भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 15

15.1

इति श्रीसमाधिराजे स्मितसंदर्शनपरिवर्तश्चतुर्दशः ॥ 14 ॥
(वैद्य 95)
15 स्मितव्याकरणपरिवर्तः ।
अथ खलु भगवांस्तस्यां वेलायां मैत्रेयं बोधिसत्त्वं महासत्त्वमाभिः सारूप्याभिर्गाथाभिः प्रत्यभाषत -
चन्द्रप्रभो एष कुमारभूतः संस्तुत्य बुद्धमतुलीय प्रीतिया ।
भाषित्व बुद्धान विशिष्ट वर्णं प्रशंसनीयः सद कालि भेष्यति

15.2

इहैव चो राजगृहस्मि पूर्वं दृष्ट्वैव बुद्धान सहस्रकोटयः ।
सर्वेष चानेन जिनान अन्तिके अयं वरः शान्तसमाधि पृच्छितः

15.3

सर्वत्र चो एष ममासि पुत्रो इमां चरन्तो वरबोधिचारिकाम् ।
सर्वत्र चासीत् प्रतिभानवन्तः सर्वत्र चासीत् सद ब्रह्मचारी

15.4

स पश्चिमे कालि महाभयानके त्वमेव साक्षी अजिता ममात्र ।
स्थिहित्व शुद्धे सद ब्रह्मचर्ये वैस्तारिकं एष समाधि काहिते

15.5

समाधिमेषन्तु इदं प्रणीतं एतेन मार्गेण स बोधि लप्स्यते ।
परिगृहीतो बहुबुद्धकोटिभिः पूजां वरां काहिति नायकानाम्

15.6

ज्ञाने स्थिहित्वा अहु व्याकरोमि चन्द्रप्रभस्याचरितं विशिष्टम् ।
न पश्चकाले ऽस्य भवे ऽन्तरायो न ब्रह्मचर्यस्य न जीवितस्य

15.7

हस्ते यथा आमलकानि पञ्च प्रजानाति बुद्धसहस्रकोटयः ।
(वैद्य 96)
तदुत्तरे यात्तिक गङ्गवालिका अनागता येष्विय पूजना होति

15.8

देवान नागान अशीतिकोटयः यक्षाण चो कोटिसहस्र सप्ततिः ।
औत्सुक्यमेषन्ति य पश्चकाले पूजां करोन्ता द्विपदोत्तमानाम्

15.9

स पूज कृत्वा द्विपदान उत्तमान् समुदाचरि ज्ञानमिमं निरुत्तरम् ।
स पश्चिमे चोच्छ्रयि लोकनाथो विमलप्रभो नाम जिनो भविष्यति

15.10

इदं स्वकं व्याकरणं श्रुतित्वा प्रीतिस्फुटो आसि कुमारभूतः ।
चन्द्रप्रभो उद्गत सप्त ताल उदानुदानेति नभे स्थिहित्वा

15.11

अहो जिना उत्तमधर्मदेशका विमुक्तिज्ञानाधिपतीबले स्थिता ।
सुनिश्चिते उत्तमज्ञानि तिष्ठसि अनाभिभूतो ऽसि परप्रवादिभिः

15.12

विवर्जिता सङ्ग विमुक्ति स्पर्शिता विभावितं वस्तु भवे न सज्जसि ।
प्रपञ्च सर्वे सकला न भोन्ति ते असङ्गज्ञानं त्रिभवे ऽभिवर्तते

15.13

सर्वप्रपञ्चेभिरनोपलिप्ता दृष्टिः प्रपञ्चाः सकलाः प्रहीणाः ।
सुभाविअते मार्ग निकेतु नास्ति अनाभिभूता अविरुद्ध केनचित

15.14

निकेतु त्रैधातुकि नास्ति तुभ्यं ओघाश्च ग्रन्थाश्च प्रहीण सर्वे ।
तृष्णालताबन्धन सर्वि छिन्ना भव प्रहीणो भवसंघि नास्ति

15.15

(वैद्य 97)
स्वभावु धर्माणमभावु जानसे अनाभिलप्या गिर संप्रभाषसे ।
सिंहेन वा क्रोष्टुक तीर्थ नाशिता ये ते विपर्यासस्थिता अविद्वसु

15.16

निधान श्रेष्ठं मयि लब्धमद्य धर्मं निधानं सुगतेन देशितम् ।
प्रहीण सर्वा विनिपातु दुर्गति काङ्क्षा न मेहास्ति भविष्य नायकः

15.17

मूर्धस्मि पाणिं प्रतिस्थापयित्वा सुवर्णवर्णं रुचिरं प्रभास्वरम् ।
अभिषिञ्च बोधाय नरर्षभस्तं सदेवकं लोक स्थपेत्व साक्षिणम्

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc