समाधिराजसूत्र · अध्याय 29
इति श्रीसमाधिराजे दशानुशंसापरिवर्तो नाम अष्टाविंशतितमः ॥
(वैद्य 172)
29 तेजगुणराजपरिवर्तः ।
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार दिव्यानि चक्रवर्तिराज्यैश्वर्यसुखान्यपहाय प्रव्रजिष्यामीत्येवं त्वया कुमार सदा शिक्षितव्यम् । प्रव्रजितेन कुमार धूतगुणसंलेखप्रतिष्ठितेन विवेकचारिणा क्षान्तिसौरत्यसंपन्नेन भवितव्यम् । सदा च आरब्धवीर्येण ते कुमार आदीप्तशिरश्चैलोपमेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यः प्रवर्तयितव्यो धारयितव्यो वाचयितव्यः उद्देष्टव्यः स्वाध्यातव्यो ऽरणाभावनया भावयितव्यो बहुलीकर्तव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । खङ्गविषाणभूतेन अद्वितीयेन च ते कुमार अरण्यनिषेविणा सदा भवितव्यम् । आत्मपरित्यागेनापि ते कुमार सर्वसत्त्वानामर्थः सदा करणीय इति ॥
अथ खलु भगवांस्तस्या वेलायामेतमेवार्थमुद्भावयंश्चन्द्रप्रभस्य कुमारभूतस्येमं पूर्वयोगकथापरिवर्तं गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -
स्मरमी अतीत बहुकल्पशता यद आसि नायकु अनन्तयशाः ।
नरदेवनागगणपूजनियो नामेन तेजगुणि राज जिनो
दश भिक्षुकोटि षडभिज्ञरुहाः प्रतिसंविदान वशिपारगताः ।
धूतवृत्त संलेखित शान्तमनाः इति तस्य तेन समयेन गणाः
षट्सप्तती नगर कोटिशताः पञ्चाशयोजनप्रमाण समाः ।
रतनान सप्तन विशिष्टवरा इह जम्बुद्वीपि तद कालि अभूत्
तद कालि ते पुरवरा सकलाः प्रतिमण्डिता बहु उद्यानशतैः ।
उद्यान सर्वि घनमेघनिभाः फलपुष्पमण्डित तरुनिचिताः
फलवृक्षजाति विविधा रुचिराः लकुचाम्रजम्बुपनसैर्निचिताः ।
(वैद्य 173)
कर्णिकारचम्पकपुन्नागशतैः प्रतिमण्डितास्त उद्यानवराः
न्यग्रोध सर्वि द्विजसंघरुताः कलविङ्ककोकिलमयूरशतैः ।
शुकजीवंजीवककुणालरुता बहुपक्षिसंघरुत कालि तदा
धृतराष्ट्रराजहंसोपनिभा भृङ्गकुणाला वरघोषरुताः ।
चित्राङ्गरक्तमहावर्णप्रभाः सुमनोज्ञशब्द मधुरा मुदिताः
इति पक्षि समागत कालि तदा कलविङ्कमयूरविहङ्गरुतैः ।
परपुष्ट शारिक विचित्र द्विजा बहुपक्षिघोषरुत नानविधाः
तेहि निषेवित उद्यानशता मुचिलिन्दवार्षिक अशोकशतैः ।
अतिमुक्तकाथ जवपुष्पपत्रैः पद्मोत्पलैः कुमुदपुण्डरिकैः
पदुमैः सहस्रशतपत्रचिता इमि पुष्प पुष्करिणिशोभकराः ।
प्रतिमण्डिताः सुरभिगन्धवराः शोभन्ति पुष्करिणियो रुचिराः
तहि कालि राज इह जम्बुध्वजे दृढदत्तु आसि मनुजाधिपतिः ।
पुत्राण तस्य अभु पञ्चशताः प्रासादिकाः परमदर्शनिकाः
तहि कालि राज्यु शिवु क्षेम अभूत् अनुपद्रुतं सुरमणीय शिवम् ।
अयु जम्बुद्वीप कुसुमैर्निचितो निर्विंशेष देवभवनेहि समम्
(वैद्य 174)
तहि कालि सो दशबलो अनिधो जिनु भाषते इमु समाधिवरम् ।
स्वप्नोपमा भवगती सकला न व कश्चि जायति न चो म्रियते
न सत्त्व लभ्यति न जीवु नरो इमि धर्म फेनकदलीसदृशाः ।
मायोपमा गगनविद्युसमा दकचन्द्रसंनिभ मरीचिसमाः
न च अस्मि लोकि मृतु कश्चि नरो परलोकि संक्रमति गच्छति वा ।
न च कर्म नश्यति कदाचि कृतं फलमेति कृष्ण शुभ संसरतो
न च शाश्वतं न च उच्छेदु पुनो न च कर्मसंचयु न चापि स्थितिः ।
न च सो ऽपि कृत्व पुनरस्पृशती न च अन्यु कृत्व पुन वेदयते
न च संक्रमो न च पुनागमनं न च सर्वमस्ति न च नास्ति पुनः ।
न च दृष्टिस्थानु गतिशुद्धिरिहो न च सत्त्वचरु न प्रशान्तगती
अनुपादु शान्तु अनिमित्तपदं सुगतान गोचरु जिनान गुणाः ।
बल धारणी दशबलान बलं बुद्धानियं वृषभिता परमा
वरशुक्लधर्म गुणसंनिचयो गुणज्ञानधारणिबलं परमम् ।
ऋद्धिविकुर्वणाविधिः परमा वरपञ्चाभिज्ञा प्रतिलाभनयः
न च स प्रजानतीह स्वभावु क्वचि अगतागती निपुणधर्मगती ।
(वैद्य 175)
न च धर्मधातु व्रजतीह क्वचि एवं गती अगति धर्मगती
न च घोषसंचयु स्वभावगती गतियो स्वभावु न कहिंचि स्थितः ।
अस्थिता अनिश्रिता स्वभावगती जिनगोचरो विरजु शान्तपदम्
शान्तप्रशान्त उपशान्तगती न च सा गती क्वचन संस्थिहती ।
भावु स्वभावु नुगताः सततं निपुणं सुदुर्दृशु पदं अचलम्
न च सा चला हि स्वयमेव स्थिता अस्थिता अनागत स्वभावु स्थिता ।
न च शक्य भाषितु स्वभावु स्थिती शून्या च सा अचलु धर्मस्थिती
घोषश्च उक्त न च घोषगती घोषस्वभावगति धर्मगती ।
न च घोषसंचयु स्थिती च क्वचि एवंस्वभावु गति धर्मगती
गतिशब्द उक्तु न च सत्त्वगती धर्मस्वभाव निपुणार्थगती ।
घोषो ऽपि चोक्तु न च सत्त्वगती न च घोषु लभ्यति न सत्त्वगतिः
न च अनन्त नान्त न च मध्यगतिः नैवास्ति नास्ति न च देशगती ।
ज्ञाता च यादृश स्वभावगती इय देशना जिनवराण समा
विरजं विशुद्धि परमार्थपदं शान्त प्रशान्त अरजं विरजम् ।
न च कल्प मन्यन प्रशान्तपदं जिनु भाषते परमकारुणिको
(वैद्य 176)
न पि चास्ति अक्षरप्रचार इहो विपुला गतिर्विपुला अर्थगती ।
बुद्धेहि सेवित जिनेहि स्तुता अवभास धर्मनय सूक्ष्मगती
धर्मनिधान विरजं विपुलं यत्र स्थिता अप्रतिमा सुगता ।
देशेन्ति धर्मरतनं विरजं परमार्थशून्य निपुणार्थगती
अश्रौषि राज दृढदत्तु तदा द्विपदेन्द्र भाषति समाधिमिमम् ।
सो ऽशीतिकोटिनयुतेहि तदा उपसंक्रमी तद जिनु कारुणिकम्
बलवन्तु गौरवु जनेत्व जिने वन्दित्व पादु मनुजाधिपतिः ।
पुरतः स्थितो दशबलस्य तदा कृताञ्जलिर्दशनखः प्रमुदितः
तस्यो विदित्व परिशुद्ध चरीं जिन इन्द्रियेषु वशि पारगतः ।
अधुमुक्तिकोविदु नरः प्रवरो इमु तस्य देशयि समाधिवरम्
यद तेन राज्ञ परमार्थ श्रुतो उत्पन्न प्रीति अरिया विपुला ।
उज्झित्व द्वीप सकलांश्चतुरो विजहित्व काम अभिनिष्क्रमि सो
यद राज प्रव्रजि जहित्व महीं बोधाय अर्थिकु भविष्यजिनः ।
सर्वे मनुष्य इह जम्बुध्वजे विजहित्व कामरती प्रव्रजिता
विपुलो गणो दशबलस्य तदा बहु भिक्षु भिक्षुणि प्रयुक्तमनाः ।
(वैद्य 177)
अकृष्टा अनुप्त तद ओषधयो प्रादुर्भूता मरुत्परिचराः
काषाय त्रिचीवर प्रादुर्भूता समच्छिन्न सुसीवित ते ऽनुपमाः ।
अमला विरजाश्च सुवर्णचित्ता बुद्धस्य गुणोचित पुण्यबलाः
पश्यो कुमार स हि राजवरो विजहित्व सर्व महि प्रव्रजितः ।
भेष्यन्ति सत्त्व क्षयकालि बहु अपरीत्तभोगा न त्यजन्ति गृहान्
ताडन बन्धन कुदण्ड बहु आक्रोश तर्जनमनिष्टदुखम् ।
सहिष्यन्ति राजकुल पीड बहु सुपरीत्तभोग न च भक्तु गृहे
अपरीत्त आयु न च अस्ति धनं सुमहान् प्रमादु न च पुण्यबलम् ।
न च शिल्पस्थानकुशला अबुधा दारिद्रियं च न च वित्तु गृहे
परदारगृद्ध अविशुद्धमना ईर्ष्यालुकाः परमसाहसिकाः ।
संक्लिष्टधर्म न च वृत्तु स्थिता वक्ष्यन्ति बुद्ध भविष्याम् वयम्
उत्कोचवञ्चनक साहसिका अहमाढ्यु धर्म धनदास्मि जगे ।
उपघातकाः कुहक नैकृतिका वक्ष्यन्ति बुद्ध भविष्याम वयम्
वधबन्धुपद्रवि परस्य रताः दुःशील दारुण प्रदुष्टमनाः ।
अकृतज्ञ भेदक विहिंसस्थिता वक्ष्यन्ति हं ते भण बोधिचरिम्
यस्यैव तेन श्रुत बोधिचरी तस्यैव मध्यि प्रतिघं जनयी ।
(वैद्य 178)
श्रुत्वा च बुधं स्खलितमेकपदं तस्यैव भाषति अवर्णशतान्
तदिमां कुमार मम श्रुत्व गिरं मा तेहि संस्तवु करोहि तदा ।
सुपिनान्तरे ऽपि अविश्वस्त सिया यदि इच्छसे स्पृशितु बोधिचरीम्
धूतवृत्त संलिखित नैकगुणान् परिकीर्तयन्तु बहुकल्पशतान् ।
भणती गुणान्न च गुणेषु स्थितो न स बुध्यते परमबोधिगिराम्
भवथा सदापि अखिला मधुरा सद शुद्धशील सुप्रसन्नमनाः ।
परिशुद्धशील भवथा सततं नचिरेण लप्स्यथ समाधिवरम्
न करोथ मान न जनेथ खिलं परिशुद्धमानस सदा भवथा ।
मद मान म्रक्ष विजहित्व ततः प्रतिलप्स्यथा इमु समाधिवरम्
गुणतो अनुस्मरि जिनं सततं वरकाञ्चनच्छविप्रभासकरम् ।
गगनं च रात्रिय नक्षत्रस्फुटं तथ कायु लक्षणस्फुटो मुनिनो
ध्वजच्छत्रवितानपताकवरां चूर्णानुलेपनं गृहीत्व बहून् ।
पूजां करोथ सुगतस्य सदा नचिरेण लप्स्यथ समाधिवरम्
वर गन्धमाल्यकुसुमा रुचिरां वादित्र तूर्य प्रगृहीत बहु ।
(वैद्य 179)
जिनस्तूपि पूज प्रकरोथ सदा नचिरेण लप्स्यथ समाधिवरम्
पणवैः सुघोषकमृदङ्गशतैः पटहैर्विपञ्चिवरवेणुरवैः ।
मधुरस्वरैर्विंविधवाद्यगणैः पूजेथ नायकु प्रसन्नमनाः
कारेथ बुद्धप्रतिमां रुचिरां रतनामयीं सुपरिकर्मकृताम् ।
प्रासादिकां परमसुदर्शनीयां नचिरेण लप्स्यथ समाधिवरम्
वनषण्ड सेवथ विविक्त सदा विजहित्व ग्रामनगरेषु रतिम् ।
अद्वितीय खङ्गसम भोथ सदा नचिरेण लप्स्यथ समाधिवरम्
अहु धर्मस्वामि मम यूयु सुता अनुशिक्षथा मम समाधिचरिम् ।
अहु सो अभूषि दिशता सुविश्रुतो दृढदत्तु नाम मनुजाधिपतिः
मय बुद्ध पूजित अनन्त पुरे मय शीलु रक्षितु विशुद्धमनाः ।
मय गौरवं दशबलेषु कृतं इमु शान्तमेषत समाधिवरम्
मय पुत्र दार परित्यक्त पुरे शिरहस्तपादनयनाग्रवराः ।
न च लीनचित्तत कदाचि कृता इमु शान्तमेषत समाधिवरम्
(वैद्य 180)
धनधान्य दास बहुदासिशता रतना प्रभूत परित्यक्त मया ।
संतर्पिता पि बहुयाचनका इमु शान्तमेषत समाधिवरम्
मय मुक्ति स्फाटिक सुवर्ण बहु वैदूर्य शङ्ख शिल त्यक्त पुरे ।
मणि शुद्धरूपिय प्रवाल घना इमु शान्तमेषत समाधिवरम्
मय त्यक्त आभरण नानविधा वरमुक्तहार तथ सीहनुकाः ।
रतनान जालिक विशिष्ट पृथु इमु शान्तमेषत समाधिवरम्
मय वस्त्रकोट्य परमा सुखुमाः परिशुद्ध काशिकदुकूलवराः ।
बहुहेमचित्र परित्यक्त परे इमु शान्तमेषत समाधिवरम्
मय हस्ति अश्व रथ नानविधाः परित्यक्त स्वप्रियसुतो महिलाः ।
न च दौर्मनस्यत कदाचि कृता इमु शान्तमेषत समाधिवरम्
मय दृष्ट्व पूर्वि सुदरिद्र नराः पर्येष्टिदुःखित च कृच्छ्रगताः ।
मय ते धनेन अदरिद्र कृताः इमु शान्तमेषत समाधिवरम्
हस्ती रथाश्वरथका नयुताः प्रच्छन्नरतनमणिजालचिताः ।
दत्ता मया याचनकान पुरा इमु शान्तमेषत समाधिवरम्
उद्यान कोटिनयुता बहवः समलंकरित्व मय दत्त पुरा ।
(वैद्य 181)
हर्षेत्व मानसु जनित्व कृपां इमु शान्तमेषत समाधिवरम्
ग्रामाथ राष्ट्रनगरा निगमाः समलंकरित्व मय दत्त पुरा ।
दत्वा च प्रीतिमनुभोमि सदा इमु शान्तमेषत समाधिवरम्
रतनान राशय सुमेरुसमास्तथ चीवराभरणकाश्च बहु ।
ये दत्त पूर्वि मय याचनके इमु शान्तमेषत समाधिवरम्
सुदरिद्र सत्त्व कृत आढ्य मया परिकृच्छ्रप्राप्त परित्रात बहु ।
बहुदुःखपद्रुत सुखी मि कृता इमु शान्तमेषत समाधिवरम्
यद आसि ईश्चरु महीय अहं दुखितां च पश्यमि बहुं जनताम् ।
उत्सृष्ट तेषु मय राज्यमभूत् कृप संजनेत्व सुखितो च यथा
ये मे कुमार कृत आश्चरिया कृत दुष्कराणि बहु कल्पशता ।
न च ते मय क्षपण शक्य सिया कल्पान कोटिनयुता भणतः
उन्मत्तचित्तभूमि गच्छि नरा । अश्रद्दधन्त सुगतस्य चरिम् ।
कृत ये मि दुष्कर तदाश्चरिया इमु शान्तमेषत समाधिवरम्
आरोचयामि च कुमार इदं श्रद्दधन्त मे अवितथं वचनम् ।
न हि वाच भाषति मृषां सुगतः सद सत्यवादि जिनु कारुणिकः
(वैद्य 182)
अन्ये इमे ऽपि च प्रकार बहू चरता शोधित य कल्पशताः ।
कथमहं लभित्विमु समाधिवरं मोचेय सत्त्वनियुतां दुखिताम्
यस्मिन् क्षणे अयु समाधि मया प्रतिलब्ध भूत महाज्ञानपथः ।
सो ऽहं लभित्विमु समाधिवरं पश्यामि बुद्धनयुतान् सुबहून्
ऋद्धी अनन्त प्रतिलब्ध मया स विकुर्वमाणु व्रजि क्षेत्रशतान् ।
गत्वा च पृच्छि अहु कारुणिकान् प्रश्नान कोटिनियुतान बहुम्
यश्चैव भाषि मम ते सुगता प्रश्नान कोटिनियुतान तदा ।
गृह्णित्व सर्वमहु धारयमी न च भ्रश्यते एकपदं पि ममा
तं चो श्रुणित्व अहु भूतनयं प्रश्नान कोटिनयुतान बहुम् ।
देशित्व तं विरज शान्तपदं स्थापेमि सत्त्व बहु ज्ञानपथे
अस्मिन् समाधिय स्थिहित्व मया शिक्षित्व भूतनय कल्पशतान् ।
बहुसत्त्वकोटिनयुतानि पुरा ये स्थापिता विरजि मार्गवरे
येही न दृष्ट पुरिमा सुगता भाषन्तका इमु नयं विरजम् ।
तेही न शक्यमिह श्रद्दधितुं परमार्थशून्यत समाधिवरम्
ये श्राद्ध पण्डित विधिज्ञ नरा गम्भीरभूतनयलब्धनयाः ।
(वैद्य 183)
ते ना त्रसन्ति न च संत्रसिषू श्रुत्वा च भोन्ति सद आत्तमनाः
ते ते धरेन्ति वरबोधि समा ते ते हि पुत्र अनुजात ममा ।
ते ते ह्युदुम्बरकुसुमसमास्तेषार्थ हं चरितु कल्पशतान्
न पि तस्य अस्ति विनिपातभयं अष्टाक्षणा विगत तस्य सदा ।
द्रक्ष्यन्ति बुद्धनयुतान् सुबहून् इमु यः समाधि नरु धारयती
यथ मैत्रको जिनु अनन्तयशाः सत्त्वान भेष्यि बहु अर्थकरः ।
तथ व्याकरोम्यहमनन्तमतिं हस्तस्मि यस्य सुसमाधिवरम्
स्मृतिमान् स भोति मतिमान् ज्ञानोद्गतः श्रुतिधरो भवति ।
प्रतिभानु तस्य भवति विपुलं इमु यः समाधि नरु धारयती
देवानां च स भवति पूजनियो मरुतां च सद नमस्यनीयः ।
अभिरक्षितः सतत देवगणैः इमु यः समाधि नरु धारयति
न च सो ऽग्निमध्ये म्रियते न जले न च तस्य शस्त्र क्रमते न विषम् ।
न च वैरिणां गमनियो भवती इमु यः समाधि नरु धारयती
वनकन्दरे वसतु तस्य सदा मरुता करोन्ति वर पारिचरिम् ।
उपस्थायकाश्च बहु यक्षशता इमु यः समाधि नरु धारयती
(वैद्य 184)
ज्ञानेन सागरसमो भवती न सज्जते गुण भणन्तु मुनेः ।
भूतांश्च बुद्धगुण कीर्तयते इमु यः समाधि नरु धारयती
नान्तो न चास्य पर्यन्तु श्रुते न प्रमाणु लभ्यति यथा गगने ।
ज्ञानोल्कधारि तिमिरं हरति इमु यः समाधि नरु धारयती
स्निग्धं सुयुक्त सद मुञ्च गिरां पर्षत्सु भाषति सुप्रेमणियाम् ।
सिंहो यथा स विनदं भणती इमु यः समाधि नरु धारयती
वैद्यो भिषकु समु सो भवती गति लेनु त्राण शरणं बहूनाम् ।
आलोकभूतु जगि सो भवति इमु यः समाधि नरु धारयती
न च तस्य मैथुनि मनो रमते शमथे रतः स्पृशति ध्यानसुखम् ।
शान्तां स भाषति प्रशान्त गिरम् इमु यः समाधि नरु धारयती
न च तस्य मानसु निमित्तरतं सर्वे विभावित निमित्त पृथु ।
सततं समाहितु विदू भवती इमु यः समाधि नरु धारयती
चक्षुश्च सो लभति अप्राकृतकं येनो स पश्यति अनन्तजिनान् ।
सो ऽनन्तचक्षुर्भवति वृषभो इमु यः समाधि नरु धारयती
क्रौञ्चस्वरो मधुरयुक्तगिरो कलविङ्कदुन्दुभिस्वरो भवती ।
संगीतियुक्तस्वरु मञ्जुगिरो इमु यः समाधि नरु धारयती
(वैद्य 185)
मेघाभिगर्जितस्वरो भवती हंसस्वरो रवति मञ्जुगिरः ।
पञ्चस्वराङ्गशतयुक्तस्वरो इमु यः समाधि नरु धारयती
बहुकल्पकोटिनयुता विविधा मधुरस्वराङ्गसुप्रयुक्तस्वराः ।
अचिन्तिया स गिर निश्चरती इमु यः समाधि नरु धारयती
न च भोजने भवति गृध्नुमना न पात्रचीवररतो भवती ।
अल्पेच्छु संतुष्ट सुसंलिखितो इमु यः समाधि नरु धारयती
न च आत्म उत्कर्षकु सो भवती न परस्य भाषति अवर्णु क्वचित् ।
ध्याने रतः सुखुमचित्तु सदा इमु यः समाधि नरु धारयती
आत्मानुप्रेक्षी सततं भवती न परस्य स्खलितेमेषति च ।
अविरुद्धु सर्वि जगि सो भवती इमु यः समाधि नरु धारयती
अकिलिष्टचित्तु परिशुद्धचरी अशठो अवञ्चकु सदा भवती ।
सदमार्दवः सद विमोक्षरतो इमु यः समाधि नरु धारयती
त्यागाधिमुक्त सततं भवती मात्सर्यचित्तु न च तस्य रतम् ।
शीलेनुपेतु सततं भवती इमु यः समाधि नरु धारयती
अभिरूप दर्शनियु प्रेमणियो वरकाञ्चनच्छवि प्रभासकरः ।
(वैद्य 186)
द्वात्रिंशल्लक्षणधरो भवती इमु यः समाधि नरु धारयती
प्रासादिकश्च सद सो भवती अभिलक्षितो बहुजनस्य प्रियो ।
प्रेक्षन्त तृप्ति न लभन्ति नरा इमु यः समाधि नरु धारयती
देवास्य नाग तथ यक्षगणास्तुष्टा उदग्राः सद आत्तमनाः ।
भाषन्ति वर्ण प्रविशित्व कुलानिमु यः समाधि नरु धारयती
ब्रह्मा च शक्र वशवर्ति वहु उपस्थानु तस्य प्रकरोन्ति सदा ।
न च तस्य उन्नत मनो भवती । इमु यः समाधि नरु धारयती
न च तस्य दुर्गतिभयं भवती न पि चाक्षणा न विनिपातभयम् ।
परिमुक्तु सर्वविनिपातभयादिमु यः समाधि नरु धारयती
न च तस्य काङ्क्ष विमतिर्भवती वर बुद्धधर्म श्रुणिया निपुणान् ।
गम्भीरज्ञानानुगतो भवती इमु यः समाधि नरु धारयती
यं यं पि धर्मं श्रुणती सुखुमं सर्वत्र भोति वशि पारगतः ।
बलवन्तु हेतुनिपुणो भवती इमु यः समाधि नरु धारयती
एवं प्रभाषित जिनेन गिरा अहु तेन भोमि परिचीर्ण सदा ।
लभते च धारणि विशिष्ट वरामिमु यः समाधि नरु धारयती
कालक्रियां च स करोति यदा अमिताभु तस्य पुरतः स्थिहती ।
(वैद्य 187)
भिक्षुगणेन सह कारुणिको इमु यः समाधि नरु धारयती
लाभी च धारणिय सो भवती धर्मनिधान वशिपारगतः ।
प्रतिभानवाननाच्छेद्यगिरो य इमं समाधि नरु धारयती
येनैव सो व्रजति धर्मधरो आलोकभूत भवती जगतः ।
सिप्रशान्तचर सुविशुद्धमना इमु यः समाधि नरु धारयती
वर धर्मकोश विविधं निपुणं सो धर्मकाय वशि पारगतः ।
सो संशयं छिनत्ति सर्वजगे इमु यः समाधि नरु धारयती
सर्वे ऽपि सत्त्व सिय कारुणिका भगवान् भवान्तकरणे सुगतः ।
तान् सत्करेय्या बहु कल्पशतान् यथ गङ्गवालुक तथोत्तरि वा
यश्चैव पश्चि क्षयकालि इमं श्रुत्वा समाधिमिह कश्चि नरः ।
अनुमोदमीति भणतैकगिरं कल पुण्यस्कन्ध न स पूर्व भवेत्
यस्यो कुमार इय शान्तगती परमार्थशून्यत समाधिवरो ।
प्रावर्तु भोति तथ पुस्तगतः सो धर्मभाणकु स्थितः सुमतिः
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0