भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 18

18.1

इति श्रीसमाधिराजे बहुबुद्धनिर्हारसमाधिमुखपरिवर्तो नाम सप्तदशः ॥
(वैद्य 127)
18 समाध्यनुपरिन्दनपरिवर्तः ।
तत्र भगवांश्चन्द्रप्रभकुमारमामन्त्रयते स्म - तस्मात् तर्हि कुमार यो बोधिसत्त्वो महासत्त्व इमं समाधिमुद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति प्रवर्तयिष्यति उद्देक्ष्यति स्वाध्यास्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, तेन भावनायोगमनुयुक्तेन च भवितव्यम् । तस्यैतं प्रतिपद्यमानस्य चत्वारो गुणानुशांसाः प्रतिकाङ्क्षितव्याः । कतमे चत्वारः? यदुत अनभिभूतो भविष्यति पुण्यैः ॥ अनवमर्दनीयो भविष्यति प्रत्यर्थिकैः । अप्रमेयो भविष्यति ज्ञानेन । अनन्तश्च भविष्यति प्रतिभानेन । यो हि कश्चित् कुमार बोधिसत्त्वो महासत्त्व इमं समाधिमुद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति प्रवर्तयिष्यति उद्देक्ष्यति स्वाध्यास्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, तस्येमे चत्वारो गुणानुशंसाः प्रतिकाङ्क्षितव्याः ॥
अथ खलु भगवांस्तस्यां वेलायामि गाथा अभाषत -
अनाभिभूतः पुण्येहि नित्यकालं भविष्यति ।
समाधिं शान्तुभावेन सर्वबुद्धान गोचरम्

18.2

पुण्येहि रक्षितः शूरो नित्यकालं भविष्यति ।
चरन् स परमां शुद्धां विशिष्टां बोधिचारिकाम्

18.3

नास्य प्रत्यर्थिको जातु विहेठां कश्चित् करिष्यति ।
परिगृहीतो बुद्धेहि नित्यकालं भविष्यति

18.4

अप्रमेयश्च ज्ञानेन नित्यकालं भविष्यति ।
अनन्तः प्रतिभानेन धारेन्तः शान्तिमां गतिम्

18.5

सततमनभिभूतपुण्यस्कन्धो भविष्यति श्रेष्ठतरं तु बोधिचर्याम् ।
न भविष्यति प्रत्यर्थिंकान धृष्यो इमु वरु शान्त समाधि धारयित्वा

18.6

ज्ञानु विपुलु तस्य भोति तीक्ष्णं तथ प्रतिभानमनन्त चक्षु शुद्धम् ।
भविष्यति सद तस्य पण्डितस्य स्मृतिबलमेव च धारणीबलं च

18.7

(वैद्य 128)
परम प्रियु मनापु पण्डितानां भविष्यति चार्थपदं प्रभाषमाणः ।
ज्ञानु बहुजनस्य प्रज्ञवन्तो इमु वरु शान्त समाधि भाषमाणः

18.8

लाभि परम श्रेष्ठ चीवराणां शय्य निमन्त्रणमा(खा ?)द्यभोजनानाम् ।
भविष्यति सुकुमार दर्शनीयो इमु वरु शान्त समाधि धारयन्तो

18.9

द्रक्ष्यति बहु बुद्ध लोकनाथान् अतुलिय काहिति पूज नायकानाम् ।
न च भविष्यति तस्य अन्तरायो इमु वरु शान्त समाधिमेषतो हि

18.10

भाषिष्यति पुरतः स्थित्व लोकनाथान् सुरुचिर गाथशतेहि तुष्टचित्तः ।
न च भविष्यति तस्य जातु हानी इमु वरु शान्त समाधि धारयित्वा

18.11

स्थास्यति पुरतो ऽस्य लोकनाथः सुरुचिरलक्षणकायु व्यञ्जनेभिः ।
न च भविष्यति तस्य ज्ञानहानी इमु वरु शान्त समाधि धारयित्वा

18.12

न कदाचि भविष्यति दीनचित्तः सतत भविष्यति आढ्यु नो दरिद्रः ।
न च भविष्यति उद्गृहीतचित्तो इमु वरु शान्त समाधि धारयित्वा

18.13

न च भविष्यति वा अक्षणेषु महीपति भेष्यति राजचक्रवर्ती ।
सद भविष्यति राज्य तस्य क्षेमं इमु वरु शान्त समाधि धारयित्वा

18.14

ज्ञानु विपुलु नात्र संशयो ऽस्ति क्षपयितु कल्पशतेहि भाषमाणैः ।
(वैद्य 129)
श्रुत इमु समाधि शान्तभूमी यथ उपदिष्ट तथा स्थिहेत धीरो

18.15

अपरिमित अनन्त कल्पकोट्यो दशबल तस्य भणेयुरथानुशंसाम् ।
न च परिकीर्तिता कला भवेय्या यथ जलबिन्दु ग्रहीतु सागरातो

18.16

हर्षितु स कुमारु तस्मि काले उत्थितु प्राञ्जलिको नमस्यमानः ।
दशबलभिमुखो स्थितो उदग्रो गिरवराय उदानुदानयति

18.17

अचिन्तियो महावीरो लोकनाथ प्रभाकरः ।
यावच्चेमे नरेन्द्रेण अनुशंसाः प्रकाशिताः

18.18

आख्याहि मे महावीर हितैषी अनुकम्पकः ।
को नाम पश्चिमे काले इदं सूत्रं श्रुणिष्यति

18.19

तमेनमवदच्छास्ता कलविङ्करुतस्वरः ।
असङ्गज्ञानी भगवानिमां वाचं प्रभाषते

18.20

कुमार शृणु भाषिष्ये प्रतिपत्तिमनुत्तराम् ।
यो धर्माननुशिक्षन्तो इदं सूत्रं श्रुणिष्यति

18.21

पूजां कुर्वन् जिनेन्द्राणां बुद्धज्ञानगवेषकः ।
मैत्रचित्तं निषेवन्तो इदं सूत्रं श्रुणिष्यति

18.22

धूतान् गुणांश्च संलेखान् गुणान् श्रेष्ठान् निषेवतः ।
प्रतिपत्तौ स्थिहित्वा च इदं सूत्रं श्रुणिष्यति

18.23

न पापकारिणां हस्तादिदं सूत्रं श्रुणिष्यति ।
न यैर्विरागितं शीलं लोकनाथानमन्तिके

18.24

ब्रह्मचारीण शूराणां येषां चित्तमलोलुपम् ।
अधिष्ठितानां बुद्धेहि तेषां हस्ताच्छ्रुणिष्यति

18.25

ये हि पुरिमका बुद्धा लोकनाथा उपस्थिताः ।
तेषां हस्तादिदं सूत्रं पश्चात्काले श्रुणिष्यति

18.26

ये तु पूर्वासु जातीसु अभूवन्नन्यतीर्थिकाः ।
तेष्विमं श्रुत्व सूत्रान्तं सौमनस्यं न भेष्यति

18.27

(वैद्य 130)
मम च प्रव्रजित्वेह शासने जीविकार्थिकाः ।
लाभसत्काराभिभूता अन्यमन्यं प्रतिक्षिपि

18.28

अध्योषिता परस्त्रीषु बहु भिक्षु असंयता ।
लाभकामाश्च दुःशीला इदं सूत्रं न श्रद्दधी

18.29

पुण्यानुप्राप्ता बुद्धेषु ध्यानप्राप्त्याप्यनर्थिकाः ।
निश्रिताश्चात्मसंज्ञायामिदं सूत्रं न श्रद्दधे

18.30

लौकिक ध्यानफलसंज्ञी भेष्यते कालि पश्चिमे ।
अर्हत्पिण्डं च ते भुक्त्वा बुद्धबोधिं प्रतिक्षिपि

18.31

यश्चैव जम्बुद्वीपस्मि भिन्देयात् सर्व चेतिया ।
यश्च प्रतिक्षिपेत् सूत्रमिदं पापं विशिष्यते

18.32

यश्चार्हतो निहनेय्या यथा गङ्गाय वालुकाः ।
यश्च प्रतिक्षिपेत् सूत्रमिदं पापं विशिष्यते

18.33

क उत्सहन्ति युष्माकं पश्चिमे कालि दारुणे ।
सद्धर्म लोके वर्तन्ते इदं सूत्रं प्रकाशितुम्

18.34

रोदन्तो उत्थितस्तत्र कुमारो जिनमब्रवीत् ।
सिंहनादं नदत्येवं पुत्रो बुद्धस्य औरसः

18.35

अहं निर्वृते संबुद्धे पश्चिमे कालि दारुणे ।
सूत्रं वैस्तारिकं कुर्यां त्यजित्वा कायु जीवितम्

18.36

सहिष्याम्यत्र बालनामभूतां परिभाषणाम् ।
आक्रोशांस्तर्जनां चैव अधिवासिस्ये नायक

18.37

क्षपेयं पापकं कर्म यन्मया पुरिमे कृतम् ।
अन्येषु बोधिसत्त्वेषु व्यापादो जनितो मया

18.38

स्थपेत्व पाणिं मूर्धस्मि बुद्धः काञ्चनसंनिभम् ।
शास्ता चन्द्रप्रभं प्राह मञ्जुघोषस्तथागतः

18.39

करोमि ते अधिष्ठानं कुमार कालि पश्चिमे ।
न ब्रह्मचर्यान्तरायो जीवितस्य च भेष्यति

18.40

अन्ये चाष्टौ शतान्यत्र उत्थिता धर्मधारकाः ।
वयं हि पश्चिमे काले अस्य सूत्रस्य धारकाः

18.41

(वैद्य 131)
देवनागान यक्षाण अशीतिकोट्युपस्थिता ।
अन्ये च नयुताः षष्टि वन्दन्ते लोकनायकम्

18.42

वयमिमेषां भिक्षूणां य इमे अद्य उत्थिताः ।
तस्मिंश्च पश्चिमे काले रक्षां काहाम नायक

18.43

अस्मिन् सूत्रे प्रभाष्यन्ते बुद्धक्षेत्राः प्रकम्पिताः ।
यथा वालुक गङ्गाया अधिष्ठानेन शास्तुनः

18.44

ये च प्रकम्पिताः क्षेत्राः सर्वेषु बुद्धनिर्मिताः ।
प्रेषिता लोकनाथेन ये हि धर्माः प्रकाशिताः

18.45

एकैकशश्च क्षेत्रातः सत्त्वकोट्यो अचिन्तियाः ।
एवं धर्मं तदा श्रुत्वा बुद्धज्ञाने प्रतिष्ठिताः

18.46

इतश्च बुद्धक्षेत्रातो नवतिर्देवकोटियः ।
बोधिचित्तं समुत्पाद्य बुद्धं पुष्पैरवाकिरन्

18.47

ते व्याकृता नरेन्द्रेण कल्पकोटेरशीतिभिः ।
सर्वे ऽप्येकत्र कल्पे ऽस्मिन् भविष्यन्ति विनायकाः

18.48

भिक्षुभिक्षुणिकाश्चैव उपासक उपासिकाः ।
षट्सप्तति प्राणकोट्यो येहि सूत्रमिदं श्रुतम्

18.49

ते ऽपि व्याकृत बुद्धेन द्रक्ष्यन्ते लोकनायकान् ।
यथा वालुक गङ्गायाश्चरन्तो बोधिचारिकाम्

18.50

सर्वेषां पूज काहिन्ति बुद्धज्ञानगवेषकाः ।
तत्र तत्र श्रुणिष्यन्ति इदं सूत्रं निरुत्तरम्

18.51

अशीत्या कल्यकोटीभि भेष्यन्ते लोकनायकाः ।
सर्वे एकत्र कल्पे ऽस्मिं हितैषी अनुकम्पकाः

18.52

मैत्रेयस्य च बुद्धस्य पूजां कृत्वा निरुत्तराम् ।
सद्धर्म श्रेष्ठं धारित्वा गमिष्यन्ति सुखावतीम्

18.53

यत्रासौ विरजो बुद्धो अमितायुस्तथागतः ।
तस्य पूजां करिष्यन्ति अग्रबोधीय कारणात्

18.54

त्रिसप्ततिरसंख्येया कल्पा ये च अनागताः ।
न दुर्गतिं गमिष्यन्ति श्रुत्वेदं सूत्रमुत्तमम्

18.55

ये केचित् पश्चिमे काले श्रोष्यन्ते सूत्रमुत्तमम् ।
अश्रुपातं च काहिन्ति सर्वैस्तैः सत्कृतो ह्यहम्

18.56

आरोचयामि सर्वेषां यावन्तः पुरतः स्थिताः ।
परिन्दामि इमां बोधिं या मे कृछ्रेण स्पर्शिता

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc