भाषा

ENहिગુ
ग्रंथ पाठ

साहित्यदर्पण · अध्याय 6

6.1

इति साहित्य-दर्पणे
व्यञ्जना-व्यपार-निरूपणो नाम
पञ्चमः परिच्छेदः
(6)
षष्ठः परिच्छेदः
दृश्य-श्रव्यत्व-भेदेन पुनः काव्यं द्विधा मतम् ।
दृश्यं तत्राभिनेयं तद्-रूपारोपात् तु रूपकम्

6.2

भवेद् अभिनयो ऽवस्थानुकारः स चतुर्विधः ।
आङ्गिको वाचिकश् चैवम् आहार्यः सात्त्विकस् तथा

6.3

नाटकम् अथ प्रकरणं भाण-व्यायोग-समवकार-डिमाः ।
ईहामृगाङ्क-वीथ्यः प्रहसनम् इति रूपकाणि दश

6.4

नाटिका त्रोटकं गोष्ठी सट्टकं नाट्य-रासकम् ।
प्रस्थानोल्लाप्य-काव्यानि प्रेङ्खणं रासकं तथा

6.5

संलापकं श्री-गदितं शिल्पकं च विलासिका ।
दुर्मल्लिका प्रकरणी हल्लीशको भाणिकेति च

6.6

अष्टादश प्राहुर् उपरूपकाणि मनीषिणः ।
विना विशेषं सर्वेषां लक्ष्म नाटकवन् मतम्

6.7

नाटकं ख्यात-वृत्तं स्यात् पञ्च-सन्धि-समन्वितम् ।
विलास-र्द्ध्यादि-गुणवद् युक्तं नाना-विभूतिभिः

6.8

सुख-दुःख-समुद्भूति नाना-रस-निरन्तरम् ।
पञ्चादिका दश-परास् तत्राङ्काः परिकीर्तिताः

6.9

प्रख्यात-वंशो राजर्षि-धीरोदात्तः प्रतापवान् ।
दिव्यो ऽथ दिव्यादिव्यो वा गुणवान् नायको मतः

6.10

एक एव भवेद् अङ्गी शृङ्गारो वीर एव वा ।
अङ्गम् अन्ये रसाः सर्वे कार्यो निर्वहणे ऽद्भुतः

6.11

चत्वारः पञ्च वा मुख्याः कार्य-व्यापृत-पूरुषाः ।
गोपुच्छाग्र-समाग्रं तु बन्धनं तस्य कीर्तितम्

6.12

प्रत्यक्ष-नेतृ-चरितो रस-भाव-समुज्ज्वलः ।
भवेद् अगूढ-शब्दाथः क्षुद्र-चूर्णक-संयुतः

6.13

विच्छिन्नावान्तरैकार्थः किञ्चित् संलग्न-बिन्दुकः ।
युक्तो न बहुभिः कार्यैर् बीज-संहृतिमान् न च

6.14

नाना-विधान-संयुक्तो नातिप्रचुर-पद्यवान् ।
आवश्यकानां कार्याणाम् अवोर्धाद् विनिर्मितः

6.15

नानेक-दिन-निर्वर्त्य-कथया संप्रयोजितः ।
आसन्न-नायकः पात्रैर् युक्तस् त्रि-चतुरैस् तथा

6.16

दूराह्वानं वधो युद्धं राज्यदेशादि-विप्लवः ।
विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा

6.17

दन्त-च्छेद्यं नख-च्छेद्यम् अन्यद् व्रीडाकरं च यत् ।
शयनाधर-पानादि नगराद्य्-अवरोधनम्

6.18

स्नानानुलेपने चैभिर् वर्जितो नातिविस्तरः ।
देवी-परिजनादीनाम् अमात्य-वणिजाम् अपि

6.19

प्रत्यक्ष-चित्र-चरितैर् युक्तो भाव-रसोद्भवैः ।
अन्त-निष्क्रान्त-निखिल-पात्रो ऽङ्क इति कीर्तितः

6.20

अङ्कोदर-प्रविष्टो यो रङ्ग-दारा-मुखादिमान् ।
अङ्को ऽपरः स गर्भाङ्कः स-बीजः फलवान् अपि

6.21

तत्र पूर्वं पूर्व-रङ्गः सभा-पूजा ततः परम् ।
कथनं कवि-संज्ञादेर् नाटकस्याप्य् अथामुखम्

6.22

यन् नाट्य-वस्तुनः पूर्वं रङ्ग-विघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्व-रङ्गः स उच्यते

6.23

प्रत्याहारादिकान्य् अङ्गान्य् अस्य भूयांसि यद्यपि ।
तथाप्य् अवश्यं कर्तव्या नान्दी विघ्नोपशान्तये

6.24

आशीर्-वचन-संयुक्ता स्तुतिर् यस्मात् प्रयुज्यते ।
देव-द्विज-नृपादीनां तस्मान् नान्दीति संज्ञिता

6.25

माङ्गल्य-शङ्ख-चन्द्राब्ज-कोक-कैरव-शंसिनी ।
पदैर् युक्ता द्वादशभिर् अष्टाभिर् वा पदैर् उत

6.26

पूर्व-रङ्गं विधायैव सूत्रधारो निवर्तते ।
प्रविश्य स्थापकस् तद्वत् काव्यम् आस्थापयेत् ततः

6.27

दिव्य-मर्त्ये स तद्-रूपो मिश्रम् अन्यतरस् तयोः ।
सूचयेद् वस्तु बीजं वा मुखं पात्रम् अथापि वा

6.28

रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थ-सूचकैः ।
रूपकस्य कवेर् आख्यां गोत्राद्यापि स कीर्तयेत्

6.29

ऋतुं च कञ्चित् प्रायेण भारतीं वृत्तिम् आश्रितः ।
भारती संस्कृत-प्रायो वाग्-व्यापारो नटाश्रयः

6.30

तस्याः प्ररोचना वीथी तथा प्रहसनामुखे ।
अङ्गान्य् अत्रोन्मुखीकारः प्रशंसातः प्ररोचना

6.31

नटी विदूषाको वापि पारिपार्श्विक एव वा ।
सूत्रधारेण सहिताः संलापं यत्र कुर्वते

6.32

चितरिर् वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर् मिथः ।
आमुखं तत् तु विज्ञेयं नाम्ना प्रस्तावनापि सा

6.33

उद्धात्यकः कथोद्धातः प्रयोगातिशयस् तथा ।
प्रवर्तका-लगिते पञ्च प्रस्तावनाभिदाः

6.34

पदानि त्व् अगतार्थानि तद्-अर्थ-गतये नराः ।
योजयन्ति पदैर् अन्यैः स उद्धात्यक उच्यते

6.35

सूत्रधारस्य वाक्यं वा समादायार्थम् अस्य वा ।
भवेत् पात्र-प्रवेशश् चेत् कथोद्घातः स उच्यते

6.36

यदि प्रयोग एकस्मिन् प्रयोगो ऽन्यः प्रयुज्यते ।
तेन पात्र-प्रवेशश् चेत् प्रयोगातिशयस् तदा

6.37

कालं प्रवृत्तम् आश्रित्य सूत्र-धृग् यत्र वर्णयेत् ।
तद्-आश्रयश् च पात्रस्य प्रवेशस् तत्-प्रवर्तकम्

6.38

यत्रैकत्र समावेशात् कार्यम् अन्यत् प्रसाध्यते ।
प्रयोगे खलु तज् ज्ञेयं नाम्नावलगितं बुधैः

6.39

योज्यान्य् अत्र यथा-लाभं वीथ्य्-अङ्गानीतराण्य् अपि ।
नेपथोक्तं श्रुतं यत्र त्व् आकाश-वचनं तथा

6.40

समाश्रित्यापि कर्तव्यम् आमुखं नाटकादिषु ।
एषाम् आमुख-भेदानाम् एकं कञ्चित् प्रयोजयेत्

6.41

तेनार्थम् अथ पात्रं वा समाक्षिप्यैव सूत्र-धृक् ।
प्रस्तावनान्ते निर्गच्छेत् ततो वस्तु प्रयोजयेत्

6.42

इदं पुनर् वस्तु बुधैर् द्विविधं परिकल्प्यते ।
आधिकारिकम् एकं स्यात् प्रासङ्गिकम् अथापरम्

6.43

अधिकारः फले स्वाम्यम् अधिकारी च तत्-प्रभुः ।
तस्येतिवृत्तं कविभिर् आधिकारिकम् उच्यते

6.44

अस्योपकरणर्थं तु प्रासङ्गिकम् इतीष्यते ।
पताका-स्थानकं योज्यं सुविचार्येह वस्तुनि

6.45

यत्रार्थे चिन्तिते ऽन्यस्मिंस् तल्-लिङ्गो ऽन्यः प्रयुज्यते ।
आगन्तुकेन भावेन पताका-स्थानकं तु तत्

6.46

सहसैवार्थ-संपत्तिर् गुणवत्य् उपचारतः ।
पताका-स्थानकम् इदं प्रथमं परिकीर्तितम्

6.47

वचः सातिशयं श्लिष्टं नाना-बन्ध-समाश्रयम् ।
पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम्

6.48

अर्थोपक्षेपकं यत् तु लीनं स-विनयं भवेत् ।
श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् उच्यते

6.49

द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः ।
प्रधानार्थान्तराक्षेपी पताका-स्थानकं परम्

6.50

यत् स्याद् अनुचितं वस्तु नायकस्य रसस्य वा ।
विरुद्धं तत् परित्याज्यम् अन्यथा वा प्रकल्पयेत्

6.51

अङ्केष्व् अदर्शनीया या वक्तव्यैव च संमता ।
या च स्याद् वर्ष-पर्यन्तं कथा दिन-द्वयादिजा

6.52

अन्या च विस्तरा सूच्या सार्थोपक्षेपैर् बुधैः ।
वर्षाद् ऊर्ध्वं तु यद् वस्तु तत् स्याद् वर्षाद् अधोभवम्

6.53

दिनावसाने कार्यं यद् दिने नैवोपपद्यते ।
अर्थोपक्षेपकैर् वाच्यम् अङ्क-च्छेदं विधाय तत्

6.54

अर्थोपक्षेपकाः पञ्च विष्कम्भक-प्रवेशकौ ।
चूलिकाङ्कावतारो ऽथ स्याद् अङ्क-मुखम् इत्य् अपि

6.55

वृत्त-वर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षिप्तार्थस् तु विष्कम्भ आदाव् अङ्कस्य दर्शितः

6.56

मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः ।
शुद्धः स्यात् स तु सङ्कीर्णो नीच-मध्यम-कल्पितः

6.57

प्रवेशको ऽनुदात्तोक्त्या नीच-पात्र-प्रयोजितः ।
अङ्क-द्वयान्तर् विज्ञेयः शेषं विष्कम्भके यथा

6.58

अन्तर्-जवनिका-संस्थैः सूचनार्थस्य चूलिका ।
अङ्कान्ते सूचितः पात्रैस् तद्-अङ्कस्याविभागतः

6.59

यत्राङ्को ऽवतरत्य् एषो ऽङ्कावतार इति स्मृतः ।
यत्र स्याद् अङ्क एकस्मिन्न् अङ्कानां सूचनाखिला

6.60

तद्-अङ्क-मुखम् इत्य् आहुर् बीजार्थ-ख्यापकं च तत् ।
अङ्कान्त-पात्रैर् वाङ्कास्यं छिन्नाङ्कस्यार्थ-सूचनात्

6.61

अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरम् ।
यदा सन्दर्शयेच् छेषम् आमुखानन्तरं तदा

6.62

कार्यो विष्कम्भको नाट्य आमुखाक्षिप्त-पात्रकः ।
यदा तु सरसं वस्तु मूलाद् एव प्रवर्तते

6.63

आदाव् एव तदाङ्के स्याद् आमुखाक्षेप-संश्रयः ।
विष्कम्भकाद्यैर् अपि नो वधो वाच्यो ऽधिकारिणः

6.64

अन्यो ऽन्येन तिरोधानं न कुर्याद् रस-वस्तुनोः ।
बीजं बिन्दुः पताका च प्रकरी कार्यम् एव च

6.65

अर्थ-प्रकृतयः पञ्च ज्ञात्वा योज्या यथा-विधि ।
अल्प-मात्रं समुद्दिष्टं बहुधा यद् विसर्पति

6.66

फलस्य प्रथमो हेतुर् बीजं तद् अभिधीयते ।
अवान्तरार्थ-विच्छेदे बिन्दुर् अच्छेद-कारणम्

6.67

व्यापि प्रासाङ्गिकं वृत्तं पताकेत्य् अभिधीयते ।
पताका-नायकस्य स्यान् न स्वकीयं फलान्तरम्

6.68

गर्भे सन्धौ विमर्शे वा विर्वाहस् तस्य जायते ।
प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता

6.69

प्रकरी नायकस्य स्यान् न स्वकीयं फलान्तरम् ।
अपेक्षितं तु यत् साध्यम् आरम्भो यन् निबन्धनः

6.70

समापनं तु यत्-सिद्ध्यै तत् कार्यम् इति संमतम् ।
अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः

6.71

आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ।
भवेद् आरभ्य औत्सुक्यं यन् मुख्य-फल-सिद्धये

6.72

प्रयत्नस् तु फलावाप्तौ व्यापारो ऽतित्वरान्वितः ।
उपायापाय-शङ्काभ्यां प्राप्त्य्-आशा प्राप्ति-संभवः

6.73

अपायाभावतः प्राप्तिर् नियताप्तिस् तु निश्चिता ।
सावस्था फल-योगः स्याद् यः समग्र-फलोदयः

6.74

यथा-सङ्ख्यम् अवस्थाभिर् आभिर् योगात् तु पञ्चभिः ।
पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्च सन्धयः

6.75

अन्तरैकार्थ-संबन्धः सन्धिर् एकान्तये सति ।
मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः

6.76

इति पञ्चास्य भेदाः स्युः क्रमाल् लाक्षणम् उच्यते ।
यत्र बीज-समुत्पत्तिर् नानार्थ-रस-संभवा

6.77

प्रारम्भेण समायुक्ता तन् मुखं परिकीर्तितम् ।
फल-प्रधानोपायस्य मुख-सन्धि-निवेशिनः

6.78

लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ।
फल-प्रधानोपायस्य प्राग्-उद्भिन्नस्य किञ्चन

6.79

गर्भो यत्र समुद्भेदो हासान्वेषणवान् मुहुः ।
यत्र मुख्य-फलोपाय उद्भिन्नो गर्भतो ऽधिकः

6.80

शापाद्यैः सान्तरायश् च स विमर्श इति स्मृतः ।
बीजवन्तो मुखाद्य्-अर्था विप्रकीर्णा यथायथम्

6.81

एकार्थम् उपनीयन्ते यत्र निर्वहणं हि तत् ।
उपक्षेपः परिकरः परिन्यासो विलोभनम्

6.82

युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदः करणं भेद एतान्य् अङ्गानि वै मुखे

6.83

काव्यार्थस्य समुत्पत्तिर् उपक्षेप इति स्मृतः ।
समुत्पन्नार्थ-बाहुल्यं ज्ञेयः परिकरः पुनः

6.84

तन्-निष्पत्तिः परिन्यासः गुणाख्यानं विलोभनम् ।
संप्रधारणम् अर्थानां युक्तिः प्राप्तिः सुखागमः

6.85

बीजस्यागमनं यत् तु तत् समाधानम् उच्यते ।
सुख-दुःख-कृतो यो ऽर्थस् तद् विधानम् इति स्मृतम्

6.86

कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ।
बीजार्थस्य प्ररोहः स्याद् उद्भेदः करणं पुनः

6.87

प्रकृतार्थ-समारम्भः भेदः संहत-भेदनम् ।
विलासः परिसर्पश् च विधुतं तापनं तथा

6.88

नर्म नर्म-द्युतिश् चैव तथा प्रगमनं पुनः ।
विरोधश् च प्रतिमुखे तथा स्यात् पर्युपासनम्

6.89

पुष्पं वज्रम् उपन्यासो वर्ण-संहार इत्य् अपि ।
समीहा रति-भोगार्था विलास इति कथ्यते

6.90

इष्ट-नष्टानुसरणं परिसर्पश् च कथ्यते ।
कृतस्यानुनयस्यादौ विधुतं त्व् अपरिग्रहः

6.91

उपायादर्शनं यत् तु तापनं नाम तद् भवेत् ।
परिहास-वचो नर्म धृतिस् तु परिहास-जा

6.92

नर्म-द्युतिः प्रगमनं वाक्यं स्याद् उत्तरोत्तरम् ।
विरोधो व्यसन-प्राप्तिः क्रुद्धस्यानुनयः

6.93

स्यात् पर्युपासनं पुष्पं विशेष-वचनं मतम् ।
प्रत्यक्ष-निष्ठुरं वज्रम् उपन्यासः प्रसादनम्

6.94

चातुर्वर्ण्योपगमनं वर्ण-संहार इष्यते ।
अभूताहरणं मार्गो रूपोदाहरणे क्रमः

6.95

सङ्ग्रहश् चानुमानं च प्रार्थना क्षिप्तिर् एव च ।
त्रोटकाधिबलोद्वेगा गर्भे स्युर् विद्रवस् तथा

6.96

तत्र व्याजाश्रयं वाक्यम् अभूताहरणं मतम् ।
तत्त्वार्थ-कथनं मार्गो रूपं वाक्यं वितर्कवत्

6.97

उदाहरणम् उत्कर्ष-युक्तं वचनम् उच्यते ।
भाव-तत्त्वोपलब्धिस् तु क्रमः स्यात् सङ्ग्रहः पुनः

6.98

साम-दानार्थ-संपन्नो लिङ्गाद् ऊहो ऽनुमानता ।
रति-हर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत्

6.99

रहस्यार्थस्य तद्-भेदः क्षिप्तिः स्यात् तोटकं पुनः ।
संरब्ध-वाक् अधिबलम् अभिसन्धि-च्छलेन यः

6.100

नृपादि-जनिता भीतिर् उद्वेगः परिकीर्तितः ।
शङ्का-भय-त्रास-कृतः संभ्रमो विद्रवो मतः

6.101

अपवादो ऽथ संफेटो व्यवसायो द्रवो द्युतिः ।
शक्तिः प्रसङ्गः खेदश् च प्रतिषेधो विरोधनम्

6.102

प्ररोचना विमर्शे स्याद् आदानं छादनं तथा ।
दोष-प्रख्यापवादः स्यात् संफेटो रोष-भाषणम्

6.103

व्यवसायस् तु विज्ञेयः प्रतिज्ञा-हेतु-संभवः ।
द्रवा गुरु-व्यतिक्रान्तिः शोकावेगादि-संभवा

6.104

तर्जनोद्वेजने प्रोक्ता द्युतिह् शक्तिः पुनर् भवेत् ।
विरोधस्य प्रशमनं प्रसङ्गो गुरु-कीर्तनम्

6.105

मनश् चेष्टा-समुत्पन्नः श्रमः खेद इति स्मृतः ।
ईप्सितार्थ-प्रतीघातः प्रतिषेध इतीष्यते

6.106

कार्यात्ययोपगमनं विरोधनम् इति स्मृतम् ।
प्ररोचना तु विज्ञेया संहारार्थ-प्रदर्शिनी

6.107

कार्य-सङ्ग्रह आदानं तद् आहुश् छादनं पुनः ।
कार्यार्थम् अपमानादेः सहनं खलु यद् भवेत्

6.108

सन्धिर् विबोधो ग्रथनं निर्णयः परिभाषणम् ।
कृतिः प्रसाद आनन्दः समयो ऽप्य् उपगूहनम्

6.109

भाषणं पूर्व-वाक्यं च काव्य-संहार एव च ।
प्रशस्तिर् इति संहारे ज्ञेयान्य् अङ्गानि नामतः

6.110

बीजोपगमनं सन्धिः विबोधः कार्य-मार्गणम् ।
उपनायसस् तु कार्याणां ग्रथनं निर्णयः पुनः

6.111

अनुभूतार्थ-कथनं वदन्ति परिभाषणम् ।
परिवाद-कृतं वाक्यं लब्धार्थ-शमनं कृतिः

6.112

शुश्रूषादिः प्रसादः स्याद् आनन्दो वाञ्छितागमः ।
समयो दुःख-निर्याणं तद् भवेद् उपगूहनम्

6.113

यत् स्याद् अद्भुत-संप्राप्तिः साम-दानादि भाषणम् ।
पूर्व-वाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम्

6.114

वर-प्रदान-संप्राप्तिः काव्य-संहार इष्यते ।
नृप-देशादि-शान्तिस् तु प्रशस्तिर् अभिधीयते

6.115

चतुः-षष्टि-विधं ह्य् एतद् अङ्गं प्रोक्तं मनीषिभिः ।
कुर्याद् अनियते तस्य सन्धाव् अपि निवेशनम्

6.116

रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता ।
इष्टार्थ-रचनाश्चर्य-लाभो वृत्तान्त-विस्तरः

6.117

राग-प्राप्तिः प्रयोगस्य गोप्यानां गोपनं तथा ।
प्रकाशनं प्रकाश्यानाम् अङ्गानां षड्-विधं फलम्

6.118

अङ्ग-हीनो नरो यद्वन् नैवारम्भ-क्षमो भवेत् ।
अङ्ग-हीनं तथा काव्यं न प्रयोगाय युज्यते

6.119

संपादयेतां सन्ध्य्-अङ्गं नायक-प्रतिनायकौ ।
तद्-अभावे पताकाद्यास् तद्-अभावे तथेतरत्

6.120

रस-व्यक्तिम् अपेक्ष्यैषाम् अङ्गानां संनिवेशनम् ।
न तु केवलया शास्त्र-स्थिति-संपादनेच्छया

6.121

अविरुद्धं तु यद् वृत्तं रसादि-व्यक्तये ऽधिकम् ।
तद् अप्य् अन्यथयेद् धीमान् वदेद् वा कदाचन

6.122

शृङ्गारे कौशिकी वीरे सात्त्वत्य् आरभटी पुनः ।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती

6.123

चतस्रो वृत्तयो ह्य् एताः सर्व-नाट्यस्य मातृकाः ।
स्युर् नायिकादि-व्यापार-विशेषा नाटकादिषु

6.124

या श्लक्ष्ण-नेपथ्य-विशेष-चित्रा स्त्री-सङ्कुला पुष्कल-नृत्य-गीता ।
कामोपभोग-प्रभवोपचारा सा कैशिकी चारु-विलास-युक्ता

6.125

नर्म च नर्म-स्फूर्जो नर्म-स्फोटो ऽथ नर्म-गर्भश् च ।
चत्वार्य् अङ्गान्य् अस्या वैदग्ध्य-क्रीडितं नर्म

6.126

इष्ट-जनावर्जन-कृत् तच् चापि त्रिविधं मतम् ।
विहितं शुद्ध-हास्येन स-शृङ्गार-मयेन च

6.127

नर्म-स्फूर्जः सुखारम्भो भयान्तो नव-सङ्गमः ।
नर्म-स्फोटो भाव-लेशैः सूचिताल्प-रसो मतः

6.128

नर्म-गर्भो व्यवहृतिर् नेतुः प्रच्छन्न-वर्तिनः ।
सात्त्वती बहुला सत्त्व-शौर्य-त्याग-दयार्जवैः

6.129

सहर्षा क्षुद्र-शृङ्गारा विशोका साद्भुता तथा ।
उत्थापको ऽथ साङ्घात्यः संलापः परिवर्तकः

6.130

विशेषा इति चत्वारः सात्त्वत्याः परिकीर्तिताः ।
उत्तेजन-करो शत्रोर् वाग्-उत्थापक उच्यते

6.131

मन्त्रार्थ-दैव-शक्त्यादेः साङ्घात्यः सङ्घ-भेदनम् ।
संलापः स्याद् गभीरोक्तिर् नाना-भाव-समाश्रयः

6.132

प्रारब्धाद् अन्य-कार्याणां करणं परिवर्तकः ।
मायेन्द्रजाल-सङ्ग्राम-क्रोधोद्भ्रान्तादि-चेष्टितैः

6.133

संयुक्ता वध-बन्धाद्यैर् उद्धतारभटी मता ।
वस्तूत्थापन-संफेटो संक्षिपिर् अवपातनम्

6.134

इति भेदास् तु चत्वार आरभट्याः प्रकीर्तिताः ।
मायाद्य्-उत्थापितं वस्तु वस्तूत्थापनम् उच्यते

6.135

संफेटस् तु समाघातः क्रुद्ध-सत्वरयोर् द्वयोः ।
सङ्क्षिप्ता वस्तु-रचना शिल्पैर् इतरथापि वा

6.136

सङ्क्षिप्तिः स्थान् निवृत्तौ च नेतुर् नेत्रन्तर-ग्रहः ।
प्रवेश-त्रास-निष्क्रान्ति-हर्ष-विद्रव-संभवम्

6.137

अवपातनम् इत्य् उक्तं पूर्वम् उक्तैव भारती ।
अश्राव्यं खलु यद् वस्तु तद् इह स्वगतं मतम्

6.138

सर्व-श्राव्यं प्रकाशं स्यात् तद् भवेद् अपवारितम् ।
रहस्यं तु यद् अन्यस्य परावृत्य प्रकाश्यते

6.139

त्रिपताक-करेणान्यान् अपवार्यान्तरा कथाम् ।
अन्योन्यामन्त्रणं यत् स्यात् तज्-जनान्ते जनान्तिकम्

6.140

किं ब्रवीषीति यन्-नाट्ये विना पात्रं प्रयुज्यते ।
श्रुत्वेवानुक्तम् अप्य् अर्थं तत् स्याद् आकाश-भाषितम्

6.141

दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् ।
दत्त-प्रायाणि वणिजां चेट-चेट्योस् तथा पुनः

6.142

वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद् भवेत् ।
नाम कार्यं नाटकस्य गर्भितार्थ-प्रकाशकम्

6.143

नायिकानायकाख्यानात् संज्ञा प्रकरणादिषु ।
नाटिका-सट्टकादीनां नायिकाभिर् विशेषणम्

6.144

प्रायेण ण्य्-अन्तकः साधिर् गमेः स्थाने प्रयुज्यते ।
राजा स्वामीति देवेति भृत्यैर् भट्टेति चाधमैः

6.145

राजर्षिभिर् वयस्येति तथा विदूषकेण च ।
राजन्न् इत्य् ऋषिभिर् वाच्यः सो ऽपत्य-प्रत्ययेन च

6.146

स्वेच्छया नामभिर् विप्रैर् विप्र आर्येति चेतरैः ।
वयस्येत्य् अथवा नाम्ना वाच्यो राज्ञा विदूषकः

6.147

वाच्यौ नटी-सूत्रधारावार्य-नाम्ना परस्परम् ।
सूत्रधारं वदेद् भाव इति वै पारिपार्श्विकः

6.148

सूत्रधारो मारिषेति हण्डे इत्य् अधमैः समाः ।
वयस्येत्य् उत्तमैर् हंहो मध्यैर् आर्येति चाग्रजः

6.149

भगवन्न् इति वक्तव्याः सर्वैर् देवर्षि-लिङ्गिनः ।
वदेद् राज्ञीं च चेटीं च भवतीति विदूषकः

6.150

आयुष्मन् रथिनं सूतो वृद्धं तातेति चेतरः ।
वत्स-पुत्रक-तातेति नाम्ना गोत्रेण वा सुतः

6.151

शिष्यो ऽनुजश् च वक्तव्यो ऽमात्य आर्येति चाधमैः ।
विप्रैर् अयम् अमात्येति सचिवेति च भण्यते

6.152

साधो इति तपस्वी च प्रशान्तश् चोच्यते बुधैः ।
स्व-गृहीताभिधः पूज्यः शिष्याद्यैर् विनिगद्यते

6.153

उपाध्यायेति चाचार्यो महाराजेति भूपतिः ।
स्वामीति युवराजस् तु कुमारो भर्तृ-दारकः

6.154

भद्र-सौम्य-मुखेत्य् एवम् अधमैस् तु कुमारकः ।
वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृ-दारिका

6.155

पतिर् यथा तथा वाच्या ज्येष्ठ-मध्याधमैः स्त्रियः ।
हलेति सदृशी प्रेष्या हज्जे वेश्याज्जुका तथा

6.156

कुट्टिन्य् अम्बेत्य् अनुगतिः पूज्या च जरती जनैः ।
आमन्त्रणैश् च पाषाण्डा वाच्याः स्वसमयागतैः

6.157

शक्यादयश् च संभाष्या भद्र-दत्तादि-नामभिः ।
यस्य यत् कर्म शिल्पं वा विद्या वा जातिर् एव वा

6.158

तेनैव नाम्ना वाच्यो ऽसौ ज्ञेयाश् चान्ये यथोचितम् ।
पुरुषाणाम् अनीचानां संस्कृतं स्यात् कृतात्मनाम्

6.159

सौरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् ।
आसाम् एव तु गाथासु महाराष्ट्रीं प्रयोजयेत्

6.160

अत्रोक्ता मागधी भाषा राजान्तःपुर-चारिणाम् ।
चेटानां राज-पुत्राणां श्रेष्ठानां चार्ध-मागधी

6.161

प्राच्यां विदूषकादीनां धूर्तानां स्याद् अवन्तिजा ।
योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम्

6.162

शबराणां शकादीनां शाबरीं संप्रयोजयेत् ।
वाह्लीकमाषोदीच्यानां द्राविडी द्राविडादिषु

6.163

आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु ।
आभीरी शाबरी चापि काष्ठ-पात्रोपजीविषु

6.164

तथैवाङ्गार-कारादौ पैशाची स्यात् पिशाच-वाक् ।
चेटानाम् अप्य् अनीचानाम् अपि स्यात् सौरसेनिका

6.165

बालानां षण्डकानां च नीच-ग्रह-विचारिणाम् ।
उन्मत्तानाम् आतुराणां सैव स्यात् संस्कृतं क्वचित्

6.166

ऐश्वर्येण प्रमत्तस्य दारिद्र्योपद्रुतस्य च ।
भिक्षु-वल्क-धरादीनां प्राकृतं संप्रयोजयेत्

6.167

संस्कृतं संप्रयोक्तव्यं लिङ्गिनीषूत्तमासु च ।
देवी-मन्त्रि-सुता-वेश्यास्व् अपि कैश्चित् तथोदितम्

6.168

कार्यतश् चोत्तमादीनां कार्यो भाषा-विपर्ययः

6.169

योषित्-सखी-बाल-वेश्या-कितवाप्सरसां तथा ।
वैदग्ध्यार्थं प्रदातव्यं संस्कृतं चान्तरान्तरा

6.170

षट्त्रिंशल्-लक्षणान्य् अत्र नाट्यालङ्कृतयस् तथा ।
त्रयस्त्रिंशत्-प्रयोज्यानि वीथ्य्-अङ्गानि त्रयोदश

6.171

लास्याङ्गानि दश यथा-लाभं रस-व्यपेक्षया ।
भूषणाक्षर-सङ्घातौ शोभोदाहरणं तथा

6.172

हेतु-संशय-दृष्टान्तास् तुल्य-तर्कः पदोच्चयः ।
निदर्शनाभिप्रायो च प्राप्तिर् विचार एव च

6.173

दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ।
विशेषण-निरुक्ती च सिद्धि-भ्रंश-विपर्ययौ

6.174

दाक्षिण्यानुनयौ मालार्थापत्तिर् गर्हणं तथा ।
पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुण-कीर्तनम्

6.175

लेशो मनोरथो ऽनुक्त-सिद्धिः प्रिय-वचस् तथा ।
लक्षणानि गुणैः सालङ्कारैर् योगस् तु भूषणम्

6.176

वर्णनाक्षर-सङ्घातश् चित्रार्थैर् अक्षरैर् मितैः ।
सिद्धैर् अर्थैः समं यत्राप्रसिद्धो ऽर्थः प्रकाशते

6.177

श्लिष्ट-लक्षण-चित्रार्था सा शोभेत्य् अभिधीयते ।
यत्र तुल्यार्थ-युक्तेन वाक्येनाभिप्रदर्शनात्

6.178

साध्यते ऽभिमतश् चार्थस् तद्-उदाहरणं मतम् ।
हेतुर् वाक्यं समासोक्तम् इष्टकृद् धेतु-दर्शनात्

6.179

संशयो ऽज्ञात-तत्त्वस्य वाक्ये स्याद् यद् अनिश्चयः ।
दृष्टान्तो यस् तु पक्षे ऽर्थ-साधनाय निदर्शनम्

6.180

तुल्य-तर्को यद्-अर्थेन तर्कः प्रकृति-गामिना ।
सञ्चयो ऽर्थानुरूपो यः पदानां स पदोच्चयः

6.181

यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
पर-पक्ष-व्युदासार्थं तन् निदर्शनम् उच्यते

6.182

अभिप्रायस् तु सादृश्याद् अभूतार्थस्य कल्पना ।
प्राप्तिः केनचिद् अंशेन किञ्चिद् यत्रानुमीयते

6.183

विचारो युक्ति-वाक्यैर् यद् अप्रत्यक्षार्थ-दर्शनम् ।
देश-काल-स्वरूपेण वर्णना दिष्टम् उच्यते

6.184

उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः ।
गुणातिपातः कार्यं वद् विपरीतं गुणान् प्रति

6.185

यः सामान् गुणोद्रेकः स गुणातिशयो मतः ।
सिद्धान् अर्थान् बहून् उक्त्वा विशेषोक्तिर् विशेषणम्

6.186

पूर्व-सिद्धार्थ-कथनं निरुक्तिर् इति कीर्त्यते ।
बहूनां कीर्तनं सिद्धिर् अभिप्रेतार्थ-सिद्धये

6.187

दृप्तादीनां भवद् भ्रंशो वाच्याद् अन्यतरद् वचः ।
विचारस्यान्यथाभावः सन्देहात् तु विपर्ययः

6.188

दाक्षिण्यं चेष्टया वाचा पर-चित्तानुवर्तनम् ।
वाक्यैः स्निग्धैर् अनुनयो भवेद् अर्थस्य साधनम्

6.189

माला स्याद् यद् अभीष्टार्थं नैकार्थ-प्रतिपादनम् ।
अर्थापत्तिर् यद् अन्यार्थो ऽर्थान्तरोक्तेः प्रतीयते

6.190

दूषणोद्घोषणायां तु भर्त्सना गर्हणं तु तत् ।
अभ्यर्थनापरैर् वाक्यैः पृच्छार्थान्वेषणं मता

6.191

प्रसिद्धिर् लोक-सिद्धार्थैर् उत्कृष्टैर् अर्थ-साधनम् ।
सारूप्यम् अनुरूपस्य सारूप्यात् क्षोभ-वर्धनम्

6.192

सङ्क्षेपो यत् तु सङ्क्षेपाद् आत्मान्य् अर्थे प्रयुज्यते ।
गुणानां कीर्तनं यत् तु तद् एव गुण-कीर्तनम्

6.193

स लेशो भण्यते वाक्यं यत् सादृश्य-पुरःसरम् ।
मनोरथस् त्व् अभिप्रायस्योक्तिर् भङ्ग्यन्तरेण यत्

6.194

विशेषार्थोह-विस्तारो ऽनुक्त-सिद्धिर् उदीर्यते ।
स्यात् प्रयाणयितुं पूज्यं प्रियोक्तिर् हर्ष-भाषणम्

6.195

आशीर् आक्रन्द-कपटाक्षमा-गर्वोद्यमाश्रयाः ।
उत्प्रासन-स्पृहा-क्षोभ-पश्चात्-तापोपपत्तयः

6.196

आशंसाध्यवसायौ च विसर्पोल्लेख-संज्ञितौ ।
उत्तेजनं परीवादो नीतिर् अर्थ-विशेषणम्

6.197

प्रोत्साहनं च साहाय्यम् अभिमानो ऽनुवर्तनम् ।
उत्कीर्तनं यथा याच्ञा परिहारो निवेदनम्

6.198

प्रवर्तनाख्यान-युक्ति-प्रहर्षाश् चोपदेशनम् ।
इति नाट्यालङ्कृतयो नाट्य-भूषण-हेतवः

6.199

आशीर् इष्ट-जनाशंसा आक्रन्दः प्रलपितं शुचौ ।
कपटं मायया यत्र रूपम् अन्यद् विभाव्यते

6.200

अक्षमा सा परिभवः स्वल्पो ऽपि न विषह्यते ।
गर्वावलेपजं वाक्यं कार्यस्यारम्भ उद्यमः

6.201

ग्रहणं गुणवत् कार्य-हेतोर् आश्रय उच्यते ।
उत्प्रासनं तूपहासो यो ऽसाधौ साधु-मानिनि

6.202

आकाङ्क्षा रमणीयत्वाड् वस्तुनो या स्पृहा तु सा ।
अधिक्षेप-वचः-कारी क्षोभः प्रोक्तः स एव तु

6.203

मोहावधीरितार्थस्य पश्चात्तापः स एव तु ।
उपपत्तिर् मता हेतोर् उपन्यासो ऽर्थ-सिद्धये

6.204

आशंसनं स्याद् आशंसा प्रतिज्ञाध्यवसायकः ।
विसर्पो यत् समारब्धं कर्मानिष्ट-फल-प्रदम्

6.205

कार्य-ग्रहणम् उल्लेख उत्तेजनम् इतीष्यते ।
स्व-कार्य-सिद्धये ऽन्यस्य प्रेरणाय कठोर-वाक्

6.206

भर्त्सना तु परीवादो नीतिः शास्त्रेण वर्तनम् ।
उक्तस्यार्थस्य यत् तु स्याद् उत्कीर्तनम् अनेकधा

6.207

उपालम्भ-विशेषेण तत् स्याद् अर्थ-विशेषणम् ।
प्रोत्साह्नं स्याद् उत्साह-गिरा कस्यापि योजनम्

6.208

साहाय्यं सङ्कटे यत् स्यात् सानुकूल्यं परस्य च ।
अभिमानः स एव स्यात् प्रश्रयाद् अनुवर्तनम्

6.209

अनुवृत्तिर् भूत-कार्याख्यानम् उत्कीर्तनं मतम् ।
याच्ञा तु क्वापि याच्ञा या स्वयं दूत-मुखेन वा

6.210

परिहार इति प्रोक्तः कृतानुचित-मार्जनम् ।
अवधीरित-कर्तव्य-कथनं तु निवेदनम्

6.211

प्रवर्तनं तु कार्यस्य यत् स्यात् साधु-प्रवर्तनम् ।
आख्यानं पूर्व-वृत्तोक्तिः युक्तिर् अर्थावधारणम्

6.212

प्रहर्षः प्रमदाधिक्यं शिक्षा स्याद् उपदेशनम् ।
गेय-पदं स्थित-पाठ्यम् आसीनं पुष्प-गण्डिका

6.213

प्रच्छेदकस् त्रिगूढं च सैन्धवाख्यं द्विगूढम् ।
उत्तमोत्तमकं चान्यद्-उक्त-प्रत्युक्तम् एव च

6.214

लास्ये दशविधं ह्य् एतद्-अङ्गम् उक्तं मनीषिभिः ।
तन्त्री-भाण्डं पुरस्कृत्योपविष्टस्यासने पुरः

6.215

शुद्धं गानं गेय-पदं स्थित-पाठ्यं तद् उच्यते ।
मदनोत्तापिता यत्र पठति प्राकृतं स्थिता

6.216

निखिलातोद्य-रहितं शोक-चिन्तान्विताबला ।
अप्रसाधित-गात्रं यद् आसीनासीनम् एव तत्

6.217

आतोद्य-मिश्रितं गेयं छन्दांसि विविधानि च ।
स्त्री-पुंसयोर् विपर्यास-चेष्टितं पुष्प-गण्डिका

6.218

अन्यासक्तं पतिं मत्वा प्रेम-विच्छेद-मन्युना ।
वीणा-पुरः-सरं गानं स्त्रियाः प्रच्छेदको मतः

6.219

स्त्री-वेष-धारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् ।
कश्चन भ्रष्ट-सङ्केतः सुव्यक्त-करणान्वितः

6.220

प्राकृतं वचनं वक्ति यत्र तत् सैन्धवं मतम् ।
चतुरस्र-पदं गीतं मुख-प्रतिमुखान्वितम्

6.221

द्विगूढं रस-भावाढ्यम् उत्तमोत्तमकं पुनः ।
कोप-प्रसादजन् अधिक्षेप-युक्तं रसोत्तरम्

6.222

हाव-हेलान्वितं चित्र-श्लोक-बन्ध-मनोहरम् ।
उक्ति-प्रत्युक्ति-संयुक्तं सोपालम्भम् अलीकवत्

6.223

विलासान्वित-गीतार्थम् उक्त-प्रत्युक्तम् उच्यते ।
एतद् एव यदा सर्वैः पताका-स्थानकैर् युतम्

6.224

अङ्कैश् च दशभिर् धीरा महानाटकम् ऊचिरे ।
भवेत् प्रकरणे वृत्तं लौकिकं कवि-कल्पितम्

6.225

शृङ्गारो ऽङ्गी नायकस् तु विप्रो ऽमात्यो ऽथवा वणिक् ।
सापाय-धर्म-कामार्थ-परो धीर-प्रशान्तकः

6.226

नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ।
तेन भेदास् त्रयस् तस्य तत्र भेदस् तृतीयकः

6.227

कितव-द्यूत-कारादि-विट-चेटक-सङ्कुलः ।
भाणः स्याद् धूर्त-चरितो नानावस्थान्तरात्मकः

6.228

एकाङ्क एक एवात्र निपुणः पण्डितो विटः ।
रङ्गे प्रकाशयेत् स्वेनानुभूतम् इतरेण वा

6.229

संबोधनोक्ति-प्रत्युक्ती कुर्याद् आकाश-भाषितैः ।
सूचयेद् वीर-शृङ्गारौ शौर्य-सौभाग्य-वर्णनैः

6.230

तत्रेतिवृत्तम् उत्पाद्यं वृत्तिः प्रायेण भारती ।
मुख-निर्वहणे सन्धी लास्याङ्गानि दशापि च

6.231

ख्यातेतिवृत्तो व्यायोगः स्वल्प-स्त्री-जन-संयुतः ।
हीनो गर्भ-विमर्शाभ्यां नरैर् बहुभिर् आश्रितः

6.232

एकाङ्कश् च भवेद् अस्त्री-निमित्तम् अमरोदयः ।
कैशिकी-वृत्ति-रहितः प्रख्यातस् तत्र नायकः

6.233

राजर्षिर् अथ दिव्यो वा भवेद् धीरोद्धतश् च सः ।
हास्य-शृङ्गार-शान्तेभ्य इतरे ऽत्राङ्गिनो रसाः

6.234

वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् ।
सन्धयो निर्विमर्शास् तु त्रयो ऽङ्कास् तत्र चादिमे

6.235

सन्धी द्वाव् अन्त्ययोस् तद्वद् एक एको भवेत् पुनः ।
नायका द्वादशोदात्ताः प्रख्याता देव-मानवाः

6.236

फलं पृथक् पृथक् तेषां वीर-मुख्यो ऽखिलो रसः ।
वृत्तयो मन्द-कैशिक्यो नात्र बिन्दु-प्रवेशकौ

6.237

वीथ्य्-अङ्गानि च तत्र स्युर् यथालाभं त्रयोदश ।
गायत्र्य्-उष्णिङ्-मुखान्य् अत्र च्छन्दांसि विविधानि च

6.238

त्रि-शृङ्गारस् त्रि-कपटः कार्यश् चायं त्रिविद्-रवः ।
वस्तु द्वादश-नालीभिर् निष्पाद्यं प्रथमाङ्कगम्

6.239

द्वितीये ऽङ्के चतसृभिर् द्वाभ्याम् अङ्के तृतीयअके ।
धर्मार्थ-कामैस् त्रिविधः शृङ्गारः कपटः पुनः

6.240

स्वाभाविकः कृत्रिमश् च दैवजो विद्रवः पुनः ।
अचेतनैश् चेतनैश् च चेतनाचेतनैः कृतः

6.241

मायेन्द्र-जाल-सङ्ग्राम-क्रोधोद्भ्रान्तादि-चेष्टितैः ।
अपरागैश् च भूयिष्ठो डिमः ख्यातेतिवृत्तकः

6.242

अङ्गी रौद्र-रसस् तत्र सर्वे ऽङ्गानि रसाः पुनः ।
चत्वारो ऽङ्का मता नेह विष्कम्भक-प्रवेशकौ

6.243

नायका देव-गन्धर्व-यक्ष-रक्षो-महोरगाः ।
भूत-प्रेत-पिशाचाद्याः षोडशात्यन्तम् उद्धताः

6.244

वृत्तयः कैशिकी-हीना निर्विमर्शाश् च सन्धयः ।
दीप्ताः स्युः षड्-रसाः शान्त-हास्य-शृङ्गार-वर्जिताः

6.245

ईहामृगो मिश्र-वृत्तश् चतुरङ्गः प्रकीर्तितः ।
मुख-प्रतिमुखे सन्धी तत्र निर्वहणं तथा

6.246

नर-दिव्यावनि-यमौ नायक-प्रतिनायकौ ।
ख्यातौ धीरोद्धताव् अन्यो गूढ-भावाद् अयुक्त-कृत्

6.247

दिव्यस् त्रियम-निच्छन्तीम् अपहारादिनेच्छतः ।
शृङ्गाराभासम् अप्य् अस्य किञ्चित् किञ्चित् प्रदर्शयेत्

6.248

पताका-नायका दिव्या मर्त्या वापि दशोद्धताः ।
युद्धम् आनीय संरम्भं परं व्याजान् निवर्तते

6.249

महात्मानो वध-प्राप्ता अपि वध्याः स्युर् अत्र नो ।
एकाङ्को देव एवात्र नेतेत्य् आहुः परे पुनः

6.250

दिव्य-स्त्री-हेतुकं युद्धं नायकाः षड् इतीतरे ।
उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः

6.251

रसो ऽत्र करुणः स्थायी बहु-स्त्री-परिदेवितम् ।
प्रख्यातम् इतिवृत्तं च कविर् बुद्ध्या प्रपञ्चयेत्

6.252

भाणवत् सन्धि-वृत्त्य्-अङ्गान्य् अस्मिन् जय-पराजयौ ।
युद्धं च वाचा कर्तव्यं निर्वेद-वचनं बहु

6.253

वीथ्याम् एको भवेद् अङ्कः कश्चिद् एको ऽत्र कल्प्यते ।
आकाश-भाषितैर् उक्तैश् चित्रां प्रत्युक्तिम् आश्रितः

6.254

सूचयेद् भूरि शृङ्गारं किञ्चिद् अन्यान् रसान् प्रति ।
मुख-निर्वहणे सन्धी अर्थ-प्रकृतयो ऽखिलाः

6.255

अस्यास् त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः ।
उद्धात्यकावलगिते प्रपञ्च्चस् त्रिगतं छलम्

6.256

वाक्-केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके ।
असत्-प्रलाप-व्याहार-मार्दवानि च तानि तु

6.257

मिथो वाक्यम् असद्भूतं प्रपञ्चो हास्य-कृन् मतः ।
त्रिगतं स्याद् अनेकार्थ-योजनं श्रुति-साभ्यतः

6.258

प्रियाभैर् अप्रियैर् वाक्यैर् विलोभ्य-च्छलनाच्छलम् ।
अन्ये त्वाहुश् छलं किञ्चित् कार्यम् उद्दिश्य कस्यचित्

6.259

उदीर्यते यद् वचनं वञ्च्चनाहास्य-रोष-कृत् ।
वाक्-केलिर् हास्य-संबन्धो द्वित्रि-प्रत्युक्तितो भवेत्

6.260

अन्योन्य-वाक्याधिक्योक्तिः स्पर्धयाधिबलं मतम् ।
गण्डं प्रस्तुत-संबन्धि भिन्नार्थं सत्वरं वचः

6.261

व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ।
प्रहेलिकैव हास्येन युक्ता भवति नालिका

6.262

असत्-प्रलापो यद्-वाक्यम् असंबद्धं तथोत्तरम् ।
अगृह्णतो ऽपि मूर्खस्य पुरो यच् च हितं वचः

6.263

व्याहारो यत् परस्यार्थे हास्य-क्षोभ-करं वचः ।
दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत्

6.264

भाणवत् सन्धि-सन्ध्य्-अङ्ग-लास्याङ्काङ्कैर् विनिर्मितम् ।
भवेत् प्रहसनं वृत्तं निन्द्यानां कवि-कल्पितम्

6.265

अत्र नारभटी नापि विष्कम्भक-प्रवेशकौ ।
अङ्गी हास्य-रसस् तत्र वीथ्य्-अङ्गानां स्थितिर् न वा

6.266

तपस्वि-भगवद्-विप्र-प्रभृतिष्व् अत्र नायकः ।
एको यत्र भवेद् धृष्टो हास्यं तच् छुद्धम् उच्यते ।
आश्रित्य कञ्चन जनं सङ्कीर्णम् इति तद् विदुः

6.267

वृत्तं बहूनां धृष्टानां सङ्कीर्णं केचिद् ऊचिरे ।
तत् पुनर् भवति द्व्य्-अङ्ग्कम् अथवैकाङ्क-निर्मितम्

6.268

विकृतं तु विदुर् यत्र षण्ढ-कञ्चुकि-तापसाः ।
भुजङ्ग-चारण-भट-प्रभृतेर् वेष-वाग्-युताः

6.269

नाटिका क्प्त-वृत्ता स्यात् स्त्री-प्राया चतुरङ्किका ।
प्रख्यातो धीर-ललितस् तत्र स्यान् नायको नृपः

6.270

स्याद् अन्तःपुर-संबद्धा सङ्गीत-व्यापृताथवा ।
नवानुरागा कन्यात्र नायिका नृप-वंशजा

6.271

संप्रवर्तेत नेतास्यां देव्यास् त्रसेन शङ्कितः ।
देवी भवेत् पुनर् ज्येष्ठा प्रगल्भा नृप-वंशजा

6.272

पदे पदे मानवती तद्-वशः सङ्गमो द्वयोः ।
वृत्तिः स्यात् कैशिकी स्वल्प-विमर्शाः सन्धयः पुनः

6.273

सप्ताष्ट-नव-पञ्चाङ्कं दिव्ययानुष-संश्रयम् ।
त्रोटकं नाम तत् प्राहुः प्रत्यङ्कं संविदूषणम्

6.274

प्राकृतैर् नवभिः पुम्भिर् दशभिर् वाप्य् अलङ्कृता ।
नोदात्त-वचना गोष्ठी कैशिकी-वृत्ति-शालिनी

6.275

हीना गर्भ-विमर्शाभ्यां पञ्च-षड्-योषिद्-अन्विता ।
काम-शृङ्गार-संयुक्ता स्याद् एकाङ्क-विनिर्मिता

6.276

सट्टकं प्राकृताशेष-पाठ्यं स्याद् अप्रवेशकम् ।
न च विष्कम्भको ऽप्य् अत्र प्रचुरश् चाद्भुतो रसः

6.277

अङ्का जवनिकाख्याः स्युः स्याद् अन्यन् नाटिकासमम् ।
नाट्य-रासकम् एकाङ्कं बहु-ताल-लय-स्थिति

6.278

उदात्त-नायकं तद्वत् पीठमर्दोपनायकम् ।
हास्यो ऽङ्ग्य् अत्र स-शृङ्गारो नारी वासक-सज्जिका

6.279

मुख-निर्वहणे सन्धी लास्याङ्गानि दशापि च ।
केचित् प्रतिमुखं सन्धिम् इह नेच्छन्ति केवलम्

6.280

प्रस्थाने नायको दासो हीनः स्याद् उपनायकः ।
दासी च नायिका वृत्तिः कैशिकी भारती तथा

6.281

सुरापान-समायोगाद् उद्दिष्टार्थस्य संहृतिः ।
अङ्कौ द्वौ लय-तालादिर् विलासो बहुलस् तथा

6.282

उदात्त-नायकं दिव्य-वृत्तम् एकाङ्क-भूषितम् ।
शिल्पकाङ्गैर् युतं हास्य-शृङ्गार-करुणै रसैः

6.283

उल्लाप्यं बहु-सङ्ग्रामम् अस्त्र-गीत-मनोहरम् ।
चतस्रो नायिकास् तत्र त्रयो ऽङ्का इति केचन

6.284

काव्यम् आरभटी-हीनम् एकाङ्कं हास्य-सङ्कुलम् ।
खण्ड-मात्राद् विपदिकाभग्नतालैर् अलङ्कृतम्

6.285

वर्ण-मात्राछड्डणिका-युतं शृङ्गार-भाषितम् ।
नेता स्त्री चाप्य् उदात्तात्र सन्धी आद्यौ तथान्तिमः

6.286

गर्भावमर्श-रहितं प्रेङ्खणं हीन-नायकम् ।
असूत्रधारम् एकाङ्कम् अविष्कम्भ-प्रवेशकम्

6.287

नियुद्ध-संफेट-युतं सर्व-वृत्ति-समाश्रितम् ।
नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना

6.288

रासकं पञ्च-पात्रं स्यान् मुख-निर्वहणान्वितम् ।
भाषा-विभाषा-भूयिष्ठं भारती-कैशिकी-युतम्

6.289

असूत्रधारम् एकाङ्कं स-वीथ्य्-अङ्गं कलान्वितम् ।
श्लिष्ट-नान्दी-युतं ख्यात-नायिकं मूर्ख-नायिकम्

6.290

उदात्त-भाव-विन्यास-संश्रितं चोत्तरोत्तरम् ।
इह प्रतिमुखं सन्धिम् अपि केचित् प्रचक्षते

6.291

संलापिके ऽङ्काश् चत्वारस् त्रयो वा नायकः पुनः ।
पाषण्डः स्याद् रसस् तत्र शृङ्गार-करुणोत्तरः

6.292

भवेयुः पुर-संरोध-च्छल-सङ्ग्राम-विद्रवाः ।
न तत्र वृत्तिर् भवति भारती न च कैशिकी

6.293

प्रख्यात-वृत्तम् एकाङ्कं प्रख्यातोदात्त-नायकम् ।
प्रसिद्ध-नायिकं गर्भ-विमर्शाभ्यां विवर्जितम्

6.294

भारती-वृत्ति-बहुलं श्रीति-शब्देन सङ्कुलम् ।
मतं श्री-गदितं नाम विद्वद्भिर् उपरूपकम्

6.295

श्रीर् आसीना श्री-गदिते गायेत् किंचित् पठेद् अपि ।
एकाङ्को भारती-प्राय इति केचित् प्रचक्षते

6.296

चत्वारः शिल्पके ऽङ्काः स्युश् चतस्रो वृत्तयस् तथा ।
अशान्त-हास्याश् च रसा नायको ब्राह्मणो मतः

6.297

वर्णनात्र श्मशानादेर् हीनः स्याद् उपनायकः ।
सप्तविंशतिर् अङ्गानि भवन्त्य् एतस्य तानि तु

6.298

आशंसा-तर्क-सन्देह-तापोद्वेग-प्रसक्तयः ।
प्रयत्न-ग्रथनोत्कण्ठावहित्था-प्रतिपत्तयः

6.299

विलासालस्य-बाष्पाणि प्रहर्षाश्वास-मूढताः ।
साधनानुगमोच्छ्वास-विस्मय-प्राप्तयस् तथा

6.300

लाभ-विस्मृति-संफेटा वैशारद्यं प्रबोधनम् ।
चमत्कृतिश् चेत्य् अमीषां स्पष्टत्वाल् लक्ष्म नोच्यते

6.301

शृङ्गार-बहुलैकाङ्का दश-लास्याङ्ग-संयुता ।
विदूषक-विटाभ्यां च पीठमर्देन भूषिता

6.302

हीना गर्भ-विमर्शाभ्यां सन्धिभ्यां हीन-नायका ।
स्वल्पवत्ता सुनेपथ्या विख्याता सा विलासिका

6.303

दुर्मल्ली चतुरङ्का स्यात् कैशिकी-भारती-युता ।
अगर्भा नागरनरा न्यून-नायक-भूषिता

6.304

त्रिनालिः प्रथमो ऽङ्कास्यां विट-क्रीडा-मयो भवेत् ।
पञ्चनालिर् द्वितीयो ऽङ्को विदूषक-विलासवान्

6.305

षण्णालिकस् तृतीयस् तु पीठमर्द-विलासवान् ।
चतुर्थो दशनालिः स्याद् अङ्कः क्रीडित-नागरः

6.306

नाटिकैव प्रकरणी सार्थवाहादि-नायका ।
समान-वंशजा नेतुर् भवेद् यत्र च नायिका

6.307

हल्लीश एक एवाङ्कः सप्ताष्टौ दश वा स्त्रियः ।
वाग्-उदात्तैक-पुरुषः कैशिकी-वृत्तिर् उज्ज्वला ।
मुखान्तिमौ तथा सन्धी बहुताललय-स्थितिः

6.308

भाणिका श्लक्ष्ण-नेपथ्या मुख-निर्वहणान्विता ।
कैशिकी-भारती-वृत्ति-युक्तैकाङ्क-विनिर्मिता

6.309

उदात्त-नायिका मन्द-नायकात्राङ्ग-सप्तकम् ।
उपन्यासो ऽथ विन्यासो विरोधः साध्वसं तथा

6.310

समर्पणं निवृत्तिश् च संहार इति सप्तमः ।
उपन्यासः प्रसङ्गेन भवेत् कार्यस्य कीर्तनम्

6.311

निर्वेद-वाक्य-व्युत्पत्तिर् विन्यास इति स स्मृतः ।
भ्रान्ति-नाशो विबोधः स्यान् मिथ्याख्यानं तु साध्वसम्

6.312

सोपलम्भ-वचः कोप-पीडयेह समर्पणम् ।
निदर्शनस्योपन्यासो निवृत्तिर् इति कथ्यते

6.313

संहार इति च प्राहुर् यत्-कार्यस्य समापनम् ।
श्रव्यं श्रोतव्य-मात्रं तत्-पद्य-गद्य-मयं द्विधा

6.314

छन्दो-बद्ध-पदं पद्यं तेन मुक्तेन मुक्तकम् ।
द्वाभ्यां तु युग्मकं सान्दानितकं त्रिभिर् इष्यते

6.315

कलापकं चतुर्भिश् च पञ्चभिः कुलकं मतम् ।
सर्ग-बन्धो महा-काव्यं तत्रैको नायकः सुरः

6.316

सद्-वंशः क्षत्रिया वापि धीरोदात्त-गुणान्वितः ।
एक-वंश-भवा भूपाः कुलजा बहवो ऽपि वा

6.317

शृङ्गार-वीर-शान्तानाम् एको ऽङ्गी रस इष्यते ।
अङ्गानि सर्वे ऽपि रसाः सर्वे नाटक-सन्धयः

6.318

इतिहासोद्भवं वृत्तम् अन्यद् वा सज्जनाश्रयम् ।
चत्वारस् तस्य वर्गाः स्युस् तेष्व् एकं च फलं भवेत्

6.319

आदौ नमस्क्रियाशीर् वा वस्तु-निर्देश एव वा ।
क्वचिन् निन्दा खलादीनां सतां च गुण-कीर्तनम्

6.320

एक-वृत्त-मयैः पद्यैर् अवसाने ऽन्य-वृत्तकैः ।
नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह

6.321

नाना-वृत्त-मयः क्वापि सर्गः कश्चन दृश्यते ।
सर्गान्ते भावि-सर्गस्य कथायाः सूचनं भवेत्

6.322

सन्ध्या-सूर्येन्दु-रजनी-प्रदोष-ध्वान्त-वासराः ।
प्रातर् मध्याह्न-मृगया-शैल-र्तु-वन-सागराः

6.323

संभोग-विप्रलम्भौ च मुनि-स्वर्ग-पुराध्वराः ।
रण-प्रयाणोपयम-मन्त्र-पुत्रोदयादयः

6.324

वर्णनीया यथा-योगं साङ्गोपाङ्गा अमी इह ।
कवेर् वृत्तस्य वा नाम्ना नायकस्येतरस्य वा

6.325

नामास्य सर्गोपादेय-कथया सर्ग-नाम तु ।
अस्मिन्न् आर्षे पुनः सर्गा भवन्त्य् आख्यान-संज्ञकाः

6.326

प्राकृतैर् निर्मिते तस्मिन् सर्गा आश्वास-संज्ञकाः ।
छन्दसा स्कन्धकेनैतत् क्वचिद् गलितकैर् अपि

6.327

अपभ्रंश-निबद्धे ऽस्मिन् सर्गाः कुडवकाभिधाः ।
तथापभ्रंश-योग्यानि च्छन्दांसि विविधान्य् अपि

6.328

भाषाविभाषानियमात् काव्यं सर्ग-समुज्झितम् ।
एकार्थ-प्रवणैः पद्यैः सन्धि-सामग्र्य-वर्जितम्

6.329

खण्ड-काव्यं भवेत् काव्यस्यैक-देशानुसारि च ।
कोषः श्लोक-समूहस् तु स्याद् अन्योन्यानपेक्षकः

6.330

व्रज्या-क्रमेण रचितः स एवातिमनोरमः ।
वृत्त-गन्धोज्झितं गद्यं मुक्तकं वृत्त-गन्धि च

6.331

भवेद् उत्कलिका-प्रायं चूर्णकं च चतुर्विधम् ।
आद्यं समास-रहितं वृत्त-भाग् अयुतं परम्

6.332

अन्यद्-दीर्घ-समासाढ्यं तुर्यं चाल्प-समासकम् ।
कथायां सरसं वस्तु गद्यैर् एव विनिर्मितम्

6.333

क्वचिद् अत्र भवेद् आर्या क्वचिद् वक्त्रापवक्त्रके ।
आदौ पद्यैर् नमस्कारः खलादेर् वृत्त-कीर्तनम्

6.334

आख्यायिका कथावत् स्यात् कवेर् वंशानुकीर्तनम् ।
अस्याम् अन्य-कवीनां च वृत्तं पद्यं क्वचित् क्वचित्

6.335

कथांशानां व्यवच्छेद आश्वास इति बध्यते ।
आर्या-वक्त्रापवक्त्राणां छन्दसा येन केनचित्

6.336

अन्यापदेशेनाश्वास-मुखे भाव्य्-अर्थ-सूचनम् ।
गद्य-पद्य-मयं काव्यं चम्पूर् इत्य् अभिधीयते

6.337

गद्य-पद्य-मयी राज-स्तुतिर् विरुदम् उच्यते ।
करम्भकं तु भाषाभिर् विविधाभिर् विनिर्मितम्

मूल पाठ: Sāhityadarpaṇa · Edition: Satyavrata Simha, 9th edition. Varanasi: Chowkhamba Vidya Bhavan, 1992. (Vidya Bhavan Sanskrit Granthamala, 29) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc