समाधिराजसूत्र · अध्याय 23
इति श्रीसमाधिराजे तथागतकायनिर्देशपरिवर्तो नाम द्वाविंशतितमः ॥
(वैद्य 147)
23 तथागताचिन्त्यनिर्देशपरिवर्तः ।
तस्मात्तर्हि कुमार यो बोधिसत्त्वो महासत्त्वः आकाङ्क्षेत् किमित्यहं चतस्रः प्रतिसंविदः साक्षात्कुर्यामिति । कतमाश्चतस्रः? यदुत अर्थप्रतिसंविदं धर्मप्रतिसंविदं निरुक्तिप्रतिसंविदं प्रतिभानप्रतिसंविदम् । इमाश्चतस्रः प्रतिसंविदः साक्षात्कुर्यामिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं समाधिरुद्ग्रहीतव्यः पर्तवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो भावयितव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । भावनायोगमनुयुक्तेन च भवितव्यम् । तत्र कुमार कतमा धर्मप्रतिसंविदः? इमाः कुमार बोधिसत्त्वो धर्मप्रतिसंविद एवं प्रतिसंशिक्षते - यावन्तो वा रूपव्याहारास्तावन्तस्तथागतस्य वर्णव्याहाराः । एवं वेदनासंज्ञासंस्काराः । यावन्तः कुमार विज्ञानव्याहारास्तावन्तस्तथागतस्य वर्णव्याहाराः । इति हि कुमार अप्रमेया अचिन्त्या असंख्येयाः अतुल्यामाप्यापरिमाणास्तथागतस्य रूपवर्णव्याहाराः । इति हि कुमार अपर्यन्ता अनन्ता रूपव्याहाराः । एवमचिन्त्यास्तथागतस्य वर्णव्याहाराः । एवं वेदनासंज्ञासंस्काराः । इति हि अनन्ता अपर्यन्ता अचिन्त्या विज्ञानव्याहाराः । एवमचिन्त्यास्तथागतस्य वर्णव्याहाराः ॥
इति हि कुमार अप्रमेया असंख्येयाः संस्कृते दोषाः । अप्रमेया असंख्येया निर्वाणे अनुशंसाः । असंख्येयास्तथागतस्य वर्णाः । इति हि कुमार यावन्ति निर्वाणनामानि तावन्तस्तथागतस्य वर्णाः । इति हि कुमार असंख्येयानि निर्वाणनामानि । असंख्येयास्तथागतस्य वर्णाः ॥
चत्वार इमे कुमार तथागतस्य वर्णव्याहारा अचिन्त्या अचिन्त्यव्याहाराः । कतमे चत्वारः ?यदुत अचिन्त्यः संस्कारव्याहारः । अचिन्त्यः स्वरव्याहारः । अचिन्त्यः संक्लेशव्याहार । अचिन्त्यो व्यवदानव्याहारः । इमे कुमार चत्वारस्तथागतस्य वर्णव्याहारा अचिन्त्या अचिन्त्यव्याहाराः । चत्वार इमे कुमार तथागतस्य वर्णव्याहारा अचिन्त्या अचिन्त्यनिर्देशाः । ते न सुकरं पर्यन्तनिष्ठास्थानेन निर्देष्टुम् । कतमे चत्वारः? एष एव चतुष्कः । एवं विस्तरेण निर्देष्टव्यम् । यदुत चत्वारो बोधिसत्त्वानां नयाः । चतस्रो युक्तयः । चत्वारो द्वाराः । चत्वार निर्देशाः । चत्वारो घोषाः । चत्वारो वचनपथाः । चत्वारो व्याहाराः । चत्वारि संघाभाष्याणि । चतस्रो नामनिध्यप्तयः । चतस्रो मनुजनिध्यप्तयः । चत्वारि प्रतिवचनानि । चत्वारि द्वाराणि । चत्वार्यक्षराणि । चत्वारो ऽवताराः । चत्वारः पदाः । चत्वारि निर्हारपदानि । चत्वारः सूत्रान्तपदाः । चत्वारश्चर्यापथाः । चत्वारो ऽचिन्त्यपथाः । चत्वारः तुल्यपथाः । चत्वारो ऽनन्तपथाः । चत्वारो ऽपर्यन्तपथाः । चत्वारो ऽसंख्येयपथाः । चत्वारो ऽप्रमेयपथाः । चत्वारो ऽपरिमाणपथाः ।(वैद्य 148) चत्व्ःरि ज्ञ्ःन्ःनि । चत्व्ःरो ज्ञ्ःनसंचय्ःः । चत्व्ःरि ज्ञ्ःनगोत्र्ःणि । चत्व्ःरि प्रतिभ्ःन्ःनि । चत्व्ःरः प्रतिभ्ःनसंचय्ःः । चत्व्ःरि प्रतिभ्ःनगोत्र्ःणि । चत्व्ःरः सूत्र्ःन्तसंचय्ःः । चत्व्ःरि प्रतिभ्ःनकरण्ःनि । चत्व्ःरः सूत्र्ःन्तनिर्ह्ःर्ःः । चत्व्ःरि ब्ःहुश्रुत्यगोत्र्ःणि । चत्व्ःरि बुद्धधन्ःनि । चतस्रो बोधिसत्त्वशिक्ष्ःः । चत्व्ःरो बोधिसत्त्वगोचर्ःः । चत्व्ःरि बोधिसत्त्वकर्म्ःणि । चत्व्ःरि बोधिसत्त्वप्रतिभ्ःन्ःनि । चतस्रो म्ःर्गभ्ःवन्ःः । चत्व्ःरि क्लेशप्रह्ःण्ःनि । चत्व्ःर्यप्ःयजहन्ःनि । चत्व्ःर्यज्ञ्ःनविधमन्ःनि । चत्व्ःर्यविद्य्ःप्रह्ःण्ःनि । चत्व्ःरि दुःखोपशमन्ःनि । चत्व्ःरि दौर्मनस्यप्रह्ःण्ःनि । चत्व्ःर्युप्ःयसंजनन्ःनि । चत्व्ःरि दृष्टिप्रह्ःण्ःनि । चत्व्ःर्युपपन्नपरिज्ञ्ःन्ःनि । चत्व्ःर्य्ःत्मदृष्टिप्रह्ःण्ःनि । चत्व्ःरि सत्त्वदृष्टिप्रह्ःण्ःनि । चत्व्ःरि जीवदृष्टिप्रह्ःण्ःनि । चत्व्ःरि पुद्गलदृष्टिप्रह्ःण्ःनि । चत्व्ःरि भवदृष्टिप्रह्ःण्ःनि । चत्व्ःरि वस्तुप्रह्ःण्ःनि । चत्व्ःर्युपलम्भदृष्टिप्रह्ःण्ःनि । ते न सुकरं
पर्यन्तस्थ्ःनेन निर्देष्टम् ॥
चतस्रो धारण्यः । कतमाश्चतस्रः? यदुत अनन्तः सर्वसंस्कारपरिभाषाव्याहारः । तत्र यज्ज्ञानमियं प्रथमा धारणी । अनन्तः स्वरपरिभाषाव्याहारः । तत्र यज्ज्ञानमियं द्वितीया धारणी । अनन्तः संक्लेशपरिभाषाव्याहारः । तत्र यज्ज्ञानमियं तृतीया धारणी । अनन्तो व्यवदानगुणानुशंसाव्याहारः । तत्र यज्ज्ञानमियं चतुर्थी धारणी । इमाश्चतस्रो धारण्यः । इति हि या कुमार धारणी तज्ज्ञानम्, स धर्मः । इति हि धर्मज्ञानेन धर्मप्रतिसंवित् ॥
धर्मज्ञाने यो ऽर्थः, इयमुच्यते अर्थप्रतिसंवित् । धर्मज्ञाने यच्छन्दः, इयमुच्यते निरुक्तिप्रतिसंवित् । धर्मज्ञाने या व्यवहारदेशना आचक्षणा प्रज्ञपना प्रकाशना प्रस्थापना विचरणा विभजना उत्तानीकरणता असक्तवचनता अनेलामूकवचनता अनवलीनवचनता, इयमुच्यते प्रतिभानप्रतिसंवित् ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
यात्तकं ज्ञानु बुद्धस्य रूपप्रज्ञप्ति तात्तिका ।
यावती रूपप्रज्ञप्ति रूपव्याहार तात्तका
यावन्तो रूपव्याहाराः शीलनामानि तात्तकाः ।
यावन्ति शीलनामानि बुद्धनामानि तात्तकाः
यात्तका बुद्धनामानि सत्त्वनामानि तात्तकाः ।
एत्तकान्येकसत्त्वस्य अहं नामानि जानमि
अनन्ता नामव्याहारा ये मे पूर्वं प्रकाशिताः ।
शीलनामा बुद्धनामा सत्त्वनामा च ते समाः
यात्तकाः संस्कृते दोषा निर्वाणे तात्तका गुणाः ।
बुद्धस्य तात्तका वर्णा औपम्या मे प्रकाशिताः
यात्तकाः सर्वसत्त्वानां चित्तोत्पादा निदर्शिताः ।
तात्तका लोकनाथस्य एकरोमात रश्मयः
(वैद्य 149)
नामाश्च अधिमुक्तिश्च सर्वसत्त्वान यात्तिकाः ।
ततो भूयो नरेन्द्रस्य स्वराङ्गवर्ण भाषिताः
ये नामाः सर्वसत्त्वानामेकसत्त्वस्य दर्शिताः ।
एकसत्त्वस्य ते नामाः सर्वसत्त्वान दर्शिताः
प्रतिसंविदानामोत्तार अयं बुद्धेन देशितः ।
अनन्तनामनिर्देशा बोधिसत्त्वान कारणात्
य इच्छेत् कथं भाषेय्या सूत्रकोटीरनन्तिकाः ।
इदं सूत्रं प्रवर्तित्वा अनोलीनः प्रकाशयेत्
असक्तः परिषन्मध्ये सूत्रकोटीः प्रभाषते ।
यथाकाशमपर्यन्तमेवं धर्मं स भाषते
एमेव बोधिसत्त्वानां शुद्धसत्त्वान तायिनाम् ।
इदं सूत्रं समुद्गृह्य भवन्ति ज्ञानसंपदः
यथा यथा प्रकाशेन्ति श्रद्दधन्तो इमं नयम् ।
तथास्य वर्धते ज्ञानं हिमवन्तेव पादपाः
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0