भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 19

19.1

इति श्रीसमाधिराजे समाध्यनुपरिन्दना नाम परिवर्तो ऽष्टादशः ।
(वैद्य 132)
19 अचिन्त्यबुद्धधर्मनिर्देशपरिवर्तः ।
तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता अचिन्त्यबुद्धधर्मनिर्देशकुशलेन भवितव्यम् । अचिन्त्यबुद्धधर्मपरिपृच्छकजातिकेन भवितव्यम् । अचिन्त्यबुद्धधर्माधिमुक्तिकेन भवितव्यम् । अचिन्त्यबुद्धधर्मपर्येषणाकुशलेन भवितव्यम् । अचिन्त्यांश्च बुद्धधर्मान् श्रुत्वा नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् । एवमुक्ते चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - यथा कथं भगवन् बोधिसत्त्वो महासत्त्वः अचिन्त्यबुद्धधर्मनिर्देशकुशलो भवति, अचिन्त्यबुद्धधर्मपरिपृच्छाकुशलश्च, अचिन्त्यबुद्धधर्माधिमुक्तश्च? अचिन्त्यबुद्धधर्मपर्येषणाकुशलश्च भवति, अचिन्त्यांश्च बुद्धधर्मान् श्रत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासमापद्यते?
तेन खलु पुनः समयेन पञ्चशिखो नाम गन्धर्वपुत्रः पञ्चभिस्तूर्यशतैः सार्धं गगनतलादवतीर्य भगवतः पुरतः स्थितो ऽभूदुपस्थानपरिचर्यायै । अथ खलु पञ्चशिखस्य गन्धर्वपुत्रस्यैतदभवत् - यन्न्वहं यथैवः देवानां त्रायस्त्रिंशानां शक्रस्य च देवानामिन्द्रस्य सुधर्मायां देवसभायामुपस्थानपरिचर्यां करोमि, संगीतिं संप्रयोजयामि, तथैवाद्य देवातिदेवस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजायै संगीतिं संप्रयोजयेयम् ॥
अथ खलु पञ्चशिखो गन्धर्वपुत्रस्तैः पञ्चभिस्तूर्यशतैस्तैश्च पञ्चमात्रैर्गन्धर्वपुत्रशतैः सार्धमेकस्वरसंगीतिसंप्रयुक्ताभिस्तूर्यसंगीतिभिर्वैदूर्यदण्डां वीणामादाय भगवतः पुरतो वादयामास । अथ खलु भगवत एतदभूत् - यन्न्वहं तथारूपमृद्ध्यभिसंस्कारमभिसंस्कुर्यां यथारूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन चन्द्रप्रभः कुमारभूतो ऽचिन्त्यबुद्धधर्मनिध्यप्तिकौशल्यमधिगच्छेत्, सर्वधर्मस्वभावसमताविपञ्चिताच्च समाधेर्न चलेत् । पञ्चशिखस्य च गन्धर्वपुत्रस्य तन्त्रीस्वरगीतिस्वरकौशल्यमुपदिशेयम् ॥
अथ खलु भगवांस्तथारूपमृद्ध्यभिसंस्कारमभिसंस्करोति स्म, यत्तेभ्यः पञ्चभ्यस्तूर्यशतेभ्यः संप्रयुक्तेभ्यः प्रवादितेभ्यो यथानकुम्पोपसंहृतः शब्दो निश्चरति धर्मप्रतिसंयुक्तः । इमाश्च बुद्धधर्मनिध्यप्तिगाथा निश्चरन्ति बुद्धानुभावेन -
एकहि वालपथे बहुबुद्धा यात्तिक वालिक गङ्गनदीये ।
(वैद्य 133)
क्षेत्रं तात्तिक तेष जिनानां ते च विलक्षण ते विसभागाः

19.2

पञ्चगतीगत बालपथस्मिन् नैरयिका पि च तिर्यगताश्च ।
ते यमलौकिक देवमनुष्या नापि च संकरु नो च उपीडो

19.3

तत्र पदे ससराः ससमुद्राः सर्व नदी तथ उत्स तडागाः ।
नो पि च संकरु नो च उपीडो एवमचिन्तियु धर्म जिनानाम्

19.4

तत्र पदे ऽपि च पर्वत नेके चक्रवाल अपि मेरु सुमेरु ।
ये मुचिलिन्द महामुचिलिन्द विन्ध्यथ गृध्रकूटो हिमवांश्च

19.5

तत्र पदे निरयाश्च सुघोरास्तपन प्रतापन आनभिरम्याः ।
तत्र च ये निरये उपपन्ना वेदन ते पि दुखां अनुभोन्ति

19.6

तत्र पदे ऽपि च देवविमाना द्वादशयोजन ते रमणीयाः ।
तेषु बहू मरुतान् सहस्रा दिव्यरतीषु सुखान्यनुभोन्ति

19.7

तत्र पदे च बुद्धान उत्पादो शासनु लोकविदून ज्वलेति ।
तं च न पश्यति ज्ञानविहीनो येन न शोधित चर्य विशुद्धा

19.8

तत्र पदे ऽपि च धर्म निरुद्धो निर्वृतु नायकु श्रूयति शब्दः ।
तत्र पदे ऽपि च केचि शृणोन्ति तिष्ठति नायकु भाषति धर्मम्

19.9

तत्र पदे ऽपि च केषचिदायुर्वर्ष अचिन्तिय वर्तति संज्ञा ।
(वैद्य 134)
तत्र पदे ऽपि वा कालु करोन्ति नो चिरु जीवति श्रूयति शब्दः

19.10

तत्र पदे ऽपि च केषचि संज्ञा दृष्टु तथागतु पूजितु बुद्धो ।
तोषितु मानसु संज्ञग्रहेण नो पि च पूजितु नो च उपन्नो

19.11

स्वस्मि गृहे सुपिनेव मनुष्यो कामगुणेषु रतीरनुभूय ।
स प्रतिबुद्धु न पश्यति कामांस्तच्च प्रजानति सो सुपिनो ति

19.12

यत् तथ दृष्टु श्रुत मत ज्ञातं सर्वमिदं वितथं सुपिनो वा ।
यस्तु भवेत समाधिय लाभी सो इमु जानति धर्मस्वभावान्

19.13

सूसुखिताः सद ते नर लोके येष प्रियाप्रियु नास्ति कहिंचित् ।
ये वनकन्दरके ऽभिरमन्ति श्रामणकं सुसुखं अनुभोन्ति

19.14

येष ममापि तु नास्ति कहिंचिद् येष परिग्रहु सर्वशु नास्ति ।
खङ्गसमा विचरन्तिमु लोके ते गगने पवनेव व्रजन्ति

19.15

भावितु मार्ग प्रवर्तितु ज्ञानं शून्यक धर्म निरात्मनु सर्वे ।
येन विभावित भोन्तिमि धर्मास्तस्य भवेत् प्रतिभानमनन्तम्

19.16

सूसुखिता बत ते नर कोले येष न सज्जति मानसु लोके ।
वायुसमं सद तेष्विह चित्तं नो च प्रियाप्रियु विद्यति सङ्गो

19.17

(वैद्य 135)
अप्रियु ये दुखितेहि निवासो ये हि प्रिया दुखि तेहि वियोगो ।
अन्त उभे अपि एति जहित्वा ते सुखिता नर ये रत धर्मे

19.18

ये अनुनीयति श्रुत्विमि धर्मान् स प्रतिहन्यति श्रुत्व अधर्मम् ।
सो मदमानहतो विपरीतो मानवशेन दुखि अनुभोति

19.19

ये समताय प्रतिष्ठित भोन्ति नित्यमनुन्नत नावनताश्च ।
ये प्रियतो ऽप्रियतश्च सुमुक्तास्ते सद मुक्तमना विहरन्ति

19.20

शीले प्रतिष्ठितु सूपरिशुद्धे ध्याने प्रतिष्ठितु नित्यमचिन्त्ये ।
ये वनकन्दरि शान्ति रमन्ते तेष न विद्यति वीमति जातु

19.21

ये च पुनर्वितथे प्रतिपन्नाः कामगुणेषु रताः सद बालाः ।
गृध्रु यथा कुणपेष्वधिमुक्ता नित्यवशानुगता नमुचिस्य

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc