भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 14

14.1

इति श्रीसमाधिराजे समाधिनिर्देशपरिवर्तस्त्रयोदशः ॥ 13 ॥
(वैद्य 83)
14 स्मितसंदर्शनपरिवर्तः ।
अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावत् सुभाषितेयं भगवता तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्मस्वभावसमता सर्वबोधिसत्त्वशिक्षासमाधिनिर्देशः । यथापि नाम भगवन् दीर्घरात्रमत्र शिक्षित्वा समुदागतो ऽनुत्तरायां सम्यक्संबोधौ । प्रतिभाति च मे भगवन्, प्रतिभाति च मे सुगत । भगवानाह - प्रतिभातु ते कुमार यस्येदानीं कालं मन्यसे । अथ खलु चन्द्रप्रभः कुमारभूतो भगवता कृतावकाशो भगवन्तं संमुखं सारूप्याभिर्गाथाभिरभ्यष्टावीत् -
दृष्ट्वान सत्त्वान् दुखितानुपद्रुतान् रागेण दोषेण सदाभिभूतान् ।
चित्तं त्वयोत्पादितु बोधिकारणादू बुद्धो भवेयं ति प्रजान मोचकाः

14.2

चीर्णो ऽसि वीर्ये बहुकल्पकोटियो दाने दमे संयमि नित्यु शिक्षितः ।
शीले च क्षान्तौ तथ वीर्ये ऽतन्द्रितो दानं च दत्तं विपुलमनन्तकम्

14.3

न चो तव मानसु जातु खिन्नं हस्तांश्च पादांस्त्यजमानु जीवितम् ।
हिरण्यसुवर्णं तथ पुत्रदारं राज्थं च त्यक्तमनपेक्ष भूत्वा

14.4

शीलं तवाच्छं विमलं विशुद्धम् आत्मा च त्यक्तो न च शील खण्डितम् ।
कायेन वाचा मनसा सुसंवृता सुदान्तचित्ता सुगता नमो ऽस्तु ते

14.5

क्षान्तीरताः क्षान्तिपथे प्रतिष्ठिताः काये कृते खण्ड पि नैव क्रुध्यसे ।
क्षीरं ततः प्रस्रवि मैत्रभावना आश्चर्यभूता सुगता नमो ऽस्तु ते

14.6

(वैद्य 84)
बलैरुपेता दशभिर्बलैः स्थिता असङ्गुज्ञानी विदि सर्वधर्मान् ।
करुणानि लोकहितकर धर्मस्वामिन् अनुकम्पसे प्रजा इम अर्थकामः

14.7

शून्यं ति ज्ञानं न च पुनिहास्ति सत्त्वो लोकं च दृष्ट्व तथा ति प्रनष्टमार्गम् ।
विबोधितास्ते प्रकृतिनिरात्मधर्मे विमुक्तिजाता न च क्वचि सा विमुक्तिः

14.8

प्रत्यादिशं जहिय सदा प्रमत्तं जित्वा च मारं सबलमनन्तसैन्यम् ।
बुद्धित्व बोधि विपुलामनन्तज्ञानं दिशेहि धर्मं परम विशुद्धशान्तम्

14.9

गगनं पतेय्या सह शशितारकेहि पृथिवी विनश्येत् सनगरशैलसंस्था ।
आकाशधातुरपि च सियान्यथात्वं नो चैव तुभ्यं वितथ भणेय्य वाचा

14.10

दृष्ट्वा त्वं दुःखितान् सत्त्वानुपलम्भरताः प्रजाः ।
अनोपलम्भं देशेसि गम्भीरां शान्तशून्यताम्

14.11

शिक्षितो ऽसि महावीर कल्पकोटीरचिन्तिया ।
अनोपलम्भशिक्षायां स्खलितं ते न विद्यते

14.12

यादृशे शिक्षितो धर्मे तादृशं धर्मु भाषसे ।
अभूमिरत्र बालानां यावन्त अन्यतीर्थिकाः

14.13

ये स्थिता आत्मसंज्ञायां ते स्खलन्ति अविद्वसु ।
ज्ञात्वा धर्माण नैरात्म्यं स्खलितं ते न विद्यते

14.14

भूतवादी महावीर भूतधर्मप्रतिष्ठितः ।
भूते सत्ये स्थितो नाथ भूतां वाचं प्रभाषसे

14.15

भूता ते चारिका आसीद् यथा ते प्रणिधिः कृतः ।
तस्य भूतस्य निष्यन्दा भूतां वाचं प्रभाषसे

14.16

भूतचर्यासु संपन्नो भूतकोटीसुशिक्षिता ।
भूताशया भूतचरी भूतप्रज्ञ नमो ऽस्तु ते

14.17

(वैद्य 85)
समस्ते प्रज्ञया नास्ति ज्ञानवादि प्रभाकर ।
ज्ञाने विशेषतां प्राप्त ज्ञानवादि नमो ऽस्तु ते

14.18

मित्रस्त्वं सर्वसत्त्वानां मैत्री तव सुभाविता ।
अप्रकम्प्यो यथा मेरुरचलः सुप्रतिष्ठितः

14.19

गणे सुविपुले शास्तुर्गणान् संपरिकर्षसि ।
गभीरप्रज्ञा सुगता नदसे परिषद्गता

14.20

सिंहनादं नदि बुद्धः सिंहविक्रान्तविक्रमः ।
जितास्ते तीर्थिकाः सर्वे सिंहेन क्रोष्टुका यथा

14.21

अदान्तदमको वीर अदान्ता दमितास्त्वया ।
ते च मित्रा दृढा भोन्ति अभेद्या भोन्ति सुस्थिताः

14.22

दृष्ट्वा त्वं दुःखितान् सत्त्वानात्मदृष्टिसमाश्रितान् ।
नैरात्म्य धर्मं देशेमि यत्र नास्ति प्रियाप्रियम्

14.23

अशिक्षितानां बालानां कुमार्गपथचारिणाम् ।
मार्गं त्वं संप्रकाशेसि येन गच्छन्ति नायकाः

14.24

ये स्थिता आत्मसंज्ञायां दुःखे ते सुप्रतिष्ठिताः ।
न ते जानन्ति नैरात्म्यं यत्र दुःखं न विद्यते

14.25

अखिलितपदधर्मदेशको ऽसि स्खलितु न लभ्यति लोकनाथ ।
अवितथ गिर संप्रभाषसे त्वं दुःखमोक्षकरा नमस्ते नाथ

14.26

बहुनियुतशता सहस्रकोट्यो गगनस्थिताः पृथु देवनागयक्षाः ।
सर्विं स्पृह जनेन्ति नायकस्मिन् भगवतु वाच श्रुणित्व अर्थयुक्ताम्

14.27

स्निग्धमृदुमनोज्ञकालयुक्तां सुमधुर वाच प्रणीत प्रेमणीयाम् ।
अपरिमितस्वराङ्गसंप्रयुक्तां हितकर मोक्षकरीं बहुजनस्य

14.28

तुरियशतसहस्र अप्रमेया सुमधुर युक्त भवेयुरेककाले ।
(वैद्य 86)
दिव्यस्वर विशिष्ट प्रेमणीया अभिभवति सुगतस्य एकवाचा

14.29

द्विजगणकलविङ्कमञ्जुधोषाः सुरुचिर प्रेमणीयाः सुगीतशब्दाः ।
शङ्खपटहभेरिवीणशब्दाः कलमपि न लभन्तिः बुद्धशब्दे

14.30

परभृतशुकशारिकाण शब्दास्तथ पुनः क्रौञ्चमयूरकिन्नराणाम् ।
रुत रवित य केचि प्रेमणीयाः कलमपि बुद्धस्वरस्य नानुभोन्ति

14.31

प्रिय मधुर मनोज्ञ प्रेमणीयाः सुमधुर शान्तगिरा प्रशंसनीयाः ।
सर्वि गिर प्रयुक्त एककाले गिरवर हर्षणियास्तथागतस्य

14.32

सुरमनुजनरेन्द्रदानवानां सकलभवे त्रिभवे य अस्ति सत्त्वाः ।
या प्रभा अभवत् प्रभाकराणां अभिभवति सुगतस्य एकरश्मिः

14.33

कुसुमितु सुगतस्य आत्मभावः परिवृतु विचित्रु सर्वलक्षणैः ।
पुण्यशतनिर्वृतु अच्छ शुद्धः प्रतपति सर्वजगे जिनस्य कायः

14.34

शङ्खान शब्द पणवसुघोषकाणां भेरीण शब्द तथपि च किम्पलानाम् ।
सर्वे च शब्द सुमधुर प्रेमणीया बुद्धस्य शब्दे शतिम कलां न भोन्ति

14.35

तूर्याण कोटिनियुतसहस्रशब्दा आस्वादनीय सुमधुर दिव्यकल्पाः ।
प्रामोदनीय मरुगण अप्सराणां बुद्धस्य शब्दे शतिम कलां न भोन्ति

14.36

(वैद्य 87)
क्रौञ्चा मयूर परभृत चक्रवाका हंसाः कुणाला बहुविधपक्षिसंघाः ।
ये ते सशब्दाः सुमधुर एककाले बुद्धस्य शब्दे शतिम कलां न भोन्ति

14.37

नागान यक्षाण असुरमहोरगाणां देवेन्द्रब्रह्ममरुपतीनां च शब्दाः ।
यावन्त शब्दास्त्रिभवे मनोज्ञ कान्ता बुद्धस्वरस्य कलमपि ते न भोन्ति

14.38

या ब्रह्मणो वा मरुपतिनश्च आभा प्रभास्वराणां मणिरतनान आभाः ।
सर्वा य आभा विविधमनेकरूपाः सर्वास्त एका अभिभवि बुद्धरश्मिः

14.39

कायेन शुद्धो वचसा मनेन चैव ज्ञानेन शुद्धस्त्रिभवि अनोपलिप्तः ।
गुणसारराशि गुणरतनो नरेन्द्रः सर्वगुणेहि असमसमः स्वयंभूः

14.40

एवं स्तवित्वा दशबल सत्यवादिं वाचं प्रभाषि मुदितमनः कुमारः ।
पूजित्व बुद्धमतुलियमप्रमेयं बुद्धो भवेय यथ इव शाक्यसिंहः

14.41

तस्यो विदित्वा सुगतु विशिष्ट चर्यामसङ्गज्ञानी स्मितमकरोन्नरेन्द्रः ।
मैत्रेयु पृच्छी दशबलज्येष्ठपुत्रं कस्यार्थि एतं स्मितु कृतु नायकेन

14.42

आकम्पिताभूद्वसुमति षड्विकारं देवाश्च नाग गगनस्थिता उदग्राः ।
प्रेक्षन्ति बुद्धं प्रमुदित हृष्टचित्तास्तं व्याकरोहि सुगत अनाभिभूतः

14.43

अभूमिरस्मि भगवतु श्रावकाणां यत्र प्रवृत्तं पुरुषवरस्य ज्ञानम् ।
सुविशुद्धज्ञानिन्ननुपमप्रज्ञभूमि अखिला ते स्मितु कृतु जिन कस्य अर्थे

14.44

(वैद्य 88)
पृच्छमि दशबलं विनायकं शाक्यसिंह द्विपदानमुत्तमम् ।
ज्ञानपारमिं गतं प्रभाकरं रागद्वेषखिलमोहसादकम्

14.45

कल्पकोटि चरितो ऽसि नायको गङ्गवालुकसमास्ततोत्तरम् ।
एषमाणु वरबोधिमुत्तमां कस्य अर्थि स्मितु एतु दर्शितम्

14.46

हस्तपाद परिकृत्त शास्तुना पुत्रदार प्रियज्ञाति बान्धवान् ।
एषमाणु वरज्ञानमुत्तमं को नु हेतु स्मितदर्शने मुने

14.47

अश्वहस्तिरथपत्तियो त्वया दासदासिमणिरत्न रूप्यकम् ।
नैव द्रव्यरतनं च लभ्यते यन्न त्यक्तु चरता ति चारिकाम्

14.48

ज्ञानु श्रेष्ठु त्रिभवे ऽतिवर्तते सर्वसत्त्वचरियां प्रजानसे ।
धातुचित्तु अधिमुक्तिकोविदा कस्य अर्थि स्मितु एतु दर्शितम्

14.49

केन पूजित नराणमुत्तमाः कस्य वार्थ विपुलो भविष्यति ।
को च अस्य चरियाय ग्राहकः कस्य अर्थि स्मितु दर्शितं मुने

14.50

षड्विकार पृथिवी प्रकम्पिता पद्मकोट्य धरणीतु उत्थिताः ।
कोटिपत्रपरमा प्रभास्वरा हेमवर्णरुचिरा मनोरमा

14.51

यत्रिमे स्थित जिनस्य औरसा बोधिसत्त्व परमा महर्द्धिकाः ।
धर्मभाणक बहू समागतास्तेष कारुणिक पृच्छि नायकम्

14.52

(वैद्य 89)
भेरिशङ्खतुणवाः सुघोषकास्तूर्य कोटिनियुताः प्रवादिताः ।
तेष शब्द गगनस्मि श्रूयते यादृशः सुगतघोष अचिन्तियः

14.53

हंसक्रौञ्चकलविङ्ककोकिलाः पक्षिसंघ बहुकाः समागताः ।
मुञ्चि घोष परमं प्रभास्वरं बुद्धघोषकल नानुभोन्ति ते

14.54

केन दान दम संयमः पुरे कल्पकोटि बहुका निषेविताः ।
केन पूजित नराण उत्तमा कस्य अर्थि स्मितु एतु दर्शितम्

14.55

केन पूर्वि द्विपदेन्द्रु पृच्छितो गौरवं परमु संजनित्वन ।
बुद्धबोधि कथमेष लभ्यते कस्य अर्थि स्मितु एतु दर्शितम्

14.56

यात्तिका दशबला अतीतकाः प्रत्युत्पन्न सुगता अनागताः ।
सर्व जानसि नराणमुत्तमो तेन पृच्छमि प्रजाय कारणात्

14.57

चित्तसंतति प्रजाय जानते सर्वि प्राणिन अनन्तगोचराः ।
यस्य यादृशु नरस्य आशयस्तेन पृच्छमि नराणमुत्तमम्

14.58

ये चरन्ति चरियामनुत्तमां हेतुयुक्तिविनयस्मि कोविदाः ।
बुद्धज्ञान कथमेतु लभ्यते एतदर्थि द्विपदेन्द्रु पृच्छिहम्

14.59

ये हि धर्म सुखुमाः सुदुर्दृशाः शून्य शान्त अतुला अचिन्तियाः ।
भाविता दशबलान गोचरास्तेष अर्थ अहु पृच्छि नायकम्

14.60

(वैद्य 90)
येष मैत्रि करुणा सुभाविता सर्वप्राणिषु जगे अचिन्तिया ।
सत्त्वसंज्ञ न च येष वर्तते तेष अर्थि द्विपदेन्द्रु पृच्छियाम्

14.61

येष ज्ञानमतुलमचिन्तियं तेष ग्राह्य न कदाचि विद्यते ।
चित्तगोचरिय पारमिं गता तेष अर्थि अहु नाथ पृच्छमि

14.62

शीलज्ञानगुणपारमिं गता त्र्यध्वज्ञानमतुलं भिवर्तते ।
नैव तुभ्य स्खलितूपलभ्यते कस्य अर्थि स्मितु एतु दर्शितम्

14.63

शारिपुत्र अनिरुद्ध कोलिता ये च अन्य सुगतस्य श्रावकाः ।
नैव तेष इह ज्ञानु वर्तते बुद्धगोचरु अयं निरूत्तरः

14.64

सर्वधर्मवशिपारमिं गताः सर्वशिक्षचरियाय उद्गताः ।
संजनेत्व करुणां विनायका मुञ्च घोष परमार्थकोविदा

14.65

ये ऽपि पूर्व बहुकल्पकोटियो एव चिन्ति द्विपदेन्द्रु पृच्छितः ।
भष्यमग्रु शरणं परायणं तेष अद्य फल ब्रूहि नायका

14.66

यक्षराक्षसकुम्भाण्डगुह्यकाः प्रेक्षमाण द्विपदानमुत्तमम् ।
सर्वि प्राञ्जलिस्थिताः सगौरवाः श्रोतु व्याकरणमग्रपुद्गलान्

14.67

(वैद्य 91)
बोधिसत्त्व बहवो ऽद्य आगता ऋद्धिमन्त बहुक्षेत्रकोटिभिः ।
जेष्ठपुत्र सुगतस्य औरसाः सर्वि प्राञ्जलिस्थिताः सगौरवाः

14.68

गन्धहस्ति पुरिमादिशा गतो ऽक्षोभ्यक्षेत्र दिशि लोकविश्रुतः ।
बोधिसत्त्वनयुतैः पुरस्कृतः शाक्यसिंहु द्विपदेन्द्रु पृच्छना

14.69

सुखावतीय वरलोकधातुतो महास्थाम प्राप्त अवलोकितेश्वरः ।
बोधिसत्त्वनयुतैः पुरस्कृतः शाक्यसिंहु द्विपदेन्द्रु पृच्छना

14.70

येन पूर्व बहुकल्पकोटियो अप्रमेय सुगता उपस्थिताः ।
सागराण सकला च वालिका एषता परम ज्ञानमुत्तमम्

14.71

सर्वबुद्धस्तुत संप्रशंसितः सर्वधर्मगुणपारमिं गतः ।
सर्वलोकदिशतासु विश्रुतो मञ्जुघोष स्थितु प्राञ्जलीकृतः

14.72

बुद्धक्षेत्रनियुतैश्चरित्वना सुदुर्लभमीदृशकान दर्शनम् ।
बुद्धपुत्रगुणवत् सुशिक्षिताः सर्वि प्राञ्जलिस्थिताः सगौरवाः

14.73

नास्ति अन्य इह कश्चि भाजनं एवरूपि यथ एत सूरताः ।
धर्मकोषधर सर्वशास्तुनां स्निग्धभाव गिर मुञ्च नायका

14.74

न ह्यकारणक जिना विनायका दर्शयन्ति स्मितमग्रपुद्गलाः ।
मुञ्च घोषवर दुन्दुभिस्वर कस्य अर्थि स्मितु एतु दर्शितम्

14.75

(वैद्य 92)
हंसकोकिलमयूरसारसा मेघनाद वृषभाः प्रगर्जिताः ।
दिव्यवाद्यमधुराः प्रवादिता व्याकरोहि गिर सत्त्वमोचनी

14.73

मैत्रसंजननि प्रेमवर्धनी ज्ञानदर्शनि अविद्यरिञ्चनी ।
अर्थतीरणि प्रज्ञाविवर्धनी कल्पकोटिनियुता विशोधनी

14.77

विनिश्चितभावविभावितदुःखनिरोधपदार्थनिदर्शनी ।
सर्वकुतीर्थकवादध्वंसनी शून्य निसत्त्व निजीव विभावनि

14.78

पुण्यसहस्रशतेहि अलंकृतः बुद्धसहस्रशतेहि चरित्विह ।
देवसहस्रशतेहि सुसंस्तुतः ब्रह्मसहस्रशतेहि नमस्कृतः

14.79

राक्षसयक्षकुम्भाण्डप्रसादनि नागसुपर्णमहोरगमोचनि ।
नित्यमसक्तप्रयुक्तौदीरणि कर्मफलेहि शुभेहि समुद्गतः

14.80

ये च केचि जिनाः परिनिर्वृता ये च अनागत ये च अवस्थिताः ।
सर्वि प्रजानसि सङ्गु न ते ऽस्तीति सर्वगुणेहि समुद्गत नायक

14.81

भूतधरा ससमुद्रपर्वत सर्वि मही षड्विकार प्रकम्पिता ।
देवगणा नभि पुष्प क्षिपन्ति च दिव्यु प्रवायति गन्धु मनोरमु

14.82

हतरागदोषतिमिरा निखिला परिशुद्धशील परिशुद्धमनाः ।
(वैद्य 93)
प्रशान्त शून्य अनिमित्तरता नरसिंहनादु नद कारुणिका

14.83

प्रतिभानवन्त सुविशालयशा सुसमाप्तप्रज्ञ तथज्ञान जिना ।
तव लोकि नास्ति समु कारुणिका भण कस्यु अर्थि स्मितु दर्शयसे

14.84

कलविङ्ककोकिलमयूररवास्तथ जीवंजीवं जीवकमनोज्ञरुताः ।
रञ्जनीय शब्दु भुवि एकक्षणे कल तेन भोन्ति सुगतस्य स्वरे

14.85

भेर्यो मृदङ्गपणवाश्च तथा शङ्ख सवेणु तथा वल्लरियो ।
तूर्यासहस्र सिय एकरवाः कल नानुभोन्ति सुगतस्य रुते

14.86

तूर्यसहस्र वर दिव्यरुता रञ्जनीय गीत सिय अप्सरसाम् ।
सुगीति शब्दरति संजने कल न भोन्ति सुगतस्य रुते

14.87

एकस्वरा तु तव लोकहिता नानाधिमुक्ति स्वरु निश्चरति ।
एकैकु मन्यि मम भाषि जिनो ब्रूहि स्मितं ति कृतु कस्य कृते

14.88

देवान शब्द तथ नागरुता ये चापि किन्नररुता मधुराः ।
प्रशमेन्ति क्लेश न कदाचिदपि बुद्धस्वरास्तु सद क्लेशनुदाः

14.89

प्रीतिं जनेति न च रागरतिं मैत्रीं जनेति न च दोषमतिम् ।
प्रज्ञां जनेति न च मोहरतिं बुद्धान सर्व मलनाशि स्वरः

14.90

न बहि च शब्दु परिषातु प्रजा सर्वेष छिन्दति स काङ्क्षशतान् ।
(वैद्य 94)
न च ओनतो न हि च औन्नमतो समसौख्यदर्शन स्वरो मुनिनः

14.91

भज्यादियं मही सशैलरणा क्षीयते सागरजलं च तथा ।
चन्द्रो ऽथ सूर्यु धरणीं प्रपतेद् गिरमन्यथा न पुन भाषि जिनः

14.92

सर्वाङ्गवाक्य परिशुद्धगिरा सिंहस्वरा मधुरमञ्जगिरा ।
ब्रह्मस्वरा सुगत कारुणिका भण कस्य अर्थि स्मितु दर्शयसे

14.93

यावन्त सत्त्व इह सर्व जगे सर्वेष चित्त चरते कुशलः ।
ये अतीतनागत ये सांप्रतिका भण कस्य अर्थि स्मितु दर्शयसे

14.94

यावन्त केचिज्जिन कारुणिका ज्ञानस्मि सर्वि वशि पारमिं गताः ।
न च ते जिना विमलचन्द्रमुखा नाहैतुकं स्मित सद दर्शयसे

14.95

अपि कल्पकोटि भणि अप्रतिमा यथ गङ्गवालिक भणेय्य गुणान् ।
न च शक्यु कीर्तितु प्रमाणु गुणे भण कस्य अर्थि स्मितु दर्शयसे

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc