भाषा

ENहिગુ
ग्रंथ पाठ

साहित्यदर्पण · अध्याय 5

5.1

इति साहित्य-दर्पणे
ध्वनि-गुणीभूत-व्यङ्ग्याख्य-काव्य-भेद-निरूपणो नाम
चतुर्थः परिच्छेदः
(5)
पञ्चमः परिच्छेदः
वृत्तीनां विश्रान्तेर् अभिधातात् पर्यलक्षणाख्यानाम् ।
अङ्गीकार्या तुर्या वृत्तिर् बोधे रसादीनाम्

5.2

बोद्धृ-स्वरूप-सङ्ख्या-निमित्त-कार्य-प्रतीति-कालानाम् ।
आश्रय-विषयादीनां भेदाद् भिन्नो ऽभिधेयतो व्यङ्ग्यः

5.3

प्राग् असत्त्वाद् रसादेर् नो बोधिके लक्षणाभिधे ।
किं च मुख्यार्थ-बाधस्य विरहाद् अपि लक्षणा

5.4

नानुमानं रसादीनां व्यङ्ग्यानां बोधन-क्षमम् ।
आभासत्वेन हेतूनां स्मृतिर् न च रसादि-धीः

5.5

सा चेयं व्यञ्जना-नाम वृत्तिर् इत्य् उच्यते बुधैः ।
रस-व्यक्तौ पुनर् वृत्तिं रसनाख्यां परे विदुः

मूल पाठ: Sāhityadarpaṇa · Edition: Satyavrata Simha, 9th edition. Varanasi: Chowkhamba Vidya Bhavan, 1992. (Vidya Bhavan Sanskrit Granthamala, 29) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc