भाषा

ENहिગુ
ग्रंथ पाठ

साहित्यदर्पण · अध्याय 10

10.1

इति साहित्य-दर्पणे रीति-विवेचनो नाम
नवमः परिच्छेदः
(10)
दशम-परिच्छेदः
अलङ्कार-तत्त्वम्
शब्दार्थयोर् अस्थिरा ये धर्माः शोभातिशायिनः ।
रसादीन् उपकुर्वन्तो ऽलङ्कारास् ते ऽङ्गदादिवत्

10.2

[शब्दालङ्काराः]
आपाततो यद् अर्थस्य पौनरुक्त्येन भाषणम् ।
पुनर् उक्तवद् आभासः स भिन्नाकार-शब्दगः

10.3

अनुप्रासः शब्द-साम्यं वैषम्ये ऽपि स्वरस्य यत् ।
छेको व्यञ्जन-सङ्घस्य सकृत् साम्यम् अनेकधा

10.4

अनेकस्यैकधा साम्यम् असकृद् वाप्य् अनेकधा ।
एकस्य सकृद् अप्य् एष वृत्त्य्-अनुप्रास इष्यते

10.5

उच्चार्यत्वाद् यद् एकत्र स्थाने तालूरदादिके ।
सादृश्यं व्यञ्जनस्यैतच् छ्रुत्य्-अनुप्रास इष्यते

10.6

व्यञ्जनं चेद् यथावस्थं सहायेन स्वरेण तु ।
आवर्त्यते ऽन्त्य-योज्यत्वाद् अन्त्यानुप्रास एव तत्

10.7

शब्दार्थयोः पौनरुक्त्यं भवेत् तात्पर्य-मात्रतः ।
लाटानुप्रास इत्य् उक्तो ऽनुप्रासः पञ्चधा मतः

10.8

सत्य् अर्थे पृथग्-अर्थायाः स्वर-व्यञ्जन-सन्ततेः ।
क्रमेण तेनैवावृत्तिर् यमकं विनिगद्यते

10.9

अन्यस्यान्यार्थकं वाक्यम् अन्यथा योजयेद् यदि ।
अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस् ततो द्विधा

10.10

शब्दैर् एक-विधैर् एव भाषासु विविधास्व् अपि ।
वाक्यं यत्र भवेत् सो ऽयं भाषा-सम इतीष्यते

10.11

श्लिष्टैः पदैर् अनेकार्थाभिधाने श्लेष उच्यते ।
वर्ण-प्रत्यय-लिङ्गानां प्रकृत्योः पदयोर् अपि

10.12

श्लेषाद् विभक्ति-वचन-भाषाणाम् अष्टधा च सः ।
पुनस् त्रिधा सभङ्गो ऽभङ्गस् तद् उभयात्मकः

10.13

पद्याद्याकार-हेतुत्वे वर्णनां चित्रम् उच्यते ।
रसस्य परिपन्थित्वान् नालङ्कारऊ प्रहेलिका

10.14

उक्ति-वैचित्र्य-मात्रं सा च्युत-दत्ताक्षरादिका ।
साम्यं वाच्यम् अवैधर्म्ये वाक्यैक्ये उपमा द्वयोः

10.15

सा पूर्णा यदि सामान्य-धर्म औपम्य-वाचि च ।
उपमानं चोपमेयं भवेद् वाच्यम् इयं पुनः

10.16

श्रौती यथेवावा-शब्दा इवार्थो वा वतिर् यदि ।
आर्थी तुल्य-समानाद्यास् तुल्यार्थो यत्र वा वतिः

10.17

द्वे तद्-धिते समासे ऽपि वाक्ये पूर्णा षड् एव तत् ।
लुप्ता सामान्य-धर्मादेर् एकस्य यदि वा द्वयोः

10.18

त्रयाणां वानुपादाने श्रौत्य् आर्थी सापि पूर्ववत् ।
पूर्णावद् धर्म-लोपे सा विना श्रौतीं तु तद्-धिते

10.19

आधार-कर्म-विहिते द्विविधे च क्यचि क्यङि ।
कर्म-कर्त्रोर् णमुलि चस्याद् एवं पञ्चधा पुनः

10.20

उपमानानुपादाने द्विधा वाक्य-समासयोः ।
औपम्य-वाचिनो लोपे समासे क्विपि च द्विधा

10.21

द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ।
क्विप्-समास-गता द्वेधा धर्मेवादिवि-लोपने

10.22

उपमेयस्य लोपे तु स्याद् एक प्रत्यये क्यचि ।
धर्मोपमेय-लोपे ऽन्या त्रिलोपे च समास-गा

10.23

तेनोपमाया भेदाः स्युः सप्तविंशति-सङ्ख्यकाः ।
एक-रूपः क्वचित् क्वापि भिन्नः साधारणो गुणः

10.24

भिन्ने बिम्बानुबिम्बत्वं शब्द-मात्रेण वा भिदा ।
एक-देश-विवर्तिन्य् उपमा वाच्यत्व-गम्यते

10.25

भवेतां यत्र साम्यस्य कथिता रसनोपमा ।
यथोर्ध्वम् उपमेयस्य यदि स्याद् उपमानता

10.26

मालोपमा यद् एकस्योपमानं बहु दृश्यते ।
उपमानोपमेयत्वम् एकस्यैव त्व् अनन्वयः

10.27

पर्यायेण द्वयोर् एतद् उपमेयोपमा मता ।
सदृशानुभवाद् वस्तु-स्मृतिः स्मरणम् उच्यते

10.28

रूपकं रूपितारोपाद् विषये निरपह्नवे ।
तत् परंपरितं साङ्गं निरङ्गम् इति च त्रिधा

10.29

यत्र कस्यचिद् आरोपः परारोपण-कारणम् ।
तत् परंपरितं प्राहुः श्लिष्टाश्लिष्ट-निबन्धनम्

10.30

प्रत्येकं केवलं माला-रूपकं चेति चतुर्विधम् ।
अङ्गिनो यदि साङ्गस्य रूपणं साङ्गम् एव तत्

10.31

समस्त-वस्तु-विषयम् एक-देश-विवर्ति च ।
आरोप्याणाम् अशेषाणां शाब्दत्वे प्रथमं मतम्

10.32

यत्र कस्यचिद् आर्थत्वम् एक-देश-विवर्ति तत् ।
निरङ्गं केवलस्यैव रूपणं तद् अपि द्विधा

10.33

माला-केवल-रूपत्वात् तेनाष्टौ रूपक-भेदाः ।
दृश्यन्ते क्वचिद् आरोप्याः श्लिष्टाः सङ्गे ऽपि रूपके

10.34

अधिकारूढ-वैशिष्ट्यं रूपकं यत् तद् एव तत् ।
विषयार्थतयारोप्ये प्रकृतार्थोपयोगिनि

10.35

परिणामो भवेत् तुल्या तुल्याधिकरणो द्विधा ।
सन्देहः प्रकृते ऽन्यस्य संशयः प्रतिभोत्थितः

10.36

शुद्धो निश्चय-गर्भासौ निश्चयान्त इति त्रिधा ।
साम्याद् अतस्मिंस् तद्-बुद्धिर् भ्रान्तिमान् प्रतिभोत्थिता

10.37

क्वचिद् भेदाद् गृहीतृणां विषयाणां तथा क्वचित् ।
एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते

10.38

प्रकृतं प्रतिषिध्यान्यस्थापनं स्याद् अपह्नुतिः ।
गोपनीयं कम् अप्य् अर्थं द्योतयित्वा कथञ्चन

10.39

यदि श्लेषेणान्यथा वान्यथयेत् साप्य् अपह्नुतिः ।
अन्यन् निषिध्य प्रकृत-स्थापनं निश्चयः पुनः

10.40

भवेत् संभावनोत्प्रेक्षा प्रकृतस्य परात्मना ।
वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता

10.41

वाच्ये वादेः प्रयोगे स्याद् अप्रयोगे परा पुनः ।
जातिर् गुणः क्रिया द्रव्यं यद् उत्प्रेक्ष्यं द्वयोर् अपि

10.42

तद् अष्टधापि प्रत्येकं भावाभावाभिमानतः ।
गुण-क्रिया-स्वरूपत्वान् निमित्तस्य पुनश् च ताः

10.43

द्वात्रिंशद्-विधतां यान्ति तत्र वाच्याभिधाः पुनः ।
विना द्रव्यं त्रिधा सर्वाः स्वरूप-फल-हेतुगाः

10.44

उक्त्य्-अनुक्त्योर् निमित्तस्य द्विधा तत्र स्वरूपगाः ।
प्रतीयमाना भेदाश् च प्रत्येकं फल-हेतुगाः

10.45

उक्त्य्-अनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ।
अलङ्कारान्तरोत्था सा वैचित्र्यम् अधिकं भजेत्

10.46

सिद्धत्वे ऽध्यवसायस्यातिशयोक्तिर् निगद्यते ।
भेदे ऽप्य् अभेदः संबन्धे ऽसंबन्धस् तद्-विपर्ययौ

10.47

पौर्वापर्यात्मकं कार्य-हेत्वोः सा पञ्चधा मतः ।
पदार्थानां प्रस्तुतानाम् अन्येषां वा यदा भवेत्

10.48

एक-धर्माभिसंबन्धः स्यात् तदा तुल्ययोगिता ।
अप्रस्तुत-प्रस्तुतयोर् दीपकं तु निगद्यते

10.49

अथ कारकम् एकं स्याद् अनेकासु क्रियासु चेत् ।
प्रतिवस्तूपमा सा स्याद् वाक्ययोर् गम्य-साम्ययोः

10.50

एको ऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ।
दृष्टान्तस् तु सधर्मस्यापि वस्तुनः प्रतिबिम्बनः

10.51

संभवन् वस्तुसंबन्धो ऽसंभवन् वापि कुत्रचित् ।
यत्र बिम्बानुबिम्बत्वं बोधयेत्स् सा निदर्शना

10.52

आधिक्यम् उपमेयस्योपमानान् न्यूनताथवा ।
व्यतिरेक एक उक्ते ऽनुक्ते हेतौ पुनस् त्रिधा

10.53

चतुर्विधो ऽपि साम्यस्य बोधनाच् छब्दतो ऽर्थतः ।
आक्षेपाच् च द्वादशधा श्लेषे ऽपीति त्रिरष्टधा

10.54

प्रत्येकं स्यान् मिलिताष्ट-चत्वारिंशद्-विधः पुनः ।
सहार्थस्य बलाद् एकं यत्र स्याद् वाचकं द्वयोः

10.55

सा सहोक्तिर् मूल-भूतातिशयोक्तिर् यदा भवेत् ।
विनोक्तिर् यद् विनान्येन नासाध्व् अन्यद् असाधु वा

10.56

समासोक्तिः समैर् यत्र कार्य-लिङ्ग-विशेषणैः ।
व्यवहार-समारोपः प्रकृतेनास्य वस्तुनः

10.57

उक्तैर् विशेषणैः साभिप्रायैः परिकरो मतः ।
शब्दैः स्वभावाद् एकार्थे श्लेषो ऽनेकार्थ-वाचनम्

10.58

क्वचिद् विशेषः सामान्यात् सामान्यं वा विशेषतः ।
कार्यान् निमित्तं कार्यं च हेतोर् अथ समात् समम्

10.59

अप्रस्तुतात् प्रस्तुतं चेद् गम्यते पञ्चधा ततः ।
अप्रस्तुत-प्रशंसा स्याद् उक्ता व्याज-स्तुतिः पुनः

10.60

निन्दा-स्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुति-निन्दयोः ।
पर्यायोक्तं यदा भङ्ग्या गम्यम् एवाभिधीयते

10.61

सामान्यं वा विशेषेण विशेषस् तेन वा यदि ।
कार्यं च कारणेनेदं कार्येण च समर्थ्यते

10.62

साधर्म्येनेतरेणार्थान्तर-न्यासो ऽष्टधा ततः ।
हेतोर् वाक्य-पदार्थत्वे काव्य-लिङ्गो निगद्यते

10.63

अनुमानं तु विच्छित्या ज्ञानं साध्यस्य साधनात् ।
अभेदेनाभिधा-हेतुर् हेतोर् हेतुमता सह

10.64

अनुकूलं प्रातिकूल्यम् अनुकूल-विधायि चेत् ।
वस्तुनो वक्तुम् इष्टस्य विशेष-प्रतिपत्तये

10.65

निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ।
अनिष्टस्य तथार्थस्य विध्याभासः परो मतः

10.66

विभावना विना हेतुं कार्योत्पत्तिर् यद् उच्यते ।
उक्तानुक्त-निमित्तत्वाद् द्विधा सा परिकीर्तिता

10.67

सति हेतौ फलाभावे विशेषोक्तिस् तथा द्विधा ।
जातिश् चतुर्भिर् जाताद्यैर् गुणो गुणादिभिस् त्रिभिः

10.68

क्रिया च क्रियाद्रव्याभ्यां द्रव्यं द्रव्येण वा मिथः ।
विरुद्धम् इव भासेत विरोधो ऽसौ दशाकृतिः

10.69

कार्य-कारणयोर् भिन्न-देशतायाम् असङ्गतिः ।
गुणौ क्रिये वा यत् स्यातां विरुद्धे हेतु-कार्ययोः

10.70

यद् वारब्धस्य वैफल्यम् अनर्थस्य च संभवः ।
विरूपयोः संघटना या च तद् विषमं मतम्

10.71

समं स्याद् आनुरूप्येण श्लाघा योग्यस्य वस्तुनः ।
विचित्रं यद् विरुद्धस्य कृतिर् इष्ट-फलाप्तये

10.72

आश्रयाश्रयिनोर् एकस्याधिक्ये ऽधिकम् उच्यते ।
अन्योन्यम् उभयोर् एक-क्रियायाः कारणं मिथः

10.73

यद् आधेयम् अनाधारम् एकं चानेक-गोचरम् ।
किञ्चित् प्रकुर्वतः कार्यम् अशक्यस्येतरस्य वा

10.74

कार्यस्य करणं दैवाद् विशेषस् त्रिविधस् ततः ।
व्याघातः स तु केनापि वस्तु येन यथाकृतम्

10.75

तेनैव चेद् उपायेन कुरुते ऽन्यस् तद् अन्यथा ।
सौकार्येण च कार्यस्य विरुद्धं क्रियते यदि

10.76

परं परं प्रति यदि पूर्व-पूर्वस्य हेतुता ।
तदा कारण-माल स्यात् तन् माला-दीपकं पुनः

10.77

धर्मिणाम् एकधर्मेण संबद्धो यद्य् अथोत्तरम् ।
पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम्

10.78

स्थाप्यते ऽपोहते वा चेत् स्यात् तदैकावली द्विधा ।
उत्तरोत्तरम् उत्कर्षो वस्तुनः सार उच्यते

10.79

यथासाङ्ख्यम् अनुद्देश उद्दिष्टानां क्रमेण यत् ।
क्वचिद् एकम् अनेकस्मिन् एकं चैकशः क्रमात्

10.80

भवति क्रियते वा चेत् तदा पर्याय इष्यते ।
परिवृत्तिर् विनिमयः सम-न्यूनाधिकैर् भवेत्

10.81

प्रश्नाद् अप्रश्नतो वापि कथिताद् वस्तुनो भवेत् ।
तादृग् अन्य-व्यापोहश् चेच् छाब्द आर्थो ऽथवा तदा

10.82

परिसङ्ख्योत्तरं प्रश्नस्योत्तराद् उन्नयो यदि ।
यच् चासकृद् असंभाव्यं सत्य् अपि प्रश्न उत्तरम्

10.83

दण्डापूपिकयान्यार्थागमो ऽर्थापत्तिर् इष्यते ।
विकल्पस् तुल्य-बलयोर् विरोधश् चान्तरायतः

10.84

समुच्चयो ऽयम् एकस्मिन् सति कार्यस्य साधके ।
खलेकपोतिका-न्यायात् तत्-करस् तत्-परो ऽपि चेत्

10.85

गुणौ क्रिये वा युगपत् स्यातां यद् वा गुण-क्रिये ।
समाधिः सुकरे कार्ये दैवाद् वस्त्व् अन्तरागमात्

10.86

प्रत्यनीकम् अशक्तेन प्रतीकारे रिपोर् यदि ।
तदीयस्य तिरस्कारस् तस्योत्कर्षस्य साधकः

10.87

प्रसिद्धस्योपमानस्योपमेयत्व-प्रकल्पनम् ।
निष्फलत्वाभिधानं वा प्रतीपम् इति कथ्यते

10.88

उक्त्वा चात्यन्तम् उत्कर्षम् अत्युत्कृष्टस्य वस्तुनः ।
कल्पिते ऽप्य् उपमानत्वे प्रतीपं केचिद् ऊचिरे

10.89

मीलितं वस्तुनो गुप्तिः केनचित् तुल्य-लक्ष्मणा ।
सामान्यं प्रकृतस्यान्य-तादात्म्यं सदृशैर् गुणैः

10.90

तद्गुणः स्व-गुण-त्यागाद् अत्युत्कृष्ट-गुण-ग्रहः ।
तद्-रूपानहारस् तु हेतौ सत्य् अप्य् अतद्गुणः

10.91

संलक्षितस् तु सूक्ष्मो ऽर्थ आकारेणेङ्गितेन वा ।
कयापि सूच्यते भङ्ग्या यत्र सूक्ष्मं तद् उच्यते

10.92

व्याजोक्तिर् गोपनं व्याजाद् उद्भिन्नस्य तु वस्तुनः ।
स्वभावोक्तिर् दुरूहार्थः स्वक्रिया-रूप-वर्णनम्

10.93

अद्भुतस्य पदार्थस्य भूतस्यार्थे भविष्यतः ।
यत् प्रत्यक्षायमानत्वं तद् भाविकम् उदाहृतम्

10.94

लोकातिशयसंपत्तिर् वस्तुनोदात्तम् उच्यते ।
यद् वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत्

10.95

रस-भावौ तद्-आभासौ भावस्य प्रशमस् तथा ।
गुणी-भूतत्वम् आयान्ति यदालङ्कृतयस् तदा

10.96

रसवत् प्रेय ऊर्जस्वि समाहितम् इति क्रमात् ।
भावस्य चोदये सन्धौ मिश्रत्वे च तद्-आख्यकाः

10.97

यद्य् एत एवालङ्काराः परस्पर-विमिश्रिताः ।
तदा पृथग्-अलङ्कारौ संसृष्टिः सङ्करस् तथा

10.98

अङ्गाङ्गित्वे ऽलंकृतीनां तद्वद् एकाश्रयस्थितौ ।
सन्दिग्धत्वे च भवति सङ्करस् त्रिविधः पुनः

10.99

श्री-चन्द्र-शेखर-महा-कवि-चन्द्र-सूनु-श्री-विश्वनाथ-कविराज-कृतं प्रबन्धम् ।
साहित्य-दर्पणम् अमुं सुधियो विलोक्य साहित्य-तत्त्वम् अखिलं सुखम् एव वित्त

10.100

यावत् प्रसन्नेन्दु-निभानना श्री-नारायणस्याङ्कम् अलङ्करोति ।
तावन् मनः संमदयन् कवीनाम् एष प्रबन्धः प्रथितो ऽस्तु लोके

मूल पाठ: Sāhityadarpaṇa · Edition: Satyavrata Simha, 9th edition. Varanasi: Chowkhamba Vidya Bhavan, 1992. (Vidya Bhavan Sanskrit Granthamala, 29) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc