समाधिराजसूत्र · अध्याय 24
इति श्रीसमाधिराजे तथागताचिन्त्यनिर्देशपरिवर्तस्त्रयोविंशतितमः ॥
(वैद्य 150)
24 प्रतिसंविदवतारपरिवर्तः ।
तत्र कुमार कथं बोधिसत्त्वो महासत्त्वो धर्मप्रतिसंविदि चरन् धर्मेषु धर्मानुपश्यी समुदागच्छत्यनुत्तरायां सम्यक्संबोधौ? इह कुमार बोधिसत्त्वो महासत्त्वो धर्मेषु धर्मानुपश्यी नान्यत्र रूपेण बोधिं समनुपश्यति । नान्यत्र रूपाद्वोधाय चरति । नान्यत्र रूपेण बोधिं पर्येषते । नान्यत्र रूपेण बोधाय समुदागच्छति । नान्यत्र रूपेण सत्त्वानि बोधाय समादापयति । नान्यत्र रूपेण तथागतं पश्यति । रूपस्याविनाशस्वभावः तथागत इति तथागतं पश्यति । अन्यद् रूपमन्यो रूपस्वभाव इति नैवं पश्यति । अन्यो रूपस्वभावो ऽन्यस्तथागत इति नैवं पश्यति । यश्च रूपस्वभावो यश्च तथागत इत्यद्वयेयं धर्मता । एवं पश्यन् बोधिसत्त्वो महासत्त्वश्चरति धर्मप्रतिसंविदि । एवं नान्यत्र वेदनाया नान्यत्र संज्ञाया नान्यत्र संस्कारेभ्यो नान्यत्र विज्ञानेन बोधिं समनुपश्यति । नान्यत्र विज्ञानाद्बोधाय चरति । नान्यत्र विज्ञानेन बोधिं पर्येषते । नान्यत्र विज्ञानेन बोधाय समुदागच्छति । नान्यत्र विज्ञानेन सत्त्वानि बोधाय समादापयति । नान्यत्र विज्ञानेन तथागतं पश्यति । विज्ञानस्याविनाशस्वभावस्तथागत इति तथागतं पश्यति । अन्यद्विज्ञानमन्यो विज्ञानस्वभाव इति नैवं पश्यति । अन्यो विज्ञानस्वभावो ऽन्यस्तथागत इति नैवं पश्यति । यश्च विज्ञानस्वभावो यश्च तथागत इत्यद्वयेयं धर्मता । एवं पश्यन् बोधिसत्त्वो महासत्त्वश्चरति धर्मप्रतिसंविदि ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
रूपेण दर्शिता बोधी बोधये रूप दर्शितम् ।
विसभागेन शब्देन उत्तरो धर्म देशितः
शब्देन उत्तरं रूपं गम्भीरं च स्वभावतः ।
समं रूपं च बोधिश्च नानात्वं नास्य लभ्यते
यथा निर्वाण गम्भीरं शब्देनासंप्रकाशितम् ।
लभ्यते न च निर्वाणं स च शब्दो न लभ्यते
शब्दश्चाप्यथ निर्वाणमुभयं तन्न लभ्यते ।
एवं शून्येषु धर्मेषु निर्वाणं संप्रकाशितम्
निर्वाणं निर्वृती वुत्ता निर्वाणं च न लभ्यते ।
अप्रवृत्त्यैव धर्माणां यथा पश्चात्तथा पुरा
सर्वधर्माः स्वभावेन निर्वाणसमसादृशाः ।
ज्ञाता नैष्क्रम्यसारेहि ये युक्ता बुद्धशासने
(वैद्य 151)
पश्यित्वा कायु बुद्धस्य वक्ष्यन्ते दृष्टु नायकः ।
न चाहं रूपकायेन पश्यितुं शक्य केनचित्
ज्ञातः स्वभावो रूपस्य यादृशं रूपलक्षणम् ।
रूपस्वभावमाज्ञाय कायो मम निदेशितः
एवं पञ्चान स्कन्धानां ज्ञानं मे धर्मलक्षणम् ।
ज्ञात्वा स्वभावं धर्माणां धर्मकाये प्रतिष्ठितः
देशेमि धर्म सत्त्वानां धर्मकाये ऽप्यनिःसृतः ।
न च धर्मत बुद्धानां शक्यं वाचाय भाषितुम्
इमं नयमजानन्तो बुद्धशब्दं श्रुणित्व ते ।
घोषमात्रेण वक्ष्यन्ति दृष्टो मे नरनायकः
सर्वसंज्ञाप्रहीणस्य भवसंज्ञा विगच्छति ।
न जातु शब्दसंज्ञस्य भवते शास्तृदर्शनम्
यः शून्यतां प्रजानाति ईदृशं रूपलक्षणम् ।
न चान्या शून्यता उक्ता अन्या रूपस्वभावता ।
यस्तु रूपं प्रजानाति स प्रजानाति शुन्यताम्
यः शून्यतां प्रजानाति ईदृशं रूपलक्षणम् ।
न चासौ मारकोटीभिर्भूयः शक्य पराजितुम्
प्रजानाति हि यो रूपं स प्रजानाति शून्यताम् ।
य शून्यतां प्रजानाति स प्रजानाति निर्वृतिम्
इमां गतिमजानन्तः प्रनष्टा औपलम्भिकाः ।
अभावे भावसंज्ञेयो भावे चाभावसंज्ञिनः
वञ्चिता ज्ञात्रलाभेन प्रनष्टा मम शासनात् ।
फलसंज्ञा अवस्थाने रिक्ताः श्रामणकाद्धनात्
कुसीदा हीनवीर्याश्च शीलस्कन्धे असंस्थिताः ।
पर्युप्थिताश्च वक्ष्यन्ति न एतद् बुद्धशासनम्
केचिदेवं प्रवक्ष्यन्ति वयं बोधाय प्रस्थिताः ।
अदान्ता अविनीताश्च परस्परमगौरवाः
शब्दकामा भविष्यन्ति धर्मे चैवानवस्थिताः ।
एवं सा भेष्यते इच्छा ज्ञात्रलाभगवेषणे
लाभकामा भविष्यन्ति संनिपाते हि चिन्तकाः ।
मदप्रमादाभिभूता लाभसत्कार अर्थिकाः
(वैद्य 152)
निःसृता लाभसत्कारे ज्ञात्रलाभगवेषिणः ।
स्तूपान् विहारान् काहेन्ति कुलस्त्रीष्वधिमूर्च्छिताः
निःसृताश्चोपलम्भस्मिन् कामतृष्णासु निःसृताः ।
गृहिकर्म करिष्यन्ति मारस्य विषये स्थिताः
गृहिणां देशयिष्यन्ति कामा अग्निशिखोपमाः ।
प्रविश्य च गृहांस्तेषां दूषयिष्यन्ति तान् कुलान्
गृहिणश्च भविष्यन्ति तेषु शास्तारसंज्ञिनः ।
तेषां च विप्रवुस्तानां पुत्रदाराणि दूषयि
ये तेषामन्नपानेन करिष्यन्ति अनुग्रहम् ।
तेषां तत्पुत्रदारेषु भार्यासंज्ञा भविष्यति
गृहिणो न स्वदारेषु भविष्यन्त्यधिमूर्च्छिताः ।
यथा ते प्रव्रजित्वा हि परदारेषु मूर्च्छिताः
शिक्षावदातवस्त्राणं गृहीणं या मि दर्शिता ।
सा शिक्षा तेषां भिक्षूणां तस्मिन् काले न भेष्यति
भेरीशङ्खमृदङ्गेहि पूजां काहेन्ति ते मम ।
या च सा उत्तमा पूजा प्रतिपत्तिर्न भेष्यति
ते आत्मना सुदुःशीला दृष्ट्वा शीलप्रतिष्ठितान् ।
अन्योन्यमेवं वक्ष्यन्ति एते ऽपि यादृशा वयम्
श्रुत्वा शीलस्य ते वर्णं दुःशीलाः पापगोचराः ।
पर्युत्थिताश्च वक्ष्यन्ति नैवैतद्बुद्धभाषितम्
न च ह्री भेष्यते तेषां नष्टं श्रामणकं धनम् ।
चोदिताभूतवाचाय बुद्धबोधिं प्रतिक्षिति
तेषां व्यापन्नचित्तानामुत्सृष्ट्वा बुद्धशासनम् ।
धर्मं प्रतिक्षिपित्वा च वासो ऽवीचौ भविष्यति
न मे श्रुतं च दृष्टं वा येषामेतादृशी चरी ।
ते बुद्धज्ञानं लप्स्यन्ते बालधर्मप्रतिष्ठिताः
या तेषां कुहना तत्र शाठियं वाक्कियं तदा ।
जानामि तदहं सर्वं ज्ञानं मे ऽत्र प्रवर्तते
सचेत् कल्पं प्रभाषेयं यत्तेषां स्खलितं पृथु ।
बोधिसत्त्वप्रतिज्ञानां किंचिन्मात्रं प्रकीर्तितम्
नास्ति पापमकर्तव्यं कुमारा तेष भेष्यति ।
मा तेहि संस्तवं सार्धं कुर्यास्त्वं कालि पश्चिमे
(वैद्य 153)
आलपेत् संलपेय्यासि कुर्यासी तेषु गौरवम् ।
अनोलीनः सत्करेय्यासि अग्रबोधीय कारणात्
वर्षाग्रं परिपृच्छित्वा यस्ते वृद्धतरो भवेत् ।
कुर्या हि गौरवं तत्र शिरसा पादवन्दनम्
न तेषां स्खलितं पश्येद्वोधिमण्ड विपश्यताम् ।
प्रतिघातं न जनयेत् मैत्रचित्तः सदा भवेत्
यद्येषां स्खलितं पश्येद्दोषांस्तेषां न कीर्तयेत् ।
यादृशं काहिती कर्म लप्स्यते तादृशं फलम्
स्मितेन मुखचन्द्रेण वृद्धेषु नवकेषु च ।
पूर्वाभाषी भवेन्नित्यं हतमानश्च सूरतः
चीवरैः पिण्डपातैश्च कुर्यास्तेषामनुग्रहम् ।
एवं चित्तं प्रदध्यास्त्वं सर्वे भेष्यन्ति नायकाः
अध्येष्येयुर्यदि त्वां ते धर्मदानस्य कारणात् ।
प्रथमं वाचं भाषेय्या नाहं वैपुल्यशिक्षितः
एवं त्वं वाच भाषेय्या आयुष्मान् विज्ञ पण्डितः ।
कथं महात्मनां शक्यं पुरतो भाषितुं मया
सहसैषां न जल्पेत तुलयित्वा च भाजनम् ।
यदि भाजनं विजानीया अनधीष्टो ऽपि देशयेत्
यदि दुःशील पश्येसि परिषायां बहुस्थितान् ।
संलेखं मा प्रभाषेस्त्वां वर्णं दानस्य कीर्तयेः
भवेयुर्यदि वाल्पेच्छाः शुद्धाः शीले प्रतिष्ठिताः ।
मैत्रं चित्तं जनित्वा त्वं कुर्याः संलेखिकीं कथाम्
परीत्ता यदि पापेच्छा शीलवन्तो बहू भवेत् ।
लब्धपक्षस्तदा भूत्वा वर्णं शीलस्य कीर्तयेत्
पूर्वं परिषदं ज्ञात्वा यदि शुद्धा भवेत्तदा ।
यावन्तः कुशला धर्माः सर्वांस्तेभ्यः प्रकाशयेत्
दानं शीलं तथा क्षान्तिं वीर्यं ध्यानं श्रुतं तथा ।
संतुष्ट्यल्पेच्छसंलेखान् वर्णयेत् कीर्तयेत् सदा
अरण्यवासं ध्यानसुखं गणवासविवर्जनम् ।
एतेषां वर्ण भाषेत एवं हि धारयेत् सुखम्
अरण्यवास नो रिञ्चेन्न शीलपरमो भवेत् ।
प्रतिसंलानु सेवेत न दानपरमो भवेत्
(वैद्य 154)
शीलस्कन्धे स्थिहित्वा च बाहुश्रुत्यमुपार्जयेत् ।
इमं समाधिमेषन्तः पूजयेच्छास्तृधातवः
छत्रैर्ध्वजैः पताकाभिर्गन्धमाल्यविलेपनैः ।
कारयेत् पूज बुद्धस्य समाधिं शान्तमेषता
रञ्जनीयेहि तूर्येहि संगीतिं संप्रयोजयेत् ।
पूजयेद्धातुं बुद्धस्य अनोलीनो अतन्द्रितः
यावन्ति गन्धमाल्यानि धूपनं चूर्ण चैलिकम् ।
सर्वैस्तैः पूजयेन्नाथं बुद्धज्ञानस्य कारणात्
यावती काचित् पूजास्ति अप्रमेया अचिन्तिया ।
कुर्यास्ताः सर्वबुद्धानां समाधिं शान्तमेषताः
प्रत्यंशं सर्वसत्त्वेभ्यः समं दद्यादनिश्रितः ।
असङ्गज्ञानमेषन्तो बुद्धज्ञानमनुत्तरम्
मयापि पूर्वबुद्धानां कृता पूजा अचिन्तिया ।
अनिश्रितेन भूत्वैनं समाधिं शान्तमेषता
दुर्लभोत्पादु बुद्धानां दुर्लभो मानुषो भवः ।
दुर्लभा शासने श्रद्धा प्रव्रज्या उपसंपदा
येन आरागितः शास्ता चित्तं बोधाय नामितम् ।
मा चल त्वं प्रतिज्ञायास्तिष्ठ च प्रतिपत्तिषु
य इदं धारयेत् सूत्रं क्षयकाले उपस्थिते ।
प्रतिभानं लभेत् क्षिप्रं प्रवृत्तं यदि धारयेत्
एकगाथां पि धारित्वा पुण्यस्कन्धो अचिन्तियः ।
किं वा पुनः सर्वसूत्रं धारयेद् यः श्रुतार्थिकः
सर्वसत्त्वान् बोधिप्राप्तान् पूजयेद् यो ह्यतन्द्रितः ।
यः कुर्याद् गौरवेणासौ कल्पसत्त्वोपमान् सदा
इतः समाधितो यश्च गाथामेकां पि धारयेत् ।
सर्वं पुरिमकं पुण्यं कलां नोपैति षोडशीम्
अचिन्तियानानुशंसान् बुद्धज्ञानेन जानमि ।
इमं समाधिं श्रुत्वेह यः काङ्क्षां न करिष्यति
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0