भाषा

ENहिગુ
ग्रंथ पाठ

साहित्यदर्पण (टीका सहित) · अध्याय 4

4.1

क्रमेण यथा--
"सुतनु ! जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधो ऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किञ्चित्" ॥
अत्र बाष्पमोचनेनेर्ष्याख्यसञ्चारिभावस्य शमः ।
"चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते ।
व्रजति रमणो निः श्वस्योच्चौ स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ)"हे निभृत ! कितवाचार !"इत्युक्त्वा इत्यर्थः ।
स्तनास्थितहस्तया मानिन्या इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र विषादस्योदयः ।
"नयनयुगासेचनकं मानसवृत्त्याप दुष्प्रापम् ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति चमे" ॥
अत्र हर्षविषादयोः संधिः ।
"क्वाकार्यं , शशलक्ष्मणः क्व च कुलं, भूयो ऽपि दृश्यन्ते सा, दोषाणां प्रशमाय मे श्रुतमहो, कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषा कृतधियः, स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्यो ऽधरं धास्यति" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) क्वाकार्य्यमिति---उर्वशीविरहे मरणे प्रवृत्य निवृत्तस्य पुरूरवस उक्तिरियम् ।
अत्र कुलमित्यन्ते वितर्कः ।
सेत्यन्ते औत्सुक्यम् ।
श्रुतमित्यन्ते अर्थनिर्द्धारणरूपा मतिः ।
मुखमित्यन्ते स्मरणम् ।
कृतधिय इत्यन्ते शङ्का ।
दुर्लभेत्यन्ते दैन्यम् ।
उपैहिइत्यन्ते धृतिः ।
कः खलु इत्यादौ चिन्ता ।
एतेषां व्यभिचारिभावानां पूर्वपूर्वापेक्षया बलवत्ता ।
इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्यविरचितायां साहित्यदर्पणटीकायां तृतीयपरिच्छेदविवरणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र वितकारैत्सुक्यमतिस्मरणशङ्कादैन्यधूतिचिन्तानां शबलता ।
इति साहित्यदर्पणे रसादिनिरूपणो नाम तृतीयः परिच्छेदः ।
चतुर्थः परिच्छेदः
अथ काव्यभेदमाह--
लोचना:
(लो, अ) एवं काव्यस्य स्वरूपमुक्त्वा विशेषं निरूपयितुमवतारयति--अथेति---भिद्यते अनेनेति भेदः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतम् ।
तत्र---
वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम्

4.2

वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यते ऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) काव्यलक्षणे कृते तदेव काव्यं कतिविधमित्याकाङ्क्षायामाह---काव्यं ध्वनिरित्यादि ।
ध्वन्यते ऽस्मिन्निति--ध्वन्यते व्यज्यते व्यङ्ग्यार्थः शब्दादिना अस्मिन् काव्ये इत्यर्थः ।
लोचना:
(लो, आ) वाच्येति---वाच्यादतिशयस्तात्पर्याविषयत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ ।
अविवक्षितवाच्यो ऽन्यो विवक्षितान्यपरवाच्यश्च

4.3

लोचना:
(लो, इ) लक्षणाभिधा च मूले कारणेर्ऽथाद् व्यङ्ग्यात् व्यञ्जने ययोः ।
यस्य ध्वनेः व्यङ्ग्यार्थरूपोपाधिलक्षणाभिधामूलत्वेन द्वैविध्यप्रतिपादनाम् तदुपाधिकस्य काव्यस्य द्वैविध्यम् ।
ध्वनिशब्दो ह्यनेकार्थः, तथा हि ध्वन्यत इति ध्वनिः, शब्दादिगता शक्तिः ।
ध्वननं ध्वनिः रसादिप्रतीतिः ।
ध्वन्यते अस्मिन् इति ध्वनिः काव्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः ।
लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् ।
विवक्षितान्यपरवाच्यस्त्वभिधामूलः, अत एवात्र वाच्यं विवक्षितम् ।
अन्यपरं व्यङ्ग्यनिष्ठम् ।
अत्र हि वाच्योर्ऽथः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः ।
यथा---प्रदीपो घटस्य ।
अभिधामूलस्य बहुविषयतया पश्चान्निर्देशः ।
अविवक्षितवाच्यस्य भेदावाह--
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) लक्षणामूलाभिधामूलयोर्यथासंख्यं स्वरूपमाह---अविवश्रितेति---व्याचष्टे---तत्रेति ।
अविवक्षितमिति---वाच्याविवक्षायां बीजमाह---बाधितस्वरूपमिति---वाच्यतावच्छेदकरूपेण विवक्षाभावात् तेन रूपेण बाधो विशिष्टाभावरूपः ।
तेन अजहत्स्वार्थात्मिकायाम् उपादानलक्षणायां वाच्यस्याबाधे ऽपि वाच्यतावच्छेदकरूपेण तद्वाधःष जहत्स्वार्थायां तु अर्थयोरेव बाधः ।
वाच्यं विवक्षितमिति---वाच्यतावच्छेदकरूपेण बोध्यम् ।
व्यङ्ग्यनिष्ठमिति---व्यङ्ग्यनिष्ठा तात्पर्यपर्याप्तिर्यस्य तादृशम् ।
लोचना:
(लो, ई) अन्यपरमिति कारिकापदार्थो व्यङ्ग्यनिष्टमिति भावः, व्यङ्ग्ये निष्टातात्पर्यं यस्य वाच्यार्थस्य, एतेन गुणीभूतव्यङ्ग्यव्यवच्छेदः ।
अत्र हीति---अयमाशयः, अविवक्षितवाच्ये लक्ष्योर्ऽथः स्वरूपं प्रकाशयन् व्यङ्ग्यार्थं प्रकाशयति, तत्र लक्षणामूला व्यञ्जना ।
इह तु वाच्योर्ऽथः तथा इत्यभिधामूला ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अर्थन्तरं संक्रमिते वाच्ये ऽत्यन्तं तिरस्कृते ।
अविवक्षितवाच्यो ऽपि ध्वनिर्द्वैविध्यमृच्छति

4.4

अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।
यत्र स्वयमनुपयुज्यमानो मुख्योर्ऽथः स्वविशेषरूपेर्ऽथान्तरे परिणमति,
लोचना:
(लो, उ) संकमिति इति --- योगकाक्वादिसाहाय्यसूचनं वाच्ये इति काकाक्षिन्यायेनोभयत्र सम्बध्यते ।
अनुपयुज्यमानत्वमर्थात् स्वरूपमात्रेण संकमिते इति कारिकापदार्थः ।
परिणमतीति---परिणामश्च तत्त्वादपरिच्युतस्य धर्मिणो ऽवस्थान्तरगमनम् ।
जाड्याद्यतिशयः स्वशब्दाभिधानालभ्यः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् ।
यथा---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) भेदावाहेति---वाच्येर्ऽथेर्ऽथान्तरमवच्छेदकान्तरं संक्रमिते प्रापिते अर्थाद्वोद्धुर्ज्ञाने इत्यर्थः ।
अत्यन्तं तिरस्कृत इति---वाच्यार्थस्यावच्छेदकान्तरेणापि अविवक्षणात् अत्यन्तं तिरस्कारः, तत्रार्थान्तरसंक्रमितवाच्यं व्याचष्टे---मुख्यार्थस्येति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"कदली कदली, करभः करभः, करिराजकरः करिराजकरः ।
भुवत्रितये ऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः" ॥
अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति ।
जाड्याद्यतिशयश्च व्यङ्ग्यः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) कदली कदलीत्यादि ।
चमूरुदृशः हरिणेक्षणायाः ऊरुयुगं भुवनत्रितये ऽपि कस्यापि तुलां सादृश्यं न बिभर्त्तोत्यर्थः ।
तथा च तेन कस्यापि सादृश्याधारणात् को ऽपि तदुपमानं न अस्तीत्यत्राह---कदलीति ।
कदली रम्भा करभः ऊर्वाकारः पणिपार्श्वभागः"मणिबन्धादाकनिष्ठं करस्य करभो बहिः "इति कोषात् ।
करिराजस्य हस्तिश्रेष्ठस्य करः, सुण्डा, एषु उद्देश्येषु द्वितीयकदल्यादिपदानां पौनरुक्त्यात् तदर्थानां विधेयत्वासम्भवात् तानि पदानि जाड्यादिविशिष्टकदल्यादिपराणि ।
पदेभ्यः कदल्याद्यंशप्राप्तौ जाड्यादिवैशिष्ट्यमात्रे द्वितीयकदल्यादिशब्दानां लक्षणा ।
ततः कदली जाड्या करभो ऽशोभनः करिराजकरः कर्कश इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् ।
लोचना:
(लो, ऊ) अत्यन्ततिरस्कृत इति कारिकापदार्थं विवृणोति---यत्र पुनरिति--अत्र परिणमतीत्युपचारपदप्रयोगः तेन प्रवर्तते इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।
अत्रान्धशब्दो मुख्यार्थे बाधिते ऽप्रकाशरूपमर्थं बोधयति, अप्रकाशातिशयश्च व्यङ्ग्यः ।
अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसंक्रमितवाच्यत्वम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) निः श्वासान्ध इति ।
निः श्वासेन अन्धः आदर्श इव चन्द्रमा न प्रकाशते न दीप्यते ।
अत्राचेतनस्य आदर्शस्यान्धत्वबाधात् लक्ष्यार्थमाह--अत्रेति ।
तथा च निः श्वासेन अप्रकाश आदर्श इवेत्यर्थः ।
ननु शक्यतावच्छेदकभिन्नेन अप्रकाशत्वेन रूपेण बोधनात् कथं नेयमर्थान्तरसक्रमितवाच्यलक्षणा इत्यत आह---अन्धत्वाप्रकाशत्वयोरिति---शक्यतावच्छेदकं सामान्यं लक्ष्यतावच्छेदकं यदि तद्विशेषो भवेत् तदा एव अर्थान्तरसंक्रमिति वाच्यलक्षणा ।
यथा घटपदस्य नीलघटपदत्वे अत्र तु लक्ष्यतावच्छेदकमप्रकाशत्वमेव सामान्यम् ।
अन्धत्वमेव तद्विशेष इति अतो न तथा इति भावः ।
इदं तु प्रायिकमेव न सार्वत्रिकं "रामो ऽस्मि सर्वं सहे "इत्यत्र दुः खसहिष्णुत्वरामत्वयोः करभः करभः इत्यत्र शोभाराहित्यकरभत्वयोश्च तथात्वाभावात् ।
किन्तु अत्रान्धत्वरूपस्वार्थपरित्यागादेव न तथात्वमिति बोध्यम् ।
लोचना:
(लो, ऋ) अन्धत्वेति---अयमाशयः, न ह्यत्रार्थस्याप्रकाशत्वं विशेषः,
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---
भण धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।
गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) भम धम्मिअ इत्यत्रापि विपरीलक्षणाभ्रमं केषाञ्चित् निरसयितुमाह---भमेति ।
भ्रम धार्मिक विश्वस्तः स श्वाद्य मारितस्तेन ।
गोदानदीकच्छकुञ्चवासिना दृप्तसिंहेन ॥
इति संस्कृतम् ।
गोदावरी नदी तत्तीरे कुञ्जे कृतंकेतायाः तत्रैव प्रतिदिनं पुष्पावचयनेन तत्संकेतभञ्जकं स्वपोषितकुक्कुरोपद्रवेणापि अनिवृत्तं धार्मिकं प्रति उत्किरयम् ।
स श्वा तव उपद्रावकः कुक्कुरः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र "भ्रम धार्मिक--" इत्यतो भ्रमणस्य विधिः प्रकृते ऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्कान कार्या ।
यत्र खलु विधिनिषैधावुत्पत्स्यमानावेव निषधविध्योः पर्यवस्यतस्तत्रैव तदवसरः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) भ्रमणविधिः प्रकृते अनुपपद्यमानतया इति---सिंहवत्त्वेन कथिते स्वसंकेतस्थले भ्रमणोपदेशस्य बाधितार्थकत्वात् निवृत्तीच्छया उक्तवाक्यस्य प्रवर्त्तकत्वानुपपत्तेश्च निषेधे पर्यवस्यतीति विपरीतलक्षणयेति शेषः ।
उत्पद्यमानावेवेति---वाक्यार्थबोधोत्पत्तिदशायाम एव इत्यर्थः ।
तद्दशायां क्वचित् विधिः निषेधे क्वचित् निषेधो विधौ पर्यवस्यतीत्यर्थः ।
तत्र तद्दशायां विधेः निषेधे पर्यवसानं यथा--- औन्निद्षं दौर्बल्यं चिन्तालसत्वं सनिः श्वसितम् ।
मम मन्दभागिन्याः कृते सखि त्वामपि परिभवति ॥
इत्यत्र नायिकायाः सोल्लुण्ठवाक्ये मम कृते इति विधेः न मम कृते इति लक्षणया पर्यवसानम् ।
निषेधस्य विधौ पर्यवसानं यथा---"मा पथिक रात्र्यन्ध शय्यायामावयोर्निमङ्क्षासि "इति स्वयं दूतिकाया उक्तौ स्वशय्यायां गमननिषेधस्य स्वशय्यायामागमनविधौ लक्षणया पर्यवसानम् ।
यत्तु निः शेषच्युतचन्दनमित्यादावपि तदन्तिकगमननिषेधस्य तदन्तिकगमनविधौ लक्षणया पर्यवसानमिति ग्रन्थकृता पूर्वमुक्तं तन्न रुचिरम्, तत्र भ्रम धार्मिक इत्यादाविव प्रथमं वाच्यनिषेधस्यैव बोधात् उत्तरकालमेवाधमत्वोक्तेश्च्युतनिर्मृष्टपदग्रीष्मकालपुलककथनात् तात्पर्यपर्यालोचनया एव तदन्तिकगमनविधेः व्यञ्जनयैव प्रतीयमानत्वात् ।
अत एव काव्यप्रकाशकृता तत्र तदन्तिकगमनविधेः व्यङ्ग्यत्वमेवोक्तम् ।
लोचना:
(लो, ॠ) उत्पत्स्यमानावेवेति--अनन्तरमनुपपद्यमानान्वयसिद्ध्यर्थमिति शेषः ।
तदवसरस्तस्या विपरीतलक्षणाया अवसरः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव ।
तदुक्तम् ---

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) तत्र ध्वनित्वमेवेति---व्यङ्ग्यत्वमेवेत्यर्थः, न तु लक्ष्यत्वमेवेत्यर्थः ।
ध्वनिकाव्यं तु गमनलक्षणायामपि रमणव्यञ्जनया अविहतमेव ।
तद्वत् इहापि प्रथमं भ्रमणविधिः शक्त्यैव प्रतीयते ।
पश्चादेव तस्याः कुलटात्वस्य प्रकरणादिना प्रतीतौ भ्रमणनिषेधो व्यञ्जनयैव प्रतीयते, इत्यतो ऽत्र विपरीतलक्षणाशङ्का न कार्या इत्यर्थः ।
लोचना:
(लो, ऌ) विधिनिषेधयोरित्यत्र पूर्वमन्वयानुपपत्त्या पर्यवसितयोरिति पूरणीयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"क्वचिद्वाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् ।
पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) क्वचित् बाध्यतयेति---ख्यातिः प्रतीतिः ।
यथा गङ्गायां घोष इत्यादौ घोषनिवासस्य यथा वा "उपकृतं बहु तत्र किमुच्यते "इत्यपकारिणं प्रत्युक्त्वा उपकारस्य च प्रथममेव बाध्यतया ख्यातिः ।
क्वचित् ख्यातस्येति---प्रथमं प्रतीतस्य इत्यर्थः ।
यथात्रैव श्लोके, निः शेषेत्यादौ च ।
उत्तरत्र अभिधैव तु इत्युक्त्या निषेधविध्योस्तु व्यङ्ग्यत्वमेवेति दर्शितम् ।
लोचना:
(लो, ए) क्वचिदिति---अत्रोत्तरम् अभिधेव त्वितिवचनम् ।
यत्परः शब्दः स शब्दार्थ इति व्यङ्ग्यार्थस्याप्यभिधाने यत्परत्वेन ख्यातस्य बाधने ऽप्यभिधाव्यापारस्वीकारीत् ।
एतत्त्वग्रे निराकरिष्यते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्राद्ये मुखायार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु तिरोभावः ।
अत एवात्राजहत्स्वार्था लक्षणा ।
द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) इत्थमविवक्षितवाच्यध्वनेरर्थान्तरसंक्रमितवाच्यत्वात्यन्ततिरस्कृतवाच्यत्वेन द्वैविध्यमुक्त्वा तदुदाहृतस्य च आद्यस्यार्थान्तरसंक्रमितवाच्यस्य तादृशपरिभाषाया बीजमाह--अत्राद्ये इति ।
अर्थान्तरे शक्यतावच्छेदकार्थान्तरे ऽवच्छेदकान्तरे शक्यतावच्छेदकरूपेण बोधनमित्यर्थः , न तु तिरोभावः नतु अबोधनमित्यर्थः ।
अत एवेति स्वार्थं स्वाश्रयशब्दस्य मुख्यार्थमजहती उपस्थापयन्ती अजहत्स्वार्था (राजदन्तादिसमाससिद्ध) नच कदली कदलीत्यादौ प्रथमकदलीपदेनैव सदल्या उपस्थितौ तत्र लक्ष्यार्थस्य जडताया अभेदान्वयसम्भवे किमर्थं कदल्यंशे लक्षणेति वाच्यम्, लक्ष्यतावच्छेदकजडत्वाश्रयत्वेन तेन रूपेण तदुपस्थापनस्य अनिवार्यत्वात् ।
द्वितीये त्विति--अत्यन्ततिरस्कृतवाच्ये इत्यर्थः ।
अत्यन्ततिरस्कृतत्वात् केनापि रूपेणाबोधितत्वात् जहत्स्वार्था, उक्तरूपं स्वार्थं जहती अनुपस्थापयन्ती ।
********** एन्द् ओf चोम्मेन्तर्य् **********
विवक्षिताभिधेयो ऽपि द्विभेदः प्रथमं मतः ।
असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा

4.5

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) विवक्षितान्यपरवाच्यस्यापि प्रथमं भेदद्वयमाह---विवक्षिताभिधेयोपीति---विवक्षितवाच्य इत्यर्थः ।
प्रथममिति पश्चात्तूभयोरपि प्रभेदबाहुल्यस्य वक्ष्यमाणत्वात् ।
तद्द्वैविध्यमाह ।
असंलक्ष्येति---व्यङ्ग्यो यत्र असंलक्ष्यक्रमः अपरिचेयज्ञानोत्पत्तिक्रमः, वाच्यज्ञानान्तरं व्यङ्ग्यज्ञानं जायते इति क्रमो यत्र अपरिचेय इति भावः ।
रसभावादीनाम् अत्यन्तास्वाद्यतया शीघ्रबोध्यत्वेन उत्पलपत्रशतभेदनस्येव क्रमापरिचयात् ।
अपरो वस्त्वलङ्काररूपो व्यङ्ग्यस्तु लक्ष्यक्रमः ।
तद्ज्ञानोत्पत्तिक्रमस्य लक्षणीयत्वात् ।
लोचना:
(लो, ऐ) विविक्षिताभिधेय इत्यस्यार्थः विवक्षितान्यपरवाच्यो ध्वनिरिति ।
तत्र च रसवति काव्ये झटित्यास्वादपर्यन्तगमनाद्वस्त्वलङ्काररूपव्यङ्ग्ययोरपि प्रतीतिर्न विलम्बिता, नीरसे तु प्रतीतिविलम्बात्तत्साजात्येन सलक्ष्यक्रमव्यङ्ग्यव्यवहारः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
विवक्षितान्यपरवाच्यो ऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः ।
तत्राद्यो रसभावादिरेक एवात्र गण्यते ।
एको ऽपि भेदो ऽनन्तत्वात् संख्येयस्तस्य नैव यत्

4.6

उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्ग्यः ।
अत्र व्यङ्ग्यप्रतीतेर्विभावादिप्रतितिकारणत्वात् क्रमो ऽवश्यमस्ति किन्तूत्पलपत्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) आद्यः असंलक्ष्यक्रमः ।
विभावादिप्रतीतिकारणकत्वादिति ।
प्रत्येकं तत् प्रतीतिकारणकत्वादित्यर्थः ।
"प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते"इत्युक्तत्वात् ।
"तत् समूहालम्बनप्रतीतिस्तु रस एव"इत्युक्तत्वाच्च ।
लाघवात् शीघ्रप्रतीतिकत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एषु रसादिषु च एकस्यापि भेस्यानन्तत्वात्संख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तम् ।
तथाहि---एकस्यैव "शृङ्गारस्यैको ऽपि संभोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात् प्रत्येकं च निभावादिवैचित्र्यात्संखायतुमश्क्यः, का गणना सर्वेषाम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) एको ऽपि भेद इत्यादिकं व्याचष्टे--एषु चेति ।
एकभेदमेवेतिअसंलक्ष्यक्रमत्वमेकमुपाधिमाश्रित्य इति शेषः ।
विभावानुभावभेदाभेदगणने अनन्तत्वम्, तद्दर्शयति---तथाहीति ।
विभावादिवैचित्र्यं कन्यामध्याप्रगल्भत्वादिभेदेन उत्तममध्यमाधमत्वभेदेन वैचित्र्यं बोध्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
शब्दार्थोभयशक्त्युत्थे व्यङ्क्ये ऽनुस्वानसन्निभे ।
ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः

4.7

क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्ग्यनाम्नोध्वनेः काव्यस्यापि त्रैविध्यम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) लक्ष्यक्रमव्यङ्ग्यध्वनिं विभजति---शब्दार्थोभयेति--तत्र अनुस्वानसान्नेभ इति यदुक्तं तद् व्याचष्टे---क्रमलक्ष्यत्वादेवानुरणनरूप इति ।
अनुरणनं प्रतिध्वनिः ।
स हि प्रथमध्वनेरनन्तरं जायते तदुत्पत्तिक्रमश्च लक्ष्यते तत् तुल्यो यो व्यङ्ग्यस्तस्य त्रैविध्यं व्याचष्टे---तस्य शब्दशक्त्युद्भवत्वेन इति ।
शब्दस्य अर्थस्य च शक्तिः सामर्थ्यम् ।
न तु अभिधारूपा वृत्तिः तया व्यङ्ग्याबोधनात् अर्थस्य तदभावाच्च ।
तेन सामर्थ्यैन उद्भव उत्पन्नविषयता यस्य तादृशव्यङ्ग्यस्येत्यर्थः ।
तत् त्रैविध्यात् तत्सम्बन्धेन संलक्ष्यक्रमव्यङ्ग्यनाम्नो ध्वनिकाव्यस्य त्रैविध्यमित्यर्थः ।
लोचना:
(लो, ओ) संलक्ष्यकमव्यङ्ग्यभेदानाह---शब्दार्थेति ।
अनुस्वानेति कारिकापदस्यार्थं विवृणोति---अनुरणनमिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र---
वस्त्वलङ्काररूपत्वाच्छब्दशक्त्युद्भवोद्विधा ।
अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यते ।
लोचना:
( लो, औ) अनलङ्करणं वैचिञ्यमात्रराहितम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र वस्तुरूपः शब्दशक्त्युद्भवो व्यङ्ग्यो यथा---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) तत्र काव्यस्य शक्त्युत्थत्वप्रयोजकं शब्दशक्त्युद्भवं व्यङ्ग्यं द्विधा विभजति---तत्र वस्त्वलङ्काररूपत्वादिति ।
पृथक् उपादानादिति वस्तुत्वस्य केवलान्वयित्वेन अलङ्कारस्यापि वस्तुत्वात् ।
तथा च गोवृषन्यायात् वस्तुपदस्यालङ्कारभिन्नवस्तुपरतां व्याचष्टे---अलङ्करणमिति ।
अलङ्कारणमलङ्कारः तद्भिन्नमित्यर्थः ।
अनलङ्कार इति बहुपुस्तकेषु पाठः तल्लोखकप्रमादादेव ।
अलङ्कारशब्दस्य पुंलिङ्गत्वेन तस्य नञ् तत्पुरुषे लिङ्गत्यागाभावात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
पन्थि अ ! ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।
उण्णअ पओहरं पेक्खिअ ऊण जै वसति ता वससु ॥
लोचना:
(लो, अ) स्त्रस्तरं-तृणादिशय्या ।
प्रस्तराः पाषाणाः ।
पयोधरः मेघः ।
व्यङ्ग्यपक्षे स्त्रस्तरं शास्त्रं सत्यनुशासकम् ।
उन्नतपयोधरां मामित्यर्थः ।
न चेह स्त्रस्तरशब्दस्य शास्त्रार्थत्वेन उपमाध्वनिः; सादृश्यस्याविवक्षितत्वात् ।
रहस्यसंगोपनार्थमेव हि ह्यर्थप्रयोगः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमो ऽसि तदास्स्वेति वस्तु व्यज्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) पन्थिअ ण एत्थेति-- "पथिक नात्र स्त्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे ।
उन्नतपयोधरं प्रेक्ष्य यदि वससि तद्वस" ॥
इति संस्कृतम् ।
निवासार्थिनं पथिकं प्रति स्वयं-दूत्या उक्तिरियम् ।
हे पथिक ! प्रस्तरस्थले ऽत्र ग्रामे मनाक् स्वल्पमपि स्त्रस्तरं शयनीयास्तरणं नास्ति ।
प्रस्तर एवं वयं स्वमिप इति भावः ।
मनागित्यत्रापि अर्थो ऽध्याहार्यः ।
उन्नतमुद्भूतं पयोधरं मेघं प्रेक्ष्य गमनप्रतिबन्धात् यदि वस्तुमिच्छसि तदा वस इति आपाततो भावार्थः ।
अत शब्दशक्त्युत्थं गूढं व्यङ्ग्यार्थ दर्शयति---अत्रेति ।
प्राकृतश्लिष्टस्य स्त्रत्थरशब्दस्य शास्त्रमप्यर्थः ।
प्रकरणनियन्त्रणवशात् सोर्ऽथो व्यङ्ग्यस्तथा च "परदारान्न गच्छेदि ति स्मृत्यादिशास्त्रं नास्ति इत्यर्थः ।
इति आदिपदात् प्रस्तरस्थलपयोधरपदयोरपि परिग्रहः ।
तथा हि शय्याविरहात् प्रस्तरस्थं स्त्रीजनं पुरुषो लातिरत्यर्थं गृह्णाति इति प्रस्तरस्थलः तत्र इत्यर्थेन उत्तुङ्गस्तनदर्शनेन च" यद्युपभोगक्षमेत्यादि"व्यञ्जनात् परम्परया शब्दशक्तिमूलता ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अलङ्काररूपो यथा--"दुर्गालङ्घितविग्रहः" इत्यादौ (59 पृदृ) अत्र प्राकरणिकस्य उमानाममहादेवी-वल्लभ-भानुदेवनाम-नृपतेर्वर्णने द्वितीयार्थसूचितमप्रारणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बनद्धं मा प्रसङ्क्षीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) शब्दशक्त्युद्भवोपमालङ्कारव्यञ्जनामाह---दुर्गालङ्घितेति ।
व्याख्यातमिदम् ।
द्वितीयार्थः पार्वत्यादिः तेन सूचितं पार्वतीवल्लभस्य वर्ण्णनमित्यर्थः ।
मा प्रसाङ्क्षीदिति--प्रसक्तं माभूदित्यर्थः ।
तत्प्रसक्तौ कवेरुन्मत्ततापत्तेः ।
अतः कवेरीश्वरभानुदवयोरुपमानोपमेयभावे तात्पर्य्यात् उपमानोपमेयभावः कल्प्यते संव्यज्यते इत्यर्थः ।
स एव च उपमालङ्कारः ।
तं व्यङ्ग्यं विशदयित्वा दर्शयतितदत्रेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा वा---
"अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद ! प्रभो ! ।
अहितः सहितः साधु यशोभिरसतामसि" ॥
अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) शब्दशक्त्या व्यङ्ग्यविरोधभासालङ्कारमाह--यथा वा---अमित इति ।
हे हर्षद प्रभो ! समितः युद्धात् प्राप्तौरुत्कर्षैरमितः अपरिच्छिन्नोसि, उत्कर्षबाहुल्यात् त्वं कीदृशः असतामहितः शत्रुः साधुयशोभिः सहितः ।
अत्र अमितः परिमाणरहितः समितः परिमाणयुक्तश्चेति ।
अहितो हितशून्यः सहितो हितयुक्तश्चेति विरोधः ।
विरोधस्य वाचकाभावात् व्यङ्ग्यतामाह---अत्रेति ।
लोचना:
(लो, आ) आमिति इति ।
समितः संग्रमात् प्राप्तौरुत्कर्षैरपरिमितः, असतामहितः शुवुः ।
मानं भितं तेन सहितः ।
हितेन रहितः कथं तेन युक्त इति विरोधः ।
अपिशब्दाभावादिति ।
अपिशब्दसद्भावे"कुपतिमपि कलत्रवल्लभमित्यादौ अपिशब्दबलात् झटिति विरुद्धार्थ एवाभासते ।
अन्यथा अपिशब्दस्य निरर्थकतापत्तेः ।
अमित इत्यादौ तु अपेरभावात् प्राकरणिकतया प्रथमम् अविरुद्धार्थ एव प्रतिभासते ।
अनन्तरम् अमितः सन्कथं समिति इति विरोधप्रतिभासनाद् विरोधाभासो व्यङ्ग्य इति ।
अपिशब्दाभावादित्युपलक्षणमः अन्येषामपि विरोधभिधायि शब्दानामभावे ऽपि विरोधाभासस्य व्यङ्ग्यत्वं बोद्धव्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
व्यङ्ग्यस्यालङ्कार्यत्वे ऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) ननु व्यङ्ग्यार्थ एव आस्वाद्यः तस्य शोभको यः स एवालङ्कारः ।
तथा च उपमादेर्व्यङ्ग्यत्वे परेण शोभ्यमान एव सः न शोभकः ।
तत्कथमत्र व्यङ्ग्योपमादेरलङ्कारत्वमित्यत आह---व्यङ्ग्यस्येति--अलङ्कार्य्यत्वे वाच्यालङ्कारन्तरेणैव शोभ्यत्वे ऽपि इत्यर्थः ।

श्रमणः सन्यासी तद्दशायां तस्य ब्राह्मण्याभावे ऽपि यथा तस्य दशान्तरीयं ब्राह्मण्यमादाय
ब्राह्मणत्वमुपचर्य्यते तथा वाच्यतादशायामलङ्कारत्वमादाय व्यङ्ग्योपमादेरलङ्कारत्वमुपचर्य्यते इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः

4.8

कवेः प्रौठोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् ।
षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः

4.9

अर्थशतयुद्भवो व्यङ्ग्यो याति द्वादशभेदताम् ।
लोचना:
(लो, इ) वस्तु वेति---स्वतः सम्भविकविप्रौढोत्कितन्निबद्धवस्तुप्रौढोत्किसिद्धाभिः वस्त्वलङ्काररूपाभैः षङ्विधाभिः व्यञ्जनाभिः व्यङ्ग्ययोर्वस्त्वलङ्कारयोः द्वादश विधत्वेन द्वादशप्रकारमर्थशक्त्युद्भवव्यङ्ग्यध्वनिकाव्यमिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
स्वतः सम्भवी औचित्याद् बहिरपि सम्भाव्यमानः ।
प्रौढोक्त्या सिद्धः, न त्वौचित्येन ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) अर्थशक्त्युद्भवं दर्शायितुं व्यञ्जकार्थस्य वस्त्वलङ्काररूपद्विविधस्य स्वतः सम्भवित्वादित्रौविध्येन षड्विधत्वमाह--वस्तु वालङ्कृतिर्वेति ।
षड्विधव्यङ्ग्यानां द्वादशविधत्वमाह---षड्भिस्तैरिति ।
बहिरपीति ।
शब्दप्रमाणात् बहिः ।
प्रमाणेनापि सिद्धत्वात् उचितसम्भावन इत्यर्थः ।
प्रौढोक्त्येति--कवितन्निबद्धयोः प्रतिभामात्राधीनोक्त्या इत्यर्थः ।
नतु औचित्येनेति---तस्यार्ऽथस्यालीकत्वेनौचित्याभावात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र क्रमेण यथा--
दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) स्वतः सम्भविवस्तुव्यङ्ग्यं वस्त्वाह--दृष्टिं हे इति ।
नदीजलानयनवर्त्मनि वने कृतसंकेतायाः कुलटायाः तज्जलानयनच्छलेन जिगमिषोर्भाविनखक्षतसम्वरणोक्तिरियम् ।
इहापीति--स्वगृह इव अस्मद्गृहे ऽपीत्यर्थः ।
अस्य मदीयस्य शिशोः पिता कुलटात्वात् स्वपतित्वेनानुक्तिः ।
विरसाः स्वादारहिताः कौपीः कूपसम्बन्धिनीः अपः जलीभिप्रायेण इत्यनेन मम बाध्यादिना अशक्तिदिने पिबतीत्युक्तम् ।
आलिखन्तु इति, तदा लेखनसम्भावनासत्त्वे ऽपि यास्यामीत्यर्थः ।
जरठच्छेदाः कठिनच्छिन्नभागाः नीरन्ध्रा अविरलाः ।
नलग्रन्थयः नलाख्यतृणपर्वदेशाः
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र स्वतः सम्भविना वस्तुना तत् प्रतिपादिकाया भावपरपुषोपयोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) स्वतः सम्भविनेति---अस्य श्लोकार्थस्यानलीकत्वेन प्रमाणान्तरेणापि गम्यत्वसम्भवात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥
अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापो ऽधिक इति व्यतिरेकालङ्कारो व्यज्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) स्वतः सम्भविवस्तुव्यङ्ग्यमलङ्कारमाह---दिशीति ।
पाण्ड्याः पाण्ड्यदेशीयाः राजानः ।
व्यतिरेकालङ्कार इति उपमानात् रवितेजसो रघुप्रतापस्याधिकरूपः ।
सच व्यङ्ग्य एव असहनेनैव तत्प्राप्तेः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आपतन्तममुं दूरादूरीकृतपराक्रमः ।
बलो ऽवलोकयामास मातङ्गमिव केसरी ॥
अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) स्तः सम्भव्यलङ्कारव्यङ्ग्यं वस्त्वाह--आपतन्तममुमिति ।
आपतन्तम् आगच्छन्तम् अमुं वेणुदारिनामासुरं रामो बलरामः ।
वेणुदारिणः क्षयमिति बलोपमानस्य सिंहस्य वेणुदार्युपमानमात्रसंक्षयकरित्वेन तदुपमानोपमेययोरपि तद्धर्मलाभात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
गाढकान्तदशनक्षतव्यथा सङ्कटादरिबधूजनस्य यः ।
ओष्ठविद्रुमदलान्यमोचयन्निदर्शन् युधि रुषा निजाधरम् ॥
अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) स्वतः सम्भव्यलङ्कारव्यङ्ग्यमलङ्कारमाह---गाढकान्तेति ।
यो राजा युधि निजाधरं निर्दशन् अरिवधूजनस्य ओष्ठरूपाणि विद्रुमस्य प्रवालस्य दलानि रतकालीनगाढकान्तदशनक्षतव्यथारूपात् संकटादापदो ऽमोचयत् ।
युधि क्रोधेन स्वाधरं निर्दश्य तत्पतिं हत्वा तथा चकारेत्यर्थः ।
अत्रेति---अधरदंशकत्वाधरदंशमोचकत्वयोः वस्तुगत्या अविरोधे ऽपि आपततो विरोधस्य आभासमानत्वात् विरोधाभासालङ्कारेण इत्यर्थः ।
समुच्चयालङ्कार इति--द्वयोरेककालोत्पत्तिरूप इत्यर्थः ।
चकारद्वयस्य समं शब्दस्य वाभावात् व्यङ्ग्यएव इत्यर्थः ।
लोचना:
(लो, ई) विरोधालङ्कारेणेति---विरोधमूलेन कार्यकारणपोर्वापर्यविपर्ययरूपेणैवातिशयोक्त्यलङ्कारेणेत्यर्थः ।
तथा ह्यत्र स्वाधरनिर्दंशनं कारणभूतं वैरिस्त्रीणाम् ओष्टानां च कान्तदन्तक्षतमोचनं कार्यभूतं समकालतया निर्दिष्टम् ।
किञ्चात्र निर्द्दंशनरूपकरपिशाचो ममाधरं वलिरूपं प्राप्यान्यानधरान् सुखिनः करोत्विति बुद्ध्वैव
निजाधरं दष्टवानिति तस्य राज्ञः वुद्धिमपेक्ष्य उत्प्रेक्षा च ।
ततश्चात्र समुच्चयोत्प्रेक्षयोरेकाश्रयानुप्रवेशः सङ्करश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"सजेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे ।
अहिणवसहआरमुहे णवपत्तले अणङ्गस्स सरे" ॥
लोचना:
(लो, उ) सज्जेति---"सज्जयति सुरभिमासो न चार्पयति युवतिजनलक्ष्यसहान् ।
अभिनवसहकारमुखान् नवपल्लवपत्तलान् अनङ्गस्य शरान्" ॥
इति संस्कृतम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र वसन्तः शरकारः, कामो धन्वी, युबतयो लक्ष्यम्, पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन् मदनविजृम्भणरूपं वस्तु व्यनक्ति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) कविप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यं वस्तु आह---सज्जेइ इति ।
"सज्जयति सुरभिमासो न चार्पयति युवतिजनलक्ष्यशते ।
अभिनवसकारमुखान् नवपल्लवपत्तलान् अनङ्गस्य शरान् ॥
"इति संस्कृतम् ।
प्रथमप्रवृत्तवसन्तवर्णनमिदम् ।
सुरभिमासो ऽभिनवसहकारमुखान् अभिनवानि सहकाराणि मुखम् आदिर्येषां तादृशान् अनङ्गस्य शरान् सज्जयति ।
युवतिजनरूपे लक्ष्यशते शरव्यशते न चार्पयति ।
शरसज्जनस्य वर्त्तमानत्वात् अनिष्पन्नत्वेन तन्निष्पत्त्यानन्तरमेव तादृशलक्ष्यशते ऽर्पयितुं प्रेरयिष्यति इति भावः ।
शतपदात् द्वित्रियुवत्यां त्वर्पायितुं प्रेरयतीति लभ्यते ।
न चार्पयतीति हेतुकारितान्तम् ।
अनङ्गशरान् कीदृशान्-नवपल्लवपत्तलान् नवपल्लवैः पत्तला पत्ररचना येषां तादृशान् ।
"खराणां पत्ररचना पत्तला परिकीर्त्त्यते"इति कोषः ।
वस्तुप्रकाशीभवदिति-- न च सुरभिमासादौ शरकारादिरूपकालङ्कार एव प्रकाशीभवति इत्यतो ऽलङ्कारस्यैव व्यञ्जकत्वमात्रेति वाच्यम् ।

सुरभिमासादौ शरकाराद्यभेदाप्रकाशात् किन्तु सुरभिमासादौ खरसज्जनादेरेव प्रकाशात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"रजनीषु विमलभानोः करजालेन प्रकाशितं वीर ! धवलयति भुवनमण्डलमखिलं तव कीतिसंततिः सतम्" ॥
अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीतिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्क्यः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) कविप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यमलङ्कारमाह---रजनीष्विति ।
हे वीरविमलभानोः निर्मलकिरणस्य चन्द्रस्य करजालेन भुवनमण्डलं धवलयतीत्यर्थः ।
व्यतिरेकालङ्कार इति---अधिककालं व्याप्य प्रकाशनात् उपमानात् चन्द्रकरात् आधिक्यरूप इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः" ॥
अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) कविप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यं वस्त्वाह---धसाननेति ।
दशाननस्य किरीटेभ्यः मणिव्याजेन मणिपतनच्छलेन राक्षसश्रियः अश्रुबिन्दवः पृथिव्यां पर्यस्ताः पतिताः ।
अपह्नुत्यलङ्कारेणेति---मणिपातापह्नुत्या व्याजपदेन अश्रुबिन्दुसाधनात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः ।
एको ऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययौ ।
नानामण्डनतां पुरन्दपुरीवामभ्रुवां विग्रहे" ॥
अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठो ऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) कविप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यमलङ्कारमाह---धम्मिल्ल इति ।
हे त्रिकलिङ्गभूमितिलक ! कलिङ्गदेशभूत्रयातिलक ! एको ऽपि तव कीर्तिराशिः पुरन्दरपुरीवामभ्रुवां सुराङ्गनानां विग्रहे शरीरे नानामण्डनतां ययौ ।
तदेव दर्शयतिधम्मिल्ल इति ।
धमिल्लः संयताः कचाः ।
विभावनेति--स्वर्गस्थितिरेव स्वर्गस्थानामुपकारकारणम् ।
तदभावे ऽपि स्वर्गस्थोपकारकरणरूपकफलव्यक्तिरूपा विभावना, सा च स्वर्गस्थित्यभाववाचकशब्दाभावात् व्यङ्ग्या ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
सुमुखै ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः" ॥
अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) कविनिबद्धवक्तृप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यं वस्त्वाह---शिखरिणि इति ।
असौ शुकशावकः क्क नु शिखरिणि कस्मिन् पर्वते कियच्चिरं किमभिधानं किं नामकं तपः अकरोत् ।
येन हेतुना तव अधरवत् पाटलं बिम्बफलं दशाति ।
तव अधरतुल्यवस्तुदंशनमपि तपः फलमिति श्लोकस्य भावरथः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"सुभगे ! कोटिसंख्यत्वमुपेत्य मदनाशुगैः ।
वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्" ॥
अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसंख्यत्वप्राप्त्यो निखिलवियोगिमरणोन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेवे त्युत्प्रेक्षालङ्कारो व्यज्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) कविनिबद्धवस्तुप्रौढोक्तिसिद्धवस्तु व्यङ्ग्यमलङ्कारमाह---सुभग इति ।
वसन्ते मदनाशगैः कोटिसंख्यत्वम् उपेत्य लब्ध्वा, पञ्चता पञ्चसंख्यता त्यक्ता, वियोगिनां पञ्चता मरणकालीनपञ्चभूतविश्लेषः ।
आसीत् ।
अत्रति---सुभगे इति ।
सम्बोधनात् कामुक एवात्र वक्ता नतु कविः ।
तत्प्रौढोक्तिसिद्धेन वियोगिनां मरणेन इत्यन्वयः ।
उत्प्रेक्षा व्यज्यत इति--तद्वाचकेवकाराधभावाद् व्यञ्जना ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"मल्लिकामुकुले चणिड ! भाति गुञ्जन् मधुव्रतः ।
प्रयाणो पञ्जबाणस्य शङ्वमापूरयन्निव" ॥
अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) सविनिबद्धवक्तृप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यं वस्त्वाह---मल्लिकेति ।
शङ्खमापूरयन्निवेति ।
मल्लिकामुकुलस्य शङ्खाकारत्वात् भृङ्गगुञ्जनस्य शङ्खशब्दतुल्यत्वात् ।
मानिनी प्रतीयमुक्तिरित्यभिप्रायेण कविनिबद्धवक्तृप्रौढोक्तिसिद्धमुदाहरणमिदम् ।
अत एव कथंमानं न मुञ्चसि इति व्याख्या ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।
अणुदिणमणण्णकम्मा अङ्ग तणुत्त्रं पि तणुएइ" ॥
लोचना:
(लो, ऊ) महिलासहस्त्रभरिते तव हृदये सुभग सामान्ती ।
अनुदिनमनन्यमना अङ्गं तनुकमपि तनूकरोति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्रामाअन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणो ऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) कविनिबद्धवक्तृप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यमलङ्कारमाह---महिलासहस्सेति ।
"महिलासहस्त्रभरिते तव हृदये सुभग ! सामान्ती ।
अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति ॥
"इति संस्कृतम् ।
नायकस्य बहुनायिकाभावनादुः खेन कृशाया नायिकाया अवस्थां नायके कथयन्त्यास्तत्सख्या उक्तिरियम् ।
महिला स्त्री तासां सहस्त्रेण भरिते तव हृदये अमान्ती अवकाशमलभमाना सा अनुदिनं दिवसं व्याप्य अनन्यकर्म्मा त्यक्तान्यकार्य्या सती तनु स्वतः कृशं अङ्गं तनयति तनूकरोति कृशतरं करोति ।
नामकारितान्तस्य तनुशब्दस्य रूपमिदम् ।
काव्यलिङ्गेति--काव्यलिङ्गं हेत्वलङ्कारः ।
हृदये स्थानालाभस्य अङ्गतनूकरणहेतुत्वात् ।
हृदये न वर्त्तते इति---तनयतीति वर्त्तमाननिर्द्देशात् अद्यापि हृदये वृत्त्यलाभः ।
विशेषोक्तिरिति अङ्गतनूकरणरूपकारणसत्वे ऽपि हृदये स्थानलाभरूपकार्य्यस्याभावरूपा विशेषोक्तिः ।
लोचना:
(लो, ऋ) अत्रेति---रूपणादयः कवेर्व्यापाराः कवेश्च प्राधान्यव्यङ्ग्यबोधनार्था रूपणादयो व्यापारा यथात्र चमत्कुर्वन्ति न तथा वाच्येषु ।
रूपकाद्यलङ्कारेषु हि वाच्यानां रूप्याणां मुखादीनामेव रूपणादिव्यापाराद् रूपकादिभ्यश्चन्द्रादिभ्यश्च प्राधान्यमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयवमत्कारकारिणीति पृथक्प्रतिपादिता ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:

(वि, क) ननु---प्रौढोक्तिसिद्धत्वेनैव उभयसंग्रहसम्भवे किमर्थं कविनिबद्धवक्तृकत्वेन पृथगुपादानमित्यत आह-न खल्विति ।
कव्यपेक्षया कविनिबद्धस्य रागातिशयात् पृथगुपादानमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
[एवं वाच्यार्थस्य व्यञ्चकत्वे उदाहृतम् ।]
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) एवं वाच्यार्थस्येति---इदमत्रावधेयम् ।
गाढकान्तदशनेत्यादौ दर्शितस्य विरोधालङ्कारस्य व्यञ्जकस्य वाचकापिकाराभावाद् व्यङ्ग्यत्वमेव, एवं सज्जयति सुरभिमास इत्यादौ वसन्तादेः शरकरणदिरूपवस्तुनो व्यञ्जकस्य व्यङ्ग्यत्वमेव इत्यतो ऽत्र प्रायश इति पूरणीयम् ।
काव्यप्रकाशकृन्मते तु व्यञ्जकवस्त्वलङ्कारयोः वाच्यत्वाद्यनियम एव ।
अत एव लक्ष्यव्यङ्ग्ययोरपि व्यञ्जकत्वमुदाहार्य्यमिति तेनोक्तम् ननु रूपणमेव रूपकालङ्कारः ।
उत्प्रेक्षणमेव उत्प्रेक्षालङ्कारः, व्यतिरेचनमेव व्यतिरेकालङ्कारः तथा च यत्र रूपकालङ्कारस्य व्यङ्गयत्वम् तत्र किं रूप्यमानवस्तूदाहरणं न स्यात् ।
कारः ।
एवमुत्प्रेक्ष्यमाणव्यतिरिच्यमानवस्तुनोरित्यत आह--एषु चेति--तत्तद् वस्तवपेक्षया तदलङ्कार एव आधिकचमत्कारीति तत्तदुदाहरणमेव तत्तत् इति भावः ।
यद्यपि सुभगे कोटिसंख्यात्वम् इत्यत्र उत्प्रेक्षालङ्कारः, दिशि मन्दायते इत्यत्र व्यतिरेकालङ्कारश्च व्यङ्ग्य उक्तः ।
रूपकालङ्कार व्यङ्ग्यत्वं तु नोक्तं तथापि--- चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमती रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती ॥
इत्यत्र मधुकरे कामुकरूपणं व्यङ्ग्य बोध्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एषु चालङ्कृतिव्यञ्जनस्थले रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) लक्ष्यार्थस्य यथेत्यादि-इदमत्रावधेयम्--"भम्म धम्मिअ"इत्यादावप्यभ्रमणं व्यङ्ग्यमुक्तम् ।
तत्तुल्ययुक्तिके निः शेषेत्यादौ तदन्तिकगमनं लक्ष्यमित्युक्तमितीदं स्वोक्तिविरुद्धम् ।
"क्वचिद् बाध्यतया ख्याति "रित्याद्युक्तयुक्तेरुभयत्र समानत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एकः शब्दार्थशक्त्युत्थे--
अभयशक्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः ।
यथा---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) उभयशक्त्युत्थमुदाहरणमाह---एकेति ।
एकः प्रभेद इत्यर्थः ।
शब्दशक्त्युत्थे व्यञ्जने तत्प्रपञ्चस्य अर्थशक्त्युत्थे व्यञ्जने तत्प्रपञ्चस्य दर्शितत्वात् ।
उभयशक्त्युत्थप्रपञ्चस्य तावतैव गतार्थत्वात् एक इत्युक्तम् ।
न तु दर्शयिष्यमाणोदाहरणे ऽलङ्कारस्य व्यङ्ग्यत्वात् अलङ्काररूपतया एक इत्युक्त इति केनचिदुक्तं युक्तम् ।
"क्षणदासावक्षणदावनमवनं व्यसनमव्यसनम् ।
बत वीर ! तव द्विषतां पराङ्मुखे त्वयि पराङ्मुखं सर्वम्" ॥
इत्यत्रार्ऽथान्तरन्यासघटकशब्दशक्त्यार्ऽथान्तरन्यासरूपार्ऽथशक्त्या च विधिरपि त्वामनुवर्त्तते इति वस्तुव्यञ्जनाया अपि सम्भवात् स्वतः सम्भव्याद्यर्थव्यङ्ग्यत्वेन भेदान्तरप्रसक्तेर्दुर्वारत्वाच्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजाञ्जनितमीनकेतनः ।
अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) हिममुक्तेति---माधवः कृष्णः प्रमदाजनस्य महोत्सवो महोत्सवे हेतुश्चिराय अभवत् ।
अत्र सुद्धसारोपा लक्षणा ।
कीदृशः हिममुक्तचन्द्र इव रुचिरः ।
सपद्मकः पद्मया लक्ष्म्या हस्तपादस्थरेखारूपपद्मेन वा साहितः ।
द्विजान् ब्राह्मणान् मदयन् आनन्दयन् ।
जनितो मीनकेतनः प्रद्युन्मः येन तादृशः ।
प्रसादिताः प्रीणिताः सुरा देवा येन तादृशश्च ।
अत्र माधवो वसन्तो ऽपि शब्दशक्त्या अर्थशक्त्या च व्यज्यते ।
तथा हि माधवशब्दस्य वसन्ते ऽपि शक्त्या सपद्मक इत्यत्र सपद्मकशब्दरूपस्य पद्मसहिते ऽपि शक्त्या, द्विजान् इत्यत्र द्विजशब्दस्य पक्षिष्वपि शक्त्या जनितमीनकेतन इत्यत्र सुराप्रसादने ऽप्यस्य शब्दस्य शक्त्या च वसन्तप्रत्यायने शब्द शक्तिः ।
हिममुक्तेत्यत्र प्रमदाजनस्येत्यत्र श्लिष्टशब्दाभावात् अर्थशाक्तः ।
ततश्च वसन्तस्याप्राकरणिकत्वेन तत्प्रत्यायनस्य प्रकृते ऽनुपयोगाद् वसन्त इव कृष्ण इत्युपमाप्रतीतिः ।
तदाह---उपमालङ्कार इति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः ।
लोचना:
(लो, ॠ) हिमेति---हिममुक्तचन्द्र इव पक्षे हिममुक्तचन्द्रेण रुचिरः ।
पद्मा लक्ष्मीः पद्मं कमलं च ।
मीनकेतनः प्रद्युम्नावतारः, सामान्यमदनश्च, सुराः त्रिदशाः, मुरा मद्यम् ।
माधवो हरिर्वसन्तश्च ।
अत्र माधवशब्दप्रतिपाद्यतया हरिवसन्तयोः औपम्यप्रतिपादकस्य हिममुक्त इत्यादिशब्दस्य शब्दपरिवृत्तिसहत्वादर्थशक्तेर्दार्ढ्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः ।
तदष्टादशधा ध्वनिः

4.10

अविवक्षितवाच्योर्ऽथान्तरसंक्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।
विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः ।
संलक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) अष्टादशत्वं दर्शयति---अविवक्षितेति ।
पञ्चदशेति--शब्दशक्त्युत्थौ द्वौ, अर्थशक्त्युत्थश्च द्वादश, उभयशक्त्युत्थे एव इति पञ्चदश ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एषु च--
वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः ।
लोचना:
(लो, ऌ) शब्दपरिवृत्तिसहत्वासहत्वाभ्यामेव हि सर्वत्र शब्दार्थशक्तिमूलत्वस्य व्यवस्थापनम् ।
अत एव चास्य भेदस्य बहुपदनिष्टत्वेनैव सम्भवाभिप्रायेण ग्रन्थकृत्पदनिष्टत्वं नास्तीति वक्ष्यति ।
तथैव च प्राचीनैरुक्तम् ।
"पथिअ ण एत्थ"इत्यादौ परिवृत्त्यसह एव स्त्रस्तरपयोधरशब्दयोरेव व्यञ्जकत्वमिति शब्दशक्तिमूलत्वम् ।
व्यञ्जकत्वस्य बहुनिष्टत्वे ऽपि पदसमुदयनिष्टत्वाभिप्रयेण वाक्यनिष्टत्वम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) वाक्य इति---उभयशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रव्यङ्ग्य इत्यर्थः ।
व्यञ्जकार्थवाचकश्लिष्टशब्दानां च एकव्यङ्ग्यव्यञ्जने वाक्यत्वनियमात् ।
तदन्ये इति---तदन्ये व्यङ्ग्याः पदेन वाक्येन च व्यङ्ग्या इत्यर्थः ।
तत्रेति---तत्र ध्वनिपद व्यङ्ग्यपरम् ।
पदगतः पदमात्रव्यङ्ग्यः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"धन्यः स एव तरुणो नयने तस्यैव नयने च ।
युवजनमोहनविद्य भवितेयं यस्य संमुखे सुमुखई" ॥
अत्र द्वितीयनयनशब्दो भग्यवत्तादिगुणविशिष्टनयनपरः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) द्विजीयनयतशब्द इति---अत्र लक्ष्यार्थस्य अतिशयो व्यङ्ग्य इति वक्ष्यति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वाक्यगतो यथा---
"त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्" ॥
अत्र प्रतिपाद्यस्य संमुखीनत्वादेव लब्धे प्रतिपाद्यत्वे त्वामिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं तक्षयति ।
एवं वच्मीत्यनेनैव कर्तरि लब्धे ऽस्मीति पुनर्वचनम् ।
तथा विदुषां समवाय इत्यनेनैव वक्तुः प्रतिपादने सिद्धे पुनर्वच्मीति वचनमुपदिशामीति वचनविशेषरूपमर्थं लक्षयति ।
एतानि च स्वातिशयं व्यञ्जयन्ति ।
एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेव कर्तव्यमित्यभिप्रायः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ)त्वामस्मीत्यत्र त्वदाद्यनेकलाक्षणिकपदानां लाक्षणिकत्वं दर्शयति---अत्रेति ।
अन्यव्यावृत्तिविशिष्टमिति---तथा च त्वामेव अहमेव इत्यर्थः ।
एतानि चेति---एतानि लक्ष्यार्थे रूपाणि वस्तूनीत्यर्थः ।
स्वातिशयमिति---स्वापेक्षयाधिकार्थ एव स्वातिशयः ।
तमधिकमर्थमाह---एतेनेति ।
अभिप्रायो अभिप्रायस्थव्यङ्ग्यार्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तदेवमयं वाक्यगतो ऽपर्थान्तरसंक्रमितवाच्यो ध्वनिः ।
अत्यन्ततिरस्कृतवाच्यः पदगतो यथा---"निःश्वासान्ध-" इत्यादि ।
वाक्यवतो यथा-"उपकृतं बहु तत्र-" इत्यादि ।
अन्येषां वाक्यागतत्वे उदाहृतम् ।
पदगतत्वं यथा--
"लावण्यं तदसौ कान्तिस्तद्रूपं स वचः क्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान्" ॥
लोचना:
(लो, ए) लावण्यमिति---सर्वावयवगतः को ऽप्यातिशयः लावण्यम् ।
कान्तिरुज्ज्वलता च पृथक् पृथगवयवाश्रिता ।
ज्वरः पीडादायकः ।
लावण्यादीनाम् इत्यतः पूर्वं प्रतीतेर्विभावादिसामग्रीसाध्यत्वे ऽपि पूरणीयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र लावण्यादीनां तादृगनुभवैकगौचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) असंलक्ष्यक्रमं पदगतं व्यङ्ग्यमुदाहरति---लावण्यमिति ।
अत्रेति---लावण्यादीनां यदनुभवैकगोचरत्वं तत्तद् व्यञ्जकानामित्यर्थः ।
व्यञ्जकानामित्यत्र ज्ञापकानामित्यर्थः ।
तेन अनुभवैकगोचरत्वं तदादिपदानां वाच्यमेव बोध्यं, न तु व्यङ्ग्यम् किन्तु विप्रलम्भ एव व्यङ्ग्यः ।
तदाद्यनेकपदानां चात्र न वाक्यत्वं विभिन्नवाक्यस्थत्वेन परस्परानन्वयात् ।
न च तदा सुधास्पदमभूदित्यत्र सर्वेषां तदादिपदार्थानामन्वयात् वाक्यत्वमेवेति वाच्यम् ।
तल्लावण्यमित्यनेनैव विप्रलम्भव्यञ्जनेन तदा सुधास्पदमित्यन्वयापेक्षां विनैव व्यञ्जक्त्वेन पदत्वेनैव व्यञ्जकत्वात् ।
महावाक्यव्यङ्ग्यत्वे ऽपि पदगतव्यङ्ग्यमूलो व्यवहारः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तदुक्तं ध्वनिकृता---
"एकावयवसंस्थेन भूषणोनेव कामिनी ।
पदद्योत्येन सुकवेर्ध्वनिना भाति भारती" ॥
एवं भावादिष्वप्यूह्यम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) तन्मुखेनैव काव्यशोभाप्रतीतिरित्यत्र संवादं दर्शयति---तदुक्तमिति ।
ध्वनिना व्यङ्ग्येन भारती वाक्यरूपा ।
पदव्यङ्ग्ये रसादिरूपे ऽसंलक्ष्यक्रमे उदाहृते भावादिरूपासंलक्ष्यक्रमस्यापि पदव्यङ्ग्यत्वमूह्यमित्याह ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) शब्दशक्त्युद्भवं वस्तुपदव्यङ्ग्यमाह---भुक्तिमुक्तिकृदिति---उपनायकागमनं दृष्ट्वा सन्तोषं व्यञ्जयन्त्या उक्तिरियम् ।
वाच्यार्थे सदागमः सच्छास्त्रम् ।
भुक्तिमुक्ती स्वर्गभोगमोक्षौ ।
एकन्तं सम्यगादेशनं तत्त्वज्ञानोपदेशः ।
व्यङ्ग्यार्थे तु सदगमः सत्पुरुषोपनायकागमः ।
भुक्तिमुक्ती सुरतोपयोगगृहकर्मत्यागौ ।
एकन्तस्य समादेशनं रहस्योपदेशः ।
लोचना:
(लो, ऐ) भुक्तीति ।
भुक्तिर्भोगः, सम्भोगश्च ।
मुक्तिः निः श्रेयसम् इतरव्यापारव्यासङ्गपरित्यगसुशं च ।
एकान्तः परमार्थस्वरूपं संकेतस्थानं च ।
सदागमः सच्छास्त्रं सतः पुरुषस्यागमनं च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र सदागमशब्दः सन्नहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) अत्र श्लिष्टसदागमपदशक्तिमूलकव्यञ्जकत्वमेव अन्यव्यञ्जकपदानामिति तत्पदस्यैव व्यञ्जकत्वं तदाह--अत्रेति---सच्छास्त्रमापाततः प्रकरणगम्यं गामान्यतो ऽभिधाय उपनायकं प्रति सत्पुरुषागमं व्यनक्ति इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः ? सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात् ।

रहस्यस्य सङ्गोपनार्थमेव हि द्व्यर्थपदप्रतिपादनम् ।
प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) सत्पुरुषागमसच्छास्त्रयोरुपमाध्वनित्वमाशङ्कते--नन्विति ।
समाधत्ते--नेति ।
उपमाविवक्षावीजमाह--रहस्येति ।
ननु रलस्य संगोपनमुपमा चास्त्वित्यत्र आह--प्रकरणदीति ।
आदिपदात् तात्पर्य्यपरिग्रहः ।
प्रतिसन्धानेन सत्पुरुषागमस्यैव आस्वाद्यत्वेन अप्राकरणिकसच्छास्त्रस्य प्रकृतासम्बन्धत्वात्; तस्या आस्वाद्यत्वाभावात् तदुपमाया अपि अनास्वाद्यत्वेन तावता सम्बन्धीकरणस्यापि अनुपयोगात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"अनन्यसाधारणधीर्धृताखिलवसुन्धरः ।
राजते को ऽपि जगति स राजा पुरुषोत्तमः" ॥
अत्र पुरुषोत्तमः पुरुषोत्तम इवेत्युपमाध्वनिः ।
अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) शब्दशक्तिमूलमलङ्कारं पदद्योत्यमाह--अनन्येति ।
धृता पालिता, पक्षे कूर्मानन्तमूर्त्त्या ऊढा ।
अस्य पदस्यापि शक्त्या व्यङ्ग्यत्वे ऽपि न वाक्यव्यङ्ग्यत्वं पुरुषोत्तमपदश्लेषाधीनप्रतीतिकत्वादस्य श्लिष्टार्थस्य ।
उपमाध्वनिरिति--अस्य पुरुषोत्तमपदस्य सङ्गोपनादिप्रयोजनकत्वाभावेन उपमायामेव तात्पर्य्यात्संलक्ष्यक्रमभेदौ वस्त्वलङ्कारौ ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सायं स्नानमुपासितं मलयजेनाङ्ग समालेपितं यातो ऽस्ताचलमौलिमम्बरमणिविस्त्रब्धमत्रागतिः ।
आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम्" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) स्वतः सम्भविवस्तुव्यङ्ग्यं वस्तुपदद्योत्यमाह--सायमिति ।
स्नानवर्त्मनि उपनायकोपभुक्तां स्नातागतां क्लान्तां सशीं प्रति सख्या उपहासोक्तिरियम् ।
अधुना तव सौकुमार्य्यमाश्चर्य्यम् ।
येन सौकुमार्य्येण अभितः सर्वाङ्गं क्लान्तासि ।
ननु वर्त्मनि आतपातीदृशः क्लम इत्यत्राह---सायमिति ।
मलयजेन चन्दनेन इति ।
एतद्द्वयमपि क्लमनिवारकम् ।
ननु स्नानादुत्तरं मुहूर्त्तद्वयात्मकसायंकाले आतपसत्त्वात् तत एव क्लम इत्यत्राह--यातो ऽस्तेति ।
अम्बरमणिः सूर्य्यः ।
द्रुतगमनात् क्लममपि निरस्यति--विस्त्रब्धमिति---विस्त्रब्धं यथेष्टम्, आगातिक्रियाविशेषणमिदम् ।
विश्रब्धमन्येति क्वचित् पाठः ।
ननु क्लमः कथं जात इत्यत्राह--येनाधुना इति ।
येन क्लमेन तव नेत्रद्वन्द्वम् अमीलनव्यतिकरं मीलनसम्बन्धरहितं यथा स्यात्तथा आसितुं स्थातुं न शक्रोति ।
लोचना:
(लो, ओ) सायमिति---न विद्यते मीलनेन व्यतिकरः सम्पर्को यत्र तत् अमीलनव्यतिकरं यथा स्यात्तथाऽसितुं स्थातुमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र स्वतः संभविना वस्तुना कृतपरपुरुषपरिचया क्लान्तासीति वस्तु व्यज्यते ।
तच्चाधुना क्लान्तासि, न तु पूर्वं कदाचिदपि तवैवंविधः क्लमो दृष्ट इति बोधयतो ऽधुना पदस्यैवेतरपदार्थोत्कर्षादस्यैव पदान्तरापेक्षया वैशिष्ट्यम् ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ।
तच्चिन्ताविपुलाङ्लादक्षीणपुण्यचया तथा ॥
चिन्तयन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका" ॥
(युग्मकम्)
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) स्वतः सम्भविवस्तुव्यङ्ग्यमलङ्कारं पदव्यङ्ग्यमाह--तदप्राप्तीत्यादिश्लोकद्वयं पूर्ववर्ण्णितव्यवसायाद् अन्या गोपकन्यका निरुच्छ्वासतया निरुद्धप्रणवायुतया मुक्तिं गता ।
मुक्तिहेतुं श्रीकृष्णचिन्तनमाह--चिन्तयन्तीति ।
जगत्सूतिं जगज्जनकं श्रीकृष्णं तथापि समस्तपापपुण्यक्षये एव मुक्तिरित्यतस्तदुपपादयति--तदप्राप्तीति--तच्चिन्तेति च ।
लोचना:
(लो, औ) तदप्राप्तीति---मुक्तिं गुरुयन्त्रणाया मोक्षम् ।
न तस्य प्राणा उत्कामन्ति तत्रैव समवलीयन्ते; इति श्रुतेः ।
निरुच्छ्वासताया मोक्षे ऽपि सम्बन्धः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्राशेषचयपदप्रभावादनेकजन्मसहस्त्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसितातया भगवद्विरहदुःखचिन्ताह्लादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या ।
अत्र च व्यञ्जकस्य कविप्रौढोक्तिमन्तरेणापि संभवात्स्वतः संभविता ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) अत्रेति---तदप्राप्तिदुः खस्य तच्चिन्ताह्लादस्य चोपभोगेन तज्जनकपापपुण्ययोरेव क्षयः सम्भवति; नतु समस्तपापपुण्ययोः ।
अतः समस्तपापपुण्यनाशकसमस्ततत्फलदुः खसुखेष्वनुक्तेषु उक्तदुः खसुखयोरारोपः ।
अयमेव चात्रातिशयोक्त्यलङ्कारः ।
अतो ऽत्र तदलङ्कारद्वयम् ।
अनुक्ते उपमेये उक्तोपमानारोपस्य तत्त्वात् ।
यथा कमलमनम्भसीत्यत्र अनुक्ते उपमेये मुखे उपमानकमलारोपः ।
प्रकृतानीत्यत्र उपमेयानि अनुक्तानि उक्तसुखदुः खदूयं चाप्रकृतत्वात् उपमानानि अतस्तदारोपादतिशयोक्तिद्वयम् ।
उपमेयस्यानुक्तत्वेन चातिशयोक्त्यलङ्कारो व्यङ्ग्य एव ।
तव्द्ययव्यञ्जकौ चात्राशेषचयशब्दौ पापपुण्ययोः, अशेषचयत्वाभ्यां नाशकयोर्दुः खसुखयोरशेषचयत्वव्यञ्जनात् ।
अत्र अशेषचयपदयोरेकवाक्यस्थत्वे ऽपि द्वाभ्यां व्यङ्ग्यद्वयव्यञ्जनान्नैकवाक्यत्वेन व्यञ्जकत्वमतः पदत्वेनैव व्यञ्जकत्वम्
********** एन्द् ओf चोम्मेन्तर्य् **********
"पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् ।
देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि" ॥
इदं मम ।
अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न के ऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारो ऽसंख्यपदद्योत्यः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) संक्षेपार्थमलङ्कारस्य वस्त्वलङ्कारव्यञ्जनामुपेक्ष्य प्रौढोक्तिसिद्धालङ्कारस्य व्यङ्ग्यमलङ्कारपदद्योत्यमाह--पश्यन्तीति ।
त्वद्दानजलवाहिन्या नद्या असंख्यपथगामित्वदर्शनात् पथत्रयगामिन्या गङ्गाया लज्जया शिवाशिरसि आत्मगोपनम् ।
काव्यलिङ्गेनेति--दर्शनस्य आत्मगोपनहेतुत्वात् हेत्वलङ्कारेण इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एवमन्येष्वप्यर्थशक्तिपूलसंलक्ष्यक्रमभेदेषूदाहार्यम् ।
तदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः ।
अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्भेदाः ।
प्रबन्धे ऽपि मतो धीरैरर्थशक्त्युद्भ्वो ध्वनिः

4.11

प्रबन्धे महावाक्ये ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) महावाक्यमिति--कुल करूपमाहवाक्यमित्यर्थः ।
तदप्राप्तिमहादुः खेत्यादिश्लोकद्वयस्य महावाक्यत्वे ऽपि तत्र व्यञ्जकपदद्वयसत्त्वात् तद्व्यङ्ग्यस्यैवोदाहरणत्वेन तद्दर्शितम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अनन्तरोक्तद्वादशभेदोर्ऽथशक्त्युत्थः ।
यथा महाभारते गृध्रगोमायुसंवादे---
"अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसंकुले ।
कङ्कालबहते घोरे सर्वप्राणिभयङ्करे ॥
न चेह जीवितःकश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशई" ॥
लोचना:
(लो, अ) अलमिति---कालधर्मो मरणम् ।
अस्य च श्लोकस्य पद्यान्तरसचिवस्यैव महावाक्यतेति स्पष्टार्थम् ।
महावाक्यन्तरमुदाहरति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां तं परित्यज्य गमनमिष्टम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) अलं स्थित्वेत्यति---श्मशाने मृतबालकम् अत्यजतस्तद्वन्धून् प्रति गृध्रवाक्यमिदं श्लोकद्वयरूपं महावाक्यम् ।
दिवसे शक्तस्य इति--दिवसे एव भक्षणासमर्थस्येत्यर्थः ।
गमनमिष्टमिति--वक्तुर्गृध्रस्य इष्टं मृतबन्धूनां गमनमित्यर्थः ।
तथा च बालकं त्यक्त्वा यूयं गच्छध्वमिति वस्तु स्वतः सम्भविवस्तुनः उक्तप्रबन्धार्थस्य व्यङ्ग्यमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"आदित्यो ऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् ।
बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन ॥
अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः" ॥
इति निशि समर्थस्य गोमायोर्दिवसे परित्यागो ऽनभिलषित इति वाक्यसमहेन द्योत्यते ।
अत्र स्वतः संभवी व्यञ्जकः ।
एवमन्येष्वेकादशभेदेषूदाहार्यम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) आदित्यो ऽयम् इत्यादिश्लोकद्वयरूपं महावाक्यं गोमायोरुक्तिः ।
वहुविघ्न इति--तथा च विघ्नशून्यमुहूर्त्तान्तरे जावनसम्भावना दर्शिता ।
एवं कनकवर्ण्णत्वेन रूपविपर्य्ययाभावादप्राप्तयौवनत्वेन च मृत्युहेतुयौवनाधीनाकार्य्याभावाज्जीवनसम्भावना दर्शिता ।
बाला इति--शिशुबुद्धय इत्यर्थः ।
मूढा इति क्वचित् पाठः ।
नाभिलषित इति ।
तथा च आत्रापि स्वतः सम्भविना एतत्प्रबन्धार्थेन वालकपरित्यागानभिलाषरूपं वस्तु व्यज्यते इत्यर्थः ।
एवमन्येष्विति ।
स्वतः सम्भविवस्तुव्यङ्ग्यालङ्काराद्येकादशभेदेष्वित्यर्थः ।
लोचना:
(लो, आ) आदित्य इति--स्त्रेहं जीवनोपायानुसरणबीजम् ।
मुहुर्त्तः सन्ध्याकालः; बहुविन्घः भूताद्यावेशसम्भावनादायित्वाम् ।
अतः स्वतः सम्भविना वस्तुना वसुत व्यज्यते ।
उदाहार्य्यमिति--तथा च रघुवंशे"समयुज्यत भूपतिर्युवा"इत्यादिना"उभयां सिद्धिमुभाववापतुः"इत्यन्ते तुल्ययोगितया काव्यलिङ्गेन वा रघुराघवयोर्व्यतिरेकालङ्कारः प्रतीयते ।
किञ्च कुमारसम्भवे हिमगिरिवर्ण्णनप्रौढोक्त्यप्रौढोक्तिसिद्धालङ्कारसंसृष्टे हिमगिरेरितरोत्कर्षः प्रतीयते ।
अर्थशक्तिभूरित्युपलक्षणम् ।
शब्दशक्त्युद्भवो ऽपि क्वचित् प्रबन्धव्यङ्ग्यो दृश्यते ।
यथा माघकाव्ये शिशुपालदूतोक्तौ सन्धौ काव्ये वस्तुमात्ररूपो विग्रहः उपमाध्वनिरपि तथाविधः सम्भाव्यते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एवं वाच्यार्थव्यञ्जकत्वे उदाहृतम् ।
लक्ष्यार्थस्य यथा---"निःशेषच्युतचन्दनम्--" इत्यादि (पृदृ 62) ।
व्यङ्ग्यार्थस्ययथा--"उअ णिच्चल-" इत्यादि (पृदृ 63) ।
अनयोः स्वतः संभविनोर्लक्ष्यव्यङ्ग्यार्थौ यञ्जकौ ।
एवमन्येष्वेकादशभेदेषूदाहार्यम् ।
पदांशवर्णरचनाप्रबन्धेष्वस्फुटक्रमः ।
असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) पदांश इति---अस्फुटपदक्रमस्य अक्रमव्यङ्ग्यध्वनिरर्थ इत्याह--असंलक्ष्येति ।
अत्र ध्वनिपदं काव्यपरम् ।
व्यङ्ग्यपरत्वे व्यङ्ग्यो व्यङ्ग्य इत्यन्वयानुपपत्तेः ।
पदांशादिव्यङ्ग्य इत्यर्थः ।
तत्र पदांशद्योत्यानां बहुविधत्वमाह--तत्रेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---
"चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती" ॥
अत्र "हताः" इति न पुनः "दुःखं प्राप्तवन्तः" इति हन्प्रकृतेः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) चलापाङ्गामितिः शकुन्तलां व्याकुलयन्तं भ्रमरं प्रति दुष्यन्तस्योक्तिरियम् ।
तत्त्वान्वेषात् इति ।
किं ब्राह्मणस्य औरसकन्यात्वेन मत्परिणयायोग्या, किं वा तस्य पुष्टकन्यात्वेन मत्परिणययोग्या इत्येवं तत्त्वस्यान्वेषणादित्यर्थः ।
हन्प्रकृतेरिति ।
हन्धातुरूपप्रकृतेरित्यर्थः ।
अत्र भृत्युकथनात् विप्रलम्भातिशयो व्यङ्ग्यः ।
लोचना:
(लो, इ) पदांशे इति--इह यद्यपि प्रकृत्यादेः केवलस्य न व्यञ्जकत्वम्, तथापि वाचकसमुदायप्रविष्टस्य रसादिषु तदतिशयाधायकत्वं सहृदयानुभवसिद्धम् ।
हता इत्यादि---अत्र इननप्रतीतेरनन्तरं निर्वेदव्यङ्ग्यत्वमिति शोकः ।
तथा ह्यत्र हता इत्यस्य स्थाने क्तप्रत्ययं स्थापयित्वा हनः स्थाने प्रकृत्यन्तरनिवेशने न तथा प्रतीतिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु" ॥
अत्र "तु" इति निपातस्यानुतापव्यञ्जकत्वम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) मुहुरङ्गुलीति---शकुन्तलां प्राप्य तत्सम्भोगविघ्ने सति अनुतप्यसानस्य दुष्यन्तस्य उक्तिरियम् ।
अंसविवर्त्तोति भुजमूले परावर्त्तमानम् ।
अङ्गुलि शकुन्तलायाः ।
अत्रेति---नञा एव चुम्बनाभावलाभे तुशब्देन चुम्बस्य अत्यन्तव्यवच्छेदलाभात् विप्रलम्भानुतापातिशयो व्यङ्ग्यः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"न्यक्कारो ह्ययमेव मे यदरः--" इत्यादौ (8 पृ.) "अरयः" इति बहुवचनस्य, "तापसः" इत्येकवचनस्य, "अत्रैव" इति सर्वनाम्नः, "निहन्ति" इति "जीवति इति च तिङः, "अहो" इत्यव्ययस्य, "ग्रामटिका" इति करूपतद्धितस्य, "विलुण्ठन" इति व्युपसर्गस्य, "भुजैः" इति बहुवचनस्य व्यञ्जकत्वम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) न्यक्कार इति---अत्र व्यञ्जकत्वमित्यत्र विषादव्यञ्जकत्वमित्यर्थः ।
बहुवचनस्येति---मम एको ऽप्यरिर्नास्ति बहु तत्सत्त्वे सम्भाविते विषादः ।
एकवचनस्येति---बह्वीभैः पिपील्लिकाभिरप्यपकर्त्तुशक्यत्वे एकस्मिन्नपकारिणि तु अत्यन्तविषादः ।
अत्रैवेति इति---विप्रकृष्टमार्गवर्त्तिखरदूषणाद्यनेकराक्षसवधो ऽपि सह्यः ।

अत्रैव लङ्कायामित्यत्र विषादः ।
तिङ इति---मदनवधाने पूर्वं निहन्तु, वर्त्तमानमपि हननमित्यत्र विषादः ।
अहो इति---अदृश्यविपर्ययदर्शनात् विस्मयेन अत्यन्तविषादः ।
करूपेति कप्रत्ययस्य तद्धितत्वं पाणिनिमते ।
अल्पार्थकस्य तस्य विषादतिशयव्यञ्जकत्वम् ।
तथा हि--यदि लुण्ठने स्वर्गो ऽपि स्वल्पग्रामः कप्रत्ययवशात् चात्यन्तस्वल्पः ।
तद्विलुण्ठनोच्छूनभुजानामिदानीं किमपि कर्त्तुमक्षमत्वेन वैयर्थ्यमित्यन्तविषादः ।
व्युपसर्गस्येति विशेषलुण्ठनबोधनात् ।
भुजैरिति एकद्विक्षिभुजवैयर्थ्यं सह्यं बहूनां वैयर्थ्यादित्यत्यन्तविषादः ।
नरि नरि किरति द्राक् सायकान् पुष्पधन्वा पुरि पुरि च निवृत्ता मानिनीमानचर्च्चा ॥
"अ6 किरतीति वर्त्तमानप्रत्ययेन निवृत्तेत्यत्र क्तप्रत्ययेन कार्यकारणपौर्वापर्यव्यत्ययरूपातिशयोक्तिः प्रतीयते ।
उदाहरिष्यते गुणरीतिनिरूपण इति शेषः ।
लोचना:
(लो, ई) न्यक्कार इत्यादौ उदाहरणद्वये पदांशव्यञ्जकत्वस्य प्रकृतत्वे ऽपि प्रसङ्गात् पदव्यञ्जकत्वकथनम् ।
एवम्---
"रामो ऽसौ भुवनेषु विकमगुणैः प्राप्तः प्रसिद्धिं परामस्मद्भाग्यविपर्ययादिह परं देवो न जानाति तम् ।
वन्दी वैष यशांसि गायति मरुत् यस्यैकबाणाहतश्रेणीभूतविशालशालविवरोक्तीर्णैः स्वरैः सप्तभैः" ॥
अत्रासाविति सर्वनाम्ना साक्षात् कियमाणा तदीयलोकोत्तरप्रसिद्धिर्व्यज्यते ।
भुवनेष्वित्यत्र बहुवचनेन गुणैरित्यत्र प्रकृत्या बहुवचनेन च ।
ते ते विशेषा अस्मद् भाग्यविपर्ययादित्यत्र च न तव न मम किन्त्वस्माकं सर्वेषामपि भाग्यविपर्ययादित्यस्मद्भाग्यविपर्ययादित्यत्र न खल्वभाग्यात् किन्तु भग्यविपर्ययात् ।
एवं हि पूर्वमस्माकं भाग्यमवस्थितम् ।
संप्रति तु अनवधानेन तस्य विपर्ययो जात इति प्रतिपादनादात्माना प्रतिपादनेन च ते ते सहृदयसंवेद्या अर्थाः प्रतीयन्ते ।
तथा सक्तोत्फुल्लेत्यादौ हरेः पश्यत इत्यत्रानादरषष्ठ्या किञ्च न केवलं रसादिध्वनेरेव पदांशप्रकाशता, किन्तु वस्त्वलङ्कारयोरपि ।
अत्रालङ्कारस्य यथा---
"पथि पथि सुकचञ्चूचारुराभाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"आहारे विरतिः, समस्तविषयग्रामे निवृत्तिः परा, नासाग्रे नयनं तदेतदपरं यच्चैकतानं मनः . मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते, तद्ब्रूयाः सखि ! योगिनी किमसि, भोः !किं वा वियोगिन्यसि" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) आहारे इति--ध्यायन्तीं वियोगिनीं योगधर्मिणीं दृष्ट्वा कस्यचिदियं पृच्छा ।
अत्र नायिकाया विप्रम्भातिशयः समस्तपदव्यङ्ग्यः ।
एकतानमेकमात्रविषयः ।
तव स्थाने यदा विश्वं शून्यमाभाति इत्यन्वयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र तु "आहारे इति विषयसप्तम्याः, "समस्त" इति "परा" इति च विशेषणद्वयस्य, "मौनं चेदम्" इति प्रत्यक्षपरामर्शिनः सर्वनाम्नः, आभाति" इत्युपसर्गस्य "सखि" इति प्रणयस्मारणस्य "असि भोः" इति सोत्प्रासस्य "किं वा" इत्युत्तरक्षदार्ढ्यसूचकस्य वाशब्दस्य, "असि" इति वर्त्तमानोपदेशस्य च तत्तद्विषयव्यञ्जकत्वं सहृदयसवेद्यम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) विषयसप्तम्या इति ।
मनसा अपि आहारविषय इत्यर्थः ।
न तु आहारक्रियायामधिकरणम् इत्यर्थः ।
समस्तेति ।
न तु यत् किञ्चिद्विषये एतद् विशेषणस्य समासपदैकदेशः, किन्तु पदस्यापि पदे व्यञ्जकत्वमस्तीति दर्शितम् ।
प्रत्यक्षपरामर्शिन इति ।
अनुभूयमानत्वपरामर्शिन इत्यर्थः ।
क्वचित्तु प्रत्यक्षपरामर्षिण इति सम्यक् पाठः ।
मौनात् मिथ्यात्वसूचनाच्च तस्य विप्रलम्भव्यञ्जकत्वम् ।
इदमपि पदमेव न पदैकदेशः ।
उपसर्गस्येति ।
आङुपसर्गेण मिथ्यात्वरूपं सम्यक् प्रतिभाति इति भावबोधनात् विप्रलम्भव्यञ्जनम् ।
प्रणयस्मरणस्येति--तेन दृश्यमानो विप्रलम्भो न त्वया गोपनीय इत्यर्थः ।
सोत्प्रासोपहासस्येति---सोत्प्रासः समनाक्स्मितम् ।
वियोगकथनात् मन्दस्मितोपहासः ।
उत्तरपक्षेति---वियोगपक्ष एव दृढ इत्यर्थः ।
वर्त्तमानोपदेशस्येति--विप्रलम्भविशेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वर्णरचनयोरुदाहरिष्यते ।
प्रबन्धे यथा--महाभारते शान्तः ।
रामायणो करुणः ।
मालतीमाधवरत्नावल्यादौ शृङ्गारः ।
एवमन्यत्र ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) प्रबन्ध इति ।
प्रबन्धो ऽत्र ग्रन्थरूपः ।
शान्त इति ।
स्वर्गारोहणरूपमहाभारतश्रोतुः युधिष्ठिरशमज्ञातुः शान्तरसो बोध्य इत्यर्थः ।
रामायणेति ।
रामशोकज्ञातुः रामायणश्रोतुः करुणरस इत्यर्थः ।
मालतीति--माधववत्सराजरतिज्ञातुस्तन्नाटकश्रोतुः शृङ्गार इत्यर्थः ।
लोचना:
(लो, उ) प्रबन्ध इत्यादि ।
अयमाशयः--न केवलं वस्त्वलङ्कारध्वनिवदर्थान्तरमाह ।
वाक्यव्यङ्ग्ये ऽपि तत्समुदायभूते महाभारतादिप्रबन्धे ऽपि; अन्यथा काव्यत्वहानेरिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः

4.12

सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया ।
वेदखाग्निशराः (5304) शुद्धैरिषुबाणाग्निसायकाः (5355)

4.13

शुद्धैः शुद्धभेदैरेकपञ्चाशता योजनेनेत्यर्थः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) एकपञ्चाशदिति---पूर्वदर्शिताः पञ्चत्रिंशत् कुलकरूपमहावक्यव्यङ्ग्याः द्वादशपदैकदेशादिव्यङ्ग्याः चत्वार इत्येकपञ्चाशत् एषां परस्परयोजने संख्यां दर्शयति---सङ्करेति ।
अङ्गाङ्गित्वरूपेण एकाश्रयानुप्रवेशरूपेण संदिग्धरूपेण च त्रिविधेन संकरेण योजने तस्य त्रिरूपता ।
किमयम्--अयं वेति संशयास्पदत्वरूपः एकः, तयोः परस्परानुग्राहकानुग्राह्यभावरूपो द्वितीयः, तयोरेकव्यञ्जकेन व्यञ्जनरूपस्तृतीयः ।
संसृष्टिः तु एतत् त्रितयराहित्येनैकपदे स्थितिः ।
एबिर्याः संख्या भवन्ति ता आहवेदेति---"अङ्कानां वामतः क्रमऽ; इति रीत्यावेदाश्चत्वारः तद्वामे खं शून्यम् ।
तद्वामे ऽग्नयस्त्रयः ।
तद्वामे शराः पञ्च ।
नन्वेवमित्थमेकपञ्चाशत् चतुर्गुणेन चतुरधिकद्विशतमेव भवति ।
तत्कथमेतादृशी संख्येति चेन्न ।
एकस्यैव स्वजातीयेन एकेन स्वस्वजातीयैः पञ्चाशता च चतुर्गुणने एकस्यैव चतुरधिकद्विशतरूपत्वम् ।
एवं तदुत्तरस्य पूर्वेण सह चातुर्विध्यं पूर्वगणनायां प्रविष्टमित्यतः तस्य चातुर्विध्यस्य अगण्यत्वात् तस्य द्विशतरूपत्वम् ।
एवं तदुत्तरस्य पूर्वद्धाभ्यां चतुश्चतुर्विधत्वस्य अगण्यत्वात् चतुर्न्यूनद्विशतरूपत्वम् ।
एवं रीत्या चरमस्य चतुरूपत्वमात्रं गुण्यमिति भवत्युक्तरूपा संख्या ।
काव्यप्रकाशे तु दर्शितक्रमेण क्रमशो ह्रसमाविचार्य्य सर्वेषामेव चतुरधिकद्विशतरूपत्वेन एकपञ्चाशत एव तादृशसंख्यात्वेन "वेदखाग्निवियच्चन्द्राःऽ; इत्येवं संख्या एव उत्सर्गसिद्धा दर्शिताः ।
वस्तुतस्तु अत्यन्तविचारे वेदखाग्निशररूपा या संख्या ग्रन्थकृता दर्शिता सापि न सम्भवति ।
तथा हि एकपञ्चाशत एव उक्तचातुर्विध्यं न सम्भवति, पदैकदेशपदव्यङ्ग्ययोः पदवाक्यव्यङ्ग्ययोश्च शब्दशक्त्युत्थव्यङ्ग्ययोरर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यव्यङ्ग्ययोश्च एकव्यञ्जकानुप्रवेशरूपसंकरासम्भावात् चातुर्विध्याभावात् ।
एषु शुद्धैकपञ्चाशन्मीलनेन संख्यामाह---शुद्धैरिषुबाणेति ।
व्याचष्टे--शुद्धैरिति ।
योजनेन संस्थातुं योजनेन ।
लोचना:
(लो, ऊ) तदेवमिति---एवं व्यङ्ग्यस्य पदवाक्यगतत्वेङ्गवृत्तौ पञ्चत्रिंशद्भेदाः संख्याताः ।
तदनन्तरमर्थशक्त्युद्भवस्य प्रबन्धगतत्वेन द्वादश ।
रसस्य पदांशवर्णरचनाप्रबन्धगतत्वेन चत्वार इति मिलित्वा ध्वनिकाव्यस्य एकपञ्चशद्भेदाः शुद्धा इत्यर्थः ।
संकरेणेति ।
संकरस्याङ्गाङ्गिभावैकव्यञ्जकानुप्रवेशसन्देहभेदात् त्रिभिः प्रकारैः परस्परनिरपेक्षयैकप्रकारया संसृष्ट्या चान्यो ऽन्यमिश्रणे शुद्धभेदानामेव पञ्चाशतः सम्भूय वेदाश्चत्वारः, ख शून्यम्, अग्नयस्त्रयः, शराः पञ्च; एवं"चाङ्कविन्यासे वैलोम्यस्य गणितशास्त्रप्रसिद्धत्वात्"पञ्चसहस्त्राणि; शतत्रयं चत्वारश्च भेदाः"5304" ।
तथा हि प्रथमभेदस्य सजातीयमिश्रणे चत्वारो भेदाः; विजातीयैः पञ्चाशता प्रत्येकं ध्वनिना विमश्रणे चत्वारो भेदाः इति मिलित्वा चतुरधिकं भेदशतद्वयं द्वितीयस्य भेदशतद्वयमेव ।
यदि प्रथमभेदस्य द्वितीयभेदेन सह मिश्रयणं; द्वितीयभेदस्य प्रथमभेदेन सह तत्तदेवेति ।
द्वितीयभेदे प्रथमभेदापेक्षया चत्वारो भेदाः पातनीयाः ।
एवं तृतीये ऽष्टौ चतुर्थे द्वादश इति क्रमेणान्येषामपि स्वकीयाद्यभेदापेक्षया सर्वेषां भेदचतुष्टयपातनम् ।
शुद्धैरिति ।
इषवः पञ्चबाणाः; पञ्च अग्रयः त्रयः सायकाः पञ्च एवं पञ्चसहस्त्राणि शतत्रयं पञ्चाशत् पञ्च च;"5355"
ज्रत्र अग्रिमाग्रिमभेदस्य योजने एकैकभेदह्रासात् एवं प्रकारेण एवं योजनं भवति ।
"एको राशिर्द्विधा स्थाप्य एकमेकाधिकं कुरु ।
समार्द्धेनासमो गुण्यः एतत् संकलितं लघु" ॥
इत्युक्तदिशा द्विपञ्चाशदर्द्धेन षड्विंशत्या एकपञ्चाशतं गुणयेत् ।
तथा ( 51न्2 )
--2उ26 । 51न्26उ1326संख्या जायन्ते ।
तेषु चतुर्भिर्गुणितेषु (1326उ4उ5304पञ्चसहस्त्राणि चतुरधिकं शतत्रयं संकीर्ण्णभेदाः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दिङ्मात्रं दूदाह्रियते---
"अत्युन्नतस्तयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
सा पूर्णकुम्भनवनीरजतोरणस्त्रक्संभारमङ्गलमयत्नकृतं विधत्ते" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) अत्युन्नतेति---प्रवासादागच्छन्तं पतिं द्वारि स्थित्वा दृष्टवतीं नायिकां कस्मिंश्चिन्निवेदयतः कस्यचिदुक्तिरियम् ।
स्तनयुगं पूर्ण्णकुम्भौ आयतमक्षियुगं नवनीरजतोरणस्त्रक्सम्भारः ।
रसध्वन्योरिति---एतत् वाक्यव्यङ्ग्यत्वात् शृङ्गारस्य ।
व्वनिपदमत्र व्यङ्ग्यरसपरम् ।
एकाश्रय एतत् वाक्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्त्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः ।
"धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि ।
निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्वसमीरणानि" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) ध्वन्योः संसृष्टिमाह---धिन्वन्त्यमूनि इति ।
अमूनि मधौर्दिनानि धिन्वन्ति लोकान् प्रीणयन्ति ।
कीदृशानि-मदेन मूर्च्छन् वर्द्धमानः अलिध्वनिर्येषु ।
तथा निस्तन्द्र उन्निद्रः चन्द्रः तादृशवदनायाः यद् वदनारविन्दं तस्य सौरभ्यं सौगन्ध्यं तस्य सौहृदेन संपर्केण सगर्वाः समीरणा यत्र तादृशानि ।
अत्रेति चन्द्रस्य निद्राभावात् तन्द्रापदस्याप्रकाशे लक्षणा समीरणस्योत्कृष्टत्वं तद्व्यङ्ग्यम्, तथा समीरणस्य गर्वाभावात् उत्कृष्टे लक्षणा सुखस्पर्शत्वं तद्व्यङ्ग्यम् ।
एषां व्यङ्ग्यानां त्रिविधसंकराभावात् एकपदसंस्थितिरूपा संसृष्टिः ।
तदाह--निस्तन्द्रेत्यादीति ।
इदमुपलक्षणम् ।
अलिध्वनिचन्द्रसमीरणैः कामोद्दीपकैः व्यङ्ग्यस्य शृङ्गारस्य अप्यत्र प्रतीतिरित्यतस्तस्य चन्द्रोज्ज्वलत्वेन समीरणोत्कृष्टत्वेन तस्य सुखस्पर्शत्वेन च लक्षणामूलकव्यङ्ग्ये न प्रकर्षणादनुग्राह्यानुग्राहकभावरुपसंकरोप्यत्रैव श्लोके बोध्यः ।
संशयास्पदरूपसङ्कराश्चात्र नोदाहृतः ।
तदुदाहरणं च काव्यप्रकाशकृता दत्तमन्वेष्टव्यम् ।
यथा--- खणपाहुणिआ देअर जाआए किं पिदे भाणिआ ।
रुऐ पडाहेपिलहीधरम्मि अणुणिज्वौ वाराई ॥
"इति ।
क्षणप्राघुणिका देवर जायया किमपि ते भणिता ।
रोदिति पश्चाद् भागवलभीगृहे-अनुनीयतां वराकी ॥
इति संस्कृतम् ।
गृहपतिप्रसक्तामुपनायिकामुत्सवे तद्गृहागतां तत्पत्न्या भर्त्सितां पश्चात् गृहे रुदतीमनुनेतुं गृहपतिज्येष्ठभ्रातृपत्न्याः सोपहासोक्तिरियम् ।
अत्र क्षण उत्सवस्तत्र प्राघुणका अभ्यागता उत्सवागतेत्यर्थः ।
तद्देवर सा ते तव जाययाकिमप्यप्रियं भणिता सती पश्चाद्वलभीगृहे रोदितीति ।
तादृशी वराकी दुः खिता अनुनीयतामित्यर्थः ।

भवता इति शेषः ।
अत्र च अनुनयो वाच्यार्थः ।
तद्व्यङ्ग्य उपभोग इति ।
अयं किं स्वतः सम्भविवस्तुव्यङ्ग्यवस्तुध्वनिः किंवा अनुनयपदे उपभोगलक्षणा; तद्व्यङ्ग्य तस्याः दुः खापसारणमित्ययमर्थान्तरसंक्रमितवाच्यलक्षणा मूलध्वनिरिति ध्वन्योः संशयास्पदत्वम् ।
एतादृशव्यङ्गयोपयोगाय पश्चाद्गृहमुक्तं निर्जनत्वात् ।
लोचना:
(लो, ऋ) धिन्वन्तीति---धिन्वन्ति प्राणयन्ति ।
अध्वनीनाः पथिकाः नस्तन्द्रसौहृदसगर्वशब्दा निर्मलाद्यभावप्रौढरूपार्थपर्य्यवसानादत्यन्ततिरस्कृतवाच्याः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः ।
अथ गुणीभूतव्यङ्ग्यम्---
अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये ।
अपरं काव्यम् ।
अनुत्तमत्वं न्यूनतया साम्येन च संभवति ।
तत्र स्यादितराङ्गकाक्वाक्षिप्तं च वाच्यसिद्ध्य्ङ्गम्

4.14

संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम् ।
व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ

मूल पाठ: Sāhityadarpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc