भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 20

20.1

अस्मिन् खलु पुनर्गाथाभिनिर्हारे भाष्यमाणे चन्द्रप्रभः कुमारभूतः अचिन्त्येषु बुद्धधर्मेषु गम्भीरनिध्यप्तिनिर्देशकौशल्यमनुप्राप्तः, सूत्रान्तनिर्हारावभासं च प्रतिलब्धवान् । पञ्चशिखस्य च गन्धर्वपुत्रस्य घोषानुगायाः क्षान्तेः प्रतिलम्भो ऽभूत् । अप्रमेयाणां च सत्त्वानां देवमानुषिकायाः प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि । अप्रमेयाणां च सत्त्वानामर्थः कृतो ऽभूत ॥
इति श्रीसमाधिराजे अचिन्त्यबुद्धधर्मनिर्देशपरिवर्तो नामोनविंशतितमः ॥
(वैद्य 136)
20 इन्द्रकेतुध्वजराजपरिवर्तः ॥
तत्र खलु भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन सर्वकुशलमूलशिक्षागुणधर्मनिश्रितेन भवितव्यम् । असंसर्गबहुलेन च भवितव्यम्, पापमित्रपरिवर्जकेन कल्याणमित्रसंनिश्रितेन परिपृच्छकजातीयेन धर्मपर्येष्ट्यामतृप्तेन प्रामोद्यबहुलेन धर्मार्थिकेन धर्मकामेन धर्मरतेन धर्मपरिग्राहकेण धर्मानुधर्मप्रतिपन्नेन । शास्तृसंज्ञा अनेन सर्वबोधिसत्त्वेषूत्पादयितव्या । यस्य चान्तिकादिमं धर्मपर्यायं शृणोति, तेन तस्यान्तिके प्रीतिगौरवं शास्तृसंज्ञा चोत्पादितव्या। यः कुमार बोधिसत्त्वो महासत्त्व इमान् धर्मान् समादाय वर्तते, स क्षिप्रमनाच्छेद्यप्रतिभावनिर्यातो भवति । अचिन्त्यबुद्धधर्माधिमुक्तश्च भवति । गम्भीरेषु च धर्मेषु निध्यप्तिं गच्छति । आलोकभूतश्च भवति सदेवकस्य लोकस्य काङ्क्षाविमतिविचिकित्सान्धकारविधमनतया ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
अभ्यतीत बहुकल्पकोटियो अप्रमेय अतुला अचिन्तियाः ।
यद् अभूषि द्विपदानमुत्तमो इन्द्रकेतुध्वजराज नायकः

20.2

सो समाधिमिमु शान्तु देशयि यत्र नास्ति नरु जीव पुद्गलः ।
माय बुद्बुद मरीचि विद्युता सर्व धर्म दकचन्द्रसंनिभाः

20.3

नास्ति सत्त्व मनुजो च लभ्यते कालु कृत्व परलोकि गच्छि यो ।
नो च कर्म कृतु विप्रणश्यते कृष्ण शुक्ल फल देति तादृशम्

20.4

एष युक्ति नयद्वार भद्रकं सूक्ष्म दुर्दृशु जिनान गोचरा ।
यत्र अक्षरपदं न लभ्यते बुद्धबोधि भगवान् प्रजानति

20.5

(वैद्य 137)
धारणी विपुलज्ञानसंचया सूत्रकोटिनियुतान आगता ।
बुद्धकोटिनियुतान गोचरस्तं समाधि भगवान् प्रभाषते

20.6

आतुराणमय व्याधिमोचको बोधिसत्त्वसमुदानितं धनम् ।
सर्वबुद्धस्तुत संप्रकाशितो देवकोटिनियुतेहि पूजितः

20.7

सर्व बालजन भूतचोदना तीर्थिकेहि परिवर्जितः सदा ।
श्रेष्ठ शीलधनु बुद्धवर्णितं विद्युतेव गगने न लिप्यते

20.8

येहि पूजित जिनान कोटियो दानशीलचरिता विचक्षणाः ।
पापमित्र पुरि येहि वर्जिता तेष पैतृकधनं निरुत्तरम्

20.9

तत्र भिक्षु स्थितु धर्मभाणको ब्रह्मचारि सुगतस्य औरसः ।
श्रुत्व धर्ममिममानुलोमिकं चित्त पादेसि य लोकनायकः

20.10

इन्द्रकेतुध्वजराजु नायको अध्यभाषि अभु धर्मभाणकम् ।
भिक्षुभाव परमं ति दुष्करं चित्तुपाद वर अग्रबोधये

20.11

शीलु रक्ष मणिरत्नसंनिभं मित्र सेव सद आनुलोमिकम् ।
पापमित्र न कदाचि सेवतो बुद्धज्ञानमचिरेण लप्स्यसे

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc