भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 13

13.1

इति श्रीसमाधिराजे समाध्यनुशिक्षणापरिवर्तो नाम द्वादशः ॥ 12 ॥
(वैद्य 79)
13 समाधिनिर्देशपरिवर्तः ।
तत्र खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन समाधिनिर्देशकुशलेन भवितव्यम् । तत्र कुमार कतमः समाधिनिर्देशः?या यथावत्तता सर्वधर्माणां समता अविषमता । अकल्पना अविकल्पना । अविठपना असमुत्थापना । अनुत्पादः अनिरोधः । कल्पविकल्पपरिकल्पसमुच्छेदः । चित्तानालम्बनता । अमनसिकारः । प्रज्ञप्तिसमुच्छेदः । वितर्कविकल्पसमुच्छेदः । रागद्वेषमोहसमुच्छेदः । नान्तानन्तमनसिकारः । मनसिकारसमुच्छेदः । स्कन्धधात्वायतनस्वभावज्ञानम् । स्मृतिमतिगतिह्रीधृतिचारित्राचारगोचरप्रतिपत्तिस्थानम् । अरणाभूमिः । शान्तभूमिः । सर्वप्रपञ्चसमुच्छेदः । सर्वबोधिसत्त्वशिक्षा । सर्वतथागतगोचरः । सर्वगुणपरिनिष्पत्तिः । अयमुच्यते कुमार समाधिनिर्देशः । यत्र समाधिनिर्देशे प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो ऽविरहितो भवति समाधिना, अभ्रान्तचित्तश्च भवति, महाकरुणासमन्वागतो ऽप्रमेयाणां च सत्त्वानमर्थं करोति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
समाध्यविषमा भूमिः शान्ता सूक्ष्मा सुदुर्दृशा ।
सर्वसंज्ञासमुद्धातः समाधिस्तेन चोच्यते

13.2

अकल्पश्चाविकल्पश्चाग्राह्यत्वमनिदर्शनम् ।
अनुपलब्धिश्चित्तस्य समाधिस्तेन चोच्यते

13.3

समाहितो यदा भोति सर्वधर्मा न मन्यते ।
अमन्यना यथाभूतं समाधिरिति शब्दितः

13.4

न धर्मे ऽस्ति रजोमात्र रजश्चापि न विद्यते ।
अनुपलब्धिर्धर्माणां समाधिस्तेन चोच्यते

13.5

चित्तस्यानुपलब्धिश्च विकल्पो ह्येष चोच्यते ।
अविकल्पिताश्च ते धर्मा समाधिरेष जानथः

13.6

शब्देन सूचितो ह्यर्थः स च शब्दो अवस्तुकः ।
प्रतिश्रुत्कोपमः शब्दो अन्तरीक्षं यथा नभः

13.7

अस्थिता हि इमे धर्माः स्थितिरेषां न विद्यते ।
अस्थितिः स्थितिशब्देन स्वभावेन न लभ्यते

13.8

च्यवते अगतीत्येवं गतिश्चासौ न विद्यते ।
अगतिर्गतिशब्देन समाधिर्नदितस्तथा

13.9

(वैद्य 80)
असमाहितो वुच्यति एष मन्यना समाहितो एष द्वितीय मन्यना ।
अमन्यमाना विचरन्ति बोधये अमन्यमाना स्पृशि बोधिमुत्तमाम्

13.10

समविषम एष शान्तभूमिः शमथविपश्यनानिमित्त एषा ।
सेविय इमु शान्त बुद्धबोधिं स इह प्रयुक्त समाधिभावनायाम्

13.11

न च पुनरियमक्षरेहि शक्यं प्रविशितु अर्थगति प्रवेशे ।
सर्वरुत जहित्व भाष्यघोषं भवति समाहित नो च मन्यनास्य

13.12

यश्च इह समाधि बोधिसत्त्वो यथ- उपदिष्टु तथा स्थिहेत युक्तः ।
सचेदिह भवि कल्पदाहु क्षेत्रे गिरिवरमध्यगतं न तं दहे ऽग्निः

13.13

यथ गगनु न जातु दग्धपूर्वं सुबहुकल्पशतेहि दह्यमानम् ।
गगनसमा अधिजानमान धर्मांस्ते न जातु दह्यति सो ऽग्निमध्ये

13.14

सचि पुन ज्वलमान बुद्धक्षेत्रे प्रणिधि करोति समाधिये स्थिहित्वा ।
ज्वलनु अयु प्रशाम्यतामशेषं पृथिवी विनश्यि न चास्य अन्यथात्वम्

13.15

ऋद्धिबलु अनन्तु तस्य भोति खगपथि गच्छति सो असज्जमानः ।
इमि गुण अनुभोति बोधिसत्त्वो यथ-अनुशिष्टु समाधिये स्थिहित्वा

13.16

जायते च्यवते वापि न च जाति न च्युतिः ।
यस्य विजानना एषा समाध्यस्य न दुर्लभा

13.17

(वैद्य 81)
न च्युतिर्नापि चो जाति लोकनाथेन देशिता ।
लोकनाथं विदित्वैवं समाधिं तेन जानथ

13.18

अनोपलिप्ता लोकेन लोकधर्मे न सज्जति ।
असज्जमानः कायेन बुद्धक्षेत्राणि गच्छति

13.19

क्षेत्रेषु पश्यते नित्यं संबुद्धान् लोकनायकान् ।
धर्मं च शृणुते तत्र बुद्धक्षेत्रेषु भाषितम्

13.20

न जातु तस्य अज्ञानं धर्मधातुं च भाषते ।
गतिज्ञः सततो धर्मे धर्मधातुमयो हि सः

13.21

भाषतः कल्पकोट्यो ऽपि प्रतिभानं न हीयते ।
निर्मिणोति बहूनन्यान् बोधिसत्त्वान् विचक्षणः

13.22

क्षेत्रातः क्षेत्र गच्छन्ति बोधिसत्त्वान निर्मिताः ।
सहस्रपत्रपद्मेषु पर्यङ्केन निषण्णकाः

13.23

बुद्धबोधिं प्रकाशेन्ति धारणीसूत्रशोभनम् ।
अन्याश्च सूत्रकोटीयो समाधिं शान्त भावयन्

13.24

अविवर्तिकपथे स्थापेन्ति बहून् सत्त्वानचिन्तियान् ।
प्रतिभानं क्षयं नैति बुद्धबोधिं प्रकाशिय

13.25

कूटागारे हि गच्छन्ति रतनेहि विचित्रिते ।
ओकिरन्ति च पुष्पेहि गन्धवद्भिर्विनायकम्

13.26

ओकिरन्ति च चूर्णेहि गन्धवन्तेहि नायकम् ।
कुर्वन्ति विपुलां पूजां सर्वे ते बोधिकारणात्

13.27

अप्रमेया गुणा एते बोधिसत्त्वान तायिनाम् ।
निष्किलेशा यदा भोन्ति तदा ऋद्धिं लभन्ति ते

13.28

अनुपत्तिकिलेशान अच्छाः शुद्धाः प्रभास्वराः ।
असंस्कृता अकोप्याश्च बोधिसत्त्वान गोचराः

13.29

प्रशान्ता उपशान्ताश्च निष्किलेशा अनङ्गनाः ।
अप्रपञ्चा निष्प्रपञ्चाः प्रपञ्चसमतिक्रमाः

13.30

अप्रचारो ऽक्षराणां च सर्वधर्माण लक्षणम् ।
दुर्विज्ञेयश्च घोषेण समाधिस्तेन चोच्यते

13.31

अक्षया उपशान्ता च अनाभोगा अदर्शना ।
गोचरः सर्वबुद्धानां भूतकोटिरनाविला

13.32

(वैद्य 82)
सर्वबुद्धानियं शिक्षा सर्वधर्मस्वभावता ।
इह शिक्षित्व संबुद्धा गुणानां पारमिं गताः

13.33

न संपारं न वापारं पूर्वान्तो न विकल्पितः ।
तेन ते सर्व संबुद्धा गुणानां पारमिं गताः

13.34

अनागतानगतिकान् धर्मान् ज्ञात्वा स्वभावतः ।
निष्प्रपञ्चाननाभोगांस्तत्र ते पारमिं गताः

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc