साहित्यदर्पण · अध्याय 4
इति साहित्य-दर्पणे रसादि-निरूपणो नाम
तृतीयः परिच्छेदः
(4)
चतुर्थः परिच्छेदः
ध्वनि-निर्णयः
काव्यं ध्वनिर् गुणीभूत-व्यङ्गं चेति द्विधा मता ।
वाच्यातिशयिनि व्यङ्ग्यो ध्वनिस् तत् काव्यम् उत्तमम्
भेदौ ध्वनेर् अपि द्वाव् उदीरितौ लक्षणाभिधा-मूलौ ।
अविवक्षित-वाच्यो ऽन्यो विवक्षितान्य-पर-वाच्यश् च
अर्थान्तरं सङ्क्रमिते वाच्ये ऽत्यन्तं तिरस्कृते ।
अविवक्षित-वाच्यो ऽपि ध्वनिर् द्वैविध्यम् ऋच्छति
विवक्षिताभिधेयो ऽपि[*1] द्विभेदः प्रथमं मतः ।
असंलक्ष्य-क्रमो यत्र व्यङ्ग्यो लक्ष्य-क्रमस् तथा
[*1] अभिधा-मूल-रूपः
तत्राद्यो रस-भावादिर् एक एवात्र गण्यते ।
एको ऽपि भेदो ऽनन्तत्वात् सङ्ख्येयस् तस्य नैव यत्
शब्दार्थोभय-शक्त्य्-उत्थे व्यङ्ग्यो ऽनुस्वान-सन्निभे ।
ध्वनिर् लक्ष्य-क्रम-व्यङ्ग्यस् त्रिविधः कथितो बुधैः
वस्त्व् अलङ्कार-रूपत्वाच् छब्द-शक्त्य्-उद्भवो द्विधा ।
वस्तु वालङ्कृतिर् वेति द्विधार्थः संभवी स्वतः
कवेः प्रौढोक्ति-सिक्तो वा तन् निबद्धस्य वेति षट् ।
षड्भिस् तैर् व्यज्यमानस् तु वस्त्व् अलङ्कार-रूपकः
अर्थ-शक्त्य्-उद्भवो व्यङ्ग्यो याति द्वादश-भेदतः ।
एकः शब्दार्थ-शक्त्य्-उत्थे तद् अष्टदशधा ध्वनिः
वाक्ये शब्दार्थ-शक्त्य्-उत्थस् तद् अन्ये पद-वाक्ययोः ।
प्रबन्धे ऽपि मतो धीरैर् अर्थ-शक्त्य्-उद्भवो ध्वनिः
पदांश-वर्ण-रचना-प्रबन्धेष्व् अस्फुट-क्रमः ।
तद् एवम् एक-पञ्चाशद् भेदास् तस्य ध्वनेर् मताः
सङ्करेण त्रि-रूपेण संसृष्ट्या वाप्य् अनेकधा ।
वेदखाब्धि-शराः शुद्धैर् इषु-बाणाग्नि-शायकाः
अपरं तु गुणी-भूत-व्यङ्ग्यं वाच्याद् अनुत्तमे व्यङ्ग्ये ।
तत्र स्याद् इतराङ्गं काक्वाक्षिप्तं च वाच्य-सिद्ध-व्यङ्ग्यम्
सन्दिग्ध-प्राधान्यं तुल्य-प्राधान्यम् अस्फुटम् अगूढम् ।
व्यङ्ग्यम् असुन्दरम् एवं भेदास् तस्योदिता अष्टौ
मूल पाठ: Sāhityadarpaṇa · Edition: Satyavrata Simha, 9th edition. Varanasi: Chowkhamba Vidya Bhavan, 1992. (Vidya Bhavan Sanskrit Granthamala, 29) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0