भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 22

22.1

(वैद्य 142)
द्रक्ष्यथा दशदिशे तथागतान् शान्तचित्त कृपमैत्रलोचनान् । सर्वलोकशरणं परायणं धर्मवर्षु जगि उत्सृजिष्यथा ॥ 30 ॥
इति श्रीसमाधिराजे पूर्वयोगपरिवर्तो नाम एकविंशतितमः ॥
(वैद्य 143)
22 तथागतकायनिर्देशपरिवर्तः ।
अथ खलु भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात् तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन काये ऽनध्यवसितेन जीविते निरपेक्षेण भवितव्यम् । तत् कस्य हेतोः? कायजीविताध्यवसानहेतोर्हि कुमार अकुशलधर्माभिसंस्कारो भवति । तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन न रूपकायतस्तथागतः प्रज्ञातव्यः । तत् कस्य हेतोः? धर्मकाया हि बुद्धा भगवन्तो धर्मकायप्रभाविताश्च न रूपकायप्रभाविताः । तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन तथागतकायं प्रार्थयितुकामेन तथागतकायं ज्ञातुकामेन अयं समाधिरुद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तितव्यः उद्देष्टव्यः स्वाध्यातव्यो वाचयितव्यो भावनायोगमनुयुक्तेन भवितव्यम् परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । तत्र कुमार तथागतस्य कायः शतपुण्यनिर्जातया बुद्ध्यानेकार्थनिर्देशो धर्मनिर्जातः आनिमित्तः सर्वनिमित्तापगतो गम्भीरः अप्रमाणः अप्रमाणधर्मः आनिमित्तस्वभावः सर्वनिमित्तविभावितः । अचलो ऽप्रतिष्ठितो ऽत्यन्ताकाशस्वभावो ऽदृश्यश्चक्षुःपथसमतिक्रान्तो धर्मकायः प्रज्ञातव्यः । अचिन्त्यः चित्तभूमिविगतः सुखदुःखाविप्रकम्प्यः सर्वप्रपञ्चसमतिक्रान्तो ऽनिर्देश्यो ऽनिकेतो बुद्धज्ञानं प्रार्थयितुकामानां घोषपथसमतिक्रान्तः ससारो रागसमतिक्रान्तः अभेद्यो दोषपथसमतिक्रान्तो दृढो मोहपथसमतिक्रान्तो निर्दिष्टः । शून्यतानिर्देशेन अजातो जातिसमतिक्रान्तः अनास्रवः विपाकसमतिक्रान्तः नित्यो व्याहारेण । व्यवहारश्च शून्यः निर्विशेषो निर्वाणेन, निर्वृतः शब्देन, शान्तो घोषेण, सामान्यः संकेतेन, संकेतः परमार्थेन, परमार्थो भूतवचनेन । शीतलो निष्परिदानः अनिमित्तः अमन्यितः अनिन्दितः अप्रपञ्चितः - अल्पशब्दो निर्देशेन । अपर्यन्तो वर्णनिर्देशेन, महाभिज्ञापरिकर्मनिर्जातः अस्मृतितः अविदूरे महाभिज्ञापरिकर्मनिर्देशेन । अयमुच्यते कुमार तथागतकाय इति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
य इच्छे लोकनाथस्य कायं जानितुमीदृशम् ।
इमं समाधिं भावित्वा कायं बुद्धस्य ज्ञास्यति

22.2

(वैद्य 144)
पुण्यनिर्जातु बुद्धस्य कायः शुद्धः प्रभास्वरः ।
समेति सो ऽन्तरीक्षेण नानात्वं नास्य लभ्यते

22.3

यादृशा बोधिर्बुद्धस्य लक्षणानि च तादृशाः ।
यादृशा लक्षणास्तस्य कायस्तस्य हि तादृशः

22.4

संबोधिलक्षणः कायो बुद्धक्षेत्रं हि तादृशम् ।
बला विमोक्षा ध्यानानि सर्वे ते ऽप्येकलक्षणाः

22.5

एवं संभवु बुद्धानां लोकनाथान ईदृशः ।
न जातु केनचिच्छक्यं पश्यितुं मांसचक्षुषा

22.6

बहू एवं प्रवक्ष्यन्ति दृष्टो मे लोकनायकः ।
सुवर्णवर्णः कायेन सर्वलोकं प्रभासति

22.7

अधिष्ठानेन बुद्धानामनुभावाद्विकुर्वितैः ।
येनासौ दृश्यते कायो लक्षणेहि विचित्रितः

22.8

आरोहपरिणाहेन कायो बुद्धस्य दर्शितः ।
न च प्रमाणं कायस्य लब्धं तेन अचिन्तियः

22.9

यदि प्रमाणं लभ्येत कायो बुद्धस्य एत्तकः ।
निर्विशेषो भवेच्छास्ता देवैश्च मनुजैरपि

22.10

समाहितस्य चित्तस्य विपाको ऽपि तल्लक्षणः ।
तल्लक्षणं नामरूपं शुद्धं भोति प्रभास्वरम्

22.11

न चैष केनचिज्जातु समाधिः शान्तु भावितः ।
यथेह लोकनाथेन कल्पकोट्यो निषेवितः

22.12

बहुभिः शुक्लधर्मैश्च समाधिर्जनितो ऽप्ययम् ।
समाधेरस्य वैपुल्यात् कायो मह्यं न दृश्यते

22.13

यस्य वो यादृशं चित्तं नामरूपं पि तादृशम् ।
निःस्वभावस्य चित्तस्य नामरूपं विलक्षणम्

22.14

यस्य चोदारसंज्ञादि नामरूपस्मि वर्तते ।
विसभागाय संज्ञाय उदारं चित्तु जायते

22.15

यस्य चो मृदुकी संज्ञा नामरूपस्मि वर्तते ।
अगृध्रं नामरूपस्मि चित्तं भोति प्रभास्वरम्

22.16

स्मरामी पूर्वजातीषु असंख्येयेषु सप्तसु ।
तिस्रो मे पापिकाः संज्ञा नैवोत्पन्नाः कदाचन

22.17

(वैद्य 145)
अनास्रवं च मे चित्तं कल्पकोट्यो ह्यचिन्तियाः ।
करोमि चार्थं सत्त्वानां न च मे कायु दृश्यते

22.18

यथा च यस्य भावेहि विमुक्तं भोति मानसम् ।
न तस्य तेहि भावेहि भूयो भोति समागमः

22.19

विमुक्तं मम विज्ञानं सर्वभावेहि सर्वशः ।
स्वभावो ज्ञातु चित्तस्य भूयो ज्ञानं प्रवर्तते

22.20

क्षेत्रकोटीसहस्राणि गच्छन्ति मम निर्मिताः ।
कुर्वन्ति चार्थं सत्त्वानां यत्र कायो न लभ्यते

22.21

अलक्षणो निर्निमित्तो यथैव गगनं तथा ।
कायो निरभिलाप्यो मे दुर्विज्ञेयो निदर्शितः

22.22

धर्मकायो महावीरो धर्मेण काय निर्जितो ।
न जातु रूपकायेण शक्यं प्रज्ञापितुं जिनो

22.23

कथानिर्देशु यस्यैतं श्रुत्वा प्रीतिर्भविष्यति ।
न तस्य मारः पापीयानवतारं लभिष्यति

22.24

श्रुत्वा च धर्मं गम्भीरं यस्य त्रासो न भेष्यति ।
न चासौ जीवितार्थाय बुद्धबोधिं प्रतिक्षिपेत्

22.25

भूतकोटीसहस्राणां भूतनिर्देश ज्ञास्यति ।
आलोकभूतो लोकानां येन येन गमिष्यति

22.26

तत्र कुमार तथागतस्य कायो निमित्तकर्मणापि न सुकरं ज्ञातुम् । नीलो वा नीलवर्णो वा नीलनिदर्शनो वा नीलनिर्भासो वा । पीतो वा पीतवर्णो वा पीतनिदर्शनो वा पीतनिर्भासो वा । लोहितो वा लोहितवर्णो वा लोहितनिदर्शनो वा लोहितनिर्भासो वा । अवदातो वा अवदातवर्णो वा अवदातनिदर्शनो वा अवदातनिर्भासो वा । मञ्जिष्ठो वा मञ्जिष्ठवर्णो वा मञ्जिष्ठनिदर्शनो वा मञ्जिष्ठनिर्भासो वा । स्फटिको वा स्फटिकवर्णो वा स्फटिकनिदर्शनो वा स्फटिकनिर्भासो वा । आग्नेयो वा अग्निवर्णो वा अग्निनिदर्शनो वा अग्निनिर्भासो वा । सर्पिर्मण्डोपमो वा सर्पिर्वर्णो वा सर्पिर्निदर्शनो वा सर्पिर्निर्भासो वा । सौवर्णो वा सुवर्णवर्णो वा सुवर्णनिदर्शनो वा सुवर्णनिर्भासो वा । वैदूर्यो वा वैदूर्यवर्णो वा वैदूर्यनिदर्शनो वा वैदूर्यनिर्भासो वा । विद्युद्वा वा विद्युद्वर्णो वा विद्युन्निदर्शनो वा विद्युन्निर्भासो वा । ब्रह्मो वा ब्रह्मवर्णो वा ब्रह्मनिदर्शनो वा ब्रह्मनिर्भासो वा । देवो वा देववर्णो वा देवनिदर्शनो वा देवनिर्भासो वा । इति हि कुमार तथागतस्य कायः शुद्धः सर्वनिमित्तैरप्यचिन्त्यः अप्यचिन्त्यनिर्देशो रूपकायपरिनिष्पत्त्या । न सुकरं सदेवकेनापि लोकेन कायस्य प्रमाणमुद्ग्रहीतुमन्यत्र सर्वाकारैरचिन्त्यः अप्रमेयः ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
(वैद्य 146)
यद्रजो लोकधातूषु पांसुसंज्ञानिदर्शनम् ।
उत्सह्रदतडागेषु समुद्रेषु च यज्जलम् ।
न तेषां लभ्यते अन्तो एत्तका परमाणवः

22.27

समुद्राद्वालकोटीभिर्मातुं शक्यं जलं भवेत् ।
न तुल्या लोकनाथेन उपमा संप्रकाशिता ।
जलबिन्दवो ऽप्रमेयास्तथैव परमाणवः

22.28

पश्माम्येकस्य सत्त्वस्य ततो बहुतरानहम् ।
अधिमुक्तिचित्तोत्पादो नैककाले प्रजानितुम्

22.29

ये मया आत्मभावस्य भूतवर्णा निदर्शिताः ।
सर्वसत्त्वाधिमुक्तास्तानेतेषामुपमाक्षमाः

22.30

निमित्तकर्मणा चैव वर्णनिर्भास ईदृशः ।
शक्यं जानितुं बुद्धस्य विशेषो हीदृशो मम

22.31

निमित्तापगता बुद्धा धर्मकायप्रभाविताः ।
गम्भीराश्चाप्रमेयाश्च तेन बुद्धा अचिन्तियाः

22.32

अचिन्तियस्य बुद्धस्य बुद्धकायो ऽप्यचिन्तियः ।
अचिन्तिया हि ते काया धर्मकायप्रभाविताः

22.33

चित्तेनापि न बुद्धानां कायश्चिन्तयितुं क्षमः ।
तथा हि तस्य कायस्य प्रमाणं नोपलभ्यते

22.34

अप्रमेया हि ते धर्माः कल्पकोट्यो निषेविताः ।
तेनो अचिन्तियः कायो निर्वृतो मे प्रभास्वरः

22.35

अग्राह्यः सर्वसत्त्वेहि न प्रमाणेहि गृह्यते ।
तथा हि कायो बुद्धस्य अप्रमाणो ह्यचिन्तियः

22.36

अप्रमाणेहि धर्मेहि प्रमाणं तत्र कल्पितम् ।
अकल्पितेहि धर्मेहि बुद्धो ऽप्येवमकल्पितः

22.37

प्रमाणं कल्पमाख्यातो अप्रमाणमकल्पितम् ।
अकल्प्यः कल्पापगतस्तेन बुद्धो अचिन्तियः

22.38

अप्रमाणं यथाकाशं मातुं शक्यं न केनचित् ।
तथैव कायु बुद्धस्य आकाशसमसादृशः

22.39

ये कायमेवं जानन्ति बुद्धानां ते जिनात्मजाः ।
ते ऽपि बुद्धा भविष्यन्ति लोकनाथा अचिन्तियाः

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc