता । कुलानामदूषणता । शासनस्यारक्षणता । अल्पभाषणता । मितभाषणता । प्रतिवचनकौशल्यम् । प्रत्यर्थिकनिग्रहः । कालप्रतिक्रमणता । अकालविवर्जनता । पृथग्जनेष्वविश्वासः । दुःखितानामपरिभवनता, तेभ्यश्च धनप्रदानम् । दरिद्राणामनवसादनता । दुःशीलेष्वनुकम्पा । हितवस्तुता । कृपाबुद्धिता । धर्मेणानुग्रहः । आमिषपरित्यागः । असंचयस्थापिता । (वैद्य 6) शीलप्रशंसनता । दौःशील्यकुत्सनता । शीलवतामशाठ्यसेवनता । सर्वस्वपरित्यागिता । अध्याशयनिमन्त्रणता
। यथोक्तकारिता । अभीक्ष्णप्रयोगिता । सत्कृत्य प्रीत्यनुभवनता । दृष्टान्तज्ञानम् । पूर्वयोगकौशल्यम् । कुशलमूलपूर्वंगमता । उपायकौशल्यम् । निमित्तप्रहाणम् । संज्ञाविवर्तः । वस्तूनां परिज्ञा । सूत्रान्ताभिनिर्हारः । विनयकौशल्यम् । सत्यविनिश्चयः । विमुक्तिसाक्षात्क्रियावतारः । एकांशवचनप्रव्याहारता । यथावज्ज्ञानदर्शनानुत्सर्जनम् । निष्काङ्क्षवचनता । शून्यताया आसेवनता । अनिमित्तनिषेवणता । अप्रणिहितस्वभावोपलक्षणता । वैशारद्यप्रतिलम्भः । ज्ञानेनावभासः । शीलदृढता । समापत्त्यवतारः । प्रज्ञाप्रतिलम्भः । एकारामता । आत्मज्ञता । अल्पज्ञानता । संतुःटिः । चित्तस्यानाविलता । दृःटिकृतविवर्जनता । धारणीप्रतिलम्भः । ज्ञानावतारः । स्थानास्थानप्रस्थानप्रतिपत्तिज्ञानम् । हेतुयुक्तिनयद्वारम् । कारणम् । मार्गः । प्रतिपत्तिः । संदेशः । अववादः । अनुशासनी । चर्या । आनुलोमिकी क्ःआन्तिः । क्ःआन्तिभूमिः । अक्ःआन्तिविगमः । ज्ञानभूमिः । अज्ञानप्रहाणम् । ज्ञानप्रतिःठानम् । योगाचारभूमिः । बोधिसत्त्वगोचरः । सत्पुरुःअसेवना । असत्पुरुःअविवर्जना । सर्वधर्मस्वभावानुबोधप्रतिवेधज्ञानम् । तथागतेनाख्याता बुद्धभूमिः । पण्डितैरनुमोदिता । बालैः प्रतिक्ःइप्ता । दुर्विज्ञेया श्रावकैः । आज्ञाता प्रत्येकबुद्धैः । अभूमिस्तीर्थिकानाम् । बोधिसत्त्वैः । परिगृहीता । दशबलैरनुबद्धा । देवैः पूजनीया । ब्रह्मणा वन्दनीया । शक्रैरधिगमनीया । नागैर्नमस्करणीया । यक्ःऐरनुमोदनीया । किन्नरैः स्तोतव्या । महोरगैः प्रशंसनीया । बोधिसत्त्वैर्भावनीया । पण्डितैः पर्यवाप्तव्या । धनमनुत्तरम् । दानं निरामिःअम् । भैःअज्यं ग्लानानाम् । मोदिता शान्तचित्तानाम् । कोशो ज्ञानस्य । अक्ःअयः प्रतिभानस्य । नयः सूत्रान्तानाम् । विगमः कोशस्य । विःअयः शूराणाम् । परिज्ञा त्रैधातुकस्य । कोलः पारगामिनाम् । नौरोघमध्यगतानाम् । कीर्तिर्यशस्कामानाम् । वर्णो बुद्धानाम् । प्रशंसा तथागतानाम् । स्तवो दशबलानाम् । गुणो बोधिसत्त्वानाम् । उपेक्ःआ कारुणिकानाम् । मैत्री दोःअं शमयितुकामानाम् । मुदिता प्रशान्तचारिणाम् । आश्वासो महायानिकानाम् । प्रतिपत्तिः सिंहनादनादिनाम् । मार्गो बुद्धज्ञानस्य । मोक्ःअः सर्वसत्त्वानाम् । मुद्रा सर्वधर्माणाम् ।
आहारिका सर्वज्ञानस्य । उद्यानं सर्वबोधिसत्त्वानाम् । वित्रासनं मारसेनायाः । विद्या क्ःएमगामिनाम् । अर्थः सिद्धार्थानाम् । परित्राणममित्रमध्यगतानाम् । प्रत्यर्थिकनिग्रहः सह धर्मेण । सत्याकरो वैशारद्यानाम् । भूते पर्येःटिर्बालानाम् । पूर्वनिमित्तमःटादशानामावेणिकानां बुद्धधर्माणाम् । अलंकारो धर्मकायस्य । निःयन्दश्चर्यायाः । आभरणं बुद्धपुत्राणाम् । रतिर्मोक्ःअकामानाम् । प्रीतिर्ज्येःठपुत्राणाम् । परिपूरिर्बुद्धज्ञानस्य । अभूमिः सर्वश्रावकप्रत्येकबुद्धानाम् । विशुद्धिश्चित्तस्य । परिशुद्धिः कायस्य । परिनिःपत्तिर्विमोक्ःअमुखानाम् । असंक्लेशो बुद्धज्ञानस्य । अनागमो रागस्य (वैद्य 7) । विगमो द्वेःअस्य । अभूमिर्मोहस्य । आगमो ज्ञानस्य । उत्पादो विद्यायाः । प्रहाणमविद्यायाः । तृप्तिर्विमुक्तिसाराणाम् । तुःटिः समाधिसाराणाम् । चक्ःउर्द्रःटुकामानाम् । अभिज्ञा विकुर्वितुकामानाम् । ऋद्धिरभिनिर्हर्तुकामानाम् । धारणी श्रुतार्थिकानाम् । स्मृतेरसंप्रमोःअः । अधिःठानं बुद्धानाम् । उपायकौशल्यं नायकानाम् । सूक्ःमं दुर्विज्ञेयमनभियुक्तानाम् । अज्ञेयममुक्तैः । विवर्ताक्ःअराणां दुर्विज्ञेयं घोःएण । आज्ञातं विज्ञैः । ज्ञातं सूरतैः । प्रतिविद्धमल्पेच्छैः । उद्गृहीतमारब्धवीर्यैः । धृतं स्मृतिमद्भिः । क्ःअयो दुःखस्य । अनुत्पादः सर्वधर्माणाम् । एकनयनिर्देशः सर्वभवगत्युपपत्त्यायतनानाम् । अयं स कुमार उच्यते सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः ॥
अस्मिन् खलु पुनः सर्वधर्मपर्याये समाधिनिर्देशे भगवता भाष्यमाणे अशीतेर्नयुतानां देवमानुषिकायाः प्रजायाः पूर्वपरिकर्मकृताया अनुत्पत्तिकेषु धर्मेषु क्षान्तेः प्रतिलम्भो ऽभूत् । षण्णवतेश्च नयुतानामानुलोमिकायाः क्षान्तेः प्रतिलम्भो ऽभूत् । त्रिणवतेर्नयुतानां घोषानुगायाः क्षान्तेः प्रतिलम्भो ऽभूत् । परिपूर्णस्य भिक्षुशतसहस्रस्य अनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि । षष्टेश्च प्राणिशतसहस्राणां देवमानुषिकायाः प्रजाया विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । अशीतेश्च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चितानि विमुक्तानि । पञ्चभिश्चोपासकशतैरनागामिफलं प्राप्तम् । षष्ट्या चोपासिकाशतैः सकृदागामिफलं प्राप्तम् । अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं कम्पितः प्रकम्पितः संप्रकम्पितः । चलितः प्रचलितः संप्रचलितः । वेधितः प्रवेधितः संप्रवेधितः । क्षुभितः प्रक्षुभितः संप्रक्षुभितः । रणितः प्ररणितः संप्ररणितः । गर्जितः प्रगर्जितः संप्रगर्जितः । पूर्वा दिगवनमति पश्चिमा दिगुन्नमति । पश्चिमा दिगवनमति पूर्वा दिगुन्नमति । उत्तरा दिगवनमति दक्षिणा दिगुन्नमति । दक्षिणा दिगवनमति उत्तरा दिगुन्नमति । अन्तादवनमति मध्यादुन्नमति । अन्तादुन्नमति मध्यादवनमति । अप्रमेयस्य चावभासस्य लोके प्रादुर्भावो ऽभूत् । सर्वश्च लोकधातुः सदेवकश्च समारकः सब्रह्मकः सश्रमणब्राह्मणिकाः प्रजास्तेनावभासेनावभासिताः स्फुटा अभूवन् । इमौ च चन्द्रसूर्यौ एवंमहर्द्धिकौ एवंमहानुभावौ एवंमहेशाख्यौ न भासतो न तपतो न विरोचतः । या अपि लोकान्तरिका अन्धकारतमिस्राः, ता अपि तेनावभासेन स्फुटा अभूवन् । ये ऽपि तासूपपन्नाः सत्त्वाः, ते ऽप्यन्योन्यं संजानते स्म । एवं चाहुः - अन्यो ऽपि किल भो अयं सत्त्व इहोपपन्नः । यावदवीचेर्महानरकादिति ॥
इति श्रीसमाधिराजे निदानपरिवर्तो नाम प्रथमः ॥
(वैद्य 8)
2 शालेन्द्रराजपूर्वयोगपरिवर्तो द्वितीयः ।
अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य एतदेव पूर्वयोगपरिवर्तं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -
स्मरति दशबलान षष्टिकोटी पुरिमभवे निवसिंसु गृध्रकूटे ।
पुरि मम चरमाणु बोधिचर्यामिम वरशान्त समाधि देशयिंसु
तेषां पश्चिमको आसील्लोकनाथः प्रभंकरः ।
शालेन्द्रराज नामेन स मया परिपृच्छितः
अहं च क्षत्रियो आसं राजश्रेष्ठो महीपतिः ।
मंम चो शत पुत्राणां पञ्चाभूवन्ननूनकाः
कोटीमया विहारणां तस्य बुद्धस्य कारिता ।
चन्दनस्य विशिष्टस्य केचिद्रत्नमया अभूत
प्रियो मनापश्च बहुजनस्य भीष्मोत्तरो नाम अभूषि राजा ।
अकार्षि बुद्धस्य विशिष्टपूजा अष्टादशवर्षसहस्रकोट्यः
जिनस्य तस्य द्विपदोत्तमस्य शालेन्द्रराजस्य विनायकस्य ।
षटूसप्ततिवर्षसहस्रकोटियो आयुस्तदा आसि अनिन्दितस्य
नियुतान्तशीतिसहस्र श्रावकाणां त्रैविद्य षडभिज्ञ जितेन्द्रियाणाम् ।
क्षीणास्रवाणान्तिमदेहधारिणां संघस्तदा आसि नरोत्तमस्य
(वैद्य 9)
बहुप्रकारा मयि तस्य पूजा कृता जिनस्य द्विपदोत्तमस्य ।
अर्थाय लोकस्य सदेवकस्य इमं समाधिं प्रतिकाङ्ता सदा
सपुत्रदारेण मि प्रव्रजित्वा शालेन्द्रराजस्य जिनस्य अन्तिके ।
चतुर्दशवर्षसहस्रकोटियो अयं समाधिः परिपृच्छितो मया
अशीति गाथा नियुता सहस्राण्यन्ये च कोटीशत बिम्बराणाम् ।
तस्योद्गृहीतः सुगतस्य अन्तिकादितः समाधेः परिवर्त एषः
हस्ता शिरा भार्य तथैव पुत्रा रत्नं प्रभूतं तथ खाद्यभोज्यम् ।
न किंचि द्रव्यं मि न त्यक्तपूर्वम् इम समाधिं प्रतिकाङ्क्षता वरम्
स्मरामि बुद्धान सहस्रकोटियो तदुत्तरे यत्तिक गङ्गवालुकाः ।
येहि स्थिहित्वा इह गृध्रकूटे अयं समाधिर्वरु शान्त देशितः
सर्वे च शाक्यर्षभनामघेयाः सर्वेषु चो राहुल नाम पुत्राः ।
आनन्दनामा परिचारकाश्च कपिलाह्वयाः प्रव्रजिताश्च सर्वे
अग्रेयुगं कोलितशारिपुत्रा समनाम सर्वे च अभूषि तायिनः ।
समनामिका चो तद लोकधातुः सर्वे ऽपि चोत्पन्न कषायकाले
(वैद्य 10)
सर्वे मया सत्कृत ते नरेन्द्रा इमां चरन्तेन मि बोधिचारिकाम् ।
यावन्ति चो काचि जिनान पूजा सर्वा कृता एतु समाधिमेषता
प्रतिपत्तिय एष समाधि लभ्यते बहुप्रकारा प्रतिपत्तिरुक्ता ।
गुणेषु सर्वेषु प्रतिष्ठितस्य न दुर्लभस्तस्य समाधिरेषः
रसेष्वगृध्रस्य अलोलुपस्य कुलेष्वसक्तस्य अनीर्षुकस्य ।
मत्रीविहारस्य अमत्सरस्य न दुर्लभस्तस्य समाधिरेषः
सत्कारलाभेषु अनर्थिकस्य आजीवशुद्धस्य अकिंचनस्य ।
विशुद्धशीलस्य विशारदस्य न दुर्लभस्तस्य समाधिरेषः
आरब्धवीर्यस्य अतन्द्रितस्य रण्याधिमुक्तस्य धुते स्थितस्य ।
नैरात्म्यक्षान्तीय प्रतिष्ठितस्य न दुर्लभस्तस्य समाधिरेषः
सुदान्तचित्तस्य अनुद्धतस्य ईर्याय चर्याय प्रतिष्ठितस्य ।
त्यागाधिमुक्तस्य अमत्सरस्य न दुर्लभस्तस्य समाधिरेषः
अनुव्यञ्जनलक्षणा बुद्धधर्मा ये ऽष्टादशा कीर्तित नायकेन ।
बलाविशारद्य न तस्य दुर्लभा धारेति यः शान्तमिमं समाधिम्
(वैद्य 11)
बुद्धेन ये चक्षुष दृष्ट सत्त्वास्त एककालस्मि भवेयु बुद्धाः ।
तेषैक एकस्य भवेयुरायुः अचिन्तियाकल्पसहस्रकोटियः
तेषैक एकस्य शिरो भवेयुः सर्वु समुद्रेषु यथैव वालुकाः ।
यावन्ति ते सर्व शिरो भवेयुः शिरे शिरे जिह्व भवेयु तात्तिकाः
ते तस्य सर्वे भणि आनुशंसा यो गाथ धारेय्य इतः समाधितः ।
न किंचिमात्रं परिकीर्तितं भवेत् किं वा पुनर्यो हि शिक्षित्व धारये
धूतान् समादाय गुणांश्च वर्तते स्पृहेन्ति देवासुरयक्षगुह्यकाः ।
राजान भोन्ति अनुयात्रु तस्य धारेति यः शान्त समाधि दुर्लभम्
परिगृहीतो भवति जिनेभिर्देवाश्च नागाः सद आनुयात्राः ।
प्रत्यर्थिकास्तस्य श्रिय नो सहन्ति धारेति यः शान्त समाधि दुर्लभम्
अनन्तु तस्य प्रतिभानु भोति अनन्त सूत्रान्तसहस्र भाषते ।
न तस्य विष्ठा नु कदाचि भोति धारेति यः शान्तमिमं समाधिम्
द्रक्ष्यन्ति बुद्धममिताभु नायकं सुखावतीं चाप्यथ लोकधातुम् ।
ये पश्चिमे कालि महाभयानके समाधि श्रुत्वा इमु धारयेयुः
(वैद्य 12)
प्रकाशयित्वा इमु आनुशंसा अध्येषते शास्तु स्वयं स्वयंभूः ।
परिनिर्वृतस्य मम पश्चिकाले समाधि धारेथ इमं विशुद्धम्
ये केचि बुद्धा दशसु दिशासु अतीतकाले ऽपि च प्रत्युत्पन्नाः ।
सर्वे जिना अत्र समाधिशिक्षिता बुध्यन्ति बोधिं विरजामसंस्कृताम्
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0