साहित्यदर्पण · अध्याय 7
इति साहित्य-दर्पणे
दृश्य-श्रव्य-काव्य-निरूपणो नाम
षष्ठः परिच्छेदः
(7)
सप्तमः परिच्छेदः
(दोष-निर्णयः)
रसापकर्षका दोषास् ते पुनः पञ्चधा मताः ।
पदे तद्-अंशे वाक्ये ऽर्थे संभवन्ति रसे ऽपि यत्
दुःश्रव त्रिविधाश्लीलानुचितार्थाप्रयुक्तताः ।
ग्राम्यो ऽप्रतीत-सन्दिग्ध-नेयार्थ-निहतार्थताः
अवाचकत्वं क्लिष्टत्वं विरुद्धम् अतिकारिता ।
अविमृष्ट-विधेयांश-भावश् च पद-वाक्ययोः
केचिद् दोषा भवन्त्य् एषु पदांशे ऽपि पदे ऽपरं ।
निरर्थकासमर्थत्वे च्युत-संस्कारता तथा
वर्णानां प्रतिकूलत्वं लुप्ताहत-विसर्गताः ।
अधिक-न्यून-कथित-पदता हत-वृत्तताः
पतत्-प्रकर्षता सन्धौ विश्लेषाश्लील-कष्टताः ।
अर्धान्तरैक-पदता समाप्त-पुनर्-आत्तता
अभवन् मत-संबन्धाक्रमामत-परार्थताः ।
वाच्यस्यानभिधानं च भग्न-प्रक्रमता तथा
त्यागः प्रसिद्धेर् अस्थाने न्यासः पद-समासयोः ।
सङ्कीर्णता गर्भितता दोषाः स्युर् वाक्य-मात्रगाः
अपुष्ट-दुष्क्रम-ग्राम्य-व्याहताश्लील-कष्टताः ।
अनवीकृत-निर्हेतु-प्रकाशित-विरुद्धताः
सन्दिग्ध-पुनरुक्तत्वे ख्याति-विद्या-विरुद्धते ।
साकाङ्क्षता-सहचर-भिन्नता-स्थान-युक्तता
अविशेषे विशेषश् चानियमे नियमस् तथा ।
तयोर् विपर्ययो विध्य्-अनुवाद-युक्तते तथा
निर्मुक्त-पुनरुक्तत्वं महा-दोषाः प्रकीर्तिताः ।
रसस्योक्तिः स्व-शब्देन स्थायि-सञ्चारिणोर् अपि
व्यक्तता कल्पिता कृच्छ्राद् अनुभाव-विभावयोः[*2] ।
अकाण्डे प्रथन-च्छेदौ तथा दीप्तिः पुनः पुनः
{[*2] थे fओल्लोwइन्ग् लिने fरोम् विस्स्द् इस् मिस्सिन्ग् हेरे: परिपन्थिर् असाङ्गस्य विभावादेः परिग्रहः}
अङ्गिनो ऽननुसन्धानम् अनङ्गस्य च कीर्तनम् ।
अतिविस्तृतिर् अङ्गस्य प्रकृतीनां विपर्ययः
अर्थानौचित्यम् अन्ये च दोषा रस-गता मताः ।
एभ्यः पृथग्-अलङ्कार-दोषाणां नैव संभवः
वक्तरि क्रोध-संयुक्ते तथा वाच्ये समुद्धते ।
रौद्रादौ च रसे ऽत्यन्तं दुःश्रवत्वं गुणो भवेत्
सुरतारम्भ-गोष्ठ्यादाव् अश्लीलत्वं तथा पुनः ।
स्याताम् अदोषौ श्लेषादौ निहतार्थाप्रयुक्तते
गुणः स्याद् अप्रतीतत्वं ज्ञत्वं चेद् वक्तृ-वाच्ययोः ।
स्वयं वापि परामृशे कथितं च पदं पुनः
विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि ।
दैन्ये ऽथ लाटानुप्रासे ऽनुकम्पायां प्रसादने
अर्थान्तर-सङ्क्रमित-वाच्ये हर्षे ऽवधारणे ।
सन्दिग्धत्वं तथा व्याज-स्तुति-पर्यवसायि चेत्
वैयाकरण-मुख्ये तु प्रतिपाद्ये ऽथ वक्तरि ।
कष्टत्वं दुःश्रवत्वं वा ग्राम्यत्वम् अधमोक्तिषु
निर्हेतुता तु ख्याते ऽर्थे दोषतां नैव गच्छति ।
कवीनां समये ख्याते गुणः ख्यात-विरुद्धता
मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यते हास-कीर्त्योः रक्तौ च क्रोध-रागौ सरिद् उदधि-गतं पङ्कजेन्दीवरादि ।
तोयाधारे ऽखिले ऽपि प्रसरति च मरालादिकः पक्षि-सङ्घो ज्योत्स्ना प्रेया चकोरैर् जलधर-समये मानसं यान्ति हंसाः
पादाघाताद् अशोका विकसति बकुलो योषिताम् आस्यम् अद्यैर् यूनाम् अङ्गेषु हाराः स्फुटति च हृदयं विप्रयोगस्य तापैः ।
मौर्वी-रोलम्ब-माला धनुर् अथ विशिखाः कौसुमाः पुष्प-केतोर् भिन्नं स्याद् अस्य वाणैर् युवजन-हृदयं स्त्री-कटाक्षेण तद्वत्
अह्न्य्-अम्भोजं निशायां विकसति कुमुदं चन्द्रिका शुक्ल-पक्षे मेघ-ध्वानेषु नृत्यं भवति च शिखिनां नाप्य् अशोके फलं स्यात् ।
न स्याज् जाती वसन्ते न च कुसुम-फले गन्ध-सार-द्रुमाणाम् इत्य् आद्य् उन्नेयम् अन्यत् कवि-समय-गतं सत्-कवीनां प्रबन्धे
धनुर् ज्यादिषु शब्देषु शब्दास् तु धनुर्-आदयः ।
आरूढत्वादि-बोधाय प्रयोक्तव्याः स्थिता इमे
उक्ताव् आनन्द-मग्नादेः स्यान् न्यून-पदता गुणः ।
क्वचिन् न दोषो न गुणो गुणः क्वाप्य् अधिकं पदम्
समाप्त-पुनर्-आत्तत्वं न दोषो न गुणः क्वचित् ।
गर्भितत्वं गुणः क्वापि पतत्-प्रकर्षता तथा
क्वचिद् उक्तौ स्व-शब्देन न दोषो व्यभिचारिणः ।
अनुभाव-विभावाभ्यां रचनं यत्र नोचितम्
सञ्चार्यादेर् विरुद्धस्य बाध्यत्वेन वचो गुणः ।
विरोधिनो ऽपि स्मरणे साम्येन वचने तथा
भवेद् विरोधो नान्योन्यम् अङ्गिन्य् अङ्गत्वम् आप्तयोः ।
अनुकारे च सर्वेषां दोषाणां नैव दोषता
अन्येषाम् अपि दोषाणाम् इत्य् औचित्यान् मनीषिभिः ।
अदोषता च गुणता ज्ञेया चानुभयात्मता
मूल पाठ: Sāhityadarpaṇa · Edition: Satyavrata Simha, 9th edition. Varanasi: Chowkhamba Vidya Bhavan, 1992. (Vidya Bhavan Sanskrit Granthamala, 29) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0