भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 11

11.1

इति श्रीसमाधिराजे पुरप्रवेशपरिवर्तो नाम दशमः ॥
(वैद्य 68)
11 सूत्रधारणपरिवर्तः ।
अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य निविशनरथ्यामवगाहमानश्चन्द्रप्रभस्य कुमारभूतस्य निवेशनं प्रविष्टो ऽभूत् । प्रविश्य च न्यषीदत् प्रज्ञप्त एवासने । यथार्हे चासने बोधिसत्त्वसंघो भिक्षुसंघश्च निषण्णो ऽभूत् । अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तं बोधिसत्त्वसंघं भिक्षुसंघं च निषण्णं विदित्वा स्वयमेव शतरसेन भोजनेन प्रणीतेन प्रभूतेन खादनीयेन भोजनीयेन लेह्येन चोष्येण पेयेन भगवन्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तमपनीतधौतपाणिं विदित्वा दिव्येन नवनवतिकोटीशतसहस्रमूल्येन दूष्ययुगेन भगवन्तमभिच्छादयामास । तेषां च बोधिसत्त्वानां भिक्षुसंघस्य च प्रत्येकं प्रत्येकं त्रिचीवरमदातू ॥
अथ खलु चन्द्रप्रभः कुमारभूत एकांसमुत्तरासङ्ग कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य भगवतः पादौ शिरसाभिवन्द्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तं गाथाभिगीतेन प्रश्नं परिपृच्छति स्म -
कथं चरन्तो विदु बोधिसत्त्वः स्वभावु धर्माण सदा प्रजानते ।
कथं क्रियामाचरते विचक्षणः क्रियामाचरते भोतारु वदाहि नायक

11.2

कथं च जातिस्मरु भोति नायक न चापि गर्भे उपपद्यते कथम् ।
कथं परीवारु भवेदभेद्य प्रतिभानु भोतीह कथमनन्तकम्

11.3

सर्वेष सत्त्वान चरिं प्रजानसे सर्वेषु धर्मेषु ति ज्ञानु वर्तते ।
अनाभिभूता द्विपदानमुत्तमा पृच्छामि प्रश्नं मम व्याकरोहि

11.4

स्वभाव धर्माणमभावु जानसे अनाभिलप्यां गिर संप्रभाषसे ।
सिंहेन वा धर्षित सर्व क्रोष्टका स्तथैव बुद्धेनिह अन्यतीर्थिकाः

11.5

(वैद्य 69)
सर्वेष सत्त्वान चरिं प्रजानसे सर्वेषु धर्मेषु ज्ञानानुवर्तते ।
असङ्गज्ञानी परिशुद्धगोचरा तं व्याकरोहि मम धर्मस्वामी

11.6

अतीतु जानासि तथा अनागतं यच्च इहा वर्तति प्रत्युत्पन्नम् ।
त्रियध्वज्ञानं ति असङ्गु वर्तते तेनाहु पृच्छामिह शाक्यसिंहम्

11.7

त्रियध्वयुक्तान जिनान धर्मता त्वं धर्मतां जानसि धर्मराज ।
धर्मस्वभावकुशलः स्वयंभूस्तेनाहु पृच्छामिह ज्ञानसागरम्

11.8

यत् किंचि धर्मं स्खलितं न ते ऽस्ति ततो ति चित्तं निखिलं प्रहीणम् ।
प्रहीण ग्रन्था खिलमोहसादका देशेहि मे बोधिचरिं नरेन्द्र

11.9

यल्लक्षणा धर्म जिनेन बुद्धास्तल्लक्षणं धर्म मम प्रकाशय ।
यल्लक्षणं धर्ममहं विदित्वा तल्लक्षणं बोधि चरिष्यि चारिकाम्

11.10

विलक्षणां सत्त्वचरीमनन्तां कथं चरन्तश्चरिमोतरन्ति ।
चरीप्रवेशं मम देशय स्वयं श्रुत्वा च सत्त्वान चरिं प्रजानियाम्

11.11

विलक्षणं धर्मस्वभावलक्षणं स्वभावशून्यं प्रकृतीविविक्तम् ।
प्रत्यक्ष भोन्ति कथ बोधिसत्त्वः प्रकाशयस्व मम बुद्धनेत्रीम्

11.12

सर्वेषु धर्मेष्विह पारमिंगताः सर्वेषु निर्देशपदेषु शिक्षिताः ।
(वैद्य 70)
निःसंशयी संशयकाङ्क्षक्षछेदके प्रकाशयाही मम बुद्धबोधिम्

11.13

अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य चेतसैव चेतःपरिवितर्कमाज्ञाथ चन्द्रप्रभं कुमारभूतमामन्त्रयते स्मएकधर्मेण कुमार समन्वागतो बोधिसत्त्वो महासत्त्वः एतान् गुणान् प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । कतमेनैकेन धर्मेण इह कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वभावं यथाभूतं प्रजानाति?कथं च कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वभावं जानाति? इह कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माननामकान् नामापगतान् प्रजानाति । घोषापगतान् वाक्पथापगतान् अक्षरापगतान् उत्पादापगतान् निरोधापगतान् हेतुविलक्षणान् प्रत्ययविलक्षणान् विपाकलक्षणानारम्भणलक्षणान् विवेकलक्षणान् एकलक्षणान् यदुतालक्षणान् निमित्तापगतान् अचिन्त्यांश्चिन्तापगतान् मनोपगतान् सर्वधर्मान् यथाभूतं प्रजानाति । अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
एकु निर्देश धर्माणां सर्वधर्मा अलक्षणाः ।
देशिता वरप्रज्ञेन यथाभूतं प्रजानता

11.14

य एवं धर्मनिर्देशं बोधिसत्त्वः प्रजानति ।
न तस्य भोति विष्ठानं सूत्रकोट्या प्रभाषतः

11.15

अधिष्ठितो नायको हि भूतकोटीं प्रजानति ।
प्रजानाति च तां कोटीं न चात्रो किंचि भाषितम्

11.16

एकेन सर्वं जानाति सर्वमेकन पश्यति ।
कियद् बहुं पु भाषित्वा न तस्योत्पद्यते महः

11.17

तथास्य चित्तं निध्याप्तं सर्वधर्मा अनामकाः ।
शिक्षितो नामनिर्देशे भूतां वाचं प्रभाषते

11.18

शृणोति घोषं यं कंचित् पूर्वान्तं तस्य जानति ।
ज्ञात्वा घोषस्य पूर्वान्तं घोषेण ह्रियते न सः

11.19

यथा घोषस्य पूर्वान्तं एवं धर्माण लक्षणम् ।
एवं धर्मान् प्रजानन्तो न गर्भेषूपपद्यते

11.20

अजातिः सर्वधर्माणामनुत्पत्तिं प्रजानति ।
प्रजानन् जातिनिर्देशं भवेज्जातिस्मरः सदा

11.21

यदा जातिस्मरो भोति तदा च चरते क्रियाम् ।
क्रियामोतरमाणस्य परिवारो न भिद्यते

11.22

(वैद्य 71)
यं एवं शून्यकान् धर्मान् बोधिसत्त्वः प्रजानति ।
न तस्य किंचिदज्ञातमेषा कोटिरकिंचना

11.23

अकिंचनायां कोट्यां हि किंचिद् बालैर्विकल्पितम् ।
येन ते कल्पकोटीयः संसरन्ति पुनः पुनः

11.24

सचेत्ते कल्प जानीयुर्यथा जानति नायकः ।
न तेषां दुःखु जायेत नापि गच्छेयु दुर्गतिम्

11.25

एवं पृथग्जनाः सर्वे अजानन्त इमं नयम् ।
क्षिपन्ति ईदृशान् धर्मान् यत्र दुःखं निरुध्यते

11.26

अलब्धिः सर्वधर्माणां धर्मसंज्ञा प्रवर्तते ।
सा एवंजातिका संज्ञा संज्ञामेव विजानथ

11.27

विजानना च संज्ञा च बालैरेतद्विकल्पितम् ।
प्रकल्पितेषु धर्मेषु नात्र मुह्यन्ति पण्डिताः

11.28

पण्डितानामियं भूमिर्बालानां नात्र गोचरः ।
गोचरो बुद्धपुत्राणां शून्या धर्मा अनाविलाः

11.29

बोधिसत्त्वानामियं भूमिर्बुद्धपुत्रचरी इयम् ।
बुद्धधर्माणलंकारो देशिता शान्त शून्यता

11.30

यदा च बोधिसत्त्वानां प्रहीणा भोति वासना ।
न ते ह्रियन्ति रूपेहि बुद्धगोत्रस्मि ते स्थिताः

11.31

अस्थान सर्वधर्माणां स्थानमेषां न विद्यते ।
य एवं स्थान जानाति बोधिस्तस्य न दुर्लभा

11.32

दानं शीलं श्रुतं क्षान्तिं सेवित्वा मित्र भद्रकान् ।
इमां क्रियां विजानन्तः क्षिप्रं बोधिं स बुध्यते

11.33

देवाथ नागाः सद सत्करोन्ति गन्धर्व यक्षा असुरा महोरगाः ।
सर्वे च राजान सुपर्णि किन्नरा निशाचराश्चास्य करोन्ति पूजाम्

11.34

यशो ऽस्य भाषन्ति च बुद्धकोटियो बहुकल्पकोट्यो ऽपि अधिष्ठिहन्तः ।
(वैद्य 72)
धर्म प्रकाशन्तिय भोति वर्णो न शक्यु पर्यन्तु क्षपेतु तस्य

11.35

यः शून्यतां जानति बोधिसत्त्वः करोति सो ऽर्थं बहुप्राणिकोटिनाम् ।
देशेति धर्मं पर्यायसूत्रतो श्रुत्वास्य प्रेम जनयन्ति गौरवम्

11.36

ज्ञानं च तेषां विपुलं प्रवर्तते येनेति पश्यन्ति नरोत्तमान् जिनान् ।
क्षेत्रे च पश्यन्ति वियूह शोभनं धर्मं च देशेन्ति ते लोकनाथाः

11.37

मायोपमान् जानथ सर्वधर्मान् यथान्तरीक्षं प्रकृतीय शून्यम् ।
प्रकृतिं पि सो जानति तेष तादृशीमेवं चरन्तो न कहिंचि सज्जति

11.38

ज्ञानेनासङ्गेन करोति सो ऽर्थं लोके चरन्तो वरबोधिचारिकाम् ।
ज्ञानेन ते वीक्षिय सर्वधर्मान् प्रेषेन्ति ते निर्मित अन्यक्षेत्रान्

11.39

ते बुद्धकृत्यं करियाण निर्मिता प्रकृतीय गच्छन्ति यथैव धर्मताम् ।
यथाभिप्रायं च लभन्ति ते ऽर्थं ये बोधिचित्तस्मि नराः प्रतिष्ठिताः

11.40

स भोति बुद्धान् सदा कृतज्ञो यो बुद्धवंशस्य स्थितीय युज्यते ।
विरोचमानेन समुच्छ्रयेण द्वात्रिंश काये ऽस्य भवन्ति लक्षणाः

11.41

अन्याननन्तान् बहु आनुशंसान् श्रेष्ठं समाधौ चरमाणु लप्स्यते ।
महाबलो भोति सदा अकम्पियो राजान् तस्यो न सहन्ति तेजः

11.42

(वैद्य 73)
प्रासादिको भोति महाभिषट्कः पुण्येन तेजेन शिरीय चोद्गतः ।
देवापि नो तस्य सहन्ति तेजो यो बुद्धधर्मेषु चरेय पण्डितः

11.43

मित्रं स भोति सद सर्वप्राणिनां यो बोधिचित्तस्मि दृढं प्रतिष्ठितः ।
न चान्धकारो ऽस्य कदाचि भोति प्रकाशयन्तस्मि स बुद्धबोधिम्

11.44

अपगतगिरवाक्पथा अनभिलप्या यथ गगनं तथ ताः स्वभावधर्माः ।
इम गति परमां विजानमानो तथ तु भवति प्रतिभानु अक्षयं से

11.45

सूत्रशतसहस्र भाषमाणः सूक्ष्म प्रजानति पूर्विकां स कोटिम् ।
सद विदु भवती असङ्गवाक्यः सुसुखुम धर्मस्वभावु जानमानः

11.46

नयशतकुशलश्च नित्यु भोति बहुविधघोषनिरुक्तिकोविदश्च ।
कर्मफलविभक्ति निश्चिताश्चो भोन्ति विशिष्ट विशेष एवरूपाः

11.47

अविकलवेशधारी भोति दशबलआत्मज पण्डितो महात्मा ।
सद स्भृति परिशुद्ध तस्य भोति सुसुखुम धर्मस्वभावु जानमानः

11.48

न श्रुणति अमनोज्ञ शब्द जातु श्रुणति प्रणीत मनापु नित्य शब्दान् ।
सद भवति मनोज्ञ तस्य वाचा सुसुखुम धर्मस्वभावु जानमानः

11.49

स्मृतिमतिगतिप्रज्ञवन्तु भोति तथपि च चित्तमनाविलं प्रसन्नम् ।
(वैद्य 74)
सूत्रशतसहस्रु भाषते अनेकान् सुसुखुम धर्मस्वभावु जानमानः

11.50

अक्षरपदप्रभेदकोविदश्चो रुत बहु जानति नैक अन्यमन्ये ।
अर्थकुशल भोति व्यञ्जनो च इम गुण धर्मस्वभावु जानमानः

11.51

देवमनुजनागराक्षसानाम् असुरमहोरगकिन्नराण नित्यम् ।
तेष सद प्रिय मनाप भोति सुसुखुम धर्मस्वभावु जानमानः

11.52

भूतगणपिशाचराक्षसाश्चो परमसुदारुण ये च मांसभक्षाः ।
ते ऽस्य भयु न जातु संजनेन्ति सुसुखुम धर्मस्वभावु जानमानः

11.53

विपुल कथं श्रुणित्व पण्डितानां विपुल प्रजायति रोमहर्ष तेषाम् ।
विपुल तद जनेन्ति बुद्धप्रेमं विपुल अचिन्तियु तेषु भोति अर्थः

11.54

पुण्यबल न शक्यु तेष वक्तुं बहुमपि कल्पसहस्र भाषमाणैः ।
अपरिमित अनन्त अप्रमेय इमु सुगतान धरेत्व धर्मगञ्जम्

11.55

सर्व जिन अतीत पूजितास्ते अपरिमिता य अनागताश्च बुद्धाः ।
दशसु दिशासु ये स्थिताश्च बुद्धा इम वर शान्त समाधि धारयित्वा

11.56

यथ नरु इह कश्चि पुण्यकामो दशबल कारुणिकानुपस्थिहेय्या ।
अपरिमित अनन्त कल्पकोटीरपरिमितं च जनेतु प्रेम तेषु

11.57

(वैद्य 75)
द्वितीय नरु भवेत पुण्यकामो इतु परमार्थनयात्तु गाथमेकाम् ।
धरिय चरिमकालि वर्तमाने परिमकु पुण्यकला न भोति तस्य

11.58

परम इयं विशिष्ट बुद्धपूजा चरिमकि दारुणि कालि वर्तमाने ।
चतुपदमित गाथमेकु श्रुत्वा धारयि पूजित तेन सर्वबुद्धाः

11.59

परम सद सुलब्ध तेहि लाभा परम सुभुक्तु सदा व राष्ट्रपिण्डम् ।
परम दशबलस्य ज्येष्ठपुत्रा बहु जिन पूजित तेहि दीर्घरात्रम्

11.60

अहमपि इह दृष्ट गृघ्रकूटे तथ मय व्याकृत ते ऽपि बुद्धज्ञाने ।
अपि च मय परीतु मैत्रक स्यां पुनरपि व्याकरणाय तस्मि काले

11.61

तथ पुनरमितायु तेष तत्रो भाषते बुद्ध अनेक आनुशंसाम् ।
सर्वि इमि सुखावतीं प्रविष्टो अभिरति गत्व अक्षोभ्य पश्यि बुद्धम्

11.62

कल्पशतसहस्र अप्रमेया न च विनिपातभयं कदाचि भोति ।
इमु वरु चरमाणु बोधिचर्यामनुभवति स हि नित्य सौमनस्यम्

11.63

तस्य इमु विशिष्ट एवरूपा य इमु प्रकाशित श्रेष्ठ आनुशंसाम् ।
प्रतिपदमनुशिक्षमाण मह्यं पश्चिमि कालि धरेयु एत सूत्रम्

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc