समाधिराजसूत्र · अध्याय 21
इति श्रीसमाधिराजे इन्द्रकेतुध्वजराजपरिवर्तो नाम विंशतितमः ॥
(वैद्य 138)
21 पूर्वयोगपरिवर्तः ।
आसि पूर्वमिह जम्बुसाह्वये अप्रमत्त दुवि श्रेष्ठिदारकौ ।
प्रव्रजित्व सुगतस्य शासने खङ्गभूत वनषण्डमाश्रितौ
ऋद्धिमन्त चतुर्ध्यानलाभिनौ काव्यशास्त्रकुशलौ सुशिक्षितौ ।
अन्तरिक्षपदभूमिकोविदौ ते असक्त गगने व्रजन्ति च
ते च तत्र वनषण्डि शीतले नानपुष्पभरिते मनोरमे ।
नानपक्षिद्विजसंघसेविते अन्यमन्य कथ संप्रयोजिते
तेन राज मृगया अटन्तके शब्द श्रुत्व वनु तं उपागमी ।
दृष्ट्व पार्थिव तथ धर्मभाणकौ तेषु प्रेम परमं उपस्थहि
तेहि सार्धु कथ आनुलोमिकीं कृत्व राजु पुरतो निषीदि सो ।
तस्य राज्ञ बलकाय नन्तको षष्ठिकोटिनियुतान्युपागमी
एकमेकु तेषु धर्मभाणको राजमब्रवी शृणोहि क्षत्रिया ।
बुद्धपादु परमं सुदुर्लभो अप्रमत्तु सद भोहि पार्थिव
आयु गच्छति सदानवस्थितं गिरिनदीय सलिलेव शीघ्रगम् ।
व्याधिशोकजरपीडितस्य ते नास्ति त्राणु यथ कर्म भद्रकम्
(वैद्य 139)
धर्मपालु भव राजकुञ्जरा रक्षिमं दशबलान शासनम् ।
क्षीण कालि परमे सुदारुणे धर्मपक्षि स्थिहि राजकुञ्जर
एव ते बहुप्रकार पण्डिता ओवदन्ति तद तं नराधिपम् ।
सार्धु षष्टनियुतेहि पार्थिवो बोधिचित्तमुदपादयत्तदा
श्रुत्व धर्म तद राजकुञ्जरः सूरतानखिलान भाषतो ।
प्रीतिजात सुमना उदग्रको वन्द्य पाद शिरसाय प्रक्रमी
तस्य राज्ञ बहवो ऽन्यभिक्षवो लाभकाम प्रविशिन्तु तत् कुलम् ।
तेष दृष्ट चरिया न तादृशी तेषु राज न तथा सगौरवम्
तच्च शासनमतीतशास्तुकं पश्चिमं च तद वर्षु वर्तते ।
जम्बुद्वीपि सुपरित्तभाजना प्रादुर्भूत बहवो असंयताः
उत्क लुब्ध बहु तत्र भिक्षवो लाभकाम उपलम्भदृष्टिकाः ।
विप्रनष्ट सुगतस्य शासनाद् ग्राहयिंसु बहुलं तदा नृपम्
घातयेति उभि धर्मभाणकौ ये उच्छेदु प्रवदन्ति तीर्थिकाः ।
दीर्घचारिक समादपेन्ति ते निर्वृतीय न ते किंचि दर्शिका
कर्म नश्यति विपाकु नश्यति स्कन्ध नास्तीति वदन्ति कुहकाः ।
(वैद्य 140)
तां क्षिपाहि विषयातु पार्थिव एवमेव चिरु धर्म स्थास्यति
श्रुत्व तेष वचनं तदन्तरं काङ्क्ष प्राप्तु भुत राजकुञ्जरः ।
घातयिष्यि अमु धर्मभाणकौ मा उपेक्षितु अनर्थ भेष्यति
तस्य राज्ञ अनुबद्ध देवता पूर्वजाति सहचीर्णु चारिका ।
दीर्घरा हितकाम पण्डिता सा अवोचि तद राजपार्थिवम्
चित्तुपाद म जनेहि ईदृशं पापमित्रवचनेन क्षत्रिया ।
मा त्व भिक्षु दुवि धर्मभाणकौ पापमित्रवचनेन घातय
न त्व किंचि स्मरसी नराधिप यत्ति तेहि वनषण्डि भाषितम् ।
क्षीणकालि परमे सुदारुणे धर्मपक्षि स्थिहि राजकुञ्जर ।
राज भूतवचनेन चोदितः सो न रिञ्जति जिनान शासनम्
तस्य राज्ञ तद भ्रात दारुणः प्रातिसीमिकु स तेहि ग्राहितः ।
एष देव तव भ्रात पापको जीवितेन न जातु नन्दते ।
तौ च भिक्षु दुवि घोर वैद्यका ते व्रजन्ति गगनेन विद्यया
ते स्म श्रुत्व तव मूलमागता सर्वि भूत तव विज्ञपेमथ ।
क्षिप्र घातय घोर वैद्यका मा ति पश्चि अनुतापु भेष्यति
संनहित्व तद राजकुञ्जरो पापमित्रवचनेन प्रस्थितः ।
(वैद्य 141)
सर्वसैन्यपरिवारितो नृपो यत्र भिक्षु वनि तं उपागतो
ज्ञात्व घोरमतिदारुणं नृपं नाग यक्ष वनि तत्र ये स्थिताः ।
इष्टवर्ष तद तत्र पातित तेन राज सहसेनया हतो
पापमित्रवचनेन पश्यथा कालु कृत्व तद राज दारुणम् ।
येन क्रोधु कृतु धर्मभाणके सो अवीचि गतु षष्टिजातियो
ते ऽपि भिक्षु बहवोपलम्भिका येहि ग्राहितु राज क्षत्रियो ।
जातिकोटिशत अप्यचिन्तियो वेदयिंसु नरकेषु वेदनाम्
देवता याय राजु चोदितो याय रक्षित धर्मभाणकौ ।
ताय बुद्ध यथ गङ्गवालिका दृष्ट्व पूजित चरन्तु चारिकाम्
षष्टिकोटिनियुता अनूनका येहि धर्म श्रुतु सार्धु राजिना ।
येहि बोधिवरचित्तु पादितं बुद्ध भूयि पृथुलोकधातुषु
तेषु आयु बहुकल्पकोटियो तेष ज्ञानमतुलमचिन्तियम् ।
तेहि सर्विमु समाधि भद्रकं देशयित्व द्विपदेन्दु निर्वृता
एतु श्रुत्व वचनं निरुत्तरं शीलब्रह्मगुणज्ञानसंचयम् ।
अप्रमत्त भवथा अतन्द्रिता बुद्धज्ञानमचिरेण लप्स्यथा
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0