साहित्यदर्पण · अध्याय 8
इति साहित्य-दर्पणे दोष-प्रकाशः
सप्तमः परिच्छेदः
(8)
अष्टमः परिच्छेदः
गुण-निर्णयः
रसस्याङ्गित्वम् आप्तस्य धर्माः शौर्यादयो यथा ।
गुणाः माधुर्यम् ओजो ऽथ प्रसाद इति ते त्रिधा
चित्त-द्रवीभाव-मयो ह्लादो माधुर्यम् उच्यते ।
संभोगे करुणे विप्रलम्भे शान्ते ऽधिकं क्रमात्
मूर्ध्नि वर्गास्त्य् अवर्णेन युक्ताष् ट-ठ-द-ढान् विना ।
रणौ लघू च तद्-व्यक्तौ वर्णाः कारणतां गताः
अवृत्तिर् अल्प-वृत्तिर् वा मधुरा रचना तथा ।
ओजश् चित्तस्य विस्तार-रूपं दीप्तत्वम् उच्यते
वीर-बीभत्स-रौद्रेषु क्रमेणाधिक्यम् अस्य तु ।
वर्गस्याद्य-तृतीयाभ्यां युक्तौ वर्णौ तद्-अन्तिमौ
उपर्य् अधो द्वयोर् वा सरेफौ ट-ठ-ड-ढैः सह ।
श-कारश् च ष-कारश् च तस्य व्यञ्जकतां गताः
तथा समास-बहुला घटनौद्धत्य-शालिनी ।
श्लेषः समाधिर् औदार्यं प्रसाद इति ये पुनः
गुणाश् चिरन्तनैर् उक्ता ओजस्य् अन्तर्भवन्ति ते ।
ग्राम्य-दुःश्रवता-त्यागात् कान्तिश् च सुकुमारता
क्वचिद् दोषस् तु समता मार्गाभेद-स्वरूपिणी ।
अन्यथोक्त-गुणेष्व् अस्या अन्तःपातो यथायथम्
ओजः प्रसादो माधुर्यं सौकुमार्यम् उदारता ।
तद्-अभावस्य दोषत्वात् स्वीकृता अनुगा गुणाः
अर्थ-व्यक्तिः स्वभावोक्त्य्-अलङ्कारेण तथा पुनः ।
रस-ध्वनि-गुणीभूत-व्यङ्ग्यानां कान्ति-नामकः
श्लेषो विचित्रता-मात्रम् अदोषः समता-परम् ।
न गुणत्वं समाधेश् च तेन नार्थ-गुणाः पृथक्
मूल पाठ: Sāhityadarpaṇa · Edition: Satyavrata Simha, 9th edition. Varanasi: Chowkhamba Vidya Bhavan, 1992. (Vidya Bhavan Sanskrit Granthamala, 29) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0