भाषा

ENहिગુ
ग्रंथ पाठ

साहित्यदर्पण (टीका सहित) · अध्याय 5

5.1

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) गुणी भूतव्यङ्ग्यकाव्यमाह--अथेति ।
काव्यमनुत्तमत्वमिति ।
व्यङ्ग्यानुत्तमत्वेन काव्यानुत्तमत्वम् ।
भेदास्तस्योदिति इति--तस्य गुणीभूतव्यङ्ग्यकाव्यस्य एवमष्टविधव्यङ्ग्यभेदात् तस्याष्टौ भेदा उदिता इत्यर्थः ।
लोचना:
(लो, ॠ) एवं ध्वन्याख्यं काव्यस्य भेदं निरुप्य गुणीभूतव्यङ्ग्यमवतारयति अथेति--तत्र स्यादिति---काक्का आक्षिप्तं वाच्यवत् स्फुटीकृतम् ।
वाच्यसिद्धेरङ्गं कारणम् ।
अस्फुटं सहृदयानामपि क्लेशप्रत्येयम् ।
एवं पूर्वव्यङ्ग्याद्भेदः ।
असुन्दरं वाच्यापकृष्टचमत्कारकम् ।
व्यङ्ग्यमिति प्रतिपदमन्वयः ।
भेदाः विशेषाः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इतरस्य रसादेरङ्गरसादिव्यङ्ग्यम् ।
यथा--
"अयं सरसनोत्कर्षो पीनस्तनविमर्दनः ।
नाभ्यूजघनस्पर्शो नीवीविस्त्रंसनः करः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) रसादेरङ्गं रसादि इत्युभयत्र आदिपदात् भावाद्यङ्गतापि रसादेः, एवं वाच्याङ्गत्वमपि वस्त्वलङ्कारयोरित्युक्तम् ।
अयं स इति---भूरिश्रवसः समरपतितं हस्तमादाय रुदत्यास्तत्पत्न्या उरक्तिरियम् ।
अत्रेति---रसोत्कर्षणादिना व्यङ्ग्यः शृङ्गारः मृतालम्बनकत्वेन रसतामनापन्नो मृतालम्बनकस्य करुणस्याङ्गम् ।
रसतापन्नस्य तस्य शृङ्गारेण प्रकर्षणात् पूर्वानुभूतसुखस्मरणे हि करुणप्रकर्षः ।
लोचना:
(लो, ऌ) यथोद्देशमुदाजिहीर्षुरितराङ्गमिति विवृणोति, इतरस्यार्थात् प्रधानभूतस्य रसादेः, रसशब्देनात्र भावादीनामुपग्रहः आदिशब्देन वाच्यस्याङ्गम् उत्कर्षकारिरसादि अत्रादिशब्दादनुरणनरूपम् । अयं स इति ---इदं हि महाभारते, समरच्छिन्नं भूरिश्रवसो हस्तमादाय तत्कान्ताया विलपनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र शृङ्गारः करुणस्याङ्गम् ।
"मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वसैन्यसागररवोद्रतकर्णतापः ।
हा !हा! कथं नु भवतो रिपुराजधानीप्रासादसंततिषु तिष्ठति कामिलोकः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) भावस्याङ्गं करुणमाह---मानोन्नतामिति ।
उन्नतमानामित्यर्थः ।
हाहेति त्रासविज्ञातुर्वक्तुस्तद्विषयकशोकः ।
भवतो रिपुराजधानीप्रसादसन्ततिषु कथं कमिलोकस्तिष्ठति इति अन्वयः ।
अत्रेति औत्सुक्यं मानिन्यनुनयकामनया व्यङ्ग्यम् ।
तद्विरुद्धः त्रासः यथोक्तकर्णतापपदव्यङ्ग्य इत्यनयोः सिद्धिः ।
तादृशसन्दिविशिष्टानां रिपुराजधानीकामिलोकानां शोच्यावस्थाज्ञातुर्वक्तुः शोकरूपः करुणो राजविषयरतिभावस्याङ्गमित्यर्थः ।
अत्र च हाहाशब्दः क्रोधव्यञ्जकहुङ्कारवन्निरर्थकः ।
शोकव्यञ्जक इति ग्रन्थकृतो ऽभिप्रायः तदैव व्यङ्ग्यभूतस्य हाहाशब्दप्रतिपाद्यस्य शोकरूपकरुणस्य व्यङ्ग्यत्वोपपत्तेः ।
हाहाशब्दस्य वाच्य एव शोरूपः करुणः ।
हाहेत्युक्ते शोचामीति प्रतीत्या तद्वच्यतासिद्धेः ।
अन्यथा गोशब्दस्यापि गैर्न वाच्यः स्यात् ।
अतो ग्रन्थकृतः छिद्रमेवात्र ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः ।
"जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मायाप्तं रामत्वं कुशलवसुता न त्वधिगता" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) वाच्यार्थस्याङ्गं सादृश्यरूपं वस्त्वाह---जनस्थान इति ।
दरिद्रस्योक्तिरियम् ।
मया रामत्वं प्राप्तं रामसदृशो ऽहं जात इत्यर्थः ।
शब्दात्मकं सादृश्यमाह---जनस्थान इति ।
मया कनकरूपया मृगतृष्णया मरीचिकायान्धितधिया जनानां स्थाने भ्रान्तम् असारे संसारे कनकस्यापि तुच्छत्वेन तस्योपादेत्वभ्रमजनकत्वादुपादेयजलभ्रमकनकमृगृष्णयान्धितधिया भ्रान्तम् ।
मया वै इति सम्बोध्य प्रतिपदं स्थाने देहीति वचः ।
मया भर्त्तुः ईश्वरस्य परिपाटीषु परिचर्य्यासु अंलमित्यर्थका घटना न कृता तद्वत् रामेणापि लङ्काभर्त्तुः रावणस्य वदनानां मुखानां परिपाट्यां परिपाटनस्य निमित्तमिषुघटना कृता ॥
किन्तु कुशलं दारिद्षापनायकं वसु धनं यस्य तादृशता तु मया न प्राप्ता ।
अत्र तुशब्देन रामवाक् छेदात् रामेण तु कुशलवसुता प्राप्ता इत्यर्थः प्रतीयते--तत्र च कुशलवौ सुतौ यस्यास्तादृशी सीतेत्यर्थः ।
लोचना:
(लो, ए) अङ्गपरिपोषकत्वाद् वाच्याङ्गभूतमनुरणनरूपं शब्दशक्तिमूलमुदाहरति-एवं च रसभावादेरङ्गं रसभावादि, वाच्यस्य चानुरणनरूपं व्यड्ग्यमिति द्विधेत्यर्थः ।
जनस्थान इति ।
जनस्थानं-नगरग्रामादि, दण्डकारण्यं च ।
कनकं प्रति मृगतृष्णा विफलाशा, कनकमृगे तृष्णा च वै निश्चितं; देहि प्रयच्छ; विदेहजा सीता च ।
अलं व्यर्थम् ।
काभर्त्तुः कुत्सितस्वामिनः यद् वदनं तस्य परिपाटीषु परम्परासु लङ्काभर्त्तुः रावणस्य
वदनानां मुखानां परिपाट्यां पङ्क्तौ इषुघटना शरयोगश्च ।
कुशलम् आयतिशुद्धं वसु धनं यस्य एवंभूतता, कुशलवौ सुतौ यस्याः सा सीता च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र रामत्वं प्राप्तमित्यवचने ऽपि शब्दशक्तेरेव रामत्वमवगम्यते ।
वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्रोपनमपाकृतम् ।
तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्कतां नीतम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) अत्र विषादाधिक्यव्यञ्जकया कुशलवसुताप्राप्त्या प्राप्ततत्कात् रामात् उपमानाद् वैलक्षण्यरूपो व्यतिरेकालङ्कारः नञो वाच्यः ।
तत्प्रकर्षकतया रामसादृश्यं व्यङ्ग्यम् ।
तदङ्गमिति मनसिकृत्य व्यङ्ग्यस्य सादृश्यस्य अगूढत्वात् गुणीभूतत्वमुपपादयितुमाह--अत्र रामत्वमिति ।
अवचने ऽपीति अनुक्तावपीत्यर्थः ।
वचनेतु इति ।
तदुक्तौ इत्यर्थः ।
तादात्म्यारोपणं रामत्वप्राप्त्या रामतादात्म्यारोपम् ।
तदारोपश्च सादृश्यमूलकः इत्याह---सादृश्यहेतुरिति---आविष्कुर्वाता वक्त्रा तद् गोपनं ध्वनित्वहेतुतद्रूढत्वम् ।
तद्रोपनात् सादृश्यस्य गुणीभूतत्वमुपपादितम् ।
यद्यपि एकशब्दरूपं सादृश्यं श्रोत्रग्राह्यमेव न तु वाक्यं, व्यङ्ग्यस्यैव च गुणीभूतत्वे गुणीभूतव्यङ्ग्यं भवति ।
तथापि शब्दस्य सादृश्यत्वेन रूपेण व्यङ्ग्यत्वमेव न श्रोत्रग्रह्यत्वम् ।
तथा च तस्यापराङ्गत्वमुपपादयति--तेन वाच्यमिति---व्यङ्ग्यमित्यर्थः ।
न च तद् गोपनात् अगूढरूपगुणीभूतव्यङ्ग्यप्रभेद एवायमिति वाच्यम् ।
तथात्वे ऽपि अपरङ्गतानपायात् ।
वाच्यार्थो रामव्यतिरेको नञो वाच्यः, तत्प्रकर्षान्वयोपपादकतया इत्यर्थः ।
न तु रामव्यतिरेकस्यान्वयनिष्पादकतया अबाधितत्वेन तद् विनापि तन्निष्पत्तेः ।
प्रकर्षद्वारापराङ्गत्वाच्च ।
ननूपमानापेक्षया उपमेयस्याधिकं व्यतिरेकालङ्कारः ।
स च सादृश्यहेतुकोपमानत्वघटित एव ।

तथा च व्यतिरेकालङ्कारशरीरघटकमेव सादृश्यम्; कथं तत्प्रकर्षकमिति चेन्न ।
एकविशेषणेनापि तद् घटनसम्भवे बहुविशेषणसम्भवात्तत्प्रकर्षकत्वमपि लभ्यते तच्च सहृदयैकवेद्यम् ।
लोचना:
(लो, ऐ) अत्रेति वचने तु रामो ऽस्मीत्युक्त्वा पुनः सादृश्यहेतुकतादात्म्यरोपणं जनस्थान इत्यादि वचनप्रतिपादनेनापि लभ्यम् ।
तद्गोपनं व्यङ्ग्यभूतरामतादात्म्यारोपस्य गोपनम् ।
वाच्यं मयाप्तं रामत्वमिति पदाभिधेयम् ।
सादृश्यस्य व्यङ्ग्यतो व्यङ्ग्यत्वे ऽपि स्फुटप्रतिभासने व्च्यत्वमुक्तम् ।
व्यङ्ग्यमिति पाठे तु सुगमा एव व्याख्या ।
सादृश्यं रामेण सहेत्यर्थः ।
वाक्यं जनस्थान इत्यादि ।
एवभर्थशक्तिमूलानुरणनरूपस्य व्यङ्ग्यस्यापि व्यङ्ग्यत्वे उदाहार्य्यम्
********** एन्द् ओf चोम्मेन्तर्य् **********
काक्वाक्षिप्तं यथा---
"मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युतरस्तः ।
संचूर्णयामि गदया न सुयोधनोरूं सन्धि करोतु भवतां नृपतिः पणेन" ॥
अत्र मथ्नाम्येवेत्यादिव्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) काक्काक्षिप्तमिति---काक्का उच्चारणेन शिरश्चालनसहकृतध्वनिविशेषणाक्षिप्तम् ।
शाब्दबोधस्य प्राक् पदार्थविधया सहसा प्रत्यायितमित्यर्थः ।
मथ्नामीति---दुर्योघनेन सह सन्धिकरणे प्रवृत्तं युधिष्ठिरं श्रुत्वा कुद्धस्य भीमस्य सहदेवं प्रत्युक्तिरियम् ।
भवतामित्यनेन अस्माकम् असमीहितकारित्वात् नास्माकं नृपतिरिति सूचितम् ।
सुयोधनमिति दुर्योधनस्यापरं नाम ।
कृतकौरवशतवधप्रतीज्ञस्य तत्क्रोधसत्त्वेन मथ्नामीत्युक्तिर्बाधितार्था ।
अतो नञः शिरश्चालनसहकृता काकुः प्रतीयते ।
तया व्यञ्जनया अपरनञोर्ऽथोपस्थापनात् न मथ्नामीत्यर्थो लभ्यते ।
तच्च मथनायोगव्यवच्छेदरूपम् ।
तदाह---अत्र मथ्नाम्येवेति ।
आदिपदात् पिबाम्येव इत्यादिकं बोध्यम् ।
इत्यादि व्यङ्ग्यमिति---इत्यादि एकदेशरूपं व्यङ्ग्यमित्येवार्थः ।
एवकारार्थक नञ्द्वये एकनञर्थस्यैव व्यङ्ग्यत्वात् ।
लोचना:
(लो, ओ) सहभावेनैव स्थितमित्यनेन ध्वनित्वनिरासः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्वतः ।
प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः" ॥
अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः प्रतापस्य दावानलत्वारोपसिद्ध्यङ्गम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) वाच्यसिद्ध्यङ्गमुदाहरति---अनुपन्नस्य वाच्यार्थस्य यद् व्यङ्ग्यान्वयेनैव सिद्धिः तादृशं व्यङ्ग्यं वाच्यसिद्ध्यङ्गम् ।
दीपयन्निति---रोपसीरन्ध्रं द्यावापृथिव्योरन्तरालम् ।
अत्रेति ।
अन्वयसाय वैरिकुलस्य वंशपदवाच्यस्य वेणुत्वरोपणरूपो व्यङ्गय इति कुलवेणुद्वयार्थकस्य वंशपदस्य प्रकरणात् कुले नियन्त्रणेन वेणो स्तद् व्यङ्ग्यत्वेन तद्रूपणस्यापि व्यङ्ग्यत्वात् दवानलत्वारोपसिद्ध्यङ्गमिति कुले दवा नलवाधेन वेणावेद तद् बाधात् ।
अत्रेदमवधेयम् ।
यदि प्रकरणवशात् अनेकार्थस्य वंशपदस्य प्रथमं कुलबोधकत्वम्; तदैव वेणुरूपोर्ऽथो व्यङ्ग्यो भवति तदेव तु न; दवानलस्य कुले भाधात् ।
किन्तु कुलवेण्योरुभयोरेकदा एव दवानलान्वयार्थं तात्पर्य्याद् वंशयोरुपस्थित्या अर्थद्वयमेव वाच्यम् ।
नतु वेणुरूपोर्ऽथो व्यङ्ग्यस्तथा च परम्परितरूपमेवेदं वेणुत्वरूपणस्य दवानलरूपणकारणत्वात् तद् वक्ष्यति स्वयमेव--- "यत्र कस्यचिदारोपः परारोपस्य कारणम् ।
तत् परम्परितम् ।
इति ।
उदाहरिष्यति च--- "आहवे जगदुद्दण्डराजमण्डलराहवे ।
श्रीनृसिंहमहीपाल ! स्वस्त्स्तु तव बाहवे ॥
"इति अत्र हि राजमण्डलस्य ग्रासकरूपसम्बन्धितया राहुवाधात् बाहौ राहुरूपणमनुपपन्नमतो नृपमण्डले चन्द्रमण्डलत्वस्यारोपो बाहौ राहुरुपणकारणमिति ।
अत एव काव्यप्रकाशकृतापि सद्वंशमुक्तामणिरित्यत्र राज्ञो मुक्तामण्यारोपणस्य सत्कुले बाधात् सत्कुले सह वेणुरोपणं तत्कारणमित्युक्तम् ।
अतो दीपयन् रोदसीरन्ध्रमित्यादिकं परम्परितरूपकोदाहरणमेव, न वाच्यसिद्ध्यङ्गोदाहरणम् ।
अन्यथा स्वोक्तेः काव्यप्रकाशकृदुक्तेश्च विरोधापत्तेः ।
न हि दीपयन् इत्यादौ आहवे जगदुद्दण्डेत्यादौ च एकस्य वाच्यसिद्ध्यङ्गत्वमन्यस्य परम्परितरूपकत्वमित्यत्रविनिगमकं नास्ति ।
वाच्यसिद्ध्यङ्गोदाहरणं तु-- "गच्छाम्यच्युत ! दर्शनेन भवतः किं तृप्तिरुत्पद्यते किन्त्वेवं विजनस्थग्रेर्हतजनः सम्भावयत्यन्यथा ।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदाहसा-- माश्लिष्यन् पुलकोत्कराञ्चिततनुगोपी हरिः पातु वाः ॥
"इति काव्यप्रकाशकृद्भिर्दत्तमेवान्वेष्टव्यम् ।
तथा हि इत्यामन्त्रणेत्यादिर्वाच्यार्थः ।
पूर्वार्द्धामन्त्रणेत्यादिवाक्यार्थस्य अप्रतीतिकाले असिद्धेस्तद्-व्यङ्ग्यार्थस्य हे अच्युत ! मद्विधनायिकादर्शनेनापि धैर्य्यच्युतरहित इत्येवंविधायाः भङ्ग्याः प्रतीत्यैव सिद्धयति ।
न च नृपमण्डले चन्द्रमण्डलारोपणमपि व्यङ्ग्यं सदेवालङ्कारः ।
तथा च परम्परितरूपकालङ्कारवाच्यसिद्ध्यङ्गयोः संकर एवेति वाच्यम् ।
व्यङ्ग्यत्वे ऽलङ्कारत्वाभावस्य ब्रह्मणश्रमणेत्यादिना एव उक्तत्वात् ।
प्रथमं नृपमण्डले राहोरन्वयासम्भावेन राजमण्डलपदादेकदैव नृपचन्द्रमणअडलयोः उपस्थित्या द्रयोरपि वाच्यत्वाच्च ।
ननु तत्कथम्--- भ्रमिमरतिमलसहृदयतां प्रणयं मूर्च्छां तमः शरीरसादम् ।
मरणं च जलददभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।
"इत्यत्र विशेषजले रूपेतं हलाहलं व्यङ्ग्यं भुजगरुपणसिद्धिकृदित्युक्त्या हलाहलस्य व्यङ्ग्यत्वमुक्त्वा काव्यप्रकाशकृता वाच्यसिद्ध्यङ्गोदाहरणत्वेन तदुक्तमिति चेन्न ।
तत्र उद्दीपकतया प्राकरणिकमनेकार्थस्य विषशब्दस्यार्थो जलम् इत्यतो ऽप्राकरणिकं हलाहलं व्यङ्ग्यमित्युक्तम् ।
न च दीपयन्नित्यत्रापि प्राकरणिकत्वेन वंशपदार्थकुलवाच्यं वेणुस्तु अप्राकरणिको व्यङ्ग्य एवेति वाच्यम् ।
दवानलरूपणस्यापि तात्पर्य्यविषयत्वेन तस्य कुले बाधेन तदुपपादनतया वेणोरपि प्राकरणिकत्वात् ।
अन्यथा "आहवे जगदुद्दण्द"इत्यादावपि परम्परितरूपकं न स्यात् ।
किन्तु वाच्यसिद्ध्यह्गमेव तदपि स्यात् ।
भ्रमिमरतिमित्यादौ तु जलदे भुजगरूपणं श्यामत्वेनापकारित्वेन च जले हलाहलरूपणं विनापि आपाततः सिद्धत्येवेति हलाहलमप्राकरणिकमित्यतो व्यङ्ग्यमेव ।
परन्तु प्रणिधाने सति जलस्य भुजगजन्यत्वासम्भवेन भजगरूपणासिद्ध्या तत्सिद्धिकारित्वेन पश्चाज्जले हलाहलरूपणमिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"हरस्तु किंचित्परिवृत्तधैर्यः--" इत्यादौ ((22.पृ दृ) विलोचनव्यपारलाषयोः प्राधान्ये संदेहः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) संदिग्धप्राधान्यमाह---हरस्त्विति ।
प्राधान्यं रसव्यञ्जकतया व्यज्यते रसे ।

किं वाच्यार्थेन किं वा व्यङ्ग्यार्थेन व्यञ्जितो ऽयं इत्येवं सन्देहविषयत्वं तत्त्वम् ।
हलस्त्विति कुमारसम्भवे आकालिके वसन्ते जाते सर्वेषामेव कामोद्रेके सति हलस्यापि किञ्चित् तथात्ववर्णनमिदम् ।
चन्द्रोदयस्यारम्भे नतु चन्द्रस्योदये तदानीमेवाम्बुराशेर्धेर्य्यपरिवृत्तेः किञ्चित्त्वात् ।
अत्रेति---प्राधान्यसन्देहो हरस्य शृङ्गारव्यञ्जकतासन्देहः ।
विलोचनव्यापारो हि वाच्यः ।
चुम्बनाभिलाषस्तु व्यङ्ग्यः तद्द्वयमपि शृङ्गारनुभावस्तत् केन रसो व्यञ्जित इति सन्देहात् ।
न च द्वाभ्यामेव व्यज्यतां, तथा च तुल्यप्राधान्योदाहरणमेव हदमस्त्विति वाच्यम् ।
धैर्य्यपरिवृत्तेः किञ्चित्त्वेन चुम्बनाभिलाषो जातो न वा; इति सन्देहेन नदीयरसव्यञ्जकताया अपि तदधीनसन्देहात् अत एव वाच्यार्थेन तद्व्यञ्जनमपि संदिग्धमेव ।
लोचना:
(लो, औ) सन्देहः--द्वयोरपि रसाभिव्यञ्जकत्वाविशेषात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्नयश्च वो मित्त्रमन्यथा दुर्मनायते" ॥
अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समंप्राधान्यम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) तुल्यप्राधान्यमाह---ब्राह्मणेति---दिग्विजये परशुरामं जिगीषुं रावणं प्रति तदमात्यस्य तत्त्रासकवाक्यमिदम् ।
भवतामेव भूतये न तु स्वार्थ ब्रवीमीत्यर्थः ।
तथेति---ब्राह्मण इत्यर्थः ।
मित्रामित्यत्र चार्थो गम्यः मित्रं चेत्यर्थः ।
अन्यथेति अतिक्रमे इत्यर्थः ।
दुर्मनायत इत्यत्र भविष्यत्सामीप्ये वर्त्तमाना ।
समंप्राधान्यमिति--यथोक्तव्यङ्ग्यार्थस्याप्यत्र निंश्चितत्वेन द्वयोरपि रावणत्रासरूपव्यभिचारिभावे व्यञ्जकत्वात् ।
वाच्येंन ब्राह्मणातिक्रमेणापि शापतो भस्मीकरणसम्भावनया त्रासात् ।
लोचना:
(लो, अ) व्राह्मणेति--रावणं प्रति परशुरामदूतस्य वाक्यमिदम् ।
भवतां रक्षसां मित्रे जन्मप्रभृति निखिलरहस्यवेदी ।
अत्रेति--अत्र वाच्यव्यङ्ग्ययोः सामदण्डयोस्तुल्यतयैव वैरमोचने पर्य्याप्तात्वादप्रस्तुतप्रशंसावत् परस्परानपेक्षया चमत्कारास्पदत्वात् द्वयोरपि समं प्राधान्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः ।
अल्लावदीननृपतौ न सन्धिर्न च विग्रहः" ॥
अत्राल्लावदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि झटित्यस्फुटम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) अस्फुटमाह सन्धाविति---विदग्धानामपि कष्टग्म्यं व्यङ्ग्यमस्फुटम् ।
झटित्यस्फुटमिति तत् प्रशमोपायो नास्त्येव इति हि व्यङ्ग्यमापाततः प्रतिभाति ।
यथोक्तं व्यङ्ग्यं तु कृछ्रगम्यम् ।
तद्धि जीवनरक्षार्थं सर्वस्वदानेनापि सन्धिकरणीय इत्येवंरूपम् ।
लोचना:
(लो, आ) पूर्वत्र सन्दहालङ्कारवत् संदिग्धत्वम् ।
नान्य उपशमोपाय इति व्यङ्ग्यम् ।
प्राणनिग्रहे प्राप्ते धनत्यागादेः ईषत्करत्वाभिप्रायोणेत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"अनेन लोकगुरुणा सतां धर्मोपदेशिना ।
अहं व्रतवती स्वैरमुक्तेन किमतः परम्" ॥
अत्र प्रतीयमानो ऽपि शाक्यमुनेस्तिर्यग्योषिति बालात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) अगूढमाह---अनेनेति ।
शाक्यमुनिना बलादुपभोक्तुमुपक्रम्यमाणायाः तैर्थिकयोषित उक्तिरियम् ।
अहं व्रतवतीति धर्मोपदेशिनः अस्य उपभोगो मम व्रतभङ्गाय नो भविष्यतीत्यतो ऽहं व्रतवत्येव इत्यर्थः ।
स्वैरं स्वच्छन्दम् अतः परम् उक्तेन किं प्रयोजनमित्यर्थः ।
अत्रेति--प्रतीयमानो ऽपि व्यज्यमानो ऽपि ।
प्रतीयमानस्य प्रायशो ऽस्फुटत्वेन स्फुटत्वे तद् विरोधे ऽत्रापिकारः स्फुटतयेति---प्रबन्धश्लोकात्प्रकरणवशाद् बलात्करोपभोगज्ञानात् स्फुटता ।
लोचना:
(लो, इ) अनेनेत्यादौ अर्थशक्तिमूलानुरणनरूपव्यङ्ग्यस्यागूढत्वम् ।
अत्यन्ततिरस्कृतवाच्यस्यागूढत्वं यथा---
"एतद् विभाति चरमाचलचूलचुम्बी हिण्डीरपिण्डरुचिशीतमरीचिबिम्बम् ।
प्रज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत् प्रकटलाञ्छनकैतवेन" ।
अत्र चुम्बीति पदे वदनसंसर्गरूपसायर्थस्यासम्भवात् संसर्गमात्रं लक्ष्यंत तदतिशयश्चाभिधेयवत् स्फुटं प्रतीयते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"वाणीरकुडङ्गुड्डीणसौणिकोलाहणं सुणन्तीए ।
घरकम्मवावडाए बहुए सीअन्ति आङ्गाइं" ॥
अत्र दत्तसंकेतः जश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात् "सीदन्त्यङ्गनि" इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) असुन्दरमाह--वाणीरेति ।
वाच्यार्थान्न्यूनचमत्कारिव्यङ्ग्यमसुन्दरम् ।
"वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि" ॥
इति संस्कृतम् ।
वानीरकुञ्जे कृतसंकेताया गृहकर्मव्यापारात् तत्र गन्तुमशक्ताया वध्वा अङ्गावसादवर्णनमिदम् ।
अत्रेति--प्रविष्ट इत्यन्तमात्रं न व्यङ्ग्यं वध्वास्तत्रागमनस्यापि तदीयपक्षिकोलाहलश्रवणाधीनाङ्गावसादेन व्यङ्ग्यत्वात् ।
तथा चेति--व्यङ्ग्यादित्यत्र इत्यादि व्यङ्ग्यादित्यर्थः वाच्यस्य चमत्कार इति वध्वा विप्रलम्भव्यञ्जकत्वेन ह्यत्र चमत्कारः ।
स चात्रोद्दीपकशकुनिकोलाहलश्रवणाधीनावसादस्य विप्रलम्भं विना अन्यतो ऽसम्भवात् तत्प्रतीत्यवश्यम्भावेन संकेतस्थले वध्वा अगमनादुक्ताङ्गावसादसहकारं विना न विप्रलम्भप्रतीत्यवश्यम्भावः ।
वध्वा ईदृशकार्य्यत्यागेनापि तत्रागमनसम्भवादृते वाच्याङ्गावसादमुखप्रेक्षत्वेन तस्य न्यूनचमत्कारितेत्यर्थः ।
लोचना:
(लो, ई) वानीरेति---वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥
वाच्यस्य चमत्कारः प्रधानप्रत्यासत्तेरधिकत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
किञ्च यो दीपकतुल्ययोगितादिषूपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव ।
काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् ।
तदुक्तं ध्वनिकृता--
"अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) असुन्दरस्य बहून्युदाहरणानि सम्भवन्तीति दर्शयितुमाह---किञ्च यो दीपकेति ।
बहूपमानानामेकधर्मान्वयो दीपकम् ।
उपमेयोपमानानामेकधर्म्मान्वयस्तुल्ययोगिता ।
सर्वत्रैव व्यञ्जनया उपमा प्रतीयते ।
अस्याश्च गुणीभूतत्वे हेतुमाह---काव्यस्येति ।
अलङ्कारान्तरस्यापि प्रतीतौ सत्यां यच्चालङ्कारान्तरं भसत इत्यर्थः ।
काव्यस्य न तत्परत्वं, चमत्कारनुत्कटत्वेन तत्तत्तात्पर्य्यकत्वम् ।
अतो भासमानालङ्काररूपोसौ न ध्वनेर्मार्ग इत्यर्थः ।
यत्रेति पाठे तु यत्र काव्ये भासते इत्यलङ्कार इति कर्तृपदमध्याहार्य्यम् ।
लोचना:

(लो, उ) इदानीमन्यत्रापि व्यङ्ग्यस्य गुणीभावस्थले ध्वनिभ्रमं निरस्यन् आह---किञ्चेति ।
अलङ्कारान्तरस्यापीति ।
काव्यस्य च तत्परत्वं न भासत इति सम्बन्धः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) अन्यमपि गुणीभूतव्यङ्ग्यप्रकारमाह यत्रेति---व्यङ्ग्यार्थस्य गोपनकृतचारुत्वे हि ध्वनित्वं तद् विपर्य्यासो व्यक्तीकारणं यत्र शब्दान्तरादिना क्रियते सो ऽगूढरूपगुणीभूतव्यङ्ग्यप्रभेद इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---
"दृष्ट्या केशव ! गोपरागहृतया किंचिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ ! पतितां किं नाम नालम्बसे ।
एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्- गोप्येवं गदितः सलेशमवताद्रोष्ठे हरिर्वश्चिरम्" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) दृष्ट्येति---केशवं दृष्ट्वा मदनान्धतया गोष्टे पतिताया गोप्याः सलेशं सश्लेषं गदितो हरिश्चिरमवतात् ।
दृष्ट्येत्यादि--सश्लेषोक्तिः तत्र वाच्यार्थो यथा---हे केशव गवां परागेण रजसा हृतया नष्टया दृष्ट्या मया किञ्चित् न दृष्टम् ।
तेन हेतुना अत्र स्खलिता ।
#आस्मि पतितास्मि ।
हे नाथ ! पतितां मां किं नालम्बसे ।
कथमालम्बिष्ये इत्यत्राह---एकस्त्वमिति---विषमेषूञ्चनीचेषु वर्त्मसु खिन्नमनसां पत्नेन क्लान्तहृदयानां सर्वाबलानां सकलबलरहितानां स्त्रीणां पुंसां च यतस्त्वं गतिरिति ।
व्यङ्ग्यार्थो यथा-हे केशव गोप गोपालक ।
रागेण त्वय्यनुरागेण हृतया दृष्ट्या मया किञ्चिन्निजतिरोषादिकं न दृष्टम् ।
तेनात्र गोष्ठे स्खलितास्मि आगतास्मि ।
हे नाथ ! पतितां पतिभावं भर्त्तृत्वं किं नाम नालम्बसे नाश्रयसि ।
यतो विषमेषुणा पञ्चेषुणा खिन्नमनसां सर्वासाम् अबलानां त्वमेको गतिरिति ।
लोचना:
(लो, ऊ) दृष्ट्येति---गवां परागेण रजसा हृतया तिरस्कृतया ।
गाः इन्द्रियाणि सम्भागदानादिना पातीति गोपः तस्मिन् गोपे त्वयि, रागेण प्रम्णा हृतया वशीकृतया स्खलिता भ्रष्टपादा गतधैर्य्या च ।
अथ पतितां मार्गपतितां धवत्वं च नावलम्बसे न धारयसि न परिगृहणासि च ।
विषमेषु उच्चनीचस्थानेषु, विषमेषुः कामः तेन च खिन्नमनसाम् ।
अबलानां दुर्बलानां स्त्रीणां च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयावभासः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) स्फुटयेति---श्लेषवशादेव तत्प्रतीतेः सलेशपदेन तत् स्फुटीकरणम् ।
रसाभास इति बोद्धृणामल्पसन्तोष इत्यर्थः ।
न त्वनौचित्यप्रवर्त्तितरूपरसाभासः तद् गोपने ऽपि परनायकविषयत्वेन तदवश्यंभावात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सलेशमिति पदस्य परित्यागे ध्वनिरेव ।
किञ्च ।
यत्र वस्त्वलङ्कारसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावस्तत्र प्रधानकृत एव काव्यव्यवहारः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) क्वचित्तु व्यङ्ग्ये गुणीभूते ऽपि ध्वनिकाव्यव्यवहार एव न गुणीभूतव्यवहार इत्याह---किञ्चात्र यत्र वस्त्विति ।
रसाभ्यान्तरे प्रधानीभूतरसादौ ।
तत्र प्रधानकृत एवेति व्यवहारो ध्वनिव्यवहारः ।
न चेदं कथमुपपद्यते ईदृशस्थले ऽपराङ्गाख्यगुणीभूतव्यङ्ग्यस्यैवोक्तत्वात् इति वाच्यम्, यत्र गुणीभूतानामलङ्कारसादीनामङ्गिजनकत्वमेव नत्वङ्गि प्रकर्षकत्वं तत्रैवाङ्गिनो व्यञ्जकविशेषणत्वेनाङ्गिन एष चमत्कारित्वात् ध्वनिव्यवहारत् ।
यथा च चलापाङ्गां दृष्टिमित्यत्र मधुकरकामुकरूपालङ्कारस्य व्यङ्ग्यस्य हता इति व्यञ्जकविशेषलभ्यव्यङ्ग्यविप्रलम्भप्रतिजनकत्वात् नापराङ्गत्वं किन्तु विप्रलम्भध्वनित्वमेव ।
यथा--- "जाने कोपपराङ्मुखी प्रियतमा स्वप्ने ऽद्य दृष्टा मया मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः ।
नो यावत् परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रतस्तावदहं शठेन विधिना निद्राहरिद्रीकृतः" ॥
इत्यत्र विधिं प्रत्यसूयाध्वनिरेव शठपदेन व्यञ्जकविशेषेण व्यक्तः ।
नो यावदाश्वासयामि इत्यनेन व्यङ्ग्यस्य विप्रलम्भस्य तु असूयाजनकत्वमेव नासूयाप्रकर्षकत्वमित्यतो नापराङ्गत्वमित्यादि स्वयमूह्यम् ।
लोचना:
(लो, ऋ) किञ्चात्रेति ।
प्रधानेन रसेनैव काव्यव्यवहारो न तु गुणीभूतव्यङ्ग्येन ।
तथा च तत्रोत्तमकाव्यत्वमेव इत्यर्थः यथा"अयं स रसनोत्कर्षो"त्यादवेव हि तत्र शृङ्गारस्य गुणीभावे ऽपि तं भागमवलम्ब्य मध्यमकाव्यव्यवहारो ऽपि न कर्त्तव्यः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तदुक्तं तेनैव---
"प्रकारो ऽयं गुणीभूतव्यह्ग्यो ऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः" ॥
इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) प्रकारो ऽयमिति---रसादितात्पर्य्यपर्य्यालोचनमङ्गीभूतरसादेरङ्गादिजन्यत्वादिनो तत्रैव तात्पर्य्यपर्य्यालोचनम् ।
क्वचित्तु प्रकारणग्म्ये वस्तुनि तात्पर्य्यसत्त्वेन अङ्गीभूतरसादौ तात्पर्य्याभावे ऽपि आपाततश्चमत्कारिभिस्तैरङ्गभूतै रसाद्यैरेव पराङ्गव्यवहार इत्याह ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यत्र तु---"यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयखः ।
संध्याभ्रमं प्राप्नुताकाण्डे ऽप्यनङ्गने पथ्यविधिं विधत्ते" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) यत्र तु यत्रोन्मदानामिति---अत्र पुरे ऽभ्रंलिहः मेघस्पर्शो शोणमणीमयूखः पद्मरागमणीनां रश्मिः ।
सन्ध्याभ्रमं तादृशरश्मिसञ्चरणादेव सन्ध्याकाले इति भ्रान्तिं प्राप्नुवतामुन्मदानां मदनमत्तानां प्रमदाजनानामनङ्गनेपथ्यविधिं कामसम्भोगवेशं विधत्त इत्यन्वयः ।
सन्ध्याकाले प्रमदानामनङ्गक्रीडार्थनेपथ्यविधानात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वे ऽपि तैरेव गुणीभूतैः काव्यव्यवहारः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) अत्र हि प्रकरणात् पुराप्रकर्षे तात्पर्य्यसत्त्वेन अनङ्गनेपथ्यविधानव्यङ्ग्यस्य शृङ्गारस्य तात्पर्य्यविषयत्वाभावे ऽपि आपाततश्चमत्कारित्वलाभेनैवापराङ्गव्यवहारः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तदुक्तमस्मद्गोत्रकविपणिडतमुख्यश्रीचण्डीदासपादैः-वाक्या (काव्यार्)थस्याखण्डबुद्धिवेद्यतया तन्मयीभावेनास्वाददशायं गुणप्रधानभावावभासस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काव्यव्यवदेशंव्याहन्तुमीशः, तस्यास्वादमात्रयत्तत्वात्" इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) काव्यार्थस्याखण्डेति---प्रकृते काव्यार्थः अनङ्गनेपथ्यव्यङ्ग्यः शृङ्गारः ।

तस्य विभावादिनानापदार्थघटितत्वे ऽपि प्रपानकरसन्यायेनाखण्डबुद्धिवेद्यत्वं; बोद्धुस्तन्मयीभावेनाऽस्वाददशायां शृङ्गारो गुणः ।
पुरीप्रकर्षः प्रधानमित्यवभासस्तावदापाततो नानुभूयत इत्यर्थः ।
तत्र आपाततस्तदननुभवे ऽपि उत्तरकालं प्रकरणादिपर्य्यालोचनया पुरीप्रकर्षप्राधान्यावगमो भवन्नपि काव्यस्य गुणीभूतव्यङ्ग्यव्यपदेशं व्याहन्तुं नेश इत्यर्थः ।
अत्र हेतुमाह---तस्येति ।
अस्य काव्यव्यवहारस्य आस्वादमात्रायत्तत्वादित्यर्थः ।
तथाच अप्रधानेनापि शृङ्गारेणाऽस्वादात् न गुणीभूतव्यङ्ग्यव्यपदेश इत्यर्थः ।
लोचना:
(लो, ॠ) यत्रेति---असौ गुणप्रधानभावाभासः ।
काव्यव्यपदेशं प्राधान्यदर्शनेन मूढमतिभिः अपेक्षणीयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति ।
तदाहुः---
"शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्" ।
इति ।
लोचना:
(लो, ऌ) चित्रमिति---गुणालङ्कारयुक्तम् ।
अवरं मध्यमम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तन्न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवोक्तम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) काव्यप्रकाशकृता चित्राख्यं तृतीयं काव्यमुच्यते तद्दूषयितुमाह---केचिदिति ।
तद्दूषयितुं वितर्कयति ।
तन्न यदि हीति, काव्यत्वमपि नास्तीति ।
सगुणाविति तैः काव्यलक्षणे कृते व्यङ्ग्यरसद्वारेणैव च सगुणत्वेन व्यङ्ग्याभावे सगुणत्वाभावात् काव्यत्वं नास्तीत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ईषद्व्यङ्ग्यत्वमिति चेत् , किं नामेषद्व्यङ्ग्यत्वम् ? आस्वाद्यव्यङ्ग्यत्वम्, अनास्वाद्यव्यङ्ग्यत्वं वा ? आद्ये प्राचीनभेदयोरेवान्तः पातः ।
द्वितीये त्वकाव्यत्वम् ।
यदि चास्वाद्यत्वं तदाक्षुद्रत्वमेव क्षुद्रतायामनास्वाद्यत्वात् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) आद्ये आस्वाद्यत्वे प्राचीनभेदयोः ध्वनिगुणीभूतव्यङ्ग्ययोः ।
द्वितीये त्विति---अनास्वाद्यव्यङ्ग्यत्वे इत्यर्थः ।
अकाव्यत्वमिति ।
आस्वाद्यव्यङ्ग्यत्वे एव कावयत्वाङ्गीकारात् इदं च स्वकपोलकल्पितं दूषणम् ।
अनास्वाद्यव्यङ्ग्यत्वे ऽप्यास्वाद्यालङ्कारत्वेन तैः काव्यत्वाङ्गीकारात् ।
ननु आस्वाद्ये एव तारतम्यान्न प्राचीनद्वयान्तर्भाव इत्यत आह---यदि चास्वाद्यत्वमिति---तदा क्षुद्रत्वमेवेति---प्राचीनभेदद्वयात् अस्याल्पत्वमेवेत्यर्थः ।
अस्तु तावत् क्षुद्रत्वं तु काव्यत्वाप्रयोजकत्वेनानुपादेयत्वादनास्वाद्यत्वमेव इत्याह---क्षुद्रतायामिति---तथा च ध्वनिगुणीभूतव्यङ्ग्याख्यं द्वयमेव काव्यम् ।
चित्राख्यं पद्यं न तु काव्यमिति भावः ।
लोचना:
(लो, ए) प्राचीनभेदयोः ध्वनिगुणीभूतव्यङ्ग्ययोरेव ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तदुक्तं ध्वनिकृता---
"प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
उभे काव्ये ततो ऽन्यद्यत्तच्चित्रमभिधीयते" ॥
इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) अत एव ध्वनिकारोक्तसंवादमाह---यदुक्तमिति ।
एवमुक्तप्रबन्धेन व्यङ्ग्यस्य प्रधानगुणभावाभ्याम् उभ एव काव्ये व्यवस्थिते ।
ततो ऽन्यत्तु चित्राख्यपद्यमेव न तु काव्यमित्यर्थः ।
तत्र काव्यव्यवहारस्तु साधर्म्याद् गौण इति भावः ।
इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्य्याविरिचितायां साहित्यदर्पणटीकायां चतुर्थपरिच्छेदविवरणम् ॥
लोचना:
(लो, ऐ) काव्यत्वमाचार्य्यसम्मतमित्याह---तदुक्तमिति ।
चित्रं विचित्रमात्रमास्वादाभावादिति भावः ।
ननु सरसत्वमेव काव्यसामान्यमिति न्यायसहस्त्रैरुक्तम्; उच्यते वक्ष्यते च--तस्य च व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ भेदौ, तयोरपि प्रत्येकं व्यङ्ग्यस्य वस्त्वलङ्कारसरूपत्वेन त्रैविध्यमित्युक्तप्रकारेणात्मना एव आत्मनो भेदः प्रभेदश्च ।
इति दुरुपपादः सामान्यलश्रणश्च व्याप्तेः इति चेत्; अत्रोच्यते-यदि वयं रसवत्त्वाख्यस्य काव्यसामान्यलक्षणस्य वस्त्वलङ्कारव्यङ्ग्ययोः काव्यभेदयोरभावं ब्रूमः तदैष
दोषो, न तथा ।
"गतो ऽस्तमर्कऽ; इत्यादिवाक्यानां "गावो निरुध्यन्ताऽ; मित्यादिव्यङ्ग्येषु तात्पर्य्ये ऽपिन काव्यत्म् ।
किन्तु गुणीभूतयोर्वस्त्वलङ्काररूपयोः रपसवत्त्वादेव काव्यत्वमित्युक्तत्वात् ।
रसवत एव काव्यत्वादित्युक्तत्वात्तथा चेयमत्र व्यवस्था ।
रसवदेव काव्यं; तच्च क्वचित् वस्तुध्वनिना शवलं क्वचिदलङ्कारध्वनिना; क्वचिच्छुद्धञ्चेति त्रिविधम् ।
एवं गुणीभूतव्यङ्ग्ये ऽपि त्रैविध्यं बोद्धव्यम् ।
अत एवाहुः---रसाद्यपेक्षया तु सर्वगुणाभावव्यभिचार एव इति ।
ननु तर्हि कथं निःशेषच्युतचन्दनमित्यादौ वस्तुध्वनेः प्राधान्यं, तत्र हि दौत्यकर्मजीविकायां कृतघ्नायां त्वयि तस्मिन् अधमे शठे च मम नासूया, किन्तु यदेवंविधायां त्वयि विश्वसिमि, तथाविधे च तस्मिन् अनुरक्तास्मि, तदेवंवञ्चनासहस्त्रजनितप्रौढपरितापायास्तु मम युक्तमेवेति विप्रलम्भप्रभेदेर्ष्यामानव्यभिचारनिर्वेदध्वनिः प्रधानम् ।
तदङ्गस्तु लक्षणामूलध्वनिरिति चेत्, मैवम् ।
वाच्यतः प्राधान्याप्राधान्यमात्रेण वस्तुध्वनिगुणीभूतव्यङ्ग्याभ्युपगमात् ।
"प्राधान्याप्राधान्ये च प्रधानभूतास्वादप्रत्यासक्तयप्रत्यासक्त्यपेक्षे एव" इति न्यायविदामभ्युपगमात् ।
नन्वेवमलं यथाकथञ्चित् प्राधान्यमुपकल्प्य वस्त्वलङ्काररूपयोर्ध्वनिगुणीभूतव्यङ्ग्योः काव्यव्यवहारप्रवर्त्तकोक्त्या रसध्वनिनापि स निवर्त्ततामिति चेत्, अत्राह काव्यप्रकाशकारः---"समनन्तरोक्तं यद्यपि स नास्ति कश्चिद्विषय इति ।
प्रधानं चापातमात्रेण आपर्यन्तं प्रधानेन रसेन एव व्यपदेशः" ।
तथा तेनैवोक्तमलङ्कारप्रस्तावे---"रसादिरूपस्तद्व्यङ्ग्योर्ऽथोलङ्कारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वा एव तदलङ्कारा उदाहृताः" ।
इति ।
नन्वेवमलं ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदकल्पनया ।
तयोरलङ्कारेभ्यः पृथगप्रतीतेरिति चेत्, मैवम् ।
यत्र खलु समासोक्त्याद्यलङ्कारेषु व्यङ्ग्यस्य वैषद्येनापि प्रतीतिः, न तेषु ध्वनेरन्तर्भावः ।
वाच्यापेक्षया व्यङ्ग्यस्य प्राधान्याभावात् ।
यदुक्तं ध्वनिकृता---
"काव्यस्य यत्राप्रधान्यं वाच्यमात्रानुयायिनः ।
समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः" ॥
इति
किञ्च क्वचित् कदाचित् यत्रालङ्कारे व्यङ्ग्यस्यास्वादप्रकर्षकत्वेन प्राधान्यमपि यथाप्रस्तुतप्रशंसायां---
"जं वेल्लिहिण म असि जं चासि परविरं पिलघेमं ।
तमण्डे कोहलि अज्जं वलं पिफुलि हंसि" ॥
इत्यादावचमत्कारैणः कुण्डाकर्षणार्थात् प्रस्तुतात् गृहकर्मरत्या युवानं प्रति नायिकाया अप्रसङ्गनिषेधाय प्रस्तुतस्य बालाया यौवनोद्भेदकथनस्य तस्य ध्वनौ अन्तर्भावो ऽस्तु, उक्तरीत्या तस्य महाविषयत्वात् ।
एवं चालङ्कारेषु गुणीभूतव्यङ्ग्यस्यान्तर्भावे एष एव न्यायः ।

किञ्च दीपकतुल्ययोगितादौ येयमुपपाद्यालङ्काण्णां प्रतीतिर्न तत्र गुणीभूतव्यङ्ग्याख्याकाव्यभेदान्तः पातो ऽनास्वाद्यत्वात् व्यङ्ग्यस्य, सिं त्ववर्जनीयसन्निधित्वमात्रेणावस्थितेः ।
अत एव कविप्रतिभासंरम्भगोचरत्वं तेषु नास्तीति वाच्यम् ।
वानीरकुञ्जे इत्यादौ व्यङ्ग्यस्य नानास्वाद्यत्वम्, किन्तु वाच्यापेक्षया आस्वादपकर्ष इति तेषु उचितो गुणीभूतव्यङ्ग्याख्यकाव्यव्यवहारः ।
कथं च ध्वनिगुणीभूतव्यङ्ग्ययोरलङ्कारेष्वन्तर्भावः, तयोरङ्गित्वात् ।
अलङ्कारणां च तदङ्गभूतशब्दार्थाश्रितत्वात् ।
तदुक्तं ध्वनिकृता एव---
"अङ्गाश्रितास्त्वलङ्काराः मन्तव्याः कटकादिवत्" ॥
इत्यलं बहुना ।
इति श्रीसाहित्यदर्पणलोचने चतुर्थः परिच्छेदः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इति साहित्यदर्पणे ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदनिरूपणो नाम चतुर्थः परिच्छेदः ।
पञ्चमः परिच्छेदः
अथ केयमभिनवा व्यञ्जना नाम वृत्तिरित्युच्यते---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) व्यङ्ग्यभेदात् काव्यभेदस्य उक्तत्वाद् व्यङ्ग्यस्य च व्यञ्जनावृत्तिगम्यत्वाद् व्यञ्जनां पृच्छति---अथ केयमिति ।
अभिनवेति ।
आलङ्कारिकैरेवस्वीकृतत्वेन अभिनवत्वम् ।
लोचना:
(लो, अ) इदानीं समनन्तरोक्तकाव्यभेदद्वयस्य व्यञ्जनाव्यापारसिद्ध्यधीनत्वेन तत्र विप्रतिपत्तिं निराचिकीर्षुः प्रथमं परिच्छेदमारभमाणः प्रथममभिधादिप्राचीनवृत्तिवेद्यत्वनिरासिकां प्रथमकारिकामवतारयति--अथेति ।
का--किं प्रमाणा ।
इयं समनन्तरोक्ता काव्यभेदद्वयस्य साधिका ।
अभिनावा---अशिलशास्त्रार्थतत्त्ववेदिनः काव्यपुरुषस्यावतारात् श्रीमदानन्दवर्धनाचार्यात् प्राचीनैराचार्यैरप्रदर्शिता ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वृत्तीनां विश्रान्तेरभिधातत्पर्यलक्षणाख्यानाम् ।
अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनाम्

5.2

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) वृत्तीनामिति---अभिधालक्षणातात्पर्याख्यानां तिसृणां वृत्तीनाम् ।
विक्षान्तेरिति---स्वबोध्यार्थं बोधयतित्वा विरतेरित्यर्थः ।
तुर्या चतुर्थीं ।
लोचना:
(लो, आ) वृत्तिनामिति---तुर्या वृत्तिर्व्यञ्जनध्वननगमनप्रत्ययनादिव्यपदेशविषया ।
रसशब्देनात्रास्वाद्यमात्रस्य ग्रहणम् ।
आदिशब्देन वस्त्वलङ्कारयोः ।
रसस्य प्राधान्यात् प्रथमं निर्देशः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अभिधायाः संकेतितार्थमात्रबोधनविरताया न वस्त्वलङ्काररसादिव्यङ्ग्यबोधने क्षमत्वम् ।
न च संकेतितो रसादिः ।
नहि विभावाद्यभिधानमेव तदभिधानम्, तस्य तदेकरूप्यानङ्गीकारात् ।
यत्र च स्वशब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः ।
क्वचिच्च "शृङ्गाररसो ऽयम्" इत्यादौ स्वशब्देनाभिधाने ऽपि न तत्प्रतीतिः, तस्य स्वप्रकाशानन्दरूपत्वात् ।
अभिहितान्वयवादिभिरङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रे परिक्षीणा न व्यङ्घ्यबोधिनी ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) व्याचष्टे---अभिधाया इति ।
ननु रसादिरभिधयैव बोध्यताम् इत्यत आहन च संकेतित इति ।
ननु विभावादिभिरेव रसादिभावादिः संकेतित एव इत्यत्राहन हीति ।
तदैक्यरूप्यं तत्स्वरूपता, विभावादिर्हि नायकादिः, रसश्च तद्व्यक्तेरत्यादिः ।
रसस्याभिधा गम्यत्वे बाधकान्तरमाह---यत्र चेति ।
काव्यान्तर्गतरसादिशब्देनाभिधाने तु न रसादिप्रतीतिरित्याह---क्वचिच्चेति ।
ननु रसादिर्नाभिधया बोध्यताम्, नैयायिकस्वीकृतया तात्पर्याख्यया वृत्त्या बोध्यतामित्यत आह---अभिहितान्वयेति ।
लोचना:
(लो, इ) संकेतितो वाच्यार्ऽथः ।
रसादिरपि कथं न संकेतित इत्याशङ्क्याह---न चेति ।
कुत इत्याह---न हीति ।
यदि स्यादयमर्थः ।
यदि रसादेः संकेतितत्वमुच्यते तत् किं विभावादिवाचकेन शब्देन ? किं स्वशब्देना वा ? नाद्यः, तस्य विभावादिभिर्व्यञ्जनीयत्वात् ।
स्वशब्दाभिधाने च न तस्य प्रतीतिः किन्तु दोष एव ।
स्वशब्दो हि रसशब्दः, शृङ्गारादिशब्दो वा इत्यर्थः ।
"शृङ्गारः सखि ! मूर्तिमानिव मधौ मुग्धो हरिः कीडती"त्यादौ च विभावादिसामग्रयादेव तद्व्यञ्जकत्वम् न तु शृङ्गारादिशब्दस्य ।
संसर्गमात्रेण प्रत्येकं पदैरभिहितांनामर्थानामित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यच्च केचिदाहुः---"सो ऽयमिषोरिव दीर्घदीर्घतरो ऽभिधाव्यापरः" इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) उभयसिद्धवाच्यार्थस्य बोधिका शक्तिरूपा वृत्तिरेव व्यङ्ग्यबोधिका, यथा धनुर्धरमुक्तेन इषुणा प्रतिसंहितमेकं लक्ष्यं दीर्घेण वेगरूपव्यापारेण भित्त्वा अप्रतिसंहितं लक्ष्यान्तरमपि दीर्गतरीभूतेन तेनैव वेगरूपव्यापारेण भिद्यत इति यत् केषाञ्चिमतम्, यच्च तात्पर्यवृत्तिरेव व्यङ्ग्यबोधिका इति ध्वनिकस्य मतम्, दूषयितुं कदुभयमुत्थापयति---यच्च केचिद् इति ।
सो ऽयमित्यभिधैव व्यङ्ग्यबोधिकेति यत् कैश्चिदुक्तं तत्र सो ऽयमित्यभिधानरूपेषोर्व्यापार इवेत्यर्थः ।
लोचना:
(लो, ई) यच्चेति ।
अयमर्थः--यथा खलु धनुष्मता मुक्तो बाण एकेनैव वेगरूपव्यापारेण शत्रोः कवचादिकमनेकं भिनत्ति, तथैक एव शब्दस्य व्यापारो यावदुद्देश्यं बोधयति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यच्चधनिकेनोक्तम्---
"तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः ।
यावत्कार्यप्रसारित्वात्तात्पर्यं न तुलाधृतम्" ॥
इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) यच्च ध्वनिकेति---तात्पर्यव्यतिरेकादिति---व्यञ्जकत्वस्य व्यञ्जनायास्तात्पर्याततिरिक्तत्वाद् असौ नं ध्वनिर्न व्यञ्जना, किन्तु तात्पर्यमेवेत्यर्थः ।
यावत्कार्मं यावदर्थबोधनरूपं कार्यम्, तत्रप्रसारित्वात्तात्पर्यम्, न तुलाधारणेन नियमितमित्यर्थः ।
लोचना:
(लो, उ) ध्वनिको दशरूपकर्ता ।
तात्पर्यकार्यमुद्देश्यम्, यदर्थं शब्दप्रयोग इति भावः ।
न तुलया धृतम्; क्वचिन्निरूद्धप्रसरीकृत्य वाक्यार्थबोधनमात्रे व्यवस्थापितम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तयोरुपरि "शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इति वादिभिरेव पातनीयो दण्डः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) तयोरुपरीति ।
इषुव्यापारवादितात्पर्यवादिनोरुपरीत्यर्थः ।
वाच्यव्यङ्ग्ययोर्युगपद्बोधने तात्पर्यसत्त्वे क्रमशो बोधनानुपपत्तिः, क्रमशो बोधे च तत्सत्त्वे विरम्य व्यापारभाव इत्यर्थः ।
इदं च दूषणं न रुचिरम्; व्यञ्जनावादिनापि क्रमशो बोधाङ्गीकारेण विरम्य व्यापारस्वीकारात् ।
तात्पर्यसत्त्वे वृत्तिभेद एव विरम्य व्यापारः स्वीक्रियते, न तु एकया वृत्त्या इति चेन्न ।
तात्पर्यस्यैव नियामकत्वेन वृत्तिभेदस्याकिञ्चित्करत्वात्; शब्दविरतेश्चोभयत्र साम्यात् ।
तस्मात् क्रमशो बोधेन तात्पर्यग्राहकाभाव एव तयोरुपरि दोषः ।
न च फलमेव तद्ग्राहकमिति वाच्यम्; फलस्य तात्पर्योत्तरभावित्वात् ।
क्रमशो व्यञ्जनया बोधने तु वक्तृबोद्धवायदिवैशिष्ट्यमेव तात्पर्यग्राहकम् ।
न चैवं तद्ग्राहितं तदेवं तात्पर्यं ध्वनिकमते वृत्तिरस्तु, न व्यञ्जनेति वाच्यम् "इत्यत्रातात्पर्यविषयस्य व्यङ्ग्यशृङ्गारस्य अपराङ्गम्, यथा वा "सुरभिमांसं भुङ्क्ष्व "इति सुगन्धिमांसतात्पर्यके वाक्ये धेनुमांसव्यञ्जना ।
दीर्घदीर्घतराभिधावादिमते तु तदभिधाग्राहककोषाद्यभाव एव दोषः, अगृहीतथैवाभिधया व्यङ्ग्यबोधनोक्तिस्तत्प्रमाणाभावेनैव निरसनीया ।
लोचना:
(लो, ऊ) विरम्य व्यापाराभाववादिभिः--अभिहितान्वयवादिभिः ।
किमस्माकमार्द्रकवणिजां वहित्रचिन्तया इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एवं च किमिति लक्षणापुयपास्या ? दीर्घदीर्घतराभिधाव्यापारेणापि तदर्थबोधसिद्धेः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) अभिधारूपाया वाच्यार्थबोधकवृत्तेर्व्यङ्ग्यबोधकत्वे दोषान्तरमाह--एचञ्चेति ।
लोचना:
(लो, ऋ) एवं च यदि शब्दश्रुतेरनन्तरं यावानर्थो ऽवगम्यते तावति शब्दस्याभिधा एव वायपार इति भावः ।
"लक्षणाऽ; इत्यनन्तरं पृथगिति शेषः ।
तदर्थो लक्षणीयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
किमिति च "ब्राह्मण ! पुत्रस्ते जातः, कन्या ते गर्भिणी" इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) ननु न अङ्गीकार्यैव लक्षणा इत्यत आह---किमिति चेति ।
कन्येति---अत्र कन्या अदत्ता; तस्या एव गर्भे पितुः शोकात् ।
अत्र हि सम्बोध्यव्राह्मणसन्निहितापरजनस्य तादृशशब्दश्रवणानन्तरं व्राह्मणस्य हर्षशोकावगमात् तच्छब्दीयदीर्घतराभिधयैव तद्वोधसम्भवेन तयोर्वाच्यतापत्तिरित्यर्थः ।
लोचना:
(लो, ॠ) अनुपपत्त्यन्तरमाह--किमिति चेति ।

अयमर्थः--हर्षादयो हि न केनापि वाच्यत्वेनाभ्युपगम्यन्ते, यतो ऽमी वाच्यार्थप्रतीत्या न कियन्ते ।
न खलु शब्दस्य कारकत्वं, ज्ञापकत्वात्तस्य ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यत्पुनरूक्तं "पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वे ऽनुपादेयत्वादुन्मत्तवाक्यवत् ।
ततश्च काव्यशब्दानां निरतिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेर्निरतिशयमुखास्वाद एव कार्यत्वेनावधार्यते ।
"यत्परः शब्दः स शब्दार्थः" इति न्यायात्" इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) यत्परः शब्दः स शब्दार्थः "इति जैमिनिवाक्यमेव व्यङ्ग्यबोधने तात्पर्याख्यवृत्तौ प्रमाणमिति मतं दूषयितुमुत्थापयति---यत्पुनरिति ।
पौरुषेयं लौकिकवाक्यम्, अपौरुषेयं वैदिकवाक्यम् ।
कार्यपरम्---साध्यतात्पर्यकम् ।
ननु कार्यपरत्वे प्रकृते किमायातमित्यत आह---ततश्चेति ।
निरतिशयसुखास्वाद एव कार्यत्वेनानुभूयत इति ।
तथा च सुखास्वादकारणता काव्यवाक्यस्य व्यङ्ग्यबोधद्वारेणैव एतद्वाक्यस्य व्यङ्ग्यतात्पर्यकत्वात् ।
स शब्दार्थ इति ।
जैमिनिवाक्यस्य सशब्दस्य तात्पर्यवृत्तिलभ्योर्ऽथ इतियर्थः ।
काव्यप्रकाशे तु अस्य वाक्यस्य भिन्न एवार्थः कृतः ।
तथा हि--"यत्परो यत्साध्यतात्पर्यकः शब्दः स शब्दस्य प्रामाण्यनियामकोर्ऽथः न तु सिद्धंशे तस्य शब्दस्य प्रामाण्यम्"इति ।
यथा,"गामभ्याज"इत्यत्र साध्यांशो ऽभ्याजनं प्रामाण्यनियामकोर्ऽथो न तु सिद्धगवांशः; यथा वा, "दध्ना जुहोति"इत्यत्र दध्नः करणत्वं पाध्यांशस्तु तथा; न तु वाक्यान्तरतः सिद्धहोमांश इति ।
लोचना:
(लो, ऌ) सम्प्रति गुरुमतैकदेशीयस्य, "यत्परः शब्दः स शब्दार्थः "इति वादिनो मतमाशङ्क्य दूषयति---यत्पुनर इति ।
पौरुषेयमित्यादिन्यायादित्यन्तः शङ्कग्रन्थः ।
तत्रेत्यादिना सिद्धान्तः ।
पौरुषेयं लौकिकम् अपौरुषेयो वैदिकम् ।
कार्यमुद्देश्यम् ।
ततश्च यस्मादेवमनुमानमित्यर्थः ।
प्रतिपाद्यो यं प्रति वाक्यं श्राव्यते; प्रतिपादकस्तस्य श्रावयिता ।
कार्यत्वेनावधार्यते इत्यर्थः ।
तस्मान्निरतिशयसुखास्वादरूपो रसादिरूपोर्ऽथः शब्दस्य तात्पर्यविषयो जातः किं वृत्त्यन्तरकल्पनयेति ।
यत्पसे यदुद्देश्यप्रयुक्तः; स शब्दार्थः शब्देनावश्यं बोद्धव्यः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र प्रष्टव्यम्-किमिदं तत्परत्वं नाम, तदर्थत्वं वा, तात्पर्यवृत्त्या तद्वोधकत्वं वा ? आद्ये न विवादः, व्यङ्ग्यत्वे ऽपि तदर्थतानपायात् ।
द्वितीये तु--केयं तात्पर्याख्या वृत्तिः, अभिहितान्वयवादिभिरङ्गीकृता, तदन्या वा ? आद्ये दत्तमेवोत्तरम् ।
द्वितीये तु---नाममात्रे विवादः, तन्मते ऽपि तुरीयवृत्तिसिद्धेः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि ञ) स्वयं कल्पितार्थे वितर्कयति---तत्र प्रष्टव्यमिति ।
स शब्दार्थ इत्यस्य वाक्यस्य तत्परत्वमर्थः तदेव तत्परत्वं पृच्छति---किमिदमिति ।
तदर्थत्वम्तत्प्रतीतिप्रयोजनकत्वम् ।
तदर्थत्वानपायात्---तत्प्रतीतिप्रयोजनकत्वानपायात् ।
दत्तमेवोत्तरमिति---संसर्गमात्र एव तैस्तात्पर्याख्यवृत्त्यभ्युपगमादित्यर्थः ।
तदन्या वा इति तात्पर्याख्या वृत्तिः संसर्गं बोधयित्वा व्यङ्ग्यार्थमपि बोधयतीति ध्वनिकेन यदुक्तं तच्च प्रागेव दूषितम् ।
ततो ऽन्या वेत्यस्य तात्पर्यभिन्नो ऽतिरिक्तपदार्थ इत्येवार्थः ।
नाममात्रेति---अङ्गीकृतायां तुरीयवृत्तौ, "व्यञ्जना वा तात्पर्यं वा तन्नामऽ; इत्येव विवाद इत्यर्थः ।
लोचना:
(लो, ए) तत्रेति---यदुक्तं पौरुषेयमित्यादि तत्र प्रष्टव्यमित्यर्थः ।
तदर्थत्वं तस्य शब्दस्यार्थत्वम् ।
दत्तमेवोत्तरं तयोरुपरीत्यादिना ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंसर्गस्य रसादेश्च प्रकाशनम्-इति चेत् ? न, तयोर्हेतुफलभावाङ्गीकारात् ।
यदाह मुनिः--"विभावानुभावव्यभिचारिसंयोगद्रसनिष्पत्तिः" इति ।
सहभावे च कुतः सव्येतरविषाणयोरवि कार्यकारणभावः ? पौर्वापर्यविपर्ययात् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) ननु अतिरिक्तपदार्थरूपा तुरीया वूत्तिर्ध्वनिकेन नोच्यते, किन्तु कॢप्ततात्पर्यमेव व्यङ्ग्यबोधकम् ।
तेन च क्रमशो बोधन एव, "शबादबुद्धिकर्मणाम् "इत्याद्युक्तं दूषणं युगपदेव तेन बोध्यतामित्याशङ्कते---नन्विति ।
तात्पर्यशक्त्या तात्पर्यरूपतया वृत्त्या ।
तयोः विभावादिसंसर्गप्रकाशनरसादिप्रकाशनयोरित्यर्थः ।
रसनिष्पत्तिरित्यत्र रसस्य ज्ञाननिष्पत्तिरेव निष्पत्तिः स्वप्रकाशस्य स्वज्ञानाभिन्नत्वात् ।
पञ्चम्या च विभावादिसंसर्गज्ञानस्य कारणताप्रदर्शनात् ।
सहभावेनोत्पत्तौ तद्दर्शितकारणतानुत्पत्तिं दर्शयति---सहभावे चेति ।
सव्येत्ररविषाणे वामदभिणगावादिशृङ्गे ।
लोचना:
(लो, ऐ) नन्विति ।
प्रकाशनमित्यनन्तरं,"तथा सति विरम्यव्यापारो न भविष्यति"इति शेषः ।
अनयैव दिशा प्रतीयमानयोर्वस्त्वलङ्कारयोरपि,"यत्परः शब्दः स शब्दार्थः"इतिन्यायाश्रयेण व्यञ्जनाङ्गीकारो ऽनुपपन्न एव ।
किञ्च, "यत्परः शब्दः स शब्दार्थः"इति न्यायमङ्गीकुर्वतां व्यञ्जनानङ्गीकारे वानीरकुञ्ज इत्यादौ गुणीभूतः प्रतीयमानोर्ऽथः प्रथममवतरन् शब्दस्य तत्परत्वाभावात् कस्य व्यापारस्य विषयतामवलम्बताम् ? ननु तर्हि भट्टनयवत्, "पीनो देवदत्तो दिवा न भुङ्क्ते ।
ऽ; इत्यादौ, "रात्रौ भुङ्क्तेऽ; इत्यादिवदत्रापि व्यङ्ग्यार्थप्रतीतौ वाक्यशेषं कल्पतामिति चेन्न ।
"धर्मिकल्पनातो वरं धर्मकल्पना"इति न्यायाद् व्यापारन्तरकल्पनस्यैव न्याय्यत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"गङ्गायां घोषः" इत्यादौ तटाद्यर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्ग्यबोधकता ।
तेन तुरीया वृत्तिरुपास्यैवेति निर्विवादमेतत् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) ननु लक्षणामूलव्यञ्जना नाद्रियताम्, एकयैव लक्षणया लक्षयव्यङ्ग्यार्थद्वयं बोध्यतामित्यत आह---गङ्गायामिति ।
लोचना:
(लो, ओ) एवं पूर्वोक्तव्यङ्ग्यानामभिधातात्पर्यावेद्यत्वं निरस्य लक्षणावेद्यत्वं दूषयति---गङ्गायामिति ।
उपसंहरति---तेनेति ।
तेन हेतुना ।
********** एन्द् ओf चोम्मेन्तर्य् **********
किंच---
बोद्धृस्वरूपसंख्यानिमित्तकार्यप्रतीतिकालानाम् ।
आश्रयविषयादीनां भेदाद्भिन्नो ऽभिधेयतो व्यङ्ग्यः

5.3

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) ननु अभिधा लक्षणा च दीर्घतरीभूतैव व्यङ्ग्यार्थं बोधयतु, कुतस्तयोर्विरामः? शब्दस्य विरम्यव्यापारस्तु भवन्मते व्यङ्ग्यबोधन इव स्वीकार्य इत्यतो वैधर्म्यादेव वाच्यव्यङ्ग्यबोधकव्यापारयोर्भेदं साधयति ।
किञ्च---बोद्धृस्वरूपेति---बोद्धा, स्वरूपम्, संख्या, निमित्तम्, कार्यम्, प्रतीतिः, कालः, आश्रयः, विषयश्चेत्यादीनां च भेदादित्यर्थः ।
एषां भेदं स्वयमेव दर्शयिष्यति ।
भिन्नो ऽभिधेयतो व्यङ्ग्य इति---यद्यपि अभिधाव्यञ्जनयोरेव भेदः प्रदर्शनीयः, तथापि तद्भेदप्रदर्शनेनैव तद्वोधकस्यापि भेदः प्रदर्शित इत्याशयेन इत्थमुक्तम् ।
लोचना:
(लो, औ) व्यङ्ग्यस्याभिधेयत्वे दूषणान्तरमवतारयति---किञ्चेति ।
भेदादित्यस्य बोद्ध्रित्यादौ प्रत्येकमन्वयः ।
तेन बोद्धृभेदात्, स्वरूपभेदात्, संख्याभेदादित्यादि बोद्धव्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वाच्यार्थव्यङ्ग्यार्थयोर्हि पदतदर्थमात्रज्ञाननिपुणैर्वैयाकरणैरपि सहृदयैरेव च संवेद्यतया बोद्धृभेदः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) तत्र बोद्धृभेदं दर्शयति---वाच्यार्थव्यङ्ग्यार्थयोरिति ।
वाच्यार्थस्य वैयाकरणैर्वेद्यतया, व्यङ्ग्यार्थस्य च सहृदयैरित्येवं यथासंख्यमन्वयः ।
वैयाकरण हि पदस्य पदवाच्यार्थस्य ज्ञानमात्रे निपुणाः, न तु व्यङ्ग्यार्थज्ञाने ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"भम धम्मिअ--" (242 पृ.) इत्यादौ क्वचिद्वाच्ये विधिरूपे निषधरूपतया, क्वचित् "निः शेषच्युतचन्दनम्-" (62 पृ.) इत्यादौ निषेधरूपे विधिरूपतया च स्वरूपभेदः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) स्वरूपभेदं दर्शयति---भमेति ।
अत्र भ्रमणविधिर्वाच्योर्ऽथः ।
अभ्रमणं निषेधो व्यङ्गयः ।
निषेधरूपे इति---तदन्तिके ऽगमनं निषेधो वाच्यः ।
तदन्तिके गमनविधिर्व्यङ्ग्य इत्यर्थः ।
विधिरूपे वाच्ये ज्ञाते सति निषेधिरूपतया व्यङ्ग्यो ज्ञायत इत्यर्थः ।
एवमुत्तरत्रापि ।
लोचना:
(लो, अ) "निः शेषच्युतचन्तनम् ऽ; इत्यादौ "गतासीत्"इत्यर्थस्य व्यङ्ग्यत्वमङ्गीकृत्य विधिरूपत्वोक्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"गतो ऽस्तकर्कः" इत्यादौ च वाच्योर्ऽथ एक एव प्रतीयते ।
व्यङ्ग्यस्तु तद्वोद्ध्रादिभेतात् क्वचित् "कान्तमभिसर" इति, "गावो निरुध्यन्ताम्" इति, "नायकस्यायमागमनावसरः" इति, "संतापो ऽधुना नास्ति" इत्यादिरूपेणानेक इति संख्याभेदः ।
लोचना:
(लो, आ) बोद्ध्रादीत्यादिशब्देन वक्तृप्रकरणादयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वाच्यार्थः शब्दोच्चारणमात्रेण वेद्यः, एष तु तथाविधप्रतिभानैर्मल्यादिनेति निमित्तभेदः ।
प्रतीतिमात्रकरणाच्चमत्कारकरणाच्च कार्यभेदः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) संख्याभेदं दर्शयति---वाच्यार्ऽथः इति ।
एष इति---व्यङ्ग्यैत्यर्थः ।
कार्यभदं दर्शयति---प्रतीतिमात्रेति---अभिधाया अभिधेयप्रतीतिमात्रं कार्यम्, व्यञ्जनायास्तु चमत्कारो ऽपि कार्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
केवलरूपतया चमत्कारितया च प्रतीतिभेदः ।
पूर्वपश्चाद्भावेन च कालभेदः ।
शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाश्रयत्वेन चाश्रयभेदः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) कालभेदं दर्शयति---पूर्वपश्चादिति ।
आश्रयभेदं दर्शयति---शब्दाश्रयत्वेनेति ।
अभिधायाः शब्दमात्रामाश्रयः ।
व्यञ्जनायास्तु शब्दतदेकदेशवर्णादिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"कस्स व ण होइ रोसो दट्ठूणपिआएं सव्वणं अहरं ।
सब्भमरपडमग्घाइणि वारिअवामे सहसु एङ्णिं" ॥
इति सखीतत्कान्तविषयत्वेन विषयभेदः ।
तस्मान्नाभिधेय एव व्यङ्ग्यः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) विषयभेदं दर्शयति---"कस्स वा ण होइऽ; इति ।
कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् ? सभ्रमरपद्माघ्रायिणि ! वारितवामे ! सहस्वेदानीम् ।
"इति संस्कृतम् ।
उपनायकदष्टाधरां पत्नीं तर्जयन्तं प्रति नायिकासख्याः प्रतारणोक्तिरियम् ।
हे वारितवामे ! वारिते सभ्रमरपद्माघ्राणे वामे प्रतिकूले इत्यापाततः ।
"वारितायामधरदंशपर्यन्तायां रतौ वामेऽ; इति तु गूढम् ।
सहस्वेत्यत्र पत्युस्तर्जनकर्म बोध्यम् ।
सखीतत्कान्तेति---वक्तर्याः सखी नायिका, तत्कान्तस्तत्पतिः ।
तद्विषयत्वेनतज्ज्ञानविषयत्वेन ।
नायिकया हि प्रतीयते इयं प्रतारयतीत्येवं व्यङ्ग्यार्थः ।
तस्मादिति---व्यङ्ग्यार्थो नाभिधागम्य इत्यर्थः ।
लोचना:
(लो, इ) कस्स वा णेति---वारितादर्थाद् वामे प्रतिकूलकारिणि ।
तत्र वाच्यं सखीविषयम्, "भ्रमरेण दष्टधरेयं, न पुनः परकामुकेनऽ; इति व्यङ्ग्यं तु कान्तविषयम् ।
एवं बोद्धृस्वरूपादिभेदे ऽपि यदि वाच्यव्यङ्ग्ययोरेकत्वं तदा क्वचिदपि नीलपीतादौ नरपुङ्गवादौ भेदो न स्यादित्याशयः ।
ननु गतो ऽस्तमर्क इत्यादिवाक्ये प्रकरणादिरूपज्ञापकान्तरसहायेनैव बोधितस्य कान्तमभिसरेत्यादिव्यङ्ग्यार्थस्य कथं शब्दप्रमाणबोध्यत्वम्, शब्दैकसमधिगम्यत्वाभावाद्, इति चेदत्र केचिदाहुः-यथा शब्दबोधितस्य क्वचिद् वाच्यस्यार्थस्य सत्यासत्यत्वजिज्ञासायां सत्यत्वमनुमानविषय इति शब्दानुमानप्रमाणयोर्भिन्नविषयत्वम् ।
व्यङ्ग्यस्तु एव एव शब्दप्रमाणेन प्रकरणादिबोध्य इति दृष्टान्तदार्ष्टान्ति कयोर्वैषम्यम् ।
तत्र का गतिरिति चेत्---तत्रैवं सङ्गतिः ।
यथा प्रकरणादेर्विष्ण्वाद्यनेकाभिधेयस्यापि हर्याद्यभिधेयावच्छेदकत्वं तथानेकव्यञ्जकस्यापि शब्दस्य एकव्यङ्ग्ये प्रकरणदिसाहाय्यस्येति कर्तव्यतारूपतया शब्दस्याङ्गत्वं स्वाङ्गस्य चाव्यवधायकत्वं न्यायसिद्धमेविति न शब्दप्रमाणव्याकोपः ।
इह च यद्यपि वाक्यार्थस्य प्रतीत्यनन्तरं तस्य सत्यासत्यत्वजिज्ञासायां सत्यत्वं प्रमाणान्तरेणानुमानेनैव बोध्यते, तथापि सत्यासत्यत्वजिज्ञासातः पूर्वमुपपन्नाया वाक्यार्थप्रमाया अप्रमाभावात् शब्दैकसमधिगम्यत्वाच्च न शब्दप्रामाण्यव्याकोपः ।
न हि चक्षुरादिना प्रतीतौ सत्यासत्यत्वप्रत्यक्षप्रामाण्यं व्याकुप्येत ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तथा---
लोचना:
(लो, ई) तथेति ।
न खलु एतावतैव व्यङ्ग्यानामभिधालक्षणाबोध्यत्वं नास्ति, अपि तु इतरधापीत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रागसत्वाद्रसादेर्नो बोधिके लक्षणाभिधे ।
किञ्चि मुख्यार्थबाधस्य विरहादपि लक्षणा

5.4

"न बोधिका" इति शेषः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) रसादिबोधिका न लक्षणा नापि अभिधा सम्भवतीत्याह--प्रागसत्त्वादिति ।
तत्काव्यस्थशब्दजन्यो यो रसस्तस्य शब्दबोधानन्तरमेव जन्यमानत्वात् तत्प्राक् तस्यासत्त्वात् तत्र तत्काव्यस्थशब्दस्य शक्तेर्लक्षणाया वा ग्रहीतुमशक्तत्वादित्यर्थः; प्रागुपस्थिते वस्तुन्येव तयोर्ग्रहणसम्भवात् ।
ननु काव्यात् प्रथममनुभूयमानो यो रसस्तन्निष्ठसामान्यधर्मरूपया सामान्यलक्षणया उपस्थिते भाविन्यपि रसे शक्तिग्रहो ऽस्त्विति चेन्न ।
शक्त्या लक्षणया वा प्राथमिकरसबोधस्यैव तत्सम्भवात् प्राक् तस्यानुपस्थितत्वात् विभावादिवाचकशब्दानांतत्र शक्तिग्रहकत्वाभावाच्चेत्यपि बोध्यम् ।
नापि कोषग्राहितशक्तिकात् काव्यस्थशृङ्गारादिशब्दात्तद्वोधः, अननुभवात् ।
प्रत्युत तत्सत्त्वे रसादेः स्वशब्दवाच्यतादोषस्यैव वक्ष्यमाणत्वात् ।
अतः शृङ्गारादिशब्दाबोध्यत्वे रसत्वानाप्तेः; किन्तु विभावाद्यभिधानद्वारैव तत्प्रतीतेरानुभाविकत्वात् ननु इह काव्यस्थात् शृङ्गारादिशब्दाज्ज्ञातस्य रसस्य प्रागुपस्थितत्वेन विभावादिवाचकशब्दैर्लणया रसादेर्बोधो ऽस्तु इत्यत आह---किञ्च मुख्यार्थेति ।
लक्षणेत्यस्य शेषाञ्चलं पूर्वतो ऽनुषञ्जयति---न बोधिकेति ।
लोचना:
(लो, उ) प्रागिति ।
अयमर्थः--रसभावादेर्व्यङ्ग्यस्य प्रागसत्त्वाल्लक्षणाभिधे न बोधिके ।
त्रयाणामपि व्यङ्ग्यानां मुख्यार्थबाधविरहादपि न लक्षणा बोधिकेति ।
अपिः पूर्वोक्तसमुच्चये ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नहि को ऽपि रसनात्मकव्यापारद्भिन्नो रसादिपदप्रतिपाद्यः प्रमाणसिद्धो ऽस्ति, यमिमे लक्षणाभिधे बोधयेताम् ।
किंञ्च, यत्र"गङ्गायां घोषः" इत्यादावुपात्तशब्दार्थानां बुभूषन्नेवान्वयो ऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) ननु रसे ऽपि तात्पर्यसत्त्वाल्लक्षणां विना तदनिर्वाह एव मुख्यार्थबाध उच्यत इत्यत आह--न हीति ।
यदि रसादिशब्दात्तस्य प्रागुपस्थितिस्तदैव तस्य लक्षणया बोधार्थमुक्तरूपमुख्यार्थबाधनिर्वचनं सैव तु नेत्यर्थः ।
रसनात्मको व्यञ्जनात्मको व्यापारो यस्य, एतादृशरसाद् भिन्न एव रसादिप्रतिपाद्य इत्यर्थः ।
बुभूषन्--भवितुमिच्चन् ।
प्रवाहादौ घोषाद्यन्वयः ।
लोचना:
(लो, ऊ) प्रमाणासिद्ध इत्यनन्तरम्, "क्वचिद्"इति शेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यदुक्तं न्यायकुसुमाञ्जलावुदयनाचार्यैः---
"श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ।
पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) अस्मिन्नर्थे संवादं दर्शयति---तदुक्त्म् इति ।
श्रुतान्वयात्--श्रुतपदार्थयोरन्वयसम्भवात्; अबाधितादन्यत्रानाकाङ्क्षं वाक्यमन्यद्धि नेच्छति नाकाङ्क्षति ।
पदार्थान्वयवैधुर्यात्--पदार्थयोरन्वयासम्भवात् ।
तदाक्षिप्तेन--तदुल्लिखितेन ।
सङ्गतिरन्वय इत्यर्थः ।
लोचना:
(लो, ऋ) श्रुतान्वयादिति ।
अन्यत्---पदार्थान्तरम् ।
नेच्छति नापेक्षते ।
यदि तु "गङ्गायां घोषःऽ; इत्यादौ पदार्थानामन्वयकाल एव बाधप्रतिभासाद्यन्वयस्य विधुरीभावस्तदा तेन पदार्थेन जलमयादिना आक्षिप्तो यस्तटादिस्तेन सङ्गतिरन्वय इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
न पुनः "शून्यं वासगृहम्--" इत्यादौ (22 पृ.) मुखायाथबाधः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) एवं, "शून्यं वासगृहम्ऽ; ।
इत्यादौ शून्यवासगृहादीनां विलोकनाद्यन्वयाबाधात् न रसलक्षणेत्यह--न पुनरिति ।
लोचना:
(लो, ॠ) ततः किमित्यत आह---न पुनरिति ।
तत्कथं रसादिप्रतीतौ लक्षणा इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यदि च "गङ्गायां घोषः" इत्यादौ प्रयोजनं लक्ष्यं स्यात्, तीरस्य मुख्यार्थत्वं बाधितत्वं च स्यात् ।
तस्यापि च लक्ष्यतया प्रयोजनान्तरं तस्यापि प्रयोजनान्तरमित्यनवस्थापातः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) नन्वेवं रसबोधनार्थमेव व्यञ्जना स्वीक्रियताम्; "गङ्गायां घोषःऽ; इत्यादौ यत् शैत्यपावनत्वं च व्यङ्ग्यमुक्तं तीरलक्षणानन्तरं तत्रापि लक्षणैवास्तु; किं व्यञ्जनया ? इत्याह---यदि चेति ।
प्रयोजनं प्रयोजनीभूतज्ञानाविषयः ।
मुख्यार्थत्वं बाधितत्वं च स्यादिति---उभयमेव तु नास्तीति शेषः ।
प्रयोजनस्य लक्ष्यत्वे ऽनवस्था स्यादित्यत आह--तस्यापीति ।
अनवस्थापात् इत्यत्र अनवस्थापातश्चेत्यर्थः ।
लोचना:
(लो, ऌ) नन्वेवं विवक्षितान्यपरवाच्ये ध्वनौ मास्तु लक्षणा; अविवक्षितवाच्ये तु शीतत्वपावनत्वादिरूपं प्रयोजनं लक्षणीयमस्तित्वत्याशङ्क्याह---यदि चेति ।
शब्दो हि प्रथमं मुख्यमर्थं प्रतिपाद्य तस्य वाक्यार्थान्वयानुपपत्तौ तत्सम्बन्धिनमर्थं लक्षयति ।
इह यदि तीरप्रत्ययानन्तरं बोध्यं प्रयोजनं लक्षयति तदा गङ्गाशब्दस्य तीरं मुख्योर्ऽथः स्यात् ।
तस्य च वाक्यार्थान्वयानुपपत्तिः स्यात् इत्यर्थः ।
प्रयोजनलक्ष्यत्वे ऽनवस्थादोषो ऽपीत्याह---तस्यापीति ।
तस्य तया तक्ष्यतया अङ्गीकार्यस्य प्रयोजनान्तरम्, रूढिप्रयोजनाभावे लक्षणासम्भावादित्यर्थः ।
तस्यापि---द्वितीयप्रयोजनस्य ।
"अनवस्था या मूलक्षतिकारिणी"मूलं ह्यत्र तीरनिष्टस्य पावनत्वस्य च पूर्वपक्षेण लक्ष्यत्वेनाङ्गीकारः ।
तस्येवंविधानर्थमूलत्वेन परित्यागो न्याय्य इति भावः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
न चापि प्रयोजनविशिष्ट एव तीरे लक्षणा ।
विषयप्रयोजनयोर्युगपत्प्रतीत्यनभ्युपगमात् ।
नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्यवसायस्य वा संभवः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) ननु लक्ष्यार्थबोधानन्तरं यदि प्रयोजने लक्षणा तदैवानवस्था; शीतपावने तीरे घोष इत्येवं प्रयोजनविशिष्ट एव लक्षणास्त्वित्यत आह---न चापीति ।
तत्र गङ्गातीरे घोष इत्यतो ऽधिकार्थस्य प्रतीतिः प्रयोजनमिति काव्यप्रकाशकृदुक्तं प्रयोजनमनुसन्धेयम् ।
समाधत्ते--विषयप्रयोजनयोरिति ।
पावनत्वविशिष्टतीरलक्षणायां हि लक्षणाविषयस्तीरम्, विशेषणं पावनत्वादि ।
प्रयोजनं---प्रयोजनीभूतज्ञानविषयरूपं पावनत्वादि तयोर्युगपत्प्रतीतिः;--लक्षणायन्यैकप्रतीतिः; तदनभ्युपगमादित्यर्थः ।
ननु तदनभ्युपगमे किं बीजम् ? इति चेत्--लक्षणया यत्पावनत्वविशिष्टं ज्ञानं जनयितव्यं तत्प्रयोजनीभूतं ज्ञानं च तदेव पर्यवसितमित्यतः कार्यकारणयोरभेदापत्तिरेव बीजमिति सर्वत्र तु तयोर्भेद एव दृश्यते इत्याह--नीलादीति ।
नीलादिज्ञानं व्यवसायरूपं कारणं, तत्कार्यं तु ज्ञातता ।
नैयायिकानां मुरारेश्च मते ऽनुव्यवसायः तादृशकार्यकारणयोश्च क्रमोत्पत्तिरेव इत्यर्थः ।
क्रमिकयोश्च भेद इत्यर्थः
लोचना:

(लो, ए) ननु यदि तटाद्यर्थबोधनाय लक्षणावृत्तिराश्रयणीया, इह चैतद्विशिष्टमेव तटं लक्षणा बोधयतु किं वृत्त्यन्तरेण ? तथा हि गङ्गातादात्म्येन तटप्रत्ययस्तावल्लक्ष्यः, गङ्गातादात्म्यप्रतीत्या च तटस्य दैवसिद्धमेव शैत्यादिविशिष्टत्वमित्याशङ्क्याह--न चापीति---प्रयोजनविशिष्टे ऽपि लक्षणैत्यर्थः ।
कुतः ? इत्याह---
********** एन्द् ओf चोम्मेन्तर्य् **********
नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमम् ।
आभासत्वेन हेतूनां स्मृतिर्न च रसादिधीः

5.5

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) व्यक्तिविवेककारमते विभावादिभ्यो रत्याद्यनुमितिरेव रस; न रत्यादीनां व्यञ्जना--इति; तद्दूषयति--नानुमानम् इति ।
रसादीनां रत्यादीनां व्यङ्ग्यानां बोधनक्षमं बोधकारणं नानुमानमित्यर्थः ।
कुतः ? इत्यत्राह--आभासत्वेनेति ।
ग्रन्थकृन्मते हि ज्ञायमानविभावादीनां रत्यादिलिङ्गत्वसम्भवे ऽपि, रामः सीताविषयकरतिमान्; सीतादिविभावादिमत्त्वात् इत्यनुमितिर्न रसः तस्यानन्दस्वरूपत्वाभावेन अनास्वाद्यत्वात्; किन्तु शब्दान्वयव्यतिरेकानुविधायत्वेन व्यञ्जनया शाब्दबोधविषयो रत्यादिर्भावुकैर्भाव्यमानः स्वप्रकाशानन्दमयत्वेन परिणत आस्वाद्यमानो रसः ।
तस्य च व्यङ्ग्यत्वं प्रपानकरसन्यायेन, तच्छरीरप्रविष्टरत्यादेर्वा व्यङ्ग्यत्वादिति ।
तथा च तादृशरसस्य हेतूनां रत्यादिकार्यकारणसहकारिरूपाणां विभावादानामाभासत्वेन नानुमानं नानुमितिरित्यर्थः ।
तथा हि विभावादयः सीतादयो हेतवो मुतुबर्थदिदृक्षादिसम्बन्धेन रामादिवृत्तयः ।
साध्यस्तूक्तरूपो रसः काव्यबोद्धनिष्ठ इत्यतो हेतूनां विरुद्धत्वमसिद्धिश्चेति हेत्वाभासता ।
वृत्तावप्ययमर्थो व्यक्तिर्भविषयति ।
रसादिबुद्धिः स्मृतिरूपापि नेत्याह--स्मृतिर्न च रसादिधीः इति ।
संस्कारजन्यत्वेन रसादिबुद्धिः स्मृतिरूपेति केचिदाहुः ।
तच्च संस्कारजन्यप्रत्यभिज्ञायां व्यभिचारादाभासरूपमेवेत्यग्रे वक्ष्यते ।
वस्तुतस्तु स्वप्रकाशानन्दरूपत्वेनैव न स्मृतिः; तस्या एवंभावाभावात् ।
लोचना:
(लो, ऐ) एवं व्यङ्ग्यस्यास्य प्राचीनवेद्यत्वं निरस्य महिमभट्टेन खलु रसवस्त्वलङ्कारव्यञ्जकानां वाक्यानामन्तर्भावार्थं यदनुमानं दर्शितं तत्तद्धेत्वाभासदोषेण विधुरीकृतम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
व्यक्तिविवेककारेण हि--"यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति ।
विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीतेः साधनमिष्यते" ।
ते हि रत्यादीनां भावानां कारणकार्यसहकारिभूतास्ताननुमापयन्त एव रसादीन्निष्पादयन्ति ।
त एव प्रतीयमाना आस्वादपदवी गताः सन्तो लसा उच्यन्ते, इत्यवश्यंभावी तत्प्रतीतिक्रमः केवलमाशुभावितयासौ न लक्ष्यते, यतो ऽयमद्याप्यभिव्यक्तिक्रमः" इति यदुक्तम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) व्याचष्टे---व्यक्तिविवेककारेणेति ।
रसादिनिष्ठा रसादिविषया ।
क्वचित्तु, "रसादीनाम्ऽ; इति पाठः ।
तादृशी या विभावादिभ्यः प्रतीतिः सिद्धेत्यर्थः ।
तान् रसादीन्निष्पादयन्तीलि निष्पादनप्रकारमाह---त एवेति ।
त एव अनुमीयमाना रत्यादय एव पुनः पुनरनुशीलनादास्वाद्यपदवीं गताः सन्तो ज्ञानसम्बन्धेन सामाजिकनिष्ठरसतामापद्यन्त इत्यर्थः ।
तत्प्रतीतिक्रम इति---विभावादिज्ञानम्, ततो रत्यनुमितिः, ततः पुनः पुनरनुशीलनम्, तत आस्वाद इत्येवं प्रतीतिक्रम इत्यर्थः ।
आशुभावितया इति ।
रत्याद्यनुमितेर्विभावादिज्ञानानन्तर्यस्याशुभावितया व्यापत्याद्युपस्थित्यधीनानुमितिक्रमो न तक्ष्यत इत्यर्थः ।
किन्तु विभावादिभिरेव रत्यादिर्व्यज्यत इत्यवे भ्रमो जायत इत्याह---यतो ऽयमद्यापीति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र प्रष्टव्यम्--किं शब्दाभिनयसमर्पितविभावादिप्रत्ययानुमितरामादिगतरागादिज्ञानमेव रसत्वेनाभिमतं भवतः, तद्भावनयाभावकैर्भाव्यमानः स्वप्रकाशानन्दो वा ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) शब्दाभिनयेति---शब्दो विभावादिवाचकः शब्दः, अभिनयो नाट्याभिनयः, सर्मणं ज्ञापनम्, रागो ऽनुरागो रतिः ।
तदिति---पूर्वमेवेदं दर्शितम् ।
स्वप्रकाशानन्दो वेत्यत्रानुमिति इति शेषः ।
अनुमितिविषयस्यैव वितर्क्यमाणत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आद्ये न विवादः, किन्तु "रामादिगतरगादिज्ञानं रससंज्ञया नोच्यते ऽस्माभिः" इत्येव विशेषः ।
द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) न विवाद इति ।
रत्यादेरनुमानं व्यञ्जना चेति विवादो नापातत इत्यर्थः ।
तदैवात्र विवादः स्याद् यदा रामादिगतरत्यादिव्यञ्जनं मया रसत्वेनोक्तस्यात्, तदेव तु नेत्याह---किन्त्विति ।
मयोच्यते रामादिगतरत्यादेर्व्यञ्जनम्, ततश्च व्यङ्ग्यरत्यादिरेव सामाजिकरत्यादावभेदेनाऽप्यमाणो रसनाख्यव्यापारेणास्वाद्यमानो रस इति रसनिरूपणप्रस्तावोक्तसिद्धान्तः ।
स एव द्वितीयः पक्षः, तस्यानुमेयत्वासम्भव इत्याह---द्वितीयस्त्विति ।
व्याप्तिग्रहणाभावादिति---विरुद्धहेतौ तद्भावनियमादित्यर्थः ।
इदमुपलक्षणं स्वरूपासिद्धेश्चेत्यपिबोध्यम्, सीतादिविभावादिमत्त्वस्य रामादिमात्रवृत्तेर्न तु सामाजिके ।
ईदृशाभासतामाह---हेतोरिति ।
असिद्ध इत्यस्य द्वितीयः पक्षः विशेष्यम् ।
आभासत्वेन हेतूनामित्यस्य व्याख्यानमिदम् ।
लोचना:
(लो, ओ) हेतोराभासतयेति---"आभासत्वेन हेतूनाम्ऽ; इति कारिकापदार्थः ।
कथं हेतोराभासतेत्याह---व्याप्तिग्रहणाभावादिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यच्चोक्तं तेनैव---
"यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसञ्चारिणामभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः" इति सुग्रहैव व्याप्तिः पक्षधर्मता च ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) व्यक्तिविवेककारेण सम्बन्धविशेषणविभावादीनां यथोक्तानन्दरूपसव्याप्यता पक्षधर्मता च साध्यते, दूषयितुं तदप्युत्थापयति---यच्चोक्तमिति ।
सात्त्विकसंचारिणामिति---शृङ्गाररसानुमित्यभिप्रयेणोक्तम्, तेषां शृङ्गाररसस्यैव व्याप्यत्वात् ।
क्वचित्तु विभावानुभावसंचारिणामित्येव पाठो न सात्त्विकेत्यादिः ।
अभिधानं वाचकः शब्दः, अभिधेयो नाट्याम्, तद्व्यञ्जिका क्रिया, तदुभयमपि स्वविषयबोधाश्रयतासम्बन्धेन रसाश्रयसामजिकवृत्तिरिति व्याप्तिः ।
पक्षर्धमता च सुग्रहेत्यर्थः ।
लोचना:
(लो, औ) अत्र महिमभट्टदर्शितां व्याप्तिं दूषयित्वा व्याप्तिग्रहणाभावं द्रढयति--यच्चेत्यादि ।
पक्षधर्मतेत्यन्तेन ।
तस्मादतः शृङ्गाररसाविर्भाव इति रूपः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तया--
"यार्ऽथान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनम् ।
सैवानुमितिपक्षे नो गमकत्वेन संमता" ॥
इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) अस्मिन्नेतस्य कारिकामाह--यार्थान्तरेति ।
अर्थान्तरस्य रसस्याभिव्यक्तौ आस्वादने निबन्धनकारणं वो युष्माकं या सामग्रीष्टा सैव विभावादिरूपा सामग्री नो ऽस्माकं मते गमकत्वेन अनुमापकत्वेन सम्मतेर्यर्थः ।
लोचना:
(लो, अ) भवद्भिरेवंविधा व्याप्तिरन्वेष्टव्येत्यत आह--यार्थेति ।
अर्थान्तराभिव्यक्तौ या सामग्री कारणम् इष्टा सैवास्माकमनुमितौ लिङ्गमित्यर्थः ।
सामग्रीभावे ऽपि हि व्यङ्ग्यार्थप्रतिपत्तौ यतः कुतश्चिदपि यदेव तदेव प्रतीयते ।

एवं व्यङ्ग्यस्य प्रकाशने लिङ्गमवश्यमन्वेष्टव्यम् ।
तस्य व्याप्तिग्रहणं विना आभासतैव स्यादिति भवतामपि व्याप्तिग्रहणं विना व्यङ्ग्यज्ञानं न सम्भवतीति भावः ।
सम्मतेत्यत्रेतिपदस्य यच्चोक्तमित्यत्र सम्बन्धः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इदमपि नो न विरुद्धम् ।
न ह्येवंविधा प्रतीतिरास्वाद्यत्वेनास्माकमभिमता किन्तु--स्वप्रकाशमात्रविश्रान्तः सान्द्रानन्दनिर्भरः ।
तेनात्र सिषाधयिषितादर्थादर्थान्तरस्य साधनाद्धेतोराभासता ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) दूषयति---इदमपीति ।
अनुमितिर्हि न स्वप्रकाशानन्दरूपा इत्यर्थः ।
निर्भरस्तद्रूपः, तादृश एव सिषाधयिषित इत्यर्थः ।
सिषाधयिषितत्वं चात्र इच्छाविषयत्वमात्रम्, न तु अनुमित्सितत्वम्, रसे ऽनुमित्यभावात् ।
आभासता असिद्धसाधनरूपाभासता ।
इदं दूषणं सौलभ्यादेवोक्तम् ।
वस्तुतस्तु सामाजिके सात्रात्क्रियमाणः स्वप्रकाशानन्दो ऽनुमीयत एव न, अनुमित्साभावात्, न हि तस्य नियमतो ऽनुमित्सा भवति, रसबोधस्तु नियमत एव ।
तथा ज्ञातविभावादिरूपा सामग्री रसाबोद्धुर्जनस्याप्यस्तीति व्यभिचारश्चेति बोध्यम् ।
लोचना:
(लो, आ) सिद्धान्तमाह---इदमपीति ।
इदं महिमभट्टस्य समनन्तरोक्तम् ।
सिषाधयिषितोर्ऽथो रसादेरनुमानान्तर्भावः ।
साधितमर्थान्तरम् ।
तत्र काव्ये शृङ्गारादिरस इत्यादिज्ञानस्यानुमेयत्वम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यच्च "मम धम्मिअ--" इत्यादौ (242 पृ.) प्रतीयमानं वस्तु ।
"जलकेलितरलकरतलमुक्तपुनः पिहितराधिकावदनः ।
जगदवतु कोकयूनोर्विघटनसंघटनकौतुकी कृष्णः" ॥
इत्यादौ च रूपकालङ्कारादयो ऽनुमेया एव ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) यत्र वस्तुनो ऽलङ्कारस्य वा व्यञ्जना तत्र वस्त्वलङ्कारौ अनुमानगम्यौ एवेति नैयायिकमतं दूषयितुमुत्थामपयति---यच्चेति ।
यच्च पर्यवस्यतीति दूरेन्वयः ।
उक्तमिति तस्य शेषः ।
तथा च यच्च पर्यवस्यतीत्युक्तमित्यर्थः ।
प्रतीयमानं वस्तु, अभ्रमणम् ।
अलङ्कारव्यञ्जनास्थलं दर्शयति--जलकेलीति ।
जलकेलौ श्रीकृष्णेन स्वीयकरदत्तजलेन राधिकामुखचन्द्रं पुनः पुरभिषिच्य स्वीयकरेण पिधीयते च मुच्यते च ।
ततस्तादृशचन्द्रस्य पिधानमोचनाभ्यां कोकमिथुनस्य संघटनविघटने भवतः ।
पिधाने रात्रौ विरहिणस्तस्य प्रातः कालभ्रमात् संघटनम्, मोचने चन्द्रोदयविशिष्टसन्ध्याकालभ्रमाद् विघटनम् ।
कृष्णस्य तादृशकौतुकवर्णनमितम् ।
पिधानमोचने कृष्णस्यैव करेण नतु राधिकायाछ, तत्करस्य जलकेलितरलत्वे कृष्णमुखस्यैव सिच्यमानत्वसम्भवेन स्वमुखस्य पिधानायोगात् ।
यद् वा--राधिकारेण पिधानमोचनयोरपि जलसेकद्वारा कृष्णकरप्रयोज्यत्वात्तद्द्वारा कृष्टकरेणैव पिधानमोचने ।
इत्यादौ रूपकादय इति ।
अत्र श्लोके मुखे चन्द्ररूपणम् आदिपदद्वयात् श्लोकान्तरे अलङ्कारान्तरमित्यर्थः ।
लोचना:
(लो, इ) एवं रसादेरनुमानागोचरत्वं व्यवस्थाप्य वस्त्वलङ्कारयोरपि व्यङ्ग्ययोस्तद्दर्शयति---यच्चेति ।
चः पूर्वोक्तसमुच्चये ।
पर्यवस्यतीत्यत्र दूरस्थितेन इतिशब्देन मम्बन्धः ।
यदुक्तं महिमभट्टेन तदप्ययुक्तमित्यर्थः ।
किमुक्तमित्याह---जलकेलीत्यादि ।
जलकेलीत्यादौ रूपकालङ्कारः ।
राधिकामुखस्य चन्द्रत्वस्य व्यङ्ग्यत्वाच्चन्द्रदर्शनादर्शनाभायां हि रात्रिसद्भावाभावबुद्ध्या चकवाकयोर्विघनसंघटने भवतः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तथाहि---"अनुमानं नाम पक्षसत्त्वसपक्षसत्त्वविक्षव्यावृत्तत्वविशिष्टाल्लिङ्गल्लिङ्गिनो ज्ञानम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) तत्र वस्तुरूपं व्यङ्ग्यमुपक्रम्य तस्यानुमेयतां घटयति---तथा हीति ।
लिङ्गिनि साध्ये विषये ज्ञानम् ।
लोचना:
(लो, ई) कथमनुमेय इत्याह---तथाहीति ।
नाम प्राकाश्ये ।
पक्षे पर्वतादौ सपक्षे महानसादौ च विपक्षे जलह्रदादौ व्वावृत्तत्वम् ।
लिङ्गाद् व्याप्याद् धूमादेः लिङ्गिनि व्यापके वह्न्यादौ ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ततश्च वाच्यादसंबद्धोर्ऽथंस्तावन्न प्रतीयते ।
अन्यथातिप्रसङ्गः स्यात्, इति बोध्यबोधकयोरर्थयोः कश्चित्संबन्धो ऽस्त्येव ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) लिङ्ग्यस्य त्रिरूपता च साध्यव्याप्तिसत्त्वे एव सम्भवतीति ।
अतस्तान् दर्शयति--ततश्चेति ।
असम्बन्धो ऽव्याप्यः ।
अतिप्रसङ्गाव्यापकस्यापि प्रतीत्यापत्तिः ।
कश्चित्सम्बन्धो व्याप्तिरूपः ।
लोचना:
(लो, उ) अत्र प्रकृते, "भ्रम धार्मिकऽ; इत्यादौ बोध्यार्ऽथो व्यङ्ग्यो बोधको वाच्यः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ततश्च बोधकोर्ऽथो लिङ्गम्, बोध्यश्च लिङ्गी, बोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव ।
सपक्षसत्त्वविपक्षव्यावृत्तत्वे अनिबद्धे अपि सामर्थ्योदवसेये ।
तस्मादत्र यद्वाच्यार्थाल्लिङ्गरूपाल्लिङ्गिनो व्यङ्ग्यार्थस्यावगमस्तदनुमान एव पर्यवस्यति" इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) बोधकस्य चार्थस्य इति ।
गोदावरीतीरदेशे भीरुणा धार्मिकेण न भ्रमणीयम्, तत्र सिंहसत्त्वादित्यनुमानेन बोधकार्थः सिंहसत्त्वम् ।
सामर्थ्यादिति---अव्यभिचारिसहचारादित्यर्थः ।
पर्यवस्यतीति--यच्च पर्यवस्यतीत्युक्तमित्यर्थः प्रागेव व्याख्यातः ।
लोचना:
(लो, ऊ) बोधकस्य चार्थस्य-लिङ्गरूपस्य दृप्तसिंहसद्भावस्य ।
पक्षे गोदावरीतीरनिकुञ्जरूपे आश्रये सामर्थ्यादवसेय इति न खलु सपक्षसत्त्वविपक्षव्यावृत्तत्वाभावः ।
लिङ्गात्साध्यावगमः स्यात्--लिङ्गिनः साध्यस्य भीरोरभ्रमणरूपव्यङ्ग्यस्य ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तन्न, तथा ह्यत्र "भम अम्मिअ-" इत्यादौ (242 पृदृ) गृहे श्वनिवृत्त्या विहितं भ्रमणं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति" इति यद्वक्तव्यं तत्रानैकान्तिको हेतुः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) दूषयितुं तदभिमतार्थमनुवदति--तन्न तथा हीति ।
सिंहोपलब्धेरिति--कुलटावाक्योपलब्धसिंहादित्यर्थः ।
अनुमापयतीत्यत्र कुलटा कर्त्रो ।
दूषयतितत्रेति ।
अनैकान्तिको व्यभिचारी ।
लोचना:
(लो, ऋ) दूषयति--तन्नेति ।
तन्न युक्तम् ।
कुतो न युक्तमित्याह--तथा हीति अत्र--गृहे इति ।
अयमर्थः--यस्य खलु भीरोर्गृहे श्वनिवृत्त्या भ्रमणं विहितं स कथं संहोपलब्धिस्थाने भ्रमिष्यति ।
अनैकान्तिकः साध्यव्यभिचारी ।
********** एन्द् ओf चोम्मेन्तर्य् **********
भीरोरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण वा गमनस्य संभवात्, पुश्चल्या वचनं प्रामाणिकं न वेति संदिग्धासिद्धेश्च ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) व्यभिचारं ग्राहयति---भीरोरपीति ।
प्रियानुरागः सिंदवद्देशं प्रविष्टप्रियानुरागः ।

हेतोः सन्दिग्धासिद्धिमपि दर्शयति--पुंश्चल्या इति ।
पुंश्चलीवाक्ये प्रामाण्यसन्देहात् ।
पक्षे गोदावरीतीरे हेतोः सिंहसत्त्वस्य सन्देहात् सान्दिग्धासिद्धिरित्यर्थः ।
लोचना:
(लो, ॠ) कुतो ऽनैकान्तिक इत्यत आह---भीरोरपीति ।
प्रियानुरगेण चेत्यनन्तरं भयस्थान इति शेषः ।
पुंश्चल्या वचनम्--भ्रम धार्मिकेत्यादिवचनम् ।
किञ्च य खलु वीरः स्पर्शादिशङ्कया शुनो बिभेति स संहसद्भावस्थानं प्रत्युत मृगयादिकुतूहलेन गच्छतीति दर्शनाद्विरुद्धो भ्रमणरूपसाध्यविरुद्धस्य साधनात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"जलकेलि-" इत्यत्र "य आत्मदर्शनादर्शनाभ्यां चक्रवाकविघटसंघटनकारी स चन्द्र एव" इत्यनुमितिरेवेयमिति न वाच्यम्, उत्त्रासकादावनैकान्तिकत्वात् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) "जलकेलिऽ; इत्यादौ अलङ्कारस्यानुमेयतामपि हेतोर्व्यभिचाराद् दूषयति---जलकेलीत्यत्रेति ।
आत्मा दर्शनीयरूपः ।
उत्त्रासकादाविति ।
उत्त्रासको हि आत्मनो दर्शनादर्शनाभ्यां चक्रवाकसंघटनविघटनकारी ।
न चासौ चन्द्र इति व्यभिचारः ।
आदिपदात् सूर्यपरिग्रहः ।
सो ऽपि तथाविधो ऽपि न चन्द्रः ।
लोचना:
(लो, ऌ) उत्त्रासकः--यस्य करतालदानादिनोत्रासेन पक्षिणो न घटन्ते, तदभावे च संघटन्ते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"एवंविधोर्ऽथ एवंविधार्थबोधक एवंविधार्थत्वात्, यन्नैवं तन्नैवम्" इत्यनुमाने ऽप्याभाससमानयोगक्षेमो हेतुः ।
"एवंविधार्थत्वात्" इति हेतुना एवंविधानिष्टसाधनस्याप्युपपत्तेः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) सामान्यसिद्ध्यव्याप्त्या व्यङ्ग्यस्यानुमेयताप्रदर्शनमपि दूषयितुमाहएवंविधेति ।
आभासमान आभासौ हेतोरुपलभ्यमानो व्यभिचारः कोकत्रासकवृत्तिः स्वदर्शनादर्शनरूपः ।
एवंविधार्थत्वादितिहेतुस्तत्तुल्ययोगक्षेमस्तत्तुल्यव्यभिचारः ।
स हेतुः साध्याभावेन सहचरितत्वेन व्यभिचरतीत्यर्थः ।
तद्दर्शयति---एवंविधार्थत्वादिति ।
एवंविधानिष्टार्थस्येति---तथा च एवंविधार्थव्यभिचारी हेतुरित्यर्थः ।
लोचना:
(लो, ए) योगक्षेम इतिकर्तव्यता आभासस्य; यथा इतिकर्तव्यता कार्यनिष्पादनं तथैवेवंविधार्थत्वादितिहेतोरिति भावः ।
कुत इत्याह---एवमिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तथा "दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे-" इत्यादौ (250 पृदृ) नलग्रन्थीनां तनूल्लिखनम्, एकाकितया च स्त्रोतोगमनम्, तस्याः परकामुकोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते; तच्चात्रैवाभिहितेन स्वकान्तस्नेहेनापि संभवतीत्यनैकान्तिको हेतुः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) श्लोकान्तरेपि व्यङ्ग्यान्तरस्यानुमेयतां हेतोर्व्यभिचारेण दूषयितुमाह--तथा यद्दृष्टिमिति ।
स्त्रोतोगमनमित्यत्र स्त्रोतोगमनकथनं चेत्यर्थः ।
अत्रेत्थमनुमानम्, इयं परकामुकोपभोगेच्छावती नलग्रन्थिना स्तनदारणसम्भावनासत्त्वे ऽपि स्त्रोतोगमने एकाकिप्रवृत्तत्वाद् इति ।
ग्रन्थकृतस्तु स्तनाघातस्त्रोतोगमनयोः पृथक्कथने ऽप न पृथक् हेतुद्वयम् ।
किन्तु हेतुविशेषणमेव तद्द्वयं बोध्यम् ।
हेतोर्व्याभिचारं दर्शयति---स्वकान्तेति ।
अपिकारात् तद्भयेनापीति बोध्यम् ।
लोचना:
(लो, ऐ) इममेवाभिमतमर्थमुदाहरणेष्वपि हेत्वाभासं दर्शयन् द्रढयतितथेति ।
हेतुर्वाच्यार्ऽथः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यच्च "निःशेषच्युतचन्दनम्--" इत्यादौ ( 62 पृ.) दूत्यास्तत्कामुकोपभोगो ऽनुमीयते तत्किं प्रतिपाद्यतया दूत्या, तत्कालसंनिहितैर्वान्यैः, तत्काव्यार्थभावनया वा सहृदयैः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) निः शेषच्युतेत्यादावपि दूत्यास्तत्कामुकोपभोगस्य व्यङ्ग्यस्यानुमेयतां दूषयितुमाह---यच्चेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आद्ययोर्न विवादः ।
तृतीये तु तथाविधाभिप्रायविरहस्थले व्यभिचारः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) आद्ययोर्न विवाद इति---दूतिकर्तृकमनुमानं तावन्न सम्भवत्येव, तस्यास्तदुपयोगस्य प्रत्यक्षसिद्धत्वेन सिद्धसाधनात् ।
तत्काले सन्निहतजनस्तु यदि न व्यङ्ग्यबोद्धा तदा तस्यानुमानमपि नास्तीत्यतस्तत्रापि नविवादः ।
यदि तु व्यङ्ग्यबोद्धा तदा तृतीयपक्षे एवान्तर्भाव इत्यर्थः ।
सामाजिकबोधविषयस्यैव तदास्वाद्यस्य मया विचार्यत्वेन तत्रैवानुमेयत्वादनुमेयत्वविवादात् ।
तदनुमेयतां दूषयति---तृतीये त्विति ।
तथाविधाभिप्रायो दूत्यास्तत्कामुकोपभागोभिप्रायः ।
तद्विरहेणेक्तस्य चन्दनच्यवनादेरुपभोगव्याप्यता नास्तीति तत्रैव व्यभिचार इत्यर्थः ।
लोचना:
(लो, ओ) न विवाद इति---न खलु वयं दूत्यास्तत्कलसन्निहितानां वानुमानं निराकुर्मः ।
तथाविधेति---न खलु, "निः शेषच्युतचन्दनम्ऽ; इत्यादिप्रतिपादिकाया अभिप्रायः केनचिन्निश्चिततया विषयीकृतैत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ननु वक्त्राद्यवस्थासहकृतत्वेन विशेष्यो हेतुरिति न वाच्यम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) स्नानादिव्यावृत्तचन्दवनादेर्विशेषणदानेन व्यभिचाराभावोक्तिं दूषयितुमाह---वक्त्राद्यवस्थेति ।
वक्त्र्यवस्थादिरित्यर्थः ।
आदिपदात् स्तनाकर्षणचुम्बननखक्षतपरिग्रहः ।
अवस्था तु रतिक्तिष्टत्वम् ।
तथा च तादृशावस्थादिसहकृतत्वेन चन्दनच्यवनादिहेतुर्विशेषणीय इत्यर्थः ।
लोचना:
(लो, औ) नन्विति---वक्त्री यादृशीमवस्थां प्राप्य तथोक्तवती सावस्था हेतोर्विशेषणीकर्तव्येत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एवंविधव्याप्त्यनुसंधानस्याभावात् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) समाधत्ते--एवंविधेति ।
एवंविधविशेषणघटितव्याप्त्यनुसन्धानस्येत्यर्थः ।
न हि श्लोके तादृशविशेषणमस्ति ।
व्याप्त्यादिपदादीदृशविशिष्टहेतुपरिग्रहः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
किञ्चैवंविधानां काव्यानां कविप्रतिभामात्रजन्मनां प्रामाण्यानावश्यकत्वेन संदिग्धासिद्धत्वं हेतोः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) तत्रापि हेतोः सन्दग्धत्वमपि दर्शयति---किञ्चेति ।
प्रामाण्यानावश्यकत्वेनेति--वक्त्र्या चन्दनच्यवनाद्यकथने ऽपि सम्भाव्यैव कवेस्तदुक्त्यनुवादसम्भवादित्यर्थः ।
कव्यनूदितवाक्यलब्धचन्दनच्यवनादिना हि सामाजिकैः सम्भोगो ऽनुमातव्यः ।
तच्चन्दनादिकं वक्त्रयुक्तमनुक्तं वेति सन्देहात्सन्दिग्धमित्यर्थः ।
लोचना:
(लो, अ) किञ्चेति---सन्दिग्धासिद्धत्वम्---न खुल कविः सिद्धमेवार्थंवर्णयति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
व्यक्तिवादिना चाधमपदसहायानामेवैषां पदार्थानां व्यञ्जकत्वमुक्तम्, तेन च तत्कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:

(वि, ड) ननु व्यभिचारिण सन्दिग्धेन वा चन्दनच्यवनादिना कथमुपभोगस्य भवन्मते व्यञ्जनापीत्यत आह---व्यक्तिवादिना चेति ।
व्यञ्जनावादिनेत्यर्थः ।
फलबलेन व्यञ्जकत्वसिद्धेस्तथोक्तमित्यर्थः ।
न ह्यनुमान इव व्यञ्जनायामपि व्यभिचारादिकमङ्गमिति भावः ।
अनुमानपक्षे अधमसनिनहितप्रेषितत्वे सतीति विशेषणदानमपि न सम्भवतीत्याह---तेन चेति ।
तेन अधमपदेन उक्तमधमत्वमित्यर्थः ।
इदमुपलक्षणम् ।
अधमत्वस्य प्रामाणिकत्वेपि तस्य दूतीगमनेच्छारादित्ये सति तावताप्यनुमानासम्भव इत्यपि बोध्यम् ।
लोचना:
(लो, आ) व्यक्तिवादिना व्यञ्जनाव्यापारस्थापनार्थमुद्युक्तेन ।
अधमपदं न पुनस्तस्याधमस्यान्तिकमित्यत्र स्थितम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एतेनार्थापत्तिवेद्यत्वमपि व्यङ्ग्यानामपास्तम् ।
अर्थापत्तेरपि पूर्वसिद्धव्याप्तीच्छामुपजीव्यैव प्रवृत्तेः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) व्यङ्ग्यानामर्थापत्तिवेद्यत्वमपि खण्डयति---एतेनार्थापत्तिरिति ।
व्याप्तिच्छायां व्याप्तिरीतिमव्यभिचरितसहचारमित्यर्थः ।
लोचना:
(लो, इ) एतेनेति--एतेनानुमानेहत्वाभासदर्शनेन ।
कुतः ? इत्याह--- अर्थापत्तेरपीति ।
पूर्वगृहीतां व्याप्तिच्छायाम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा "यो जीवति स कुत्राप्यवतिष्ठते, जीवति चात्र गोष्ठ्यामविद्यमानश्चैत्रः" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) तादृशं सहचारं दर्शयति--यो जीवतीति ।
तमुपजीव्य प्रवृत्तामर्थापत्तिं दर्शयति--जीवति चेति ।
तस्मादेतद्गोष्ठीभिन्नस्थले ऽस्तीत्यर्थापत्तिलभ्योर्ऽथः ।
तथा च दर्शितोदाहरणेषु हेतोर्व्यभिचारेण व्याप्तिच्छायोपजीवनासम्भवान्नार्थापत्तिरिति भावः ।
लोचना:
(लो, ई) यदि खलु पूर्वं जीवतः कुत्रापि स्थानमवगच्छेत् ।
अर्थपत्तिस्वरूपं हि--दृष्टः श्रुतो वा अन्यथा नोपपद्यते इति, तदर्थकल्पनमर्थापत्तिरिति ।
तद्भट्टा विवृण्वते--दृष्ट इति ।
प्रत्यक्षानुमानोपमानार्थापत्त्यभावलक्षणः पञ्चभिः प्रमाणैरुपलब्धः शब्दस्य च प्राधान्यख्यापनार्थं भेदेन निर्दिशति--श्रुत इति ।
श्रुत इति शब्दलक्षणेन ज्ञातोर्ऽथोर्ऽथविशेषो ऽन्यथा नोपपद्यत इति ।
शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यत इति दर्शनात् ।
"पीनो देवदत्तो दिवा न भुङ्क्तेऽ; इत्यत्र रात्रौ भुङ्क्ते इति वाक्यशेषः कल्प्यते ।
प्रभाकरगुरुस्त्वाह--दृष्टः श्रुतो वेति ।
लौकिकीयमनास्थोक्तिः ।
ततो लोकप्रसिद्ध्योपलब्धिमात्रे वर्तते, न तु विकल्पप्रतिपादन इति ।
शब्दो हि कल्प्यतेर्ऽथप्रतीत्यै विप्रकृतसाधनं तद्वरम् अर्थे एव कल्प्यतामिति ।
तेन भट्टमते श्रुतार्थापत्तौ, रात्रौ भुङ्क्ते ।
इति शब्दः कल्पते ।
गुरुमते तु अर्थापत्तौ रात्रिभोजनमर्थ एव ।
एवमत्र वाक्यविशेषः कल्प्यताम्, मैवम् ।
गुरुमते तु अर्थापत्तौ रात्रिभोजनमर्थ एव ।
एवमत्र वाक्यविशेषः कल्प्यताम्, मैवम् ।
पीनो देवदत्त इत्यादौ रात्रिभोजने, जीवंश्चैत्रो ऽत्र गोष्ठ्यां न विद्यत इत्यत्र कुत्राप्यवस्थाने पूर्वानुभव्याप्तिमुपजीव्यैवार्थापत्तेः प्रवृत्तिरिति ।
व्यङ्ग्यानामनुमानाविषयत्वेन नार्थापत्तिविषयत्वमिति भावः ।
व्याप्तिश्च साहचर्यनियमः ।
व्याप्तिशरीरं दर्शयति-यथेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
किञ्चि---वस्त्रविक्रयादौ तर्जनीतोलनेन दशसंख्यादिवत्सूचनबुद्धिवेद्यो ऽप्ययं न भवति, सूचनबुद्धेरपि सङ्केतादिलौकिकप्रमाणसापेक्षत्वेनानुमानप्रकारताङ्गीकारात् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) सूचना नाम कश्चिद् व्यापारः कैश्चिदुच्यते तद्गम्य एव व्यङ्ग्यार्थः इति मतं दूषयितुमाह---किञ्चेति ।
दशसंक्यादिवदिति---दशसंख्यादिर्यथा तर्जन्यादितोलनाधीनसूचनाबुद्धिगम्यस्तथा व्यङ्ग्यार्थो ऽपीत्यर्थः ।
सूचनाप्यनुमितावन्तर्भवतीति सिद्धान्तयति---सूचनाबुद्धेरपीति ।
अनुमानप्रकारता अनुमितस्वरूपता ।
तथा च यद्यङ्गुलितोलनादौ व्यभिचारशङ्का न भवति तत्रानुमानम् ।
चन्दनच्यवनादौ तु व्यभिचारग्रहात् सम्भोगादिबुद्धिव्यञ्जनाधीनैवेति भावः ।
लोचना:
(लो, उ) अधुना व्यङ्ग्यानामनुमानाविषयत्वेन चेष्टाप्रमाणाविषयत्वमपीत्याह--किञ्चेति ।
अयं ---व्यङ्ग्यः ।
संकेतादिलौकिकप्रमाणासापेक्षत्वेनेत्यनेन यत्र यत्रां र्ध्वतर्जनी तत्र तत्र दशंसख्येति पुनर्गृहीतव्याप्तिरुरस्कारवचनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यच्च "संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः" इते केचित् ।
तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) रसादिबुद्धेः स्मृतिरूपत्वं संस्कारजन्यत्वेनानुमन्यमानानां मतं दुषयितुमाह---तत्रापीति ।
इदं चापातत एव; सर्वंशे संस्कारजन्यत्वस्य हेतोख्यभिचारात् ।
किन्तु स्वप्रकाशानन्दस्वरूपस्य रसस्य स्मृतीत्वासम्भव एव दोषः ।
लोचना:
(लो, ऊ) स्मृतिर्न च रसादिधीः इतिकारिकापदार्थं विशदयति--यञ्चेति ।
अनैकान्तिकत्वं सो ऽयं देवदत्त इत्यादिज्ञानरूपायाः प्रत्यभिज्ञाया अपि संस्कारजन्यत्वात्
********** एन्द् ओf चोम्मेन्तर्य् **********
"दुर्गालङ्घित-" इत्यादौ (59 पृ.) च द्वितायार्थो नास्त्येव---इति यदुक्तं महिमभटटेन तदनुभवसिद्धिमपलपतो गजनिमीलिकैव ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) द्वितीयार्थो महेशरूपो नास्त्येवेति---बुद्धिविषयो नास्त्येवेत्यर्थः अपलपत इत्यस्य, उपरि, इति शेषः ।
गजनिमीलिकावज्ञा ।
लोचना:
(लो, ऋ) गजनिमीलिकैवेति--पर्यालोचनं विनापि लोकापवादशङ्कया मत्तगजवच्चक्षुषी निमिल्य वचनमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्तच्छब्दाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया चाभिधादिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धम् ।
लोचना:
(लो, ॠ) एतद् विविच्योक्तमत्रैव द्वितीयपरिच्छेदे ।
उपसंहरति--तदेवमिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इयं च व्याप्त्याद्यनुसन्धानं विनापि भवतीत्यखिलं निर्मलम् ।
लोचना:
(लो, ऌ) न च शब्दसमर्पितस्य विभावादेर्ज्ञानस्यैव रसादेर्जनकत्वात् काव्यमत्र साक्षान्न हेतुत्वेन व्याप्रियत इति वाच्यम्; स्वाङ्गमव्यवधायकमितिन्यायेन विभावाद् विभावनस्यावान्तरव्यापारीकारणेन काव्यस्यैवास्वादो भावकत्वात् यथा स्वार्थस्य ज्ञानद्वारेण तत्संसर्गं भावयतां पदानामेव करणत्वाभायुपगमो भट्टनैयायिकादीनाम् ।
किञ्च सद्वारकरणम् इति न्यायेनान्तरालवर्तिव्यापारान्तरविरहादसम्भाव्यं विभावादिसंवलनज्ञानस्यास्वादं प्रति कारणत्वम् ।
नन्वेवं व्याप्त्याद्यनुसन्धानमन्तरेणाकस्माद् वाच्यार्थस्यावगतौ कथं नातिप्रसङ्ग इत्याशङ्क्याह--इयं चेति ।

उत्पत्तिमन्तरेणापि अनुभवसिद्धाया व्यङ्ग्यार्थप्रतीतेरन्यार्थोपपत्त्यैव ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्किंनामिकेयं वृत्तिरित्युच्यते---
सा चेयं व्यञ्जनानाम वृत्तिरित्युच्यते बुधैः ।
रसव्यक्तौ पुनर्वृत्तिं रसनाख्यां परे विदुः

मूल पाठ: Sāhityadarpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc