समाधिराजसूत्र · अध्याय 12
इति श्रीसमाधिराजे सूत्रधारणपरिवर्तो नामैकादशः ॥ 11 ॥
(वैद्य 76)
12 समाध्यनुशिक्षणापरिवर्तः ।
तत्र कुमार यो बोधिसत्त्वो महासत्त्वः सर्वधमाणां स्वभावं प्रजानाति, तस्येमे एवंरूपा गुणानुशंसा भवन्ति - स तथागतानां भूतं गुणवर्णं भाषते । न च तथागतान् व्याख्याति असता अभूतेन । तत् कस्य हेतोः? यया धर्मतया तथागतः प्रभाव्यते, तां धर्मतां यथाभूतं प्रजानाति । अनन्तात् बुद्धगुणान् प्रजानाति । तत् कस्य हेतोः? अनन्ता हि कुमार बुद्धगुणा अचिन्त्याश्चिन्तापगताः । तेनाशक्यं चिन्तयितुं वा प्रमातुं वा । तत् कस्य हेतोः? चित्तं हि कुमार निःस्वभावमरूप्यनिदर्शनम् । इति हि कुमार यत्स्वभावं चित्तं तत्स्वभावा बुद्धगुणाः, यत्स्वभावा बुद्धगुणास्तत्स्वभावास्तथागताः, तत्स्वभावाः सर्वधर्माः । यः कुमार बोधिसत्त्वो महासत्त्व एवं सर्वगुणस्वभावनिर्देशं यथाभूतं प्रजानाति, अयं कुमार उच्यते बोधिसत्त्वो महासत्त्वो निध्याप्तिमानसः । निःसरणकुशलः । त्रैधातुकनिःसरणं यथाभूतं प्रजानाति । यथावदर्शी अवितथवादी अनन्यथाभाषी, यथावादी तथाकारी, अनभिनिविष्टस्त्रैधातुके त्रैधातुकसमतिक्रान्तः । समतिक्रान्तः कामभूमिं रूपभूमिं आरूप्यभूमिं क्लेशभूमिं नामभूमिं घोषभूमिम् । अक्षरपदनयकुशलः । अक्षरविभावितज्ञानः । अनभिलप्यधर्मकोविदः । अक्षरज्ञः । अक्षरकुशलः । अक्षरपदप्रभेदज्ञानकुशलः । अक्षरपदप्रभेदविस्तारज्ञानकुशलः । सर्वधर्मपदप्रभेदकुशलः । सर्वधर्मपदप्रभेदविस्तारकुशलः । सर्वधर्मव्यवस्थानज्ञानकुशलः । निश्चितया बुद्ध्या समन्वागतो ऽनभिभूतः सर्वमारैः पापीयोभिर्मारकायिकाभिश्च देवताभिः ॥
अस्मिन् खलु पुनर्धर्मपर्याये भाष्यमाणे अष्टानवतेर्नियुतानां देवमानुषिकायाः प्रजायाः पूर्वपरिकर्मकृतायाः कोटीशतसहस्रावर्ताया धारण्या अनावरणायाश्च धर्मविपश्यनायाः क्षान्तेः प्रतिलम्भो ऽभूत् । ते च सर्वे भगवता व्याकृउता अष्टाचत्वारिंशता कल्पैरसंख्येयशतसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । सर्वे च अन्यान्यनामान एकायुष्प्रमाणा अन्यान्येषु बुद्धक्षेत्रेषु अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । तत्रेदमुच्यते -
यो बोधिसत्त्व मतिमान् प्राप्नोति अनुत्तरां वरां बोधिम् ।
अर्थे च धर्मि कुशलो चरति स धर्मस्वभावस्मि
नाभूत् भणति वाचं बुद्धानां यादृशा गुणविशेषाः ।
स हि धर्मु तं जिनानां जानति शूरो विगतकङ्क्षाः
एकार्थ सर्वधर्मान् प्रजानति च शून्यतां स एकांशम् ।
नानार्थु नास्ति तेषां एकार्थे शिक्षितो भवति
(वैद्य 77)
निष्कल्पानविकल्पान् अनोपलम्भांश्च जानाति मतिमान् ।
क्षति अक्षये ऽस्य संज्ञा प्रहीण सर्वा निरवशेषा
न हि रूपतो दशबलान् पश्यति सो धर्मकाय नरसिंहान् ।
नापि लक्षणेहि तस्य प्रहीण सर्वे विपर्यासाः
धर्मा अचिन्त्य एते चिन्तापगता स्वभाव उपशान्ताः ।
एवं प्रजानमानः पश्यति बुद्धान् द्विपदश्रेष्ठान्
यथ ज्ञात्वात्मसंज्ञास्तथैव सर्वत्र प्रेषिता बुद्धिः ।
सर्वे च तत्स्वभावा धर्म विशुद्धा गगनकल्पाः
न हि जात मानसे ऽस्य निःसरणं ज्ञात्व सर्वधर्माणाम् ।
त्रैधातुके विमुक्तिप्रणिधानु न विद्यते तस्य
यथावदर्शि भोति अवितथवचनो ऽनन्यथाभाषी ।
सर्वं च तस्य वचनं निश्चरति जिनानुभावेन
अतिक्रान्तु कामभूमिं किलेशभूमिं च रूप आरूप्यान् ।
धर्मेष्वसक्तमनसः प्रमुदित चरते जगहिताय
अतिक्रान्तु नामभूमिं घोषो ज्ञान स्वभावेन चयिकः ।
यावच्चिरं पि भणतो न विद्यते निश्रयस्तस्य
संज्ञाप्रचारु नास्ति दृष्टिविपर्यासु सर्वशः क्षीणः ।
सुनिश्चिता बुद्धिश्च ते गगनोपमधीराः
विहार कोटीनियुता भवेयु विक्षेपणार्थ चित्तस्य ।
अभिभवति सर्वमारान् न चापि तेषां वशमुपैति
सर्वि जह्यु मारजालं परिशुद्धः शीलवानपरिदाहः ।
ध्यानसुखस्मि निरतः प्रजानति च शून्यकं लोकम्
लोकाश्च स्कन्ध उक्तास्तांश्चापि स शून्यकान् प्रजानति ।
अनुत्पादाननिरोधान् सर्वान् गगनोपमान् धर्मान्
आत्मानं स त्यजते न चैव शिक्षां श्रुतां दशबलस्य ।
सो शीलपारमिं गत उपपद्यति यत्र प्रणिधेति
विचरन्तु बुद्धक्षेत्रान् पश्यति बुद्धकोटीनियुतानि ।
न स्वर्गं प्रार्थयते न चापि प्रणिधानतो मुक्तः
(वैद्य 78)
न भ्रंशयति स वीर्यं मुहूर्तमात्रमपि धर्म चरमाणः ।
प्रशंसितश्च भोति बुद्धभिर्दशदिशे लोके
तस्मात्तर्हि कुमार श्रुत्वा धर्मानिमान् समाधिस्मिन् ।
जहियान ज्ञात्रलाभं प्रकाशय महाजने धर्मम्
य इच्छति स्वयंभूर्भवेय बुद्धो महागुणसमङ्गी ।
इह शिक्षित्वा कुशलो दशबलधारी भवति बुद्धः
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0