समाधिराजसूत्र · अध्याय 1
सर्वधर्मस्वभावसमताविपञ्चित-समाधिराजसूत्रम् ।
1 निदानपरिवर्तः ।
एवं मया श्रुतम् । एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं परिपूर्णेन भिक्षुनियुतशतसहस्रेण अशीत्या च बोधिसत्त्वनियुतैः सार्धम् । सर्वैरकजातिप्रतिबद्धैरभिज्ञाभिज्ञातैर्दशदिग्लोकधातुसंनिपतितैर्धारणीसूत्रान्तगतिं गतैः सर्वसत्त्वधर्मदानसंतोषकैर्महाभिज्ञाज्ञानोदाहारकुशलैः सर्वपारमितापरमपारमिताप्राप्तैः सर्वबोधिसत्त्वसमाधिसमापत्तिव्यवस्थानज्ञानकुशलैः सर्वबुद्धस्तुतस्तोभितप्रशस्तैः सर्वबुद्धक्षेत्रव्याक्रमणकुशलैः सर्वमारसंत्रासनज्ञानकुशलैः सर्वधर्मयथावज्ज्ञानकुशलैः सर्वसत्त्वेन्द्रियपरापरज्ञानकुशलैः बुद्धसर्वकर्मपूजासमादानप्रज्ञानकुशलैः सर्वलोकधर्मानुपलिप्तैः कायवाक्चित्तसमलंकृतैः महामैत्रीमहाकरुणासंनाहसंनद्धैः महावीर्यासंख्येयकल्पापरिक्षीणमानसैः महासिंहनादनादिभिः सर्वपरप्रवादानभिभूतैः अवैवर्तिकमुद्रामुद्रितैः सर्वबुद्धधर्माभिषेकप्राप्तैः । तद्यथा - मेरुणा च नाम बोधिसत्त्वेन महासत्त्वेन । सुमेरुणा च । महामेरुणा च । मेरुशिखरिंधरेण च । मेरुप्रदीपराजेन च । मेरुकूटेन च । मेरुध्वजेन च । मेरुगजेन च । मेरुशिखरे संघट्टनराजेन च । मेरुस्वरेण च । मेघराजेन च । दुन्दुभिस्वरेण च । रत्नपाणिना च । रत्नाकरेण च । रत्नकेतुना च । रत्नशिखरेण च । रत्नसंभवेन च रत्नप्रभासेन च । रत्नयष्टिना च । रत्नमुद्राहस्तेन च । रत्नव्यूहेन च । रत्नजालिना च । रत्नप्रभेण च । रत्नद्वीपेण च । रतिंकरेण च । धर्मव्यूहेन च । व्यूहराजेन च । लक्षणसमलंकृतेन च । स्वरव्यूहेन च । स्वरविशुद्धिप्रभेण च । रत्नकूटेन च । रत्नचूडेन च । दशशतरश्मिकृतार्चिषा ज्योति रसेन च । चन्द्रभानुना च । सहचित्तोत्पादधर्मचक्रप्रवर्तिना च । शुभकनकविशुद्धिप्रभेण च । सततमभयंददानेन च नाम बोधिसत्त्वेन महासत्त्वेन । अजितबोधिसत्त्वपूर्वंगमैश्च सर्वैर्भद्रकल्पिकैर्बोधिसत्त्वैर्महासत्त्वैः । मञ्जुश्रीपूर्वंगमैश्च षष्टिभिरनुपमचित्तैः । भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः । चतुर्महाराजपूर्वंगमैश्च चातुर्महाराजकायिकैर्देवपुत्रैः । पेयालम् । यावद् ब्रह्मपूर्वंगमैश्च ब्रह्मकायिकैर्देवपुत्रैस्तदन्यैश्च
महेशाख्यमहेशाख्यैरुदारोदारैर्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैर्भगवान् (वैद्य 2) सत्कृतो गुरुकृतो मानितः पूजितो ऽर्चितो ऽपचायितश्चतसृणामपि पर्षदां सदेवलोकस्य लोकस्य वन्दनीयः पूजनीयो नमस्करणीयः । तत्र खलु भगवाननेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतो धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् । स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म ॥
तेन खलु पुनः समयेन तस्मिन्नेव पर्षत्संनिपाते चन्द्रप्रभो नाम कुमारभूतः संनिपतितो ऽभूत् संनिषण्णः पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो जातिस्मरो लब्धप्रतिभानो महायानसंप्रस्थितो महाकरुणाभियुक्तः । अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशम्, सचेन्मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय । एवमुक्ते भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - पृच्छ त्वं कुमारभूत तथागतमर्हन्तं सम्यक्संबुद्धं यद् यदेव काङ्क्षसि । अहं तस्य तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि । सर्वज्ञो ऽस्मि सम्यक्संबुद्धः कुमार सर्वदर्शी सर्वधर्मबलवैशारद्यवृषभतामनुप्राप्तो ऽनावरणविमोक्षज्ञानसमन्वागतः । नास्ति कुमार तथागतस्य सर्वधर्मेष्वज्ञातं वा अदृष्टं वा अश्रुतं वा अविदितं वा असाक्षात्कृतं वा अनभिसंबुद्धं वा अनन्तापर्यन्तेषु लोकधातुषु । नित्यकृतस्ते कुमार अवकाशो भवतु तथागतं प्रश्नपरिपृच्छनाय । अहं ते तस्य तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि ॥
अथ खलु चन्द्रप्रभः कुमारभूतस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तस्यां वेलायां भगवन्तं गाथाभिरध्यभाषत -
कथं चरन्तः संबुद्ध लोकनाथ प्रभंकर ।
लभते ऽचिन्तियं ज्ञानं व्याकुरुष्व हितंकर
कथं चरन्तु नरेन्द्र सत्यवादि नरवृषभ नरदेवपूजनीय ।
अतुलियु वरु लब्धमग्रयाणं गिरवर पृष्ट वियाकुरुष्व नाथ
अध्याशयेन पृच्छामि शाठ्यं मम न विद्यते ।
साक्षी न कश्चिदन्यो मे अन्यत्र पुरुषोत्तमात्
विपुल प्रणिधि मह्यमस्ति छन्दश्चरिय प्रजानसि मह्य शाक्यसिंह ।
न च अहं वचनवित्तको भविष्ये लघु प्रतिपत्ति भणाहि मे नरेन्द्र
(वैद्य 3)
कतराहारका धर्मा बुद्धयाने बहुंकराः ।
व्याकुरुष्व महावीर सर्वधर्माण पारग
उपकरे धर्म मम ब्रूहि नाथ यथ नरु निषेवतु भोति तीक्ष्णप्रज्ञः ।
अपगतभयभैरवो अत्रस्तो न च परित्यागु करोति शीलस्कन्धात् ।
व्यपगतमदरागदोषमोहश्चरति च चारिक सर्वशान्तदोषः
कथं न त्यजते शीलं कथं ध्यानं न रिञ्चति ।
कथं निषेवते ऽरण्यं कथं प्रज्ञा प्रवर्तते
कथं दशबलशासने उदारे अभिरति विन्दति शील रक्षमाणः ।
कथं भवति अच्छिद्रु शीलस्कन्धः कथं च तुलेति स्वभावु संस्कृतस्य
कथं कायेन वाचा परिशुद्धो भोति पण्डितः ।
असंक्लिष्टेन चित्तेन बुद्धज्ञानं निषेवते
कथं भवति विशुद्धकायकर्मा कथं च विवर्जित भोन्ति वाचदोषाः ।
कथं भवति असंक्लिष्टचित्तः पुरुषवर मम पृष्ट व्याकुरुष्व
अथ खलु भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - एकधर्मेण कुमार समन्वागतो बोधिसत्त्वो महासत्त्व एतान् गुणान् प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । कतमेनैकधर्मेण? इह कुमार बोधिसत्त्वो महासत्त्वः सर्वसत्त्वेषु समचित्तो भवति हितचित्तो ऽप्रतिहतचित्तो ऽविषमचित्तः । अनेन कुमार एकधर्मेण समन्वागतो बोधिसत्त्वो महासत्त्व एतान् गुणान् प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ॥
अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभं कुमारभूतं गाथाभिरध्यभाषत - (वैद्य 4)
एकधर्मं समादाय बोधिसत्त्वो य वर्तते ।
एतान् गुणान् स लभते क्षिप्रं बोधिं च बुध्यते
न च कश्चि प्रतिहन्यते ऽस्य चित्तम् अप्रतिहतचित्तु यो भोति बोधिसत्त्वः ।
न च खिलु जनयति न प्रदोषं लभति यथा परिकीर्तितान् विशेषान्
समं चित्तं निषेवित्वा विपाको दर्शितः समः ।
समाः पादतला भोन्ति समश्चाचारगोचरः
सममविषमचित्तु भावयित्वा अपगतदोषखिलः प्रहीणकाङ्क्षः ।
चरणवरतलाः समास्य भोन्ति परमप्रभास्वर शुद्धदर्शनीयः
दशदिशित विरोचि बोधिसत्त्वः स्फुरति शिरीय प्रभाय बुद्धक्षेत्रम् ।
यद भवति स लब्धु शान्तभूमि तद बहुसत्त्व स्थपेति बुद्धज्ञाने
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0