ग्रंथ पाठ
साहित्यदर्पण · अध्याय 1
1.1
श्रीः
साहित्य-दर्पणः
कारिका-मात्रः
(1)
प्रथमः प्रकाशः
शरद्-इन्दु-सुन्दर-रुचिश् चेतसि सा मे गिरां देवी ।
अपहृत्य तमः सन्ततम् अर्थान् अखिलान् प्रकाशयतु
1.2
चतुर्वर्ग-फल-प्राप्तिः सुखाद् अल्प-धियाम् अपि ।
काव्याद् एव यतस् तेन तत्-स्वरूपं निरूप्यते
1.3
काव्यं रसात्मकं काव्यं दोषास् तस्यापकर्षकाः ।
उत्कर्ष-हेतवः प्रोक्ता गुणालङ्कार-रीतयः
मूल पाठ: Sāhityadarpaṇa · Edition: Satyavrata Simha, 9th edition. Varanasi: Chowkhamba Vidya Bhavan, 1992. (Vidya Bhavan Sanskrit Granthamala, 29) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0