साहित्यदर्पण · अध्याय 2
इति साहित्य-दर्पणे काव्य-स्वरूप-निरूपणो नाम
प्रथमः परिच्छेदः
(2)
द्वितीयः प्रकाशः
वाक्यं स्याद् योग्यताकाङ्क्षा-सत्ति-युक्तः पदोच्चयः ।
वाक्योच्चयो महा-वाक्यम् इत्थं वाक्यं द्विधा मतम्
वर्णाः पदं प्रयोगार्हान् अन्वितैकार्थ-बोधकाः ।
अर्थो वाच्यश् च लक्ष्यश् च व्यङ्गश् चेति त्रिधा मता
वाच्यो ऽर्थो ऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस् तिस्रः शब्दस्य शक्तयः
तत्र सङ्केतितार्थस्य बोधनाद् अग्रिमा मता ।
सङ्केतो गृह्यते जातौ गुण-द्रव्य-क्रियासु च
मुख्यार्थ-बाधे तद्-युक्तो ययान्यो ऽर्थः प्रतीयते ।
रूढेः प्रयोजनाद् वापि लक्षणा शक्तिर् अर्पिता
मुख्यार्थस्येतराक्षेपो वाक्यार्थे ऽन्वय-सिद्धये ।
स्याद् आत्मनो ऽप्य् उपादानाद् एषोपादान-लक्षणा
अर्पणं स्वस्य वाक्यार्थे परस्यान्वय-सिद्धये ।
उपलक्षण-हेतुत्वाद् एषा लक्षण-लक्षणा
आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।
विषयास्यानिगीर्णस्या-(अ)न्य-तादात्म्य-प्रतीति-कृत्
सारोपा स्यान् निगीर्णस्य मता साध्यवसानिका ।
सादृश्येतर-संबन्धाः शुद्धास् ताः सकला अपि
सादृश्यात् तु मता गौण्यस् तेन षोडश-भेदिका ।
व्यङ्ग्यस्य गूढागूढत्वाद् द्विधा स्युः फल-लक्षणा
धर्मि-धर्म-गतत्वेन फलस्यैता अपि द्विधा ।
तद् एवं लक्षणाभेदाश् चत्वारिंशन् मता बुधैः
पद-वाक्य-गतत्वेन प्रत्येकं ता अपि द्विधा ।
विरतास्वभिधाद्यासु यथार्थो बोध्यते ऽपरः
सा वृत्तिर् व्यञ्जना नाम शब्दस्यार्थादिकस्य च ।
अभिधा-लक्षणा-मूला शब्दस्य व्यञ्जना द्विधा
अनेकार्थस्य शब्दस्य संयोगाद्यैर् नियन्त्रिते ।
एकत्रार्थे ऽन्यधी-हेतुर् व्यञ्जना साभिधाश्रया
लक्षणोपास्यते यस्य कृते तत् तु प्रयोजनम् ।
यया प्रत्याख्यायते सा स्याद् व्यञ्जना लक्षणाश्रया
वक्तृ-बोधव्य-वाक्यानाम् अन्य-सन्निधि-वाच्ययोः ।
प्रस्ताव-देश-कालानां काकोश् चेष्टादिकस्य च
वैशिष्ट्याद् अन्यम् अर्थं या बोधयेत् सार्थ-संभवा ।
त्रैविध्याद् इयम् अर्थानां प्रत्येकं त्रिविधा मता
शब्द-बोध्यो व्यनक्त्य् अर्थः शब्दो ऽप्य् अर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तद् अन्यस्य सहकारिता
अभिधादि-त्रयोपाधि-वैशिष्ट्यात् त्रिविधो मतः ।
शब्दो ऽपि वाचकस् तद्वल् लक्षको व्यञ्जकस् तथा
तात्पर्याख्यां वृत्तिम् आहुः पदार्थान्वय-बोधने ।
तात्पर्यार्थं तद्-अर्थं च वाक्यं तद्-बोधकं परे
मूल पाठ: Sāhityadarpaṇa · Edition: Satyavrata Simha, 9th edition. Varanasi: Chowkhamba Vidya Bhavan, 1992. (Vidya Bhavan Sanskrit Granthamala, 29) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0