भाषा

ENहिગુ
ग्रंथ पाठ

साहित्यदर्पण · अध्याय 9

9.1

इति साहित्य-दर्पणे गुण-विवेचनो नाम
अष्टमः परिच्छेदः
-ओ)0(ओ-
(9)
नवमः परिच्छेदः
रीति-निर्णयः
पद-सङ्घटना रीतिर् अङ्ग-संस्था-विशेषवत् ।
उपकर्त्री रसादीनां सा पुनः स्याच् चतुर्विधा

9.2

वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा ।
माधुर्य-व्यञ्जकैर् वर्णै रचना ललितात्मिका

9.3

अवृत्तिर् अल्प-वृत्तिर् वा वैदर्भी रीतिर् इष्यते ।
ओजः प्रकाशकैर् वर्णैर् बन्ध आडम्बरः पुनः

9.4

समास-बहुला गौडी वर्णैः शेषैः पुनर् द्वयोः ।
समस्त-पञ्चष-पदो बन्धः पाञ्चालिका मता

9.5

लाटी तु रीतिर् वैदर्भी-पाञ्चाल्योर् अन्तरे स्थिता ।
क्वचित् तु वक्त्राद्यौचित्याद् अन्यथा रचनादयः

मूल पाठ: Sāhityadarpaṇa · Edition: Satyavrata Simha, 9th edition. Varanasi: Chowkhamba Vidya Bhavan, 1992. (Vidya Bhavan Sanskrit Granthamala, 29) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc