साहित्यदर्पण · अध्याय 3
इति साहित्य-दर्पणे वाक्य-स्वरूप-निरूपणो नाम
द्वितीयः परिच्छेदः
(3)
तृतीयः परिच्छेदः
विभावेनानुभावेन व्यक्तः संचारिणा तथा ।
रसताम् एति रत्यादिः स्थायी भावः स-चेतसाम्
सत्त्वोद्रेकाद् अखण्ड-स्वर्-प्रकाशानन्द-चिन्-मयः ।
वेद्यान्तर-स्पर्श-शून्यो ब्रह्मास्वाद-सहोदरः
लोकोत्तर-चमत्कार-प्राणः कैश्चित् प्रमातृभिः ।
स्वाकारवद् अभिन्नत्वेन्(अ)--आयम् आस्वाद्यते रसः
करुणादाव् अपि रसे जायते यत्परं सुखम् ।
सचेतसाम् अनुभवः प्रमाणं तत्र केवलम्
किं च तेषु यदा दुःखं न को ऽपि स्यात् तद्-उन्मुखः ।
तथा रामायणादीनां भविता दुःख-हेतुता
हेतुत्वं शोक-हर्षादेर् गतेभ्यो लोक-संश्रयात् ।
शोक-हर्षादयो लोके जायन्तां नाम लौकिकाः
अलौकिक-विभावत्वं प्राप्तेभ्यः काव्य-संश्रयात् ।
सुखं सञ्जायते तेभ्यः सर्वेभ्यो ऽपीति का क्षतिः
अश्रु-पातादयस् तद्वद् द्रुतत्वाच् चेतसो मताः ।
न जायते तद्-आस्वादो विना रत्य्-आदि-वासनाम्
व्यापारो ऽस्ति विभावादेर् नाम्ना साधारणी-कृतिः ।
तत्-प्रभावेण यस्यासन् पाथोधि-प्लवनादयः
प्रमाता तद्-अभेदेन स्वात्मानं प्रतिपद्यते ।
उत्सादादि-समुद्बोधः साधारण्याभिमानतः
नृणाम् अपि समुद्रादि-लङ्घनादौ न दुष्यति ।
साधारण्येन रत्य्-आदिर् अपि तद्वत् प्रतीयते
परस्य न परस्येति ममेति न ममेति च ।
तद्-आस्वादे विभावादेः परिच्छेदो न विद्यते
विभावनादि-व्यापारम् अलौकिकम् उपेयुषाम् ।
अलौकिकत्वम् एतेषां भूषणं न तु दूषणम्
कारण-कार्य-सञ्चारि-रूपा अपि हि लोकतः ।
रसोद्बोधे विभावाद्याः कारणान्य् एव ते मताः
प्रतीयमानः प्रथमं प्रत्येकं हेतुर् उच्यते ।
ततः संवलितः सर्वो विभावादिः स-चेतसाम्
प्रपाणक-रस-न्यायाच् चर्व्यमाणो रसो भवेत् ।
सद्-भावश् चेद् विभावादेर् द्वयोर् एकस्य वा भवेत्
झटित्य् अन्यसम् आक्षेपे तदा दोषो न विद्यते ।
पारिमित्य्याल् लौकिकत्वात् सान्तरायतया तथा
अनुकार्यस्य रत्यादेर् उद्बोधो न रसो भवेत् ।
शिक्षाभ्यासादि-मात्रेण राघवादेः स्वरूपताम्
दर्शयन् नर्तको नैव रसस्यास्वादको भवेत् ।
काव्यार्थ-भावेनायम् अपि सभ्य-पदास्पदम्
नायं ज्ञाप्यः स्व-सत्तायां प्रतीत्य् अव्यभिचारतः ।
यस्माद् एष विभावादि-समूहालम्बनात्मकः
तस्मान् न कार्यः नो नित्यः पूर्व-संवेदनोज्झितः ।
असंवेदन-काले हि न भावो ऽप्य् अस्य विद्यते
नापि भविष्यन् साक्षाद् आनन्द-मय-स्वप्रकाश-रूपत्वात् ।
कार्य-ज्ञाप्य-विलक्षण-भावान् नो वर्तमानो ऽपि
विभावादि-परामर्श-विषयत्वात् सचेतसाम् ।
परानन्दमयत्वेन संवेद्यत्वाद् अपि स्फुटम्
न निर्विकल्पकं ज्ञानं तस्य ग्राहकम् इष्यते ।
तथाभिलाप-संसर्ग-योग्यत्व-विरहान् न च
सविकल्पक-संवेद्यः साक्षात्कारतया न च ।
परोक्षस् तत्-प्रकाशो ना-परोक्षः शब्द-संभवात्
तस्माद् अलौकिकः सत्यं वेद्यः सहृदयैर् अयम् ।
प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम्
निष्पत्त्या चर्वणस्यास्य निष्पत्तिर् उपचारतः ।
अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जन-रूपणे
रत्यादि-ज्ञान-तादात्म्याद् एव यस्माद् रसो भवेत् ।
अतो ऽस्य स्व-प्रकाशत्वम् अखण्डत्वं च सिध्यति
रत्य्-आद्य्-उद्बोधका लोके विभावाः काव्य-नाट्ययोः ।
आलम्बनोद्दीपनाख्यौ तस्य भेदाव् उभौ स्मृतौ ।
आलम्बनं नायकादिस् तम् आलम्ब्य रसोद्गमात्
त्यागी कृती कुलीनः सु-श्रीको रूप-यौवनोत्साही ।
दक्षो ऽनुरक्त-लोकस् तेजो-वैदग्ध्य-शीलवान् नेता
धीरोदात्तो धीरोद्धतस् तथा धीर-ललितश् च ।
धीर-प्रशान्त इत्य् अयम् उक्तः प्रथमश् चतुर्भेदः
अविकत्थनः क्षमावान् अतिगम्भीरो महा-सत्त्वः ।
स्थेयान् निगूढमानो धीरोदात्तो दृढ-व्रतः कथितः
माया-परः प्रचण्डश् चपलो ऽहङ्कार-दर्प-भूयिष्ठः ।
आत्म-श्लाघा-निरतो धीरैर् धीरोद्धतः कथितः
निश्चिन्तो मृदुर् अनिशं कला-परो धीर-ललितः स्यात् ।
सामान्य-गुणैर् भूयान् दिव्जादिको धीर-प्रशान्तः स्यात्
एभिर् दक्षिण-धृष्टानुकूल-शठ-रूपिभिस् तु षोडशधा ।
एषु त्व् अनेक-महिलासु समरागो दक्षिणः कथितः
कृतागा अपि निःशङ्कस् तर्जितो ऽपि न लज्जितः ।
दृष्ट-दोषो ऽपि मिथ्यावा-क्वथितो धृष्ट-नायकः
अनुकूल एक-निरतः शठो ऽयम् एकत्र बद्ध-भावो यः ।
दर्शित-बहिर्-अनुरागो विप्रियम् अन्यत्र गूढम् आचरति
एषां च त्रैविध्याद् उत्तम-मध्याधमत्वेन ।
उक्ता नायक-भेदाश् चत्वारिंशत् तथाष्टौ च
दूरान्वर्तिनि स्यात् तस्य प्रासाङ्गिकेतिवृत्ते तु ।
किञ्चित् तद्-गुण-हीनः सहाय एवास्य पीठ-मर्दाख्यः
शृङ्गारो ऽस्य सहाया विट-चेट-विदूषकाद्याः स्युः ।
भक्ता नर्मसु निपुणाः कुपित-वधू-मान-भञ्जनाः शुद्धाः
संभोग-हीन-सम्पद् विटस् तु धूर्तः कलैक-देश-ज्ञः ।
वेशोपचार-कुशलो वाग्मी मधुरो ऽथ बहु-मतो गोष्ठ्याम्
कुसुम-वसन्ताद्य्-अभिधः कर्म-वपुर् वेष-भाषाद्यैः ।
हास्य-करः कलह-रतिर् विदूषकः स्यात् स्व-कर्म-ज्ञः
मन्त्री स्याद् अर्थानां चिन्तायां तद्वद् अवरोधे ।
वामन-षण्ड-किरात-म्लेच्छाभीराः शकार-कुब्जाद्याः
मद-मूर्खताभिमानी दुष्कुलतैश्वर्य-संयुक्तः ।
सो ऽयम् अनूढ-भ्राता राज्ञः श्यालः शकार इत्य् उक्तः
दण्डे सुहृत्-कुमाराटविकाः सामन्त-सैनिकाद्याश् च ।
ऋत्विक्-पुरोधसः स्युर् ब्रह्म-विदस् तापसास् तथा धर्मे
उत्तमाः पीठमर्दाद्याः मध्यौ विट-विदूषकौ ।
तथा शकार-चेटाद्या अधमा परिकीर्तिताः
निसृष्टार्थो मितार्थश् च तथा सन्देश-हारकः ।
कार्य-प्रेष्यस् त्रिधा दूतो दूत्यश् चापि तथाविधाः
उभयोर् भावम् उन्नीय स्वयं वदति चोत्तरम् ।
सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस् तु स स्मृतः
मितार्थ-भाषी कार्यस्य सिद्ध-कारा मितार्थकः ।
यावद् भाषित-सन्देश-हारः सन्देश-हारकः
शोभा विलासो माधुर्यं गाम्भीर्यं धैर्य-तेजसी ।
ललितौदार्यम् इत्य् अष्टौ सत्त्वजाः पौरुषा गुणाः
शूरता दक्षता सत्यं महोत्साहो ऽनुरागिता ।
नीचे घूणाधिके स्पर्धा यतः शोभेति तां विदुः
धीरा दृष्टिर् गतिश् चित्रा विलासे सस्मितं वचः ।
साङ्क्षोभेष्व् अप्य् अनुद्वेगो माधुर्यं परिकीर्तितम्
भी-शोक-क्रोध-हर्षाद्यैर् गाम्भीर्यं निर्विकारता ।
व्यवसायाद् अचलनं धैर्यं विघ्ने महत्य् अपि
अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्यये ऽप्य् असहनं तत्-तेजः समुदाहृतम्
वाग्-वेशयोर् मधुरता, तद्वच् छृङ्गार-चेष्टितं ललितम् ।
दानं स-प्रिय-भाषणम् औदार्यं शत्रु-मित्रयोः समता
अथ नायिका त्रि-भेदा स्वान्या साधारणा स्त्रीति ।
नायक-सामान्य-गुणैर् भवति यथा-संभवैर् युक्ता
विनयार्जवादि-युक्ता गृह-कर्म-परा पति-व्रता स्वीया ।
सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति
प्रथमावतीर्ण-यौवन-मदन-विकारा रतौ वामा ।
कथिता मृदुश् च माने समधिक-लज्जावती मुग्धा
मध्या विचित्र-सुरता प्ररूढ-स्मर-यौवना ।
ईषत्-प्रगल्भ-वचना मध्यम-व्रीडिता मता
स्मरान्धा गाढतारुण्या समस्त-रत-कोविदा ।
भावोन्नता दर-व्रीडा प्रगल्भाक्रान्त-नायका
ते धीरा चाप्य् अधीरा च धीराधीरेति षड्-विधे ।
प्रियं सोत्प्रास-वक्रोक्त्या मध्या धीरा दहेद् रुषा
धीराधीरा तु रुदितैर् अधीरा पुरुषोक्तिभिः ।
प्रगल्भा यदि धीरा स्याच् छन्न-कोपाकृतिस् तदा
उदास्ते सुरते तत्र दर्शयन्त्य् आदरान् बहिः ।
धीराधीरा तु सोल्लुण्ठ-भाषितैः खेदयत्य् अमुम्
तर्जयेत् ताडयेद् अन्या प्रत्येकं ता अपि द्विधा ।
कनिष्ठ-ज्येष्ठ-रूपत्वान् नायक-प्रणयं प्रति
मध्या-प्रगल्भयोर् भेदास् तस्माद् द्वादश कीर्तिताः ।
मुग्धा त्व् एकैव तेन स्युः स्वीयाभेदास् त्रयोदशा
परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ।
यात्रादि-निरस्तान्योढा कुलटा गलित-त्रपा
कन्या त्व् अजातोपयमा स-लज्जा नव-यौवना ।
धीरा कला-प्रगल्भा स्याद् वेश्यासामान्य-नायिका
निर्गुणान् अपि न द्वेष्टि न रज्यति गुणिष्व् अपि ।
वित्त-मात्रं समालोक्य सा रागं दर्शयेद् बहिः
कामं अङ्गीकृतम् अपि परिक्षीण-धनं नरम् ।
मात्रा निःसारयेद् एषा पुनः-सन्धान-काङ्क्षया
तस्कराः षण्डका मूर्खाः सुख-प्राप्त-धनास् तथा ।
लिङ्गिनश् छन्न-कामाद्या अस्याः प्रायेण वल्लभाः
एषापि मदनायत्ता क्वापि सत्यानुरागिणी ।
रक्तायां वा विरक्तायां रतम् अस्यां सत्यानुरागिणी
अवस्थाभिर् भवन्त्य् अष्टाव् एताः षोडश-भेदिताः ।
स्वाधीन-भर्तृका तद्वत् खण्डिताथाभिसारिका
कलहान्तरिता विप्र-लब्धा प्रोषित-भर्तृका ।
अन्या वासक-सज्जा स्याद् विरहोत्कण्ठिता तथा
कान्तो रति-गुणाकृष्टो न जहाति यद्-अन्तिकम् ।
विचित्र-विभ्रमासक्ता सा स्यात् स्वाधीन-भर्तृका
पार्श्वम् एति प्रियो यस्या अन्य-संयोग-चिह्नितः ।
सा खण्डितेति कथिता धीरैर् ईर्ष्या-कषायिता
अभिसारयते कान्तं या मन्मथ-वशंवदा ।
स्वयं वाभिसरत्य् एषा धीरैर् उक्ताभिसारिका
संलीना स्वेषु गात्रेषु मूकीकृत-विभूषणा ।
अवगुण्ठन-संवीता कुलजाभिसरेद् यदि
विचित्रोज्ज्वल-वेषा तु रणन्-नूपुर-कङ्कणा ।
प्रमोद-स्मेर-वदना स्याद् वेश्याभिसरेद् यदि
मद-स्खलित-संलापा विभ्रमोत्फुल्ल-लोचना ।
आविद्ध-गति-सञ्चारा स्यात् प्रेष्याभिसरेद् यदि
क्षेत्रं वाटी भग्न-देवालयो दूती-गृहं वनम् ।
माला-पञ्चः श्मशानं च नद्यादीनां तटी तथा
एवं कृताभिसाराणां पुंश्चलीनां विनोदने ।
स्थानान्य् अष्टौ तथा ध्वान्त-च्छन्ने कुत्रचिद् आश्रये
चाटुकारम् अपि प्राण-नाथं रोषाद् अपास्य या ।
पश्चात् तापम् अवाप्नोति कलहान्तरिता तु सा
प्रियः कृत्वापि सङ्केतं यस्या नायाति संनिधिम् ।
विप्रलब्धा तु सा ज्ञेया नितान्तम् अवमानिता
नाना-कार्य-वशाद् यस्या दूर-देशं गतः पतिः ।
सा मनोभव-दुःखार्ता भवेत् प्रोषित-भर्तृका
कुरुते मण्डनं यस्याः सज्जिते वास-वेश्मनि ।
सा तु वासक-सज्जा स्याद् विदित-प्रिय-सङ्गमा
आगन्तुं कृत-चित्तो ऽपि दैवान् नायाति यत् प्रियः ।
तद्-अनागत-दुःखार्ता विरहोत्कण्ठिता तु सा
इति साष्टाविंशति-शतम् उत्तम-मध्याधम-स्वरूपेण ।
चतुरधिकाशीति-युतं शत-त्रयं नायिका-भेदाः
क्वचिदन्योन्य-साङ्कर्यम् आसां लक्ष्येषु दृश्यते ।
इतरा अप्य् असङ्ख्यास् ता नोक्ता विस्तर-शङ्कया
यौवने सत्त्वजास् तासाम् अष्टाविंशति-सङ्ख्यकाः ।
अलङ्कारास् तत्र भाव-हाव-हेलास् त्रयो ऽङ्गजाः
शोभा कान्तिश् च दीप्तिश् च म् आधुर्यं च प्रगल्भता ।
औदार्यं धैर्यम् इत्य् एते सप्तैव स्युर् अयत्नजाः
लीला विलासो विच्छित्तिर् बिब्बोकः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः
विहृतं तपनं मौग्ध्यं विक्षेपश् च कुतूहलम् ।
हसितं चकितं केलिर् इत्य् अष्टादश-सङ्ख्यकाः
स्वभावाजाश् च भावाद्या दश पुंसां भवन्त्य् अपि ।
निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया
भ्रू-नेत्रादि-विकारैस् तु संभोगेच्छा-प्रकाशकः ।
भाव एवाल्प-संलक्ष्य-विकारो हाव उच्यते
हेलात्यन्त-समालक्ष्य-विकारः स्यात् स एव तु ।
रूप-यौवन-लालित्य-भोगाद्यैर् अङ्ग-भूषणम्
सैव कान्तिर् मन्मथाप्यायित-द्युतिः ।
कान्तिर् एवातिविस्तीर्णा दीप्तिर् इत्य् अभिधीयते
सर्वावस्था-विशेषेषु माधुर्यं रमणीयता ।
निःसाध्वसत्वं प्रागल्भ्यम् औदार्यं विनयः सदा
मुक्तात्म-श्लाघना धैर्यं मनोवृत्तिर् अचञ्चला ।
अङ्गैर् वेषैर् अलङ्कारैः प्रेमिभिर् वचनैर् अपि
प्रीति-प्रयोजैतैर् लीलां प्रियस्यानुकृतिं विदुः ।
यानस्थानासनादीनां मुख-नेत्रादि-कर्मणाम्
विशेषस् तु विलासः स्याद् इष्ट-सन्दर्शनादिना ।
स्तोकाप्य् आकल्प-रचना विच्छित्तिः कान्ति-पोष-कृत्
स्मित-शुष्क-रुदित-हसित-त्रास-क्रोध-श्रमादीनाम् ।
साङ्कर्यं किलकिञ्चितम् ईष्टतम-सङ्गमादिजाद् धर्षात्
तद्-भाव-भाविते चित्ते वल्लभस्य कथादिषु ।
मोट्टायितम् इति प्राहुः कर्ण-कण्डूयनादिकम्
केशस्तनाधरादीनां ग्रहे हर्षे ऽपि संभ्रमात् ।
आहुः कुट्टमितं नाम शिरः-कर-विधूननम्
त्वरया हर्ष-रागादेर् दयिता-गमनादिषु ।
अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः
सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ।
मदो विकारः सौभाग्य-यौवनाद्य्-अवलेपजः
वक्तव्य-काले ऽप्य् अवचो व्रीडया विहृतं मतम् ।
तपनं प्रिय-विच्छेदे स्मर-वेगोत्थ-चेष्टितम्
अज्ञानाद् इव या पृच्छा प्रतीतस्यापि वस्तुनः ।
वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्-तत्त्व-वेदिभिः
भूषाणाम् अर्ध-रचना मिथ्या विष्वग्-अवेक्षणम् ।
रहस्याख्यानम् ईषाच् च विक्षेपो दयितान्तिके
रम्य-वस्तु-समालोके लोल्ता स्यात् कुतूहलम् ।
हसितं तु वृथा-हासो यौवनोद्भेद-संभवः
कुतो ऽपि दयितस्याग्रे चकितं भय-संभ्रमः ।
विहारे सह कान्तेन क्रीडितं केलिर् उच्यते
दृष्ट्वा दर्शयति व्रीडां संमुखं नैव पश्यति ।
प्रच्छन्नं वा भ्रमन्तं वा-(अ)तिक्रान्तं पश्यति प्रियम्
बहुधा पृच्छ्यमानापि मन्द-मन्दम् अधोमुखी ।
सगद्गद-स्वरं किञ्चित् प्रियं प्रायेण भाषते
अन्यैः प्रवर्तितां शश्वत् सावधाना च तत्-कथाम् ।
शृणोत्य् अन्यत्र दत्ताक्षी प्रिये बालानुरागिणी
चिराय सविधे स्थानं प्रियस्य बहु मन्यते ।
विलोचन-पथं चास्य न गच्छत्य् अनलङ्कृता
क्वापि कुन्तल-संव्यान-संयम-व्यपदेशतः ।
बाहु-मूलं स्तनौ नाभि-पङ्कजं दर्शयेत् स्फुटम्
आच्छादयति वाग्-आद्यैः प्रियस्य परिचारकान् ।
विश्वसित्य् अस्य मित्रेषु बहु-मानं करोति च
सखी-मध्ये गुणान् ब्रूते स्व-धनं प्रददाति च ।
सुप्ते स्वपिति दुःखे ऽस्य दुःखं धत्ते सुखे सुखम्
स्थिता दृष्टि-पथे शश्वत्-प्रिये पश्यति दूरतः ।
आभाषते परिजनं संमुखं स्मर-विक्रियम्
यत् किञ्चिद् अपि संवीक्ष्य कुरुते हसितं मुधा ।
कर्ण-कण्डूयनं तद्वत् कवरी-मोक्ष-संयमौ
जृम्भते स्फोटयत्य् अङ्गं बालम् आश्लिष्य चुम्बति ।
भाले तथा वयस्याया रचयेत् तिलक-क्रियाम्
अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते ।
दशति स्वाधरं चापि ब्रूते प्रियम् अधोमुखी
न मुञ्चति च तं देशं नायको यत्र दृश्यते ।
आगच्छति गृहं तस्य कार्य-व्याजेन केनचित्
दत्तं किम् अपि कान्तेन धृत्वाङ्गे मुहुर् ईक्षते ।
नित्यं हृष्यति तद्-योगे वियोगे मलिना कृशा
मन्यते बहु तच्-छीलं तत्-प्रियं मन्यते प्रियम् ।
प्रार्थयत्य् अल्प-मूल्यानि सुप्ता न परिवर्तते
विकारान् सात्त्विकान् अस्य संमुखी नाधिगच्छति ।
भाषते सूनृतं स्निग्धाम् अनुरक्ता नितम्बिनी
एतेष्व् अधिक-लज्जानि चेष्टितानि नव-स्त्रियाः ।
मध्य-व्रीडानि मध्यायाः स्रंसमान-त्रपाणि तु
अन्य-स्त्रियाः प्रगल्भायास् तथा स्युर् वार-योषितः ।
लेख्य-प्रस्थापनैः स्निग्धैर् वीक्षितैर् मृदु-भाषितैः
दूती-संप्रेषणैर् नार्या भावाभिव्यक्तिर् इष्यते ।
दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी
बाला प्रव्रजिता कारूः शिल्पिन्याद्याः स्वयं तथा ।
कला-कौशलम् उत्साहो भक्तिश् चित्तज्ञता स्मृतिः
माधुर्यं नर्म-विज्ञानं वाग्मिता चेति तद्-गुणाः ।
एता अपि यथौचित्याद् उत्तमआधम-मध्यमाः
धीरोधतः पापकारी व्यसनी प्रतिनायकः ।
उद्दीपन-विभावास् ते रसम् उद्दीपयन्ति ये
आलम्बनस्य चेष्टाद्या देश-कालादयस् तथा ।
उद्बुद्धं कारणैः स्वैः स्वरि बहिर् भावं प्रकाशयन्
लोके यः कार्य-रूपः सो ऽनुभावः काव्य-नाट्ययोः ।
उक्ताः स्त्रीणाम् अलङ्कारा अङ्गजाश् च स्वभावजाः
तद्-रूपाः सात्त्विका भावास् तथा चेष्टाः परा अपि ।
विकाराः सत्त्व-संभूताः सात्त्विकाः परिकीर्तिताः
सत्त्व-मात्रोद्भवत्वात् तु भिन्ना अप्य् अनुभावतः ।
स्तम्भः स्वेदो ऽथ रोमाञ्चः स्वर-भङ्गो ऽथ वेपथुः
वैवर्ण्यम् अश्रु-प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ।
स्तम्भश् चेष्टा-प्रतीघातो भय-हर्षामयादिभिः
वपुर् जलोद्गमः स्वेदो रति-घर्म-श्रमादिभिः ।
हर्षाद्भुत-भयादिभ्यो रोमाञ्चो रोम-विक्रियाः
मद-संमद-पीडाद्यैर् वैस्वर्यं गद्गदं विदुः ।
राग-द्वेष-श्रमादिभ्यः कम्पो गात्रस्य वेपथुः
विषाद-मद-रोषाद्यैर् वर्णान्यत्वं विवर्णता ।
अश्रु नेत्रोद्भवं वारि क्रोध-दुःख-प्रहर्षजम्
प्रलयः सुख-दुःखाभ्यां चेष्टा-ज्ञान-निराकृतिः ।
विशेषाद् आभिमुख्येन चरणाद् व्यभिचारिणः ।
स्थायिन्य् उन्मग्न-निर्मग्नास् त्रयस्त्रिंशच् च तद्-भिदाः
निर्वेदावेग-दैन्य-श्रम-मद-जडता औग्र्य-मोहौ विबोधः स्वप्नापस्मार-गर्वा मरणम् अलसतामर्ष-निद्रावहित्थाः ।
औत्सुक्योन्माद-शङ्काः स्मृति-मति-सहिता व्याधि-सत्रास-लज्जा हर्षासूया-विषादाः सधृति-चपलता ग्लानि-चिन्ता-वितर्काः
तत्त्व-ज्ञानापद्-ईर्ष्यादेर् निर्वेदः स्वावमाननम् ।
दैन्य-चिन्ताश्रु-निःश्वास-वैवर्ण्योच्छ्वसितादि-कृत्
आवेगः संभ्रमस् तत्र वर्षजे पिण्डिताङ्गता ।
उत्पातजे स्रस्तताङ्गे धूमाद्याकुलताग्निजे
राज-विद्रवजादेस् तु शस्त्र-नागादि-योजनम् ।
गजादेः स्तम्भकम्पादि पांस्वाद्याकुलतानिलात्
इष्टाद् धर्षाः शुचो ऽनिष्टाज् ज्ञेयाश् चान्ये यथायथम् ।
दौर्गत्याद्यैर् अनौजस्यं दैन्यं मलिनतादिकृत्
खेदो रत्य्-अध्व-गत्यादेः श्वास-निद्रादि-कृच् छ्रमः ।
संमोहानन्द-संभेदो मदो मद्योपयोगजः
अमुना चोत्तमः शेते मध्यो हसति गायति ।
अधम-प्रकृतिश् चापि परुषं वक्ति रोदिति
अप्रतिपत्तिर् जडता स्याद् इष्टानिष्ट-दर्शन-श्रुतिभिः ।
अनिमिष-नयन-निरीक्षण-तूष्णीम्भावादयस् तत्र
शौर्यापराधादि-भवं भवेच् चण्डत्वम् उग्रता ।
तत्र स्वेद-शिरः-कम्प-तर्जना-ताडनादयः
मोहो विचित्तता भीति-दुःखावेगानुचिन्तनैः ।
मूर्च्छनाज्ञान-पतन-भ्रमणादर्शनादि-कृत्
निद्रापगम-हेतुभ्यो विबोधश् चेतनागमः ।
जृम्भाङ्ग-भङ्ग-नयन-मीलनाङ्गावलोक-कृत्
स्वप्नो निद्राम् उपेतस्य विषयानुभवस् तु यः ।
कोपावेग-भय-ग्लानि-सुख-दुःखादि-कारकः
मनः-क्षेपस् त्व् अपस्मारो ग्रहाद्य्-आवेशनादिजः ।
भूपात-कम्प-प्रस्वेद-फेन-लालादि-कारकः
गर्वो मदः प्रभाव-श्री-विध्या-सत्-कुलतादिजः ।
अवज्ञा-स-विलासाङ्ग-दर्शनाविनयादि-कृत्
शराद्यैर् मरणं जीव-त्यागो ऽङ्ग-पतनादि-कृत् ।
आलस्यं श्रम-गर्भाद्यैर् जाड्यं जृम्भासितादि-कृत्
निन्दाक्षेपापमानादेर् अमर्षो ऽभिनिविष्टता ।
नेत्र-राग-शिरः-कम्प-भ्रू-भङ्गोत्तजनादि-कृत्
चेतः संमीलनं निद्रा श्रम-क्लम-मदादिजा ।
जृम्भाक्षि-मीलनोच्छ्वास-गात्र-भङ्गादि-कारणम्
भय-गौरव-लज्जादेर् हर्षाद्याकार-गुप्तिर् अवहित्था ।
व्यापारान्तर-सक्त्य्-अन्यथावभाषण-विलोकनादि-करी
इष्टानवाप्तेर् औत्सुक्यं काल-क्षेपा-सहिष्णुता ।
चित्त-ताप-त्वरा-स्वेद-दीर्घ-निःश्वसितादि-कृत्
चित्त-संमोह उन्मादः काम-शोक-भयादिभिः ।
अस्थान-हास-रुदित-गीत-प्रलपनादि-कृत्
पर-क्रौर्यात्म-दोषाद्यैः शङ्कानर्थस्य तर्कणम् ।
वैवर्ण्य-कम्प-वैस्वर्य-पार्श्वालोकास्य-शोष-कृत्
सदृश-ज्ञान-चिन्ताद्यैर् भ्रू-समुन्नयनादि-कृत् ।
स्मृतिः पूर्वानुभूतार्थ-विषय-ज्ञानम् उच्यते
नीति-मार्गानुसृत्यादेर् अर्थ-निर्धारणं मतिः ।
स्मेरता धृति-सतोषौ बहु-मानश् च तद्-भवाः
व्याधिर् ज्वरादिर् वाताद्यैर् भूमीच्छोत्कम्पनादि-कृत् ।
निर्घात-विद्युद्-उल्काद्यैस् त्रासः कम्पादि-कारकः
धार्ष्ट्याभावो व्रीडा वदनानमनादि-कृद् दुराचारात् ।
हर्षस् त्व् इष्टावाप्तेर् मनः-प्रसादो ऽश्रु-गद्गदादि-करः
असूयान्य-गुणर्धीनाम् औद्धत्याद् असहिष्णुता ।
दोषोद्घोष-भ्रू-विभेदावज्ञा-क्रोधेङ्गितादि-कृत्
उपायाभाव-जन्मा तु विषादः सत्त्व-सङ्क्षयः ।
निःश्वासोच्छ्वास-हृत्-ताप-सहायान्वेषणादि-कृत्
ज्ञानाभीष्टागमाद्यैस् तु संपूर्ण-स्पृहता धृतिः ।
सौहित्य-वचनोल्लास-सहास-प्रतिभादि-कृत्
मात्सर्य-द्वेष-रागादेश् चापल्यं त्व् अनवस्थितिः ।
तत्र भर्सन-पारुष्य-स्वच्छनाचरणादयः
रत्यायासमनस्ताप-क्षुत्-पिपासादि-संभवा ।
ग्लानिर् निष्प्राणता-कम्प-कार्श्यानुत्साहतादि-कृत्
ध्यानं चिन्ता हितानाप्तेः शून्यताश्वास-ताप-कृत् ।
तर्को विचारः सन्देहाद् भ्रूशिरो ऽङ्गुलि-नर्तकः
रत्यादयो ऽप्य् अनियते रसे स्युर् व्यभिचारिणः ।
शृङ्गार-वीरयोर् हासो वीरे क्रोधस् तथा मतः
शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।
इत्य् आद्य्-अन्यत् समुन्नतेयं तथा भावित-बुद्धिभिः
अविरुद्धा विरुद्धा वा यं तिरोधातुम् अक्षमाः ।
आस्वादाङ्कुर-कन्दो ऽसौ भावः स्थायीति संमतः
रतिर् हासश् च शोकश् च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश् चेत्थम् अष्टौ प्रोक्ताः शमो ऽपि च
रतिर् मनो ऽनुकूले ऽर्थे मनसः प्रवणायितम् ।
वाग्-आदि-वैकृतैश् चेतो-विकासो हास इष्यते
इष्ट-नाशादिभिश् चेतो-वैक्लव्यं शोक-शब्द-भाक् ।
प्रतिकूलेषु तैक्ष्ण्यस्या-वबोधः क्रोध इष्यते
कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।
रौद्र-शक्त्या तु जनितं चित्त-वैक्लव्यं भयम्
दोषेक्षणादिभिर् गर्हा जुगुप्सा विस्मयोद्भवा ।
विविधेषु पदार्थेषु लोक-सीमातिवर्तिषु
विस्फारश् चेतसो यस् तु स विस्मय उदाहृतः ।
शमो निरीहावस्थायां स्वात्म-विश्रामजं सुखम्
नानाभिनय-संबन्धान् भावयन्ति रसान् यतः ।
तस्माद् भावा अमी प्रोक्ताः स्थायि-सञ्चारि-सात्त्विकाः
शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानकाः ।
बीभत्सो ऽद्भुत इत्य् अष्टौ रसाः शान्तस् तथा मतः
शृङ्गं हि मन्मथोद्भेदस् तद् आगमन-हेतुकः ।
उत्तम-प्रकृति-प्रायो रसः शृङ्गार इष्यते
परोढां वर्जयित्वात्र वेश्यां चाननुरागिणीम् ।
आलम्बनं नायिकाः स्युर् दक्षिणाद्याश् च नायकम्
चन्द्र-चन्दन-रोलम्ब-रुताद्य्-उद्दीपनं मतम् ।
भ्रू-विक्षेप-कटाक्षादिर् अनुभावः प्रकीर्तितः
त्यक्त्वौग्र्य-मरणालस्य-जुगुप्सा-व्यभिचारिणः ।
स्थायि-भावो रतिः श्याम-वर्णो ऽयं विष्णु-दैवतः ।
विप्रलम्भो ऽथ संभोग इत्य् एष द्विविधो मतः
यत्र तु रतिः प्रकृष्टा नाभीष्टम् उपैतै विप्रलम्भो ऽसौ ।
स च पूर्व-राग-मान-प्रवास-करुणात्मकश् चतुर्धा स्यात्
श्रवणाद् दर्शनाद् वापि मिथः संरूढ-रागयोः ।
दशा-विशेषो यो ऽप्राप्तौ पूर्वरागः स उच्यते
श्रवणं तु भवेत् तत्र दूत-वन्दी-सखी-मुखात् ।
इन्द्रजाले च चित्रे च साक्षात् स्वप्ने च दर्शनम्
अभिलाषश् चिन्ता-स्मृति-गुण-कथनोद्वेग-संप्रलापाश् च ।
उन्मादो ऽथ व्याधिर् जडता मृतिर् इति दशात्र काम-दशाः
अभिलाषः स्पृहा चिन्ता प्राप्त्य्-उपायादि-चिन्तनम् ।
उन्मादश् चापरिच्छेदश् चेतनाचेतनेष्व् अपि
अलक्ष्य-वाक्-प्रलापः स्याच् चेतसो भ्रमणाद् भृशम् ।
व्याधिस् तु दीर्घ-निःश्वास-पाण्डुता-कृशतादयः
जडता हीन-चेष्टत्वम् अङ्गानां मनसस् तथा ।
रस-विच्छेद-हेतुत्वान् मरणं नैव वर्ण्यते
जात-प्रायं तु तद् वाच्यं चेतसाकाङ्क्षितं तथा ।
वर्ण्यते ऽपि यदि प्रत्युज्-जीवनं स्याद् अदूरतः
आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात् तद्-इङ्गितैः ।
नीली कुसुम्भं मञ्जिष्ठा पूर्वरागो ऽपि च त्रिधा
न चातिशोभते यन् नापैति प्रेम मनोगतम् ।
तन् नीली-रागम् आख्यातं यथा श्री-राम-सीतयोः
कुसुम्भ-रागं तत् प्राहुर् यद् अपैति च शोभते ।
मञ्जिष्ठा-रागम् आहुस् तद् यन् नापैत्य् अतिशोभते
मानः कोपः स तु द्वेधा प्रणयेर्ष्या-समुद्भवः ।
द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्य् अपि
प्रेम्णः कुटिल-गामित्वात् कोपो यः कारणं विना ।
पत्युर् अन्य-प्रिया-सङ्गे दृष्टे ऽथानुमिते श्रुते
ईर्ष्यामानो भवेत् स्त्रीणां तत्रत्व् अनुमितिस् त्रिधा ।
उत्स्वप्नायित-भोगाङ्क-गोत्र-स्खलन-संभवा
साम भेदो ऽथ दानं च नत्य्-उपेक्षे रसान्तरम् ।
तद्-भङ्गाय पतिः कुर्यात् षड्-उपायान् इति क्रमात्
तत्र प्रिय-वचः साम भेदस् तत्-सख्य्-उपार्जनम् ।
दानं व्याजेन भूषादेः पादयोः पतनं नतिः
सामादौ तु परिक्षीणे स्याद् उपेक्षावधीरणम् ।
रभस-त्रास-हर्षादेः कोप-भ्रंशो रसान्तरम्
प्रवासो भिन्न-देशित्वं कार्याच् छापाच् च संभ्रमात् ।
तत्राङ्ग-चेल-मालिन्यम् एक-वेणी-धरं शिरः
निःश्वासोच्छ्वास-रुदित-भूमि-पातादि जायते ।
अङ्गेष्व् असौष्ठवं तापः पाण्डुता कृशतारुचिः
अधृतिः स्याद् अनालम्बस् तन्-मयोन्माद-मूर्च्छनाः ।
मृतिश् चेति क्रमाज् ज्ञेया दश स्मर-दशा इह
असौष्ठवं मलापत्तिस् तापस् तु विरह-ज्वरः ।
अरुचिर् वस्तु-वैराग्यं सर्वत्रारागिता धृतिः
अनालम्बनता चापि शून्यता मनसः स्मृता ।
तन्-मयं तत्-प्रकाशो हि बाह्याभ्यन्तरतस् तथा ।
भावी भवन् भूत इति त्रिधा स्यात् तत्र कार्यजः
यूनोर् एकतरस्मिन् गतवति लोकान्तरं पुनर् अलभ्ये ।
विमनायते यदैकस् ततो भवेत् करुण-विप्रलम्भाख्यः
दर्शन-स्पर्शनादीनि निषेवेते विलासिनौ ।
यत्रानुरक्ताव् अन्योन्यं संभोगो ऽयम् उदाहृतः
सङ्ख्यातुम् अशक्यतया चुम्बन-परिरम्भणादि-बहु-भेदात् ।
अयम् एक एव धीरैः कथितः संभोग-शृङ्गारः
तत्र स्याद् ऋतु-षट्कं चन्द्रादित्यौ तथोदयास्त-मयः ।
जल-केलि-वन-विहार-प्रभात-मधु-पान-यामिनी-प्रभृतिः
अनुलेपन-भूषाड्या वाच्यं शुचि मेध्यम् अन्यच् च ।
कथितश् चतुर्विधो ऽसाव् आनन्तर्यात् तु पूर्व-रागादेः
विकृताकार-वाग्-वेषा-चेष्टादेः कुहुकाद् भवेत् ।
हास्यो हास-स्थायि-भावः श्वेतः प्रमथ-दैवतः
विकृताकार-वाक्-चेष्टं यम् आलोक्य हसेज् जनः ।
तम् अत्रालम्बनं प्राहुस् तच्-चेष्टोद्दीपनं मतम्
अनुभावो ऽक्षि-सङ्कोच-वदन-स्मेरतादयः ।
निद्रालस्यावहित्थाद्या अत्र स्युर् व्यभिचारिणः
ज्येष्ठानां स्मित-हसिते मध्यानां विहसितावहसिते च ।
नीचानाम् अपहसितं तथातिहसितं तद् एष षड्-भेदः
ईषद्-विकासि-नयनं स्मितं स्याद् स्पन्दिताधरम् ।
किञ्चिल् लक्ष-द्विजं तत्र हसितं कथितं बुधैः
मधुर-स्वरं विहसितं सांस-शिरः-कम्पम् अवहसितम् ।
अपहसितं सास्राक्षं विक्षिप्ताङ्गं च भवत्य् अतिहसितम्
यस्य हासः स चेत् क्वापि साक्षान् नैव निबध्यते ।
तथाप्य् एष विभावादि-सामर्थ्याद् उपलभ्यते
अभेदेन विभावादि-साधारण्यात् प्रतीयते ।
सामाजिकैस् ततो हास्य-रसो ऽयम् अनुभूयते
इष्ट-नाशाद् अनिष्टाप्तेः करुणाख्यो रसो भवेत् ।
धीरैः कपोत-वर्णो ऽयं कथितो यम-दैवतः
शोको ऽत्र स्थायि-भावः स्याच् छोच्यम् आलम्बनं मतम् ।
तस्य दाहादिकावस्था भवेद् उद्दीपनं पुनः
अनुभावा दैव-निन्दा-भूपात-क्रन्दितादयः ।
वैवर्ण्योच्छ्वास-निःश्वास-स्तम्भ-प्रलपनानि च
निर्वेद-मोहापस्मार-व्याधि-ग्लानि-स्मृति-श्रमाः ।
विषाद-जडतोन्माद-चिन्ताद्या व्यभिचारिणः
शोक-स्थायितया भिन्नो विप्रलम्भाद् अयं रसः ।
विप्रलम्भे रतिः स्थायी पुनः-संभोग-हेतुकः
रौद्रः क्रोध-स्थायि-भावो रक्तो रुद्राधिदैवतः ।
आलम्बनम् अरिस् तस्य तच् चेष्टोद्दीपनं मतम्
मुष्टि-प्रहार-पातन-विकृत-च्छेदावदारणैश् चैव ।
सङ्ग्राम-संभ्रमाद्यैर् अस्योद्दीप्तिर् भवेत् प्रौढा
भ्रू-विभङ्गौष्ठ-निर्वेश-बाहु-स्फोटन-तर्जनाः ।
आत्मावदान-कथनम् आयुधोत्क्षेपणानि च
अनुभावास् तथाक्षेप-क्रूर-सन्दर्शनादयः ।
उग्रता-वेग-रोमाञ्च-स्वेद-वेपथवो मदः
मोहामर्षादयस् तत्र भावाः स्युर् व्यभिचारिणः ।
रक्तास्य-नेत्रता चात्र भेदिनी युद्ध-वीरतः
उत्तम-प्रकृतिर् वीर उत्साह-स्थायि-भावकः ।
महेन्द्र-दैवतो हेम-वर्णो ऽयं समुदाहृतः
आलम्बन-विभावास् तु विजेतव्यादयो मताः ।
विजेतव्यादि-चेष्टाद्यास् तस्योद्दीपन-रूपिणः ।
अनुभावास् तु तत्र स्युः सहायान्वेषणादयः
सञ्चारिणस् तु धृति-मति-गर्व-स्मृति-तर्क-रोमाञ्चाः ।
स च दान-धर्म-युद्धैर् दयया च समन्वितश् चतुर्धा स्यात्
भयानकौ भय-स्थायि-भावो भूताधिदैवतः ।
स्त्री-नीच-प्रकृतिः कृष्णो मतस् तत्त्व-विशारदैः
यस्माद् उत्पद्यते भीतिस् तद् अत्रालम्बनं मतम् ।
चेष्टा घोरतरास् तस्य भवेद् उद्दीपनं पुनः
अनुभावो ऽत्र वैवर्ण्य-गद्गद-स्वर-भाषणम् ।
प्रलय-स्वेद-रोमाञ्च-कम्प-दिक्-प्रेक्षणादयः
जुगुप्सावेग-संमोह-सन्त्रास-म्लानि-दीनताः ।
शङ्कापस्मार-संभ्रान्ति-मृत्य्वाद्या व्यभिचारिणः
जुगुप्सा-स्थायि-भावस् तु बीभत्सः कथ्यते रसः ।
नील-वर्णो महा-काल-दैवतो ऽयम् उदाहृतः
दुर्गन्ध-मांस-रुधिर-मेदांस्यालम्बनं मतम् ।
तत्रैव कृमि-पाताद्यम् उद्दीपनम् उदाहृतम्
निष्ठीवनास्य-वलन-नेत्र-सङ्कोचनादयः ।
अनुभावास् तत्र मतास् तथा स्युर् व्यभिचारिणः
मोहो ऽपस्मार आवेगो व्याधिश् च मरणादयः ।
अद्भुतो विस्मय-स्थायि-भावो गन्धर्व-दैवतः
पीत-वर्णो वस्तु लोका-तिगम् आलम्बनं मतम् ।
गुणानां तस्य महिमा भवेद् उद्दीपनं पुनः
स्तम्भः स्वेदो ऽथ रोमाञ्च-गद्गद-स्वर-संभ्रमाः ।
तथा नेत्र-विकासाद्या अनुभावाः प्रकीर्तिताः
वितर्कावेग-संभ्रान्ति-हर्षाद्या व्यभिचारिणः ।
शान्तः शम-स्थायि-भाव उत्तम-प्रकृतिर् मतः
कुन्देन्दु-सुन्दर-च्छायः श्री-नारायण-दैवतः ।
अनित्यत्वादिनाशेष-वस्तु-निःसारता तु या
परमात्म-स्वरूपं वा तस्यालम्बनम् इष्यते ।
पुण्याश्रमहरिक्षेत्र-तीर्थ-रम्य-वनादयः
महा-पुरुष-सङ्गाद्यास् तस्योद्दीपन-रूपिणः ।
रोमाञ्चाद्याश् चानुभावास् तथा स्युर् व्यभिचारिणः
निर्वेद-हर्ष-स्मरणम् अतिभूत-दयादयः ।
निरहङ्कार-रूपत्वाद् दया-वीरादिर् एष नो
युक्त-वियुक्त-दशायाम् अवस्थितो यः शमः स एव यतः ।
रसताम् एति तद् अस्मिन् सञ्चार्यादेः स्थितिश् च न विशुद्धा
स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
स्थायी वत्सलता स्नेहः पुत्राद्य्-आलम्बनं मतम्
उद्दीपनानि तच् चेष्टा विद्या-शौर्य-दयादयः ।
आलिङ्गनाङ्ग-संस्पर्श-शिरश् चुम्बनम् ईक्षणम्
पुलकानन्द-बाष्पाद्या अनुभावाः प्रकीर्तिताः ।
सञ्चारिणो ऽनिष्ट-शङ्का-हर्ष-गर्वादयो मताः
पद्म-गर्भ-च्छविर् वर्णो दैवतं लोक-मातरः ।
आद्यः करुण-बीभत्स-रौद्र-वीर-भयानकैः
भयानकेन करुणेनापि हास्यो विरोध-भाक् ।
करुणो हास्य-शृङ्गार-रसाभ्याम् अपि तादृशः
रौद्रस् तु हास्य-शृङ्गार-भयानक-रसैर् अपि ।
भयानकेन शान्तेन तथा वीर-रसः स्मृतः
शृङ्गार-वीर-रौद्राख्य-हास्य-शान्तैर् भयानकः ।
शान्तस् तु वीर-शृङ्गार-रौद्र-हास्य-भयानकैः
शृङ्गारेण तु बीभत्स इत्य् आख्याता विरोधिता ।
कुतो ऽपि कारणात् क्वापि स्थिरताम् उपयन्न् अपि
उन्मादादिर् न तु स्थायी न पात्रे स्थैर्यम् एति यत् ।
रस-भावौ तद्-आभासौ भावस्य प्रशमोदयौ
सन्धिः शबलता चेति सर्वे ऽपि रसनाद् रसाः ।
सञ्चारिणः प्रधानानि देवादि-विषया रतिः
उद्बुद्ध-मात्रः स्थायी च भाव इत्य् अभिधीयते ।
यथा मरिच-खण्डादेर् एकीभावे प्रपाणके
उद्रेकः कस्यचित् क्वापि तथा सञ्चारिणो रसे ।
अनौचित्य-प्रवृत्तत्व आभासो रस-भावयोः
उपनायक-संस्थायां मुनि-गुरु-पत्नी-गतायां च ।
नायक-विषयायां रतौ तथानुभय-निष्ठायाम्
प्रतिनायक-निष्ठत्वे तद्वद् अधम-पात्र-तिर्यग्-आदि-गते ।
शृङ्गारे ऽअनुचित्यं रौद्रे गुर्व्-आदि-गत-कोपे
शान्ते च हीन-निष्ठे गुर्व्-आद्य् आलम्बने हास्ये ।
ब्रह्म-वधाद्य्-उत्साहे ऽधम-पात्र-गते तथा वीरे
उत्तम-पात्र-गतत्वे भयानके ज्ञेयम् एवम् अन्यत्र ।
भावाभासो लज्जादिके तु वेश्यादि-विषये स्यात्
भावस्य शान्ताव् उदये सन्धि-मिश्रितयोः क्रमात् ।
भावस्य शान्तिर् उदयः सन्धिः शबलता मता
मूल पाठ: Sāhityadarpaṇa · Edition: Satyavrata Simha, 9th edition. Varanasi: Chowkhamba Vidya Bhavan, 1992. (Vidya Bhavan Sanskrit Granthamala, 29) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0