भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 25

25.1

इति श्रीसमाधिराजे प्रतिसंविदवतारपरिवर्तो नाम चतुर्विंशतितमः ॥
(वैद्य 155)
25 अनुमोदनापरिवर्तः ।
तत्र भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हिं कुमार बोधिसत्त्वेन महासत्त्वेनोपायकुशलेन भवितव्यम् । कथं च कुमार बोधिसत्त्वो महासत्त्व उपायकुशलो भवति? इह कुमार बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामन्तिके ज्ञातिसंज्ञा उत्पादयितव्या । सर्वसत्त्वानामन्तिके ज्ञातिचित्तमुपस्थाप्य यः सर्वसत्त्वानां कुशलमूलपुण्यस्कन्धस्तत् सर्वमनुमोदयितव्यम् । त्रिरात्र्यास्त्रिदिवसस्य सर्वसत्त्वानां कुशलमूलपुण्यस्कन्धमनुमोद्य सर्वज्ञतारम्बणेन चित्तोत्पादेन तेषामेव सर्वसत्त्वानां निर्यातयितव्यम् । अनेन कुशलमूलेन बोधिसत्त्वो महासत्त्वः क्षिप्रमिमं समाधिं प्रतिलभते,क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
सर्वे मम ज्ञातय एति सत्त्वाः यस्तेषमस्ती पृथु पुण्यस्कन्धः ।
रात्रेस्त्रिरेवं दिवसस्य च त्रीरनुमोदमी एमु जनित्व चित्तम्

25.2

अनुमोदमी ये सुविशुद्धशीला ये जीवितार्थे न करोन्ति पापम् ।
अधिमुक्तिसंपन्न य बोधिसत्त्वा अनुमोदमी तेष य किंचि पुण्यम्

25.3

अनुमोदमी येष प्रसादु बुद्धे धर्मे प्रसादो ऽस्ति तथैव संघे ।
अनुमोदमी ये सुगतस्य पूजां कुर्वन्ति बोधिं प्रतिकाङ्क्षमाणाः

25.4

अनुमोदमी येष न आत्मदृष्टिर्न भावदृष्टिर्न च जीवदृष्टिः ।
(वैद्य 156)
अनुमोदमी येष न पापदृष्टिर्ये शून्यतां दृष्ट्व जनेन्ति तुष्टिम्

25.5

अनुमोदमी ये सुगतस्य शासने लभन्ति प्रव्रज्योपसंपदं च ।
अल्पेच्छ संतुष्ट वने वसन्ति प्रशान्तचारित्र ये ध्यानगोचराः

25.6

अनुमोदमी एकक ये ऽद्वितीया वने वसन्ती सद खड्गभूताः ।
आजीवशुद्धाः सद अल्पकृत्या ये ज्ञात्रहेतोर्न न करेन्ति कूहनाम्

25.7

अनुमोदमी येष न संस्तवो ऽस्ति न चापि ईर्ष्या न कुलेषु तृष्णा ।
उत्त्रस्ति त्रैधातुकि नित्यकालम् अनोपलिप्ता विचरन्ति लोके

25.8

अनुमोदमी येष प्रपञ्चु नास्ति निर्विण्ण सर्वासु भवोपपत्तिषु ।
अविगृहीता उपशान्तचित्ता न दुर्लभस्तेष समाधिरेषः

25.9

अनुमोदमी ये गणदोष दृष्ट्वा सर्वान् विवादान् परिवर्जयित्वा ।
सेवन्त्यरण्यं वनमूलमाश्रिता विमुक्तिसाराः सुगतस्य पुत्राः

25.10

अनुमोदमी ये विहरन्त्यरण्ये नात्मानमुत्कर्षि परान्न पंसये ।
अनुमोदमी येष प्रमादु नास्ति ये अप्रमत्ता इम बुद्धशासने

25.11

यावन्त धर्माः पृथु बोधिपाक्षिकाः सर्वेष मूलं ह्ययमप्रमादः ।
ये बुद्धपुत्राः सद अप्रमत्ता न दुर्लभस्तेष अयं समाधिः

25.12

निधानलाभः सुगतान शासनं प्रव्रज्यलाभो द्वितीयं निधानम् ।
(वैद्य 157)
श्रद्धाय लाभस्तृतीयं निधानमयं समाधिश्चतुर्थं निधानम्

25.13

श्रत्वा इमं शून्यत बुद्धगोचरं तस्याप्रतिक्षेपु निधानलम्भः ।
अनन्तु प्रतिभानु निधानलम्भो या धारणी तत् परमं निधानम्

25.14

यावन्ति धर्माः कुशलाः प्रकीर्तिताः शीलं श्रुतं त्यागु तथैव क्षान्तिः ।
सर्वेष मूलं ह्ययमप्रमादो निधानलम्भः सुगतेन देशितः

25.15

ये अप्रमत्ता इह बुद्धशासने सम्यक् च येषां प्रणिधानमस्ति ।
न दुर्लभस्तेष अयं समाधिरासन्नभूता इह बुद्धशासने

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc