समाधिराजसूत्र · अध्याय 27
इति श्रीसमाधिराजे दानानुशंसापरिवर्तो नाम षडविंशतितमः ॥
(वैद्य 160)
27 शीलनिर्देशपरिवर्तः ।
दशेमे कुमार अनुशंसाः परिशुद्धशीलस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत ज्ञानं च परिशोधयति परिपूरयति । बुद्धानां भगवतामनुशिक्षते । अगर्हितो भवति पण्डितानाम् । प्रतिज्ञातो न चलति । प्रतिपत्तौ तिष्ठति । संसारात् पलायते । निर्वाणमर्पयति । निष्पर्युत्थानो विहरति । समाधिं प्रतिलभते । अदरिद्रश्च भवति । इमे कुमार दशानुशंसाः परिशुद्धशीलस्य बोधिसत्त्वस्य महासत्त्वस्य ॥
तत्रेदमुच्यते -
ज्ञानं च परिपूरेति बुद्धानामनुशिक्षते ।
अगर्हितः पण्डितानां भोति नित्यं विशारदः
प्रतिज्ञातो न चलति प्रतिपत्तौ च तिष्ठति ।
अर्पेति येन निर्वाणं संसारातः पलायते
निष्पर्युत्थितो विहरति समाधिं लभते लघु ।
अदरिद्रश्च भवति शीलस्कन्धे प्रतिष्ठितः
ज्ञानं च तस्यो परिपूर्णु भोति अनुशिक्षते चाति तथागतानाम् ।
न चास्य निन्दां प्रकरोन्ति पण्डिताः तथा हि तस्यो परिशुद्ध शीलम्
प्रतिज्ञातो ऽसौ न चलाति पण्डितः तथा हि शूरः प्रतिपत्तिये स्थितः ।
दृष्ट्वा च संसारमनेकदोषं पलायते निर्वृति येन याति
पर्युत्थितं चित्तु न भोति तस्य तथा ह्यसौ शीलबले प्रतिष्ठितः ।
क्षिप्रं समाधिं लभते निरङ्गणं परिशुद्धशीलस्यिमि आनुशंसाः
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0