भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 28

28.1

इति श्रीसमाधिराजे शीलनिर्देशपरिवर्तो नाम सप्तविंशतिमः ॥
(वैद्य 161)
28 दशानुशंसापरिवर्तः ।
दशेमे कुमार आनुशंसाः क्षान्तिप्रतिष्ठितस्य मैत्रीविहारिणो बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश?अग्निना न दह्यते । शस्त्रेण न हन्यते । विषमस्य न क्रमते । उदकेन न म्रियते । देवताश्चैनं रक्षन्ति । लक्षणालंकृतं च कायं प्रतिलभते । सर्वदुर्गतिद्वाराणि चास्य पिथितानि भवन्ति । ब्रह्मलोके चास्योपपत्तिर्भवति । सुखेन चास्य रात्रिंदिवानि व्रजन्ति । प्रीतिसुखं चास्य कायं न विजहाति । इमे कुमार दशानुशंसाः क्षान्तिप्रतिष्ठितस्य मैत्रीविहारिणो बोधिसत्त्वस्य महासत्त्वस्य ॥
तत्रेदमुच्यते -
अग्निना दह्यते नासौ शस्त्रेण न च हन्यते ।
विषं न क्रमते काये उदके म्रियते न सः

28.2

रक्षन्ति देवताश्चैनं द्वात्रिंशद् भोन्ति लक्षणाः ।
दुर्गतिः पिथिता चास्य क्षान्तिये अनुशंसिमे

28.3

ब्रह्मत्वं अथ शक्रत्वं भोति चास्य न दुर्लभम् ।
सुखं विहरते नित्यं प्रिति भोन्ति अचिन्तिया

28.4

नो अग्निशस्त्रेण स जातु हन्यते विषेण वा वारिगतो न म्रियते ।
रक्षन्ति देवास्तथ नाग यक्षा मैत्रीविहारिष्यिमि आनुशंसाः

28.5

द्वात्रिंश काये ऽस्य भवन्ति लक्षणा नो चास्य भूयो विनिपातु भोति ।
च्युतश्च स ब्रह्मपुरोपपद्यते क्षान्तिस्थितस्यो इमि आनुशंसाः

28.6

सुखेन रात्रिंदिव तस्य यान्ति प्रीतिस्फुटः कायु तदास्य भोति ।
स क्षान्तिसौरत्यबले प्रतिष्ठितः प्रसन्नचित्तः सद भोति पण्डितः

28.7

दशेमे कुमार आनुशंसा आरब्धवीर्यस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत दुरासदश्च भवति । बुद्धपरिग्रहं च प्रतिलभते । देवतापरिगृहीतश्च भवति । श्रुत्वा चास्य धर्मा न परिहीयन्ते । अश्रतपूर्वांश्च धर्मान् प्रतिलभते । समाधिगोत्रं च प्रतिलभते । अल्पाबाधश्च भवति । आहारश्चास्य सम्यक् परिणामयति । पद्मोपमश्च भवति न मुसलोपमः । इभे कुमार दशानुशंसा आरब्धवीर्यस्य बोधिसत्त्वस्य महासत्त्वस्य ॥
(वैद्य 162)
तत्रेदमुच्यते -
दुरासदः सदा भोति परिदाहो न विद्यते ।
रक्षन्ति देवताश्चैनं क्षिप्रं बुद्धान् स पश्यति

28.8

श्रुतं न हीयते तस्य अश्रतं भोति आमुखम् ।
प्रणिधिं परिपूरेति वीर्यवन्ते इमे गुणाः

28.9

समाधिगोत्रं लभते व्याधिश्चास्य न जायते ।
सुखं चास्यान्नपानानि पच्यन्ते न विषीदति

28.10

उत्पलं वरिमध्ये व सो ऽनुपूर्वेण वर्धते ।
एवं शुक्लेहि धर्मेहि बोधिसत्त्वो विवर्धते

28.11

अवन्ध्याश्चास्य गच्छन्ति रात्रयो दिवसानि च ।
भविष्यति मृत्युकाले फलमेतस्य चेदृशम्

28.12

आरब्धवीर्येण तथागतेन कल्पैरनैकैः समुदागतेन ।
ये बोधिसत्त्वा विरियेणुपेतास्तेषानुशंसा इमि संप्रकाशिताः

28.13

आरब्धवीर्यो भवती दुरासदः परिगृहीतो भवती जिनेहि ।
देवा पि तस्य स्पृह संजनेन्ति नचिरेण सो लप्स्यति बुद्धबोधिम्

28.14

श्रतं च तस्यो न कदाचि हीयते अन्ये पृथू चापि लभन्ति धर्माः ।
प्रतिभानु तस्यो अधिमात्रु वर्धते आरब्धवीर्यस्य इमे ऽनुशंसाः

28.15

समाधिगोत्रं च लघुं धिगच्छति आबाधु तस्यो न कदाचि भोति ।
यथैव सो भोजनु तत्र भुञ्जते सुखेन तस्यो परिणामु गच्छति

28.16

रात्रिंदिवं भवति शुक्लपक्षो आरब्धवीर्यस्य अतन्द्रितस्य ।
बोधी पि तस्यो नचिरेण भेष्यते तथा ह्यसौ वीर्यबलैरुपेतः

28.17

(वैद्य 163)
दशेमे कुमार आनुशंसा ध्यानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत आचारे तिष्ठति । गोचरे चरति । निष्परिदाहो विहरति । गुप्तेन्द्रियो भवति । प्रीतिमनुभवति । विविक्तः कामैः । अतृप्तो ध्यानैः । मुक्तो मारविषयात् । प्रतिष्ठितो बुद्धविषये । विमुक्तिं परिपाचयति । इमे कुमार दशानुशंसा ध्यानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य ॥
तत्रेदमुच्यते -
नासौ भोति अनाचारो आचारे संप्रतिष्ठितः ।
गोचरे चरते योगी वर्जेति च अगोचरम्

28.18

निष्परिदाह्यविहारी गुप्तेन्द्रिय सुसंवृतः ।
अनुभवति संप्रीतिं ध्यानध्यायिस्य गोचरः

28.19

विरक्तः कामतृष्णाया ध्यानसौख्यं निषेवते ।
मुक्तो ऽसौ मारविषयाद् बुद्धगोचरि संस्थितः

28.20

योगिनो हि विशेषो ऽयं यदेको रमते वने ।
विमुक्तिं परिपाचेति तं भोति दशमं पदम्

28.21

आचारि सो तिष्ठति बोधिसत्त्वः सर्वाननाचारु विवर्जयित्वा ।
अगोचरं वर्जिय गोचरे स्थितः समाधियुक्ते इमि आनुशंसाः

28.22

परिदाहु तस्यो न कदाचि भोति आर्यं स्पृशित्वेह सुखं निरामिषम् ।
कायेन चित्तेन च भोति शीतलः समाधियुक्ते इमि आनुशंसाः

28.23

विहरत्यरण्यायतनेषु गुप्तो विक्षेपु तस्यो न कदाचि भोति ।
प्रीतिं च तस्मिल्लंभते निरामिषं तथा हि कायेन विविक्तु भोति

28.24

अलिप्त कामेहि असंकिलिष्टो तथा हि मारविषयात्तु मुक्तः ।
तथागतानां विषये प्रतिष्ठितो विमुक्ति तस्यो परिपाकु गच्छति

28.25

दशेमे कुमार आनुशंसाः प्रज्ञाचरितस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत सर्वस्वपरित्यागो भवति न च दानेन शुद्धिं मन्यते । अखण्डशीलश्च भवति न च शीलमाश्रितः ।(वैद्य 164) क्षान्तिबलसुप्रतिष्ठितश्च भवति न च सत्त्वसंज्ञासंप्रतिष्ठितः । आरब्धवीर्यश्च भवति कायचित्तविविक्तः । ध्यानध्यायी च भवति अप्रतिष्ठितध्यायी । दुर्धर्षश्च भवति मारैः, अप्रकम्प्यश्च भवति सर्वपरप्रवादिभिः । लव्धालोकश्च भवति सर्वसंस्कारगत्याम् । अधिमात्रा चास्य सर्वसत्त्वेषु महाकरुणा समतिक्रामति । न च श्रावकप्रत्येकभूमेः स्पृहयति । बुद्धध्यानसमाधिसमापत्तीरवतरति । इमे कुमार दशानुशंसाः प्रज्ञाचरितस्य बोधिसत्त्वस्य महासत्त्वस्य ॥
तत्रेदमुच्यते -
सर्वस्वं त्यजते धीरः शुद्धिं तेन न मन्यते ।
अखण्डं रक्षते शीलं निश्रयो ऽस्य न विद्यते

28.26

क्षान्तिं भावेति स प्राज्ञः सत्त्वसंज्ञा विवर्तिता ।
आरब्धवीर्यो भवति कायचित्तविविक्ततः

28.27

ध्यानध्यायी च सो भोति अप्रतिष्ठो अनिश्रितः ।
दुर्धर्षो भोति मारेहि प्रज्ञावन्त इमे गुणाः

28.28

अकम्पियो च सो भोति सर्वैः परप्रवादिभिः ।
लब्धालोकश्च संसारे प्रज्ञाया ईदृशा गुणाः

28.29

महाकृपां स लभते सर्वसत्त्वान अन्तिके ।
श्रावकप्रत्येकज्ञाने न स्पृहेति कदाचन

28.30

सर्वस्वत्यागेन न शुद्धि मन्यते अखण्डशीलो न च शीलनिश्रितः ।
भावेति क्षान्ती न च सत्त्वसंज्ञा । प्रज्ञाधिमुक्ते इमि आनुशंसाः

28.31

आरब्धवीर्यो भवती विमुक्तो अनिश्रितो ध्यायति अप्रतिष्ठितः ।
दुर्धर्षु मारेण स भोति पण्डितो प्रज्ञाधिमुक्ते इमि आनुशंसाः

28.32

अकम्पियो भोति परप्रवादिभिः स लब्धगाधो भवतीह संस्कृते ।
अधिमात्र सत्त्वेषु कृपां जनेति प्रज्ञाधिमुक्ते इमि आनुशंसाः

28.33

प्रत्येकबुद्धेषु च श्रावकेषु चो न तस्य जातु स्पृह तेषु जायते ।
(वैद्य 165)
तथा ह्यसौ बुद्धगुणाः प्रतिष्ठिताः प्रज्ञाधिमुक्ते इमि आनुशंसाः

28.34

दशेमे कुमार आनुशंसा बहुश्रुतस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत संक्लेशं न करोति । व्यापादं न जनयति । काङ्क्षां विवृणोति । दृष्टिमृज्वीकरोति । उत्पथं च वर्जयति । मार्गे प्रतिष्ठते । अमृतद्वारे तिष्ठति । आसन्नस्थायी भवति बोधये । आलोकभूतो भवति सत्त्वानाम् । दुर्गतिभ्यो न बिभेति । इमे कुमार दशानुशंसा बहुश्रुतस्य बोधिसत्त्वस्य महासत्त्वस्य ॥
तत्रेदमुच्यते -
अनुशंसा दशैवैते बाहुश्रत्ये प्रकाशिताः ।
तथागतेन बुद्धेन यथाभूतं प्रजानता

28.35

संक्लेशं व्यवदानं च उभौ पक्षौ स जानति ।
संक्लेशं परिअवर्जित्वा व्योदाने मार्गि तिष्ठति

28.36

काङ्क्षां विवरति ज्ञानी दृष्टीमृज्वीकरोति च ।
मार्ग उत्पथ वर्जेति ऋजुके मार्गि तिष्ठति

28.37

तिष्ठते चामृतद्वारे आसन्नो भोति बोधये ।
आलोकभूतः सत्त्वानां दुर्गतिभ्यो न भीयति

28.38

जानाति धर्मं पृथु सांकिलेशिकं व्यवदानपक्षं पि तथैव जानति ।
स संकिलेशं परिवर्जयित्वा व्योदानि संशिक्षति धर्मि उत्तमे

28.39

काङ्क्षां च सो विवरति सर्वप्राणिनां दृष्टी च तस्यो भवति सदोज्ज्वका ।
स उत्पथं मार्गु विवर्जयित्वा संतिष्ठते ऋजुकि पथे सदा शिवे

28.40

अमृतस्य द्वारे भवती सदा स्थितो आसन्न भोती विपुलाय बोधये ।
आलोकभूतः पृथु सर्वप्राणिनां न चाप्यसौ भायति दुर्गतिभ्यः

28.41

दशेमे कुमार आनुशंसा धर्मदानगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य परेभ्यो धर्मदानं ददतः । कतमे दश? यदुत अक्रियां विवर्जयति ॥ क्रियामवतरति । सत्पुरुषधर्मे प्रतिष्ठते । बुद्धक्षेत्रं परिशोधयति । बोधिमण्डमर्पयति । वस्तुं परित्यजति । क्लेशान्निगृह्वाति । सर्वसत्त्वेभ्यः प्रत्यंशं (वैद्य 166) ददाति । तदारम्बणां च मैत्रीं भावयति । दृष्टधार्मिकं च सुखं प्रतिलभते । इमे कुमार दशानुशंसा धर्मदानगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य परेभ्यो धर्मदानं ददतः ॥
तत्रेदमुच्यते -
यो हि दानं दादात्यग्रं धर्मदानममत्सरी ।
दश तस्यानुशंसा वै लोकनाथेन भाषिताः

28.42

अक्रियां सर्वि वर्जेति क्रियामोतरते विदुः ।
सत्पुरुष धर्मप्रतिपन्नस्त्यागचित्तं निषेवते

28.43

बुद्धक्षेत्रं च शोधेति क्षेत्रं भोति स्यनुत्तरम् ।
बोधिमण्डं समारूढो धर्मदानस्यिदं फलम्

28.44

त्यजते सर्ववस्तूनि शिक्षते धर्मराजिनः ।
किलेशा निगृहीतास्य बोधिस्तस्य न दुर्लभा

28.45

सर्वसत्त्वान प्रत्यंशं मैत्रचित्तः प्रयच्छति ।
अनीर्षुकश्च सो भोति सौख्यं भोति स्यमानुषम्

28.46

विवर्जिता अक्रिया पण्डितेन क्रियाय सो नित्य विदुः प्रतिष्ठितः ।
महात्मधर्मेषु सदा प्रतिष्ठितो यो धर्मदानं सद देति पण्डितः

28.47

क्षेत्रं च तस्य सद भोति शुद्धं धर्मा विवर्धन्तिमि बोधिपाक्षिकाः ।
आसन्न भोति सद बोधिमण्डे धर्मं ददित्वा इमि आनुशंसाः

28.48

क्लेशा न सन्ती परित्यक्त वस्तून् वस्तुं परिज्ञातु स्वलक्षणेन ।
विमुक्त सर्वेहि परिग्रहेहि न तस्य सङ्गो भवती कदाचित्

28.49

उपस्थितं चित्तु विचक्षणस्य सर्वे ऽपि सत्त्वा सुखिनो भवन्तु ।
स मैत्रचित्तो भवती अनीर्ष्युको दृष्टेव धर्मे ऽस्य सुखं अनल्पकम्

28.50

दशेमे कुमार आनुशंसाः शून्यताविहारिणो बोधिसत्वस्य महासत्त्वस्य । कतमे दश? यदुत बुद्धविहारेण विहरति । अनिश्रितो ध्यायति । उपपत्तिं न प्रार्थयति । शीलं न परामृशति । (वैद्य 167) आर्यान्नापवदति । अविरुद्धो विहरति । वस्तु नोपलभते । विविक्तश्च भवति । बुद्धान्नाभ्याख्यायति । सद्धर्मं धारयति । इमे कुमार दशानुशंसाः शून्यताविहारिणो बोधिसत्त्वस्य महासत्त्वस्य ॥
तत्रेदमुच्यते -
यो विहारो नरेन्द्राणां सर्वबुद्धान गोचरः ।
तेनो विहरते योगी यत्र जीवो न लभ्यते

28.51

अनिश्रितः सर्वलोके आर्यं ध्यानं न रिञ्चति ।
उपपत्तिं न प्रार्थेति दृष्ट्वा धर्मस्वभावताम्

28.52

अपरामृष्टशीलस्य भवेच्छीलमनिश्रितम् ।
न सो ऽपवदते किंचिदन्यमार्यं अनास्रवम्

28.53

अविरुद्धो विहरति विवादो ऽस्य न विद्यते ।
वस्तुं नोपलभेद् योगी विविक्तो विहरी सदा

28.54

अभ्याख्याति न सो बुद्धमपि जीवितकारणात् ।
निश्रितः शून्यधर्मेषु कायसाक्षी विशारदः

28.55

सर्वेषां लोकनाथानां बुद्धबोधिमचिन्तियाम् ।
धर्मं धारेति सत्कृत्य बुद्धधर्मान्न काङ्क्षति

28.56

ये ते विहाराः पुरुषर्षभाणां यस्मिन्नभूमिः पृथुतीर्थिकानाम् ।
विहरत्यसौ तैरिह बोधिसत्त्वो यस्मिन्न सत्त्वो न जीवु न पुद्गलः

28.57

न निश्रयस्तस्य कदाचि विद्यते अनिश्रितः सेवते ध्यानसौख्यम् ।
निरात्म निःसत्त्व विदित्व धर्मानुपपत्तिसंज्ञास्य न जातु भोति

28.58

स्वभावु धर्माण प्रजानतश्च शीले ऽपि तस्येह न कश्चि निश्रयः ।
शीलेन नो मन्यति जातु शुद्धिं प्रसादमार्येषु करोति नित्यम्

28.59

विरोधु तस्यो न कदाचि भोति विभाविताः सर्वस्वभावशून्याः ।
न चापि सो ऽभ्याख्याति नायकानां सद्धर्म धारित्व तथागतानाम्

28.60

(वैद्य 168)
दशेमे कुमार आनुशंसाः प्रतिसंलयनाभियुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश ?यदुत अनाविलचित्तो भवति । अप्रमत्तो विहरति । बुद्धमनुस्मरति । चर्यां श्रद्दधाति । ज्ञाने न काङ्क्षति । कृतज्ञो भवति । बुद्धानां धर्मं न प्रतिक्षिपति । सुसंवृतो विहरति । दान्तभूमिमनुप्राप्नोति। प्रतिसंविदः साक्षात्करोति । इमे कुमार दशानुशंसाः प्रतिसंलयनाभियुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य ॥
तत्रेदमुच्यते -
चित्तमनाविलं भोति प्रमादाः सर्वि वर्जिताः ।
अप्रमत्तो विहरति प्रतिसंलानगोचरम्

28.61

श्रुत्वा च लोकनाथानां चर्यां बुद्धान श्रद्दधे ।
ज्ञाने न काङ्क्षते योगी बुद्धज्ञाने अचिन्तिये

28.62

कृतज्ञो भोति बुद्धानां बुद्धधर्मान्न काङ्क्षति ।
सुसंवृतो विहरति दान्तभूमिप्रतिष्ठितः

28.63

प्रतिसंविदः स लभते य एको रमते सदा ।
जहित्वा लाभसत्कारं प्रतिसंलानगोचरः

28.64

चित्तं च तस्यो भवति अनाविलं सर्वे प्रमादाः परिवर्जितास्य ।
सदाप्रमत्तो भवती महात्मा समाधियुक्तस्य इमे ऽनुशंसाः

28.65

स्मरित्व बुद्धान् द्विपदानमुत्तमान् श्रद्धाति तेषां चरियामनुत्तराम् ।
न काङ्क्षति ज्ञानु तथागतानां समाधियुक्ते इमि आनुशंसाः

28.66

बुद्धान सो भोति सदा कृतज्ञो न जीवितार्थं स क्षिपेत धर्मम् ।
सुसंवृतो विहरति नित्यकालं समाधियुक्ते इमि आनुशंसाः

28.67

स दान्तभूमीमनुप्राप्त भोति प्रतिसंविदः साक्षिकरोति क्षिप्रम् ।
अनाच्छेद्यवाक्य प्रतिभानवांश्च सूत्रान्तकोटिनियुतान भाषते

28.68

स बुद्धबोधिं परिगृह्णते लघुम् आरक्षते शासनु नायकस्य ।
(वैद्य 169)
निहनित्व सो सर्वपरप्रवादिनः करोति वैस्तारिक बुद्धबोधिम्

28.69

इतश्च्यवित्वान स बोधिसत्त्वः सुखावतीं गच्छति लोकधातुम् ।
अनुत्पादधर्मेषु च क्षान्ति लप्स्यते अमितायुषो धर्मवराग्रु श्रुत्वा

28.70

दशेमे कुमार आनुशंसा अरण्यवासगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत अल्पकृत्यो विहरति । गणं वर्जयति । विवादो ऽस्य न भवति । अव्यावध्यो भवति । आस्रवान वर्धयति । अधिकरणं न करोति । उपशान्तश्चरति । सुसंवृतश्व विहरति । मोक्षानुकूला चास्य चित्तसंततिर्भवति । क्षिप्रं च विमुक्तिं साक्षात्करोति । इमे कुमार दशानुशंसा अरण्यवासगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य ॥
तत्रेदमुच्यते -
अल्पकृत्यः सदा भोति गणं वर्जेति दूरतः ।
विवादो न भवत्यस्य वनेष्वेकविहारिणः

28.71

अव्यावध्येन चित्तेन आस्रवान्न विवर्धयेत् ।
नास्याधिकरणं भोति गुणास्ते ऽरण्यवासिनः

28.72

उपशान्तः स चरते मनोवाक्कायसंवृतः ।
मोक्षानुकूलो भवति विमुक्तिं क्षिप्र स्पर्शति

28.73

भवति सततमल्पकृत्यु योगी पृथुगणदोषेण विवर्जयित्वा ।
न विवदति कदाचि मुक्त योगी इमि गुण तस्य भवत्यरण्यवासे

28.74

यद भवति निर्विण्णु संस्कृते ऽसौ न भवति तस्य स्पृहा कहिंचि लोके ।
न च भवति विवृद्धिरास्रवाणां वनि वसतो ऽस्य भवन्ति आनुशंसाः

28.75

अधिकरणु न जातु चास्य भोति उपशान्तरतो विवेकचारी ।
वचसि मनसि काये संवृतस्यो बहु गुण तस्य भवन्त्यरण्यवासे

28.76

(वैद्य 170)
भवति च अनुकूल तस्य मोक्षो लघु प्रतिपद्यति सो विमुक्ति शान्तम् ।
वनि वसति विमुक्ति सेवतो ऽस्या इमि गुण भोन्ति अरण्यवासि सर्वे

28.77

दशेमे कुमार आनुशंसाः पिण्डचारिकस्य धूतगुणसंलेखप्रतिष्ठितस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत ज्ञात्रकामतास्य न भवति । यशस्कामतास्य न भवति । लाभसत्कारकामतास्य न भवति । आर्यवंशप्रतिष्ठितश्च भवति । कुहनलपनतास्य न भवति । आत्मानं नोत्कर्षयति । परान्न पंसयति । अनुनयप्रतिघप्रहीणः परगृहे चरति । निरामिषं च धर्मदानं ददाति । धूतगुणसंलेखप्रतिष्ठितस्य चास्य ग्राह्या धर्मदेशना भवति । इमे कुमार दशानुशंसाः पिण्डपातिकस्य धूपगुणसंलेखप्रतिष्ठितस्य बोधिसत्त्वस्य महासत्त्वस्य ॥
तत्रेदमुच्यते -
न ज्ञात्रकामो भवति यशो नाप्यभिनन्दते ।
लाभालाभे समचित्तो यो धूतेषु प्रतिष्ठितः

28.78

नोत्सृजत्यार्यवंशं च कुहना लपना न च ।
उत्कर्षेति न चात्मानं परान् पंसयते न च

28.79

प्रतिघानुनयौ चास्य धर्मं देशी निरामिषम् ।
ग्राह्यं सि वचनं भोति पिण्डपाते गुणा अमी

28.80

न मार्गते ज्ञात्र यशो न लाभं चतुरार्यवंशे भवति प्रतिष्ठितः ।
अकुहको अलपकु भोति पण्डितो धूताधिमुक्तस्य इमीदृशा गुणाः

28.81

नात्मानमुत्कर्षि परान्न पंसी पुरुषं पि उक्तो न कदाचि कुप्यते ।
वर्णं पि श्रुत्वा जनये न हर्षं यः पिण्डपातेन भवेत तुष्टः

28.82

निरामिषं देति च धर्मदानं न लाभसत्कार गवेषते ऽसौ ।
ग्राह्या च तस्य भवते ऽस्य भाषितं धूताधिमुक्तस्य इमे ऽनुशंसाः

28.83

इति हि कुमार एवंरूपेषु धूतगुणेषु प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो ऽरण्ये विहरन् बुद्धनिधानं प्रतिलभते । धर्मनिधानं प्रतिलभते । ज्ञाननिधानं प्रतिलभते । पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं (वैद्य 171) प्रतिलभते । कथं च कुमार बोधिसत्त्वो महासत्त्वो बुद्धनिधानं प्रतिलभते?इमाः कुमार विवेकचारी बोधिसत्त्वो महासत्त्वः पञ्चाभिज्ञाः प्रतिलभते । स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण पूर्वस्यां दिशि अप्रमेयानसंख्येयान् बुद्धान् भगवतः पश्यति । एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि अप्रमेयानसंख्येयान् बुद्धान् भगवतः पश्यति । सो ऽविरहितो भवति बुद्धदर्शनेन । एवं हि कुमार बोधिसत्त्वो महासत्त्वो बुद्धनिधानं प्रतिलभते । कथं च कुमार बोधिसत्त्वो महासत्त्वो धर्मनिधानं प्रतिलभते? यं च ते बुद्धा भगवन्तो धर्मं देशयन्ति, तं स बोधिसत्त्वो महासत्त्वो दिव्येन श्रोत्रधातुना सर्वं शृणोति । सो ऽविरहितो भवति धर्मश्रवणेन । एवं हि कुमार बोधिसत्त्वो धर्मनिधानं प्रतिलभते । कथं च कुमार बोधिसत्त्वो महासत्त्वो ज्ञाननिधानं प्रतिलभते? येन ज्ञानेन सर्वधर्मानाराधयति । आराधयित्वा अविप्रमुषितस्मृतिः सत्त्वानां धर्मं देशयति । तस्य च यो ऽर्थः स प्रजानाति । एवं हि कुमार बोधिसत्त्वो महासत्त्वो ज्ञाननिधानं प्रतिलभते । कथं च कुमार बोधिसत्त्वो महासत्त्वः पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं प्रतिलभते? सो ऽभिज्ञया अतीतानागतप्रत्युत्पन्नसत्त्वचित्तचरितज्ञानमवतरति । एवं हि कुमार बोधिसत्त्वो महासत्त्वः पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं प्रतिलभते । संक्षिप्तेन कुमार एवंगुणधर्मप्रतिष्ठितो बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मान् प्रतिलभते यत्राभूमिः सर्वश्रावकप्रत्येकबुद्धानाम्, कः पुनर्वादः सर्वपरप्रवादिनाम् ॥
तत्रेदमुच्यते -
बुद्धनिधानं च धर्मनिधानं ज्ञाननिधानं च पूर्वान्तनिधानम् ।
पञ्च अभिज्ञाः स क्षिप्रं लभति यो विदु रण्णि सदा स्थितु भोति

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc