भाषा

ENहिગુ
ग्रंथ पाठ

साहित्यदर्पण (टीका सहित) · अध्याय 6

6.1

एतच्च विविच्योक्तं रसनिरूपणप्रस्ताव इति सर्वमवदातम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) रसव्यञ्जनाया रसनेत्यपि नाम केचिदाहुरित्याह---रसव्यक्तौ पुनरिति ।
रसवृत्तौ रसबोधकवृत्तावित्यर्थः ।
इत्थं व्यङ्ग्यार्थबोधस्य मानसबुद्धिरूपत्वमात्रं न दूषितम् ।
तत्रायमभिप्रायः---मनसस्तावद् बाहः स्वातन्त्र्यमेव नास्ति ।
स्मृत्युपनयसहकारेण बोधनं तु व्यङ्ग्यार्थस्य पूवानुभवाभावेन स्मरणासम्भावनयैव निरस्तम् ।
नह्युक्तानन्दरूपो रसो दूत्यादेः कामुकसम्भोगादिरूपोर्ऽथो वा पूर्वमनुभूतः ।
इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्यकृतायां साहित्यदर्पणटीकायां पञ्चमपरिच्छे
लोचना:
(लो, ए) व्यञ्जनाव्यापारकल्पनं श्रीश्रीमदानन्दवर्धनाचार्यस्येतिभावः ।
रसस्य रसनव्यापारप्रकाशत्वं स्मारयति--रसनेति ।
रसनिरुपणप्रस्तावे, सत्त्वोद्रेकाद् इत्यादिकारिकाव्याख्यायाम् ।
सर्वम्--व्यञ्जनाव्यापारस्थापकं प्रमेयजातम् ।
इति साहित्यदर्पणलोचने व्यञ्जनाव्यापारस्थापनो नाम पञ्चमः परिच्छेदः
********** एन्द् ओf चोम्मेन्तर्य् **********
इति सहित्यर्पणो व्यञ्जनाव्यापारनिरूपणो नाम पञ्चमः परिच्छेदः ।
षष्ठः परिच्छेदः
एवं ध्वनिगुणीभूतव्यङ्ग्यत्वेन काव्यस्य भेदद्वयमुक्त्वा पुनर्दृश्यश्रव्यत्वेन भेदद्वयमाह--
दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) श्रव्यं काव्यमुक्त्वा नाट्यात्मकं दृश्यकाव्यं वक्तुमाह--एवं---ध्वनीति ।
लोचना:
(लो, अ) परिच्छेदसङ्गतिमाह---एवमिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दृश्यं तत्राभिनेयं--
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) अभिनेयं नाट्यम् ।
लोचना:
(लो, आ) दृश्यं दर्शनीयप्रधानम् ।
श्रव्यं श्रोतव्यमात्रम् ।
अभिनेयं नटैरङ्गादिभिरिति शेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तस्यरूपकसंज्ञाहेतुमाह--
तद्रूपारोपात्तुरूपकम्

6.2

लोचना:
(लो, इ) अन्यस्य रामादेः रूपेणान्यान् नटान् रूपयतीति रूपकम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तद्दृश्यं काव्यं नटे रामादिस्वरूपारोपाद्रूपकमित्युच्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) नाट्यं रूपकमिति पर्यायाद्रूपसंज्ञाहेतुं वक्तुमाह---तस्येति रामादिस्वरूपारोपणादिति वेशाभिनयाभ्यां तदारोपस्यानेन बोधनादित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
को ऽसावभिनाय इत्याह--
भवेदभिनयो ऽवस्थानुकारः स चतुर्विधः ।
आङ्गिको वाचिकश्चैवमाहार्यः सात्त्विकस्तथा

6.3

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) तदारोपहेतुत्वेन प्राप्तमभिनयं पृच्छाते---को ऽसाविति ।
आहार्य इति ।
आङ्गिकवाचिकौ द्वावप्याहार्यो ।
सात्विकः च तेन चातुर्विध्यम् ।
तत्र नाट्यस्य सत्त्वानुद्रेकात् रसावेशाभावेन क्रियमाणवाहार्य्यौ ।
सत्वोद्रेकाद्रसावेशेन क्रियमाणै सात्त्विकौ ।
लोचना:
(लो, ई) अङ्गकृतः आङ्गिकः ।
वचसा वाचिकः ।
आहार्य्यं मुकुटकेयूरादिरचना ।
सात्त्विकः स्तम्बस्वेदादिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नटैरङ्गादिभी रामयुधिष्ठिरादीनामवस्थानुकरणमभिनयः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि ङ) तच्चतुः साधारणमभिनयलक्षणमाह---नटैरङ्गादिभिरिति ।
अङ्गं शरीरम् ।
आदिपदात् वचनपरिग्रहः ।
अवस्थास्तदीया धर्माः मनः कथावाक्यपाण्डुत्वादिरूपवेशाधारणः तस्या अनुकरणं ताद्रूप्येण प्रत्यायनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
रुपकस्य भेदानाह--
नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश

6.4

किञ्च---
नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् ।
प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा

6.5

संलापकं श्रीगदितं शिल्पकं च विलासिका ।
दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च

6.6

अष्टादश प्राहुरुपरूपकाणि मनीषिणः ।
विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम्

6.7

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) दशविधं रूपकमुत्त्कीर्त्याष्टादशविधरूपकमुत्कीर्त्तयति ।
किञ्चनाटिकेति ।
नाट्यात्मकमित्येकम् ।
विना विशेषमिति---तदुक्तस्तत्तद्विशेष एव भेदकः ।
तं विहाय सर्वेषां लक्ष्म लक्षणं नाटकवदेवेत्यर्थः ।
लोचना:
(लो, उ) लक्ष्म वक्ष्यमाणं लक्षणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सर्वेषां प्रकरणादिरूपकाणां नाटिकाद्युपरूपकाणां च ।
तत्र---
नाटकं ख्यातवृत्तं स्यात् पञ्चसंधिसमन्वितम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) नाटकलक्षणमाह ।
नाटकमिति---ख्यातेतिवृत्तादयः स्वयमेव व्याख्यायन्ते
********** एन्द् ओf चोम्मेन्तर्य् **********
विलासर्द्ध्यादिगुणवद्युक्तं नानाविभूतिभैः

6.8

सुखदुःखसमुद्भूति नानारसनिरन्तरम् ।
पञ्चादिका दशपरास्तत्राङ्काः परिकीर्त्तिताः

6.9

प्रख्यातवंशो राजर्षिर्धोरोदात्तः प्रतापवान् ।
दिव्यो ऽथ दिव्यादिव्यो वा गुणावान्नायको मतः

6.10

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज)
[तेxत् मिस्सिन्ग् इन् प्रिन्तेद् एद्.]
********** एन्द् ओf चोम्मेन्तर्य् **********
एक एव भवेदङ्गी शृङ्गारो वीर एव वा ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) एव एवेति ।
नाटके ऽवान्तरनानारससम्भवे ऽपि ते ऽङ्गान्येव ।
समस्तरसनिर्वाहः शृङ्गारवीरयोरेक एव त्वङ्गी प्रधानमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अङ्गमन्ये रसाः सर्वे कार्यो निर्वहणो ऽद्भुतः

6.11

चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः ।
गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम्

6.12

लोचना:
(लो, ऊ) यथोद्देशं लक्षणमाह--नटकामेति ।
यदुक्तं कविना ।
नानाविभूतिसमयुक्तमृद्धिविलासादिभिर्गुणैश्चैवेति ।
निर्वहणे ऽन्तिमसन्धौ चत्वारः पञ्च वा इत्युपलक्षणमात्रं कार्यव्यापारिणां प्रयत्ने नाल्पत्वं विधेयम्, बहुत्वे ऽभिनयदुः खावहत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ख्यातं रामायणादिप्रसिद्धं वृत्तम् ।
यथा--रामचरितादि ।
सन्धयो वक्ष्यन्ते ।
नानाविभूतिभिर्युक्तमिति महासहायम् ।
सुखदुःखसमुद्भूतत्वं रामयुधिष्ठिरादिवृत्तान्तेष्वभिक्तम् ।
राजर्षयो दुष्यन्तादयः ।
दिव्याः श्रीकृष्णादयः ।
दिव्या दिव्यः, यो दिव्यो ऽप्यात्मनिनराभिमानी ।
यथा श्रीरामचन्द्रः ।
गोपुच्छग्रसमाग्रमिति "क्रमेणाङ्काः सूक्ष्माः कर्तव्याः" इति केचित् ।
लोचना:
(लो, ऋ) सूक्ष्माः स्वल्पाः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अन्ये त्वाहुः--"यथा गोपुच्छे केचिद्वाला ह्रस्वाः केचिद्दीर्घास्तथेह कानिचित्कार्याणि मुखसंधो समाप्तानि कानिचित्प्रतिमुखे ।
एवमन्येष्वपि कानिचित्कानिचित्" इति ।
प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः ।
भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः

6.13

लोचना:
(लो, ॠ) को ऽसावङ्क इत्याह---प्रत्यक्ष इति ।
नेतारौ नायको नायिका च ।
तयोरेकस्य द्वयोर्वा चरितं तत्र प्रत्यक्षं दर्शनीयमिति भावः ।
चूर्णकानां क्षुद्रत्वं झटिति बोधफलं विच्छिन्नावनान्तरैकार्थत्वादि अन्तिमाङ्कवर्जं न्यायसिद्धम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
विच्छिन्नावान्तरैकार्थः किञ्चित्संलग्नबिन्दुकः ।
युक्तो न बहुभिः कार्यैर्बोजसंहृतिमान्न च

6.14

नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् ।
लोचना:
(लो, ऌ) तत्र सर्वार्थविच्छेदात् ।
पद्यानां प्राचुर्यमभिनयदुः खावहत्वात् हेयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आवश्यकानां कार्याणामविरोधाद्विनिमितः

6.15

नानेकदिननिर्वर्त्यकथया संप्रयोजितः ।
आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा

6.16

दूराह्वानं वधो युद्धं राज्यदेशादिविप्लवः ।
विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा

6.17

दन्तच्छेद्यं नखच्छेद्यमन्यद्व्रीडाकरं च यत् ।
शयनाधरपानादि नगराद्यवरोधनम्

6.18

स्नानानुलेपने चैभिर्वर्जितो नास्तिविस्तरः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) ख्यातं रामायणदीति---कार्यं निर्वहणे ऽद्भुतमिति यदुक्तं तत्तत्प्रकीणार्तसमुच्चयीकरणरूपे निर्वहणे ऽद्भुतं कार्यमित्यर्थः ।
निर्वहणसन्धिर्हि नानास्थले प्रकीर्णर्थानां वैशिष्ट्यरूपमैकात्म्यमिति वक्ष्यते ।
सन्धयो वक्ष्यन्ते ।
तत्रैकेनैव प्रयोजनेनान्वितानां कथांशानामवान्तरैकार्थसंबन्ध इति सन्धिसामान्यलक्षणम् ।
तत्र च एकेनैकेनेत्यर्थः ।
तत्र इतिवृत्तस्योत्साहसहितबीजसमुत्पत्तिर्मुखसन्धिः ।
इतिवृत्तमभिनेतव्यप्रसङ्गः ।
बीजं तदङ्कुरः तस्यैव यत्नयुक्त उद्भेदः प्रतिमुखसन्धिः ।
ह्रासोन्मेषवानुद्देश्यप्राप्त्याशायुक्तः फलप्रधानोपायस्योद्भेदो गर्भसन्धिः ।
गर्भसन्धितोरधिकतया उद्भिन्नो मुख्यफलोपायः शापादिना विघ्नितो विमर्षसन्धिः ।
बीजवतां प्रकीर्णनांसकलसन्ध्युक्तार्थानामेकार्थताप्रापणं निर्वहणसन्धिः ।
अयमुपसंहृतिसन्धिरित्युच्यते ।
एते पञ्च सन्धयः ।
महासहायमति ।
रामादेः सुग्रीवादयो महासहायाः ।
नायकः प्रधानपात्रम् ।
पञ्चाधिकदशपरास्तत्राङ्का इत्युक्तत्वात् परिच्छेदरूपस्याङ्कस्य स्वरूपमाह---प्रत्यक्षेति ।
प्रत्यक्षनेत्रेति ।
अङ्क इति कीर्त्तित इत्यग्रेन्वयः ।
नेता नायकः, तच्चरितं प्रत्यक्षं यत्र तादृशः ।
रसभावेति ।
भावो नायकनायकयोराकूतम् ।
क्षुद्रचूर्णकमदीर्घसमासं संस्कृतम् ।
विच्छिन्नेति ।
व्यापकप्रसङ्गस्य एवदेशरूपोर्ऽथो विच्छिन्नसमापितो यत्र तादृशः ।
किञ्चित्संसग्नबिन्दुक इति ।
अवान्तरार्थविच्छेदे ऽपि प्रसङ्गान्तरोक्त्याकाङ्क्षोत्थापकं वस्तु बिन्दुसंज्ञकम् ।
"अवान्तरार्थविच्छेदे बिन्द्वविच्छेदकारणम्"इति वक्ष्यमाणत्वात् ।
किञ्चित्तद्वान् इत्यर्थः ।
बीजमभिनेतव्यप्रसङ्गस्याङ्कुर इत्यर्थः ।
नच तत्संहृतिमान् तद्विच्छेदवान् ।
अङ्के ऽभिनेतव्यवस्तुनां निषेधमाह---दूराह्वानमिति ।
दूरस्थजनस्याह्वानमित्यर्थः ।
भोजनमन्नभोजनम् ।
दन्तच्छेद्यनखच्छेद्ययोर्वस्तुनोरपि भक्षणनिषेधः ।
तदपि नाभिनेतव्यमित्यर्थः ।
एषामभिनयः सदस्यानाममङ्गलमित्य भिप्रायः ।
लोचना:
(लो, ए) नानेकेत्यादिना---एकदिने कथैवाङ्के ऽभिनेया इति त्रिचतुरैरिति पूर्ववदुपलक्षणम् ।
दूराह्वानमित्यादिभिर्वर्जित इति सम्बन्धः ।
वूधयुद्धादिकञ्च यस्य कस्यचित् मुखेनान्येन वा कविप्रतिभोत्थितेन प्रकारेण दर्शनीयम् ।
तथार्थेपक्षेपकैरिति वक्ष्यते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
देवीपरिजनादीनाममात्यवणिजमपि

6.19

प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) देवीपरिजनादीनां प्रत्यक्षचित्रचरितैर्युक्त इत्यन्वयः ।
भावरसोद्भवैरिति ।
भावो लीला रसो वैदग्ध्यम् ।
तेन रसभावसमुज्ज्वल इत्यनेन न पौनरुक्त्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अन्तनिष्क्रान्तनिखिलपात्रो ऽङ्क इति कीर्त्तितः

6.20

बिन्द्वादयो वक्ष्यन्ते ।
आवश्यकं संध्यावन्दनाहि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) कन्ध्यावन्दनादीति ।
रसान्तरप्रसक्तस्य नायकस्येति बोध्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अङ्कप्रस्तावाद्गर्भाङ्कमाह-
अङ्कोदरप्रविष्टो यो रङ्ग द्वारामुखादिमान् ।
अङ्को ऽपरः स गर्भाङ्कः सबीजः फलवानपि

6.21

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) गर्भाङ्कः प्रधानाङ्कमध्ये ऽवान्तरविच्छेदरूपो ऽपरो ऽङ्कस्तल्लक्षणमाह--अङ्कोदरेति ।
प्रथमतो ऽभिनयेन नटप्रवेशो रङ्गद्वारम् ।
तद्वक्ष्यति "यस्मादभिनयात् पूर्वम्"इत्यादिनात्र चाभिनयो नाट्यवस्तुप्रदर्शनम् ।
गर्भाङ्कः प्रथमाङ्क एवेति नियमाभावात् आह--रङ्गद्वारामुखादीति ।
आमुखं प्रस्तावना तल्लक्षणमग्रे वक्ष्यते ।
रङ्गद्वारामुखे प्रथमाङ्के ।
आदिपदात् वक्ष्यमाणलक्षणकशुद्धसंकीर्णविष्कम्भकद्वयस्यप्रवेशकस्य च परिग्रहः ।
वक्ष्यते हि---वृत्तवर्त्तिष्यमाणकथांशप्रदर्शकोभिनयो विष्कम्भकः ।
सच मध्यविधजनप्रवर्त्तितः शुद्धः ।
मध्यनीचाभ्यां प्रवर्त्तितः संकीर्णः ।
नीचजनमात्रप्रवर्त्तितः प्रवेशकः ।
तेषान्तु सकलाङ्क एव सम्भवः ।
अङ्कोदर इति ।
मुख्यनाटकमध्ये केनापि पात्रेण नाटकान्तरप्रदर्शनं गर्भाङ्क इत्यर्थः ।
तत्प्रदर्शनफलमाह---सबीज इति तत्प्रदर्शनात्,मुख्यनाटकभिनेतव्यार्थस्याङ्कुरफलयोर्लाभात् तद् द्वयवानित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा बालरामायणो रावणं प्रति कोहलः---
"श्रवणैः पेयमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः ।
भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम्" ॥
इत्यादिना विरचितः सीतास्वयंवरो नाम गर्भाङ्कः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) तं गार्भाङ्कं दर्शयति---यथा बालरामायण इत्यादि---तत्र हि केनापि कविना निबद्धं श्रवणैरित्यादिगुणयुक्तं सीतस्वयम्वरं नाम नाट्यं कञ्चुकिना रावणे निवेदितम् ।
तच्छवणआत् सीताहरणकनकमृगरामक्रोधरूपबीजस्य सीताहरणरूपकस्य च सूचनात् तद्द्वयवत् ।
इत्यादिना विरचित इति ।
इत्यादिना दर्शितः केनापि विरचित इत्यर्थः ।
कञ्चुकिवाक्येन तद्विरचनाभावात् ।
लोचना:
(लो, ऐ) नृत्यपात्रभूतो ऽपि रावणो ऽस्य गर्भाङ्कस्य नटान्तरैरभिनेयस्य द्रष्टा ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र पूर्वं पूर्वरङ्गः सभापूजा ततः परम् ।
कथनं कविसंज्ञादेर्नाटकस्याप्यथामुखम्

6.22

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) प्रसङ्गतो गर्भाङ्कमुक्त्वा प्रकृतनाटके यद्यदभिनेतव्यं तदाह---तत्रपूर्वमिति---पूर्वरङ्गश्च नटाभिनयरूपरङ्गद्वारादिसूत्रधारनिष्कामणान्तः क्रियाकलापः नाटकस्येति---नाटकसंज्ञाया अपि कथनमित्यर्थः ।
लोचना:
(लो, ओ) संज्ञादीति--आदिशब्दात् गोत्रादिः ।
नाटकस्यापि संज्ञास्वरूपादिकथनमिति सम्बन्धः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्रेति नाटके ।
यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते

6.23

प्रत्याहारादिकान्यङ्गान्यस्य भूयांसि यद्यपि ।
तथाप्यवश्यं कर्तव्या नान्दी विन्घोपशान्तये

6.24

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) अस्य पूर्वरङ्गरूपसंज्ञाव्युत्पत्तिमाह---यन्नाट्येति ।
नाट्यवस्तुनो अभिनेतव्येति वृत्तरूपवस्तुनो रामायणादेः ।
कुशीलवाश्च सूत्रधारादिनटाः ।
प्रत्यहारादीति--सूत्रधारनटादीनां क्रियाविशेषाः प्रत्याहारादयः ।
लोचना:
(लो, औ) प्रत्याहारादिकान्यङ्गानि रङ्गविघ्नशान्त्यर्थं नटमात्रकर्त्तव्यान्याकरेषु बोद्धव्यानि ।
कविकर्त्तव्यत्वाभावात् नेह लक्ष्यन्ते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तस्याः स्वरूपमाह--
लोचना:
(लो, अ) अस्या नान्द्याः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते ।
देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता

6.25

लोचना:
(लो, आ) आशीरिति ।
देवद्विजनृपादीनामाशीराशंसा तत्प्रतिपादकेनवचनेन युक्ता ।
नाटकादिषु नित्यमवश्यं प्रयुज्यते, नत्वस्याः कदाचित्कत्वस्थितिः ।
नान्दीति नादिधातोः सिद्धा ।
********** एन्द् ओf चोम्मेन्तर्य् **********
माङ्गल्यशङ्खचन्द्राब्जकोककैरवशंसिनी ।
पदैर्युक्तादूदशभिरष्टाभिर्वा पदैरुत

6.26

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) नान्दीसंज्ञाव्युत्पत्तिमाह---आशीर्वचनेति ।
आशंसानुरूपा समृद्धिर्नान्दी ।
नान्दिस्वरूपपदव्युत्पत्तौ नान्दी समृद्धिरिति चोच्यते इति स्तुतिवचनसंयुक्ता नान्दी यस्मात् प्रवर्त्तते सभासत्सु श्राव्यते ।
अतस्तद् वचनमेव तत्सम्बन्धान्नान्दी ।
देवद्विजनृपादीनामाशीर्वचनेत्यन्वयः ।
एतादृशनान्दीकथनञ्च न मुमेः तन्मते रङ्गद्वारमेव नान्दी ।
किन्तु मुनिभिन्नानां कारिकाकृतामेवेदृशनान्दीकथनमित्यग्रे व्यक्तीभविष्यति ।
यद् यद् वस्त्वात्मिका सा तत्तदाह---मङ्गल्येति ।
एषामन्यतरदेव शंसनीयमित्यर्थः ।
पदैः द्वादशभिरिति ।
अत्र चपदं श्लोकपादो विभक्त्यन्तं पदञ्च ।
यथासम्भवं विवक्ष्यते ।
तदन्येतरैर्युक्तेत्यर्थः ।
लोचना:
(लो, इ) उतेत्यनेन क्वचित् पदैरष्टभिर्द्वादशभिर्वा युता ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अष्टपदा यथा अनर्घराघवे--"निष्प्रत्यूहम" इत्यादि ।
द्वादशपदा यथा मम तातपादानां पुष्पमालायाम्---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) अष्टपदा अनर्घराघवे इति ।
अत्र निष्प्रत्यूह इत्यादि विरमति महाकल्प इत्यादि श्लोकद्धयाष्टपादैरष्टपदत्वम् ।
नच निष्प्रत्यूहमुपास्महे भगवतः कौमौदकीलक्षणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने ।
याभ्यामर्द्धविबोधमुग्धमधुरश्रीरर्द्धनिद्रायितो नाभिपल्लवपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ॥
इत्यत्र विभक्त्यन्तपदानां द्वादशत्वप्यस्ति, तत्कथमष्टपदत्वं दर्शितमिति वाच्यम् ।
उभयसत्त्वे ऽपि अष्टपदत्वानपायात् तद्दर्शनौचित्यात् व्याख्यातम् ।
अष्टपदत्वासम्भवे विभक्त्यन्तपदरूपद्वादशपदवतीं नान्दीमुदाहरति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
शिरसि धृतसुरापगे स्मरारावरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री ।
अथ चरणयुगानते स्वकान्ते स्मितसरसा भवतो ऽस्तु भूतिहेतुः ॥
एवमन्यत्र ।
एतन्नान्दीति कस्यचिन्मतानुसारेणोक्तम् ।
वस्तुतस्तु "पूर्वरङ्गस्य रङ्गद्वाराभिधानमङ्गम्" इत्यन्ये ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) एतन्नान्दीति ।
आशीर्वचनरूपा नान्दीत्यर्थः ।
रङ्गविघ्नोपशान्तये इत्यनेन पूर्वङ्गस्य रङ्गविघ्नोपशान्तफलत्वस्योक्तत्वात् तथाप्यवश्यं कर्तव्या नान्दी विध्नोपशान्तये इति तदर्थान्मुनीतरनाट्याकारिकाकृतः कस्यचिन् मताभिप्रायेणोक्तम् ।
वस्तुतस्तु पूर्वरङ्गस्य रङ्गद्वारमेवाङ्गं नतु नान्दीत्यन्ये आहुरित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यदुक्तम्---
"यस्मादभिनयो ह्यत्र प्राथम्यादवतार्यते ।
रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम्" ॥
इति ।
उक्तप्रकारायाश्च नान्द्या रङ्गद्वारात्प्रथमं नटैरेव कर्तव्यतया न महर्षिणा निर्देशः कृतः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) रङ्गद्वारस्याङ्गदर्शिकां कारिकां दर्शयति--यस्मादभिनयो ह्यत्रेति ।
प्राथम्यादित्याशीर्वचनतो ऽपि प्राथम्यादित्यर्थः ।
वागङ्गेति ।
वागभिनयात्मकमङ्गाभिनयात्मकमित्यर्थः ।
अत्र प्राथम्यादित्यनेन पूर्वरङ्गाङ्गत्वं रङ्गद्वारस्य दर्शितम् ।
नतु नान्द्याइति भावः ।
तस्याः पूर्वरङ्गानङ्गत्वे महर्षेस्तथात्वाप्रदर्शनमपि साधकमित्याह ।
उक्तप्रकारया इति ।
द्वादशपदाष्टपदप्रकाराया इत्यर्थः ।
महर्षिणा नान्दीमांत्रस्यैवानिर्द्दिष्टत्वात् ।
उक्तकाराया अपि तस्या अनिर्द्देशः नटैरेवेति ।
नाट्ये ऽवश्यं नान्दी कर्त्तव्या इति महर्षिभिन्नानां मतानुसारिभिर्नटैरेवेत्यर्थः ।
नतु महर्षिमतानुसारिभिरित्यर्थः ।
महर्षिणा तदनिर्द्देशात्तदाह--न महर्षिणेति ।
महर्षिण तदनिर्देशे तस्या द्वादशपदत्वादिविशेषणव्यभिचारे हेतुरित्याह---कालिदासादीति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कालिदासादिमहाकविप्रबन्धेषु च---
लोचना:
(लो, ई) एतदिति ।
एतन्नाटकादेः प्रथमं पादम् ।
कस्यचित् कोलाहलादेः ।
नटैरेव नर्त्तकैरेव काव्यत्वान्तः पातित्वाभावात् इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निः श्रेयसायास्तु वः ॥
लोचना:
(लो, उ) वेदान्तेति ।
यथार्थाक्षर ईश्वरशब्द ईशिधातेः सिद्धत्वादैश्वर्य्ययोगरूढरूपोर्ऽथस्तस्मिन् एव तात्त्विक इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एवमादिषु नान्दीलक्षणायोगात् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) वेदान्तेषु इति ।
स स्थाणुर्महेशो वा युष्माकं श्रेयसे ऽस्तु इति अन्वयः ।
एकपुरुषं प्रधानं पुरुषम् ।
रोदसी द्यावापृथिव्यौ ।
अभिन्नविषयो ऽन्यत्राप्रवृत्तिः ।
अनन्यविषय इति क्वचित् पाठः ।
अक्षरमत्र पदम् ।
वर्णस्यार्थाभावेन यथार्थाभावात् ।
अर्थश्च ईशऐश्वर्य्ये इति कर्त्तृविहितवरप्रत्ययान्तः धात्वर्थः ।
प्राणदयः प्राणपानादयः पञ्चवायव इत्यर्थः ।
अन्तर्नियमितोक्तौ मुमुक्षुभिर्यो मृग्यते ध्यायते ।
नान्दीलक्षणेकति ।
द्वादशत्वाष्टपदत्वाभावेन तल्लक्षणभावादित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उक्तं च---"रङ्गद्वारमारभ्य कविः कुर्यात्-ऽइत्यादि ।
अत एव प्राक्तनपुस्तकेषु "नान्द्यन्ते सूत्रधारः" इत्यनन्तरमेव "वेदान्तेषु-" इत्यादि श्लोकले(लि) खनं दृश्यते ।
यच्च पश्चात् "नान्द्यन्ते सूत्रधारः" इति ले (लि) खनं तस्यायमभिप्रायः---नान्द्यन्ते सूत्रधार इदं प्रयोजितवान्, इतः प्रभृति मया नाटकमुपादीयत इति कवेरभिप्रायः सूचित" इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) तथा च रङ्गद्वारमेव नान्दी ।
सैवावश्यं कर्त्तव्येति दर्शयतिउक्तञ्चेति ।
उक्तमत्र महर्षिणेति बोध्यम् ।
अत एव तत्र रङ्गद्वाररूपैव नान्दी महर्षेरभिमता ।
तस्या एवादौ सूत्रधारेण कर्त्तव्यत्वादेवेत्यर्थः ।
अत्र च नन्द्यन्ते रङ्गद्वाररूपनान्द्यन्त इत्यर्थः ।
यच्च पश्चादिति ।
वेदान्तेषु इत्यादिश्लेकस्य पश्चादित्यर्थः ।
नान्द्यन्ते रङ्गद्वाररूपनान्द्यन्ते सूत्रधार इदं वेदान्तेषु इत्यादि प्रयोजितवान् ।
इतः परं मया कविना नाटकमुपादीयते ।
इत्येवं कवेरभिप्रायो नान्द्यन्त इत्यादिना कविनैव सूचित इत्यर्थः ।
लोचना:
(लो, ऊ) नान्दीलक्षणं समनन्तरोक्तप्रकारम् ।
यञ्च पश्चादिति ।
वेदान्तेषु इत्यादि पदानन्तरं ततः श्लोकात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
पूर्वरङ्गं विधायैव सूत्रधारा निवर्तते ।
प्रविश्य स्थापकस्तद्वत्काव्यमास्थापयेत्ततः

6.27

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) पूर्वरङ्गानन्तरकृत्यमाह---पूर्वरङ्गमिति ।
स्थापकः सूत्रधारसदृशं नटान्तरम् ।
तद्वदिति ।
सूत्रधारवदित्यर्थः ।
काव्यमत् नाटकरूपम् ।
लोचना:
(लो, ऋ) पूर्वरङ्ग इति ।
एवं प्रत्याहारमारभ्य कविकर्त्तव्यरूपरङ्गद्वारपर्य्यन्ताङ्गमध्यम् इति शेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः ।
सूचयैद्वस्तु बीजं वा मुखं पात्रमथापि वा

6.28

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) दिव्यमर्त्येषु इत्यादिकं स्वयमेव व्याख्यास्यति ।
दिव्यं मर्त्त्यं चेति क्वचित् पाठः ।
लोचना:
(लो, ॠ) मिश्रं दिव्यमर्त्त्याभ्यामिति, वृत्ताभ्यामित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
काव्यार्थस्य स्थापनात्स्थापकः ।
तद्वदिति सूत्रधारसदृशगुणाकारः ।
इदानीं पूर्वरङ्गस्य सम्यक्प्रयोगाभावादेक एव सूत्रधारः सर्वं प्रयोजयतीति व्यवहारः ।
स स्थापको दिव्यं वस्तु दिव्यो भूत्वा, मर्त्यं मर्त्यो भूत्वा, मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत् ।
वस्तु इतिवृत्तम्, यथोदात्तराघवे---
रामो मूध्नि निधाय काननमगान्मालामिवाज्ञां गुरो- स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम् ।
तौ सुग्रीवविभीषणावनुगतौ नीतौ परामुन्नतिं प्रोत्सिक्ता दशकंधारप्रभृतयो ध्वस्ताः समस्ता द्विषः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) वृत्तमिति--वृत्तमभिनेतव्यवृत्तान्तः ।
रामो मूर्ध्नि इत्यादिना रामो गुरोः पितुराज्ञां मूर्ध्नि निधाय काननमगादित्यन्वयः ।
तद्भकत्या रामभक्त्या मात्रा जनन्या ।
तौ पुराणे श्रुतौ ।
प्रेत्सिक्ताः उद्धताः ।
दशकन्धरप्रभृतयः समस्ताद्विषः ध्वस्ता तेनेति शेषः ।
अत्राभिनेतव्यस्य समस्तवस्तुसूचकम् ।
लोचना:
(लो, ऌ) प्रोस्तिक्ताः प्रकर्षेण दर्पिष्टाः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
बीजं यथा रत्नावल्याम्---
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशो ऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) बीजमिति---अभिनेतव्यार्थमूलमङ्कुरः ।
द्वीपादन्यस्मादिति ।
दूरस्थेनापि वरेण स्वीयकन्यापरिणयस्य भावित्वेन निजपत्नीमाश्वासयतः स्थापकस्य सूत्रधारस्य च उक्तिरियम् ।
अन्यद्वीपादितो ऽप्यानीयाभिमुखीभूतो विधिर्घटयतीत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र हि समुद्रे प्रवहणभङ्गमग्नोत्थिताया रत्नावल्या अनुकूलदैवलालितो वत्सराजगृहप्रवेशो यौगन्धरायणव्यापारमारभ्य रत्नावली प्राप्तौ बीजम् ।
मुखं श्लेषादिना प्रस्तुतवृत्तान्तप्रतिपादको वाग्विशेषः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) अत्रेति वहनं नौका ।
वहित्रेति क्वचित् पाठः ।
गृहप्रवेशो बीजमित्यन्वयः ।
श्लेषादिनेत्यत्र आदिपदादन्यापदेशपरिग्रहः ।
लोचना:
(लो, ए) यौगन्धरायणः अमात्यविशेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---
आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तिः ।
उत्खाया गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) तत्र श्लेषेणाह ।
आसादितेति---गाढतमसमतिशयन्धकारमुग्रं घनकालं प्रावृट्कालम् उत्खाय उन्मील्य शरत्समय एष प्राप्त आगतः ।
रामो दशास्यमिव दशास्यो ऽपि गाढतमो गाढमोह उग्रश्च ।
शरत्समयरामयोर्विशेषणान्याह---आसादितेत्यादीनि---शरत्पक्षे प्रकटो व्यक्तीभूतो निर्मलचन्द्र एव हासः ।
आसादितेति ।
रामपक्षे चन्द्रहासः खङ्गः--रावणवधार्थं काले एव तदासादनं बोध्यम् ।
शरत्पक्षे विशुद्धश्चासौ कान्तः कमनीयश्चेति विग्रहः ।
रामपक्षे वह्वौ विशुद्धा कान्ता पत्नी यस्य तादृशः ।
शरत्पक्षे संभृतं जनितं बन्धुजीवकुसुमं येन तादृशः,रामपक्षे सम्भृतो जनितो बन्धूनां रणपतितवानराणां जीवो ऽमृतवृष्ट्या येन तादृशः ।
अत्र चन्द्रहासदिपदश्लेषवान् वाग्विशेषः ।
आदिपदग्राह्यो ऽन्यापदेशस्तु नोदाहृतः ।
तच्च मम तारावतीचन्द्रशेखरनाटके यथा--- "उद्यते शशिनि पूर्वभूधरं राजितं कल्पचन्द्रशेखरम् ।
एष यास्यति शकी महार्णवं तातपादमिव वन्दनमिच्छुः ॥
"तत्र हि चन्द्रस्य तादमहार्णवगमनान्यापदेशेन प्रस्तुतवस्तुनश्चन्द्रशेखरनृपस्य वने तपः प्रसक्तस्य तातपादवन्दनार्थगमनसूचकम् ।
एवमन्यत्राप्यनुसन्धेयम् ।
लोचना:
(लो, ऐ) आसादितेति---चन्द्रहासः प्रभाखड्गश्च ।
कस्य जलस्य ।
अन्तं स्वरूपम् कान्ता वह्निप्रवेशशुद्धा सीता ।
तमो ऽन्धकारः मोहश्च बन्धुजीवारव्यं कुसुमम् ।
बन्धूनां जीवाः प्राणाश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
पात्रं यथा शाकुन्तले ---
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) तवास्मीति---तव नट्याः ।
प्रसभं बलात् ।
हारिण मनोहारिणा ।
एष पुराणेषु श्रुतः ।
अत्र पात्रं राजा ।
********** एन्द् ओf चोम्मेन्तर्य् **********
रङ्गं प्रसाद्य मधुरैः शलोकैः काव्यार्थसूचकैः ।
रूपकस्य कवेराख्यां गोत्राद्यपि स कीर्तयेत्

6.29

ऋतुं च कञ्चित्प्रायेण भारती वृत्तिमाश्रितः ।
स स्थापकः ।
प्रायेणोति क्वचिदृतोरकीतनमपि ।
यथा--रत्नावल्याम् ।
भारतीवृत्तिस्तु---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) रङ्गं प्रसाद्येति---रङ्गमत्र वस्तु, एतत् सूचनरूपं नाट्यैकदेशम् ।
यथा रत्नावल्यामिति ।
तत्र वसन्तोत्सवस्य वर्णने वसन्तर्त्तोरपि वर्णनात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः

6.30

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) भारतीति---नराश्रयः पुंप्रयोज्यः ।
स्त्रीवाचां प्रकृतत्वात् पुंसामप्यधनानां वचः प्रकृतत्वात् प्राय इत्युक्तम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
संस्कृतबहुलो वाक्प्रधानो व्यापारो भारती ।
तस्याः प्ररोचना वीथी तथा प्रहसनामुखे ।
अङ्गान्यत्रोन्मुखीकारः प्रशंसातः प्ररोचना

6.31

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) तस्या इति ।
भारत्या इत्यर्थः ।
तत्र प्ररोचनालक्षणमाह---अत्रोन्मुखीकार इति ।
लोचना:
(लो, ओ) तस्या भारतीवृत्तेः ।
वीथी वीथ्यङ्गानि ।
प्रहसनं प्रहसनाङ्गानि वक्ष्यमाणानि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रस्तुताभिनयेषु प्रशंसातः श्रोतॄणां प्रवृत्त्युन्मुखीकरणं प्ररोचना ।
यथा रत्नावल्याम्---
श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी, लोके हारि च वत्साराजचरितं नाट्ये च दक्षा वयम् ।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनर्- मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥
वीथीप्रहसने वक्ष्येते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) श्रीहर्ष इति ।
धावक एवात्र यद्यपि कविः तथापि राज्ञः श्रीहर्षस्य प्रीतये तत्रैव कवित्वारोपः कृतः ।
वस्त्वेकैकमपीहेति ।
इह एषु ।
निपुणकवि--परिषत्स्वीयनाट्यदक्षत्वात्तेषु वस्तुषु मध्ये ।
एकैकं वस्तु इत्यर्थः ।
किं पुनरिति ।
किं पुनर्वक्तव्यमित्यर्थः ।
गुणानां फलप्राप्तिहेतुत्वात् उपादेयानाम् ।
अत्राभिनेतव्यस्य वत्सराजचरितस्याभिनेतॄणां नटानां परिषदश्च प्रशंसा ।
संस्कृतेनेति ।
तदङ्गता ।
वीथीप्रहसने इति ।
तद्द्वयमुखरूपकविशेषौ नाटकप्रभेदौ वक्ष्यते ।
तौ च संस्कृतेनैवेति तद्द्वयं भारत्या अङ्गम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नटी विदूषको वापि पारिपाशिवक एव वा ।
सूत्रधारेण सहिताः सलापं यत्र कुर्वते

6.32

चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ।
आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा

6.33

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) आमुखरूपमाह--नटीति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सूत्रधारसदृशत्वात् स्थापको ऽपि सूत्रधार उच्यते ।
तस्यानुचरः पारिपाश्विकः, तस्मात्किञ्चिदूनो नटः ।
उद्धात्य(त)कः कथोद्धातः प्रयोगातिशयस्तथा ।
प्रवर्तकावलगिते पञ्च प्रस्तावनाभिदाः

6.34

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) ईदृशीं प्रस्तावनामुक्त्त्वा तस्याः पञ्चभेदानाह---उद्धात्यक इति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र---
पदानि त्वगतार्थानि तदर्थगतये नराः ।
योजयन्ति पदैरन्यैः स उद्धात्य (त) क उच्यते

6.35

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) तत्र उद्धात्यकलक्षणमाह---पदानीति ।
अगतर्थानि इत्यत्रार्धो योजकवक्तृहृदयस्थितोर्ऽथः ।
तदर्थागतय इति ।
पदद्वये ऽवगतिपरो ऽगमिः ।
तथा च वक्त्रा स्थापकेनानवगततादृशार्थानि स्वोच्चरितपदानि, तदर्थस्य योजकनरहृदयस्थितस्यार्थस्यावगतये ऽन्यैः स्थापकोच्चारितभिन्नैः पदैर्योजयन्ति ।
स्वहृदयस्थितार्थतां प्रतिपादयन्तीत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा मुद्राराक्षसे सूत्रधारः---
"क्रूरग्रहः सकेतुश्चन्द्रमसम्पूर्णमण्डलमिदानीम् ।
अभिभवितुमिच्छति बालत्--"
लोचना:
(लो, औ) कूरग्रहेति---क्रूरो दारुणग्रहो राहुः, पक्षे-क्रूरो दारुणो ग्रह आग्रहः चन्द्रगुप्ताभिभवरूपः यस्य ।
चन्द्रं शशिनं चन्द्रगुप्ताख्यं राजानञ्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इत्यनन्तरम्---"(नेपथ्ये । ) आः, क एष मयि जीवति चन्द्रगुप्तमभि- भवितुमिच्छति" ।
इति ।
अत्रान्यार्थन्त्यपि पदानि हृदयस्थार्थागत्या अर्थान्तरे संक्रमय्य पात्रप्रवेशः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) क्रूरग्रहेति---चन्द्रग्रहणं भविष्यति इति प्रतीपादयतः स्थापकस्योक्तिरियम् ।
स क्रूरग्रहः केतू राहुरित्यर्थः ।
एषां पदानां चन्द्रगुप्तनृपतिमन्त्रिणा चाणक्यब्राह्मणरूपनरेण राक्षसरूपात् क्रूरग्रहात् क्रूरो ग्रहो यस्य तस्मात् ।
चन्द्रगुप्तनृपत्यभिभवरूपे स्वहृदयस्थितेर्ऽथे संक्रमः कृतः ।
तादृशार्थता दर्शितेत्यर्थः ।
तदाह--अत्रार्थवन्तयपीति ।
राहुचन्द्ररूपार्थवन्त्यपीत्यर्थः ।
हृदीस्थोर्ऽथो राक्षसचन्द्रगप्तरूपः ।
पात्रं चाणक्यः ।
लोचना:
(लो, अ) पदानि क्रूरग्रह इत्यादीनि ।
हृदिस्थः सूत्रधारस्येत्यर्थः ।
प्रकृतश्चन्द्रोपरागरूपस्तस्यागत्याबोधेन ।
अर्थान्तरे प्रकृतग्रन्थाभिधेये ।
अत्राह भाण्डिः-- विस्मृतं न प्रतीतं वा यत्र वाक्यं प्रकाश्यते ।
प्रश्नोत्तरमनोहारी स उद्धात्यक उच्यते ॥
यथा पारण्डवाभ्युदये--- का श्लाघा गुणिनां क्षमापरिभवः को ऽक्षः सुकुल्यैः कृतः किं दुः खं परसंश्रयो जगति कः श्लाघ्यो य आश्रीयते ।
को मृत्युर्व्यसनं गुण दधति के यैर्निर्जिता शत्रवः केन ज्ञातमिदं विराटनगरे छन्नस्थितैः पाण्डवैः ॥
अतः सूत्रधारनिष्कान्तौ पाण्डवप्रवेशः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सूत्रधारस्य वाक्यं वा समादायार्थमस्य वा ।
भवेत्पात्रप्रवेशश्चेत्कथोद्धातः स उच्यते

6.36

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) कथोद्धातलक्षणमाह--सूत्रधारस्येति ।
इदानीं स्थापककृत्याभावात् सूत्रधार एव स्थापरककृत्यं करोतीत्यभिप्रायेणाह--सूत्रधारस्येति ।
वाक्यादानं वाक्यानुकरणम् ।
अर्थादानं वाक्यानुकरणं विना तदर्थानुशीलनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वाक्यं यथा रत्नावल्याम्--"द्वीपादन्यस्मादपि--ऽइत्यादि (332 पृ दृ) सूत्रधारेण पठिते--"(नेपथ्ये) साधु भरतपुत्र! साधु ।
एवमेतत् ।
कः सन्देहः ? द्वीपादन्यस्मादपि--" इत्यादि पठित्वा यौगन्धरायणस्य प्रवेशः ।
वाक्यार्थो यथा वेण्याम्--
निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) द्वीपादिति--अत्र यौगन्धरायणमन्त्रिरूपपात्रस्य तद्वाक्यं पुनरनुकृत्य प्रवेशः ।
लोचना:
(लो, आ) निर्वाणेति---शमः कोपाद्यभावः विनाशश्च ।
रक्ता रञ्जिता प्रसाधिता प्रकर्षेण साधिता, रक्तेन रुधिरेण प्रसाधिता मण्डिताश्च ।
विग्रहो युद्धं देहश्च ।
स्वस्थाः कुशलिनः स्वर्गस्थाश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा--"(नेपथ्ये) आः दुरात्मन् ! वृथा मङ्गलपाठक !, कथं स्वस्था भवन्तु मयि जीवति धार्तराष्टाः ?" ततः सूत्रधारनिष्क्रान्तौ भीमसेनस्य प्रवेशः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) निर्वाणेति--पाण्डुतनयाः निर्वाणवैरग्नयः सन्तो माधवेन सह नन्दन्तु ।
कुरुराजसुताश्च दुर्योधनादयो ऽनुरक्तप्रसन्नीकृतभूमिष्ठलोका त्यक्तयुद्धाश्च सन्तः सभृत्याः स्वस्था भवन्तु इत्यर्थः ।
अर्थं गृहीत्वेति ।
एतद् वाक्यानुकारणं विना तदर्थानुशीलनेनैव आ इत्याद्युक्तवतः भीमस्य प्रवेशः ।
लोचना:
(लो, इ) भीमसेनस्य प्रवेश इत्यनन्तरं प्रथमार्थमादाय इति शेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यदि प्रयोग एकस्मिन् प्रयोगो ऽन्यः प्रयुज्यते ।
तेन पात्रप्रवेशश्चेत्प्रयोगातिशयस्तदा

6.37

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) प्रयोगातिशयलक्षणमाह--यदि प्रयोग इति ।
भूय इति ।
पुनरप्यन्य इत्यर्थः ।
प्रयोगो ऽन्य इति क्वचित् पाठः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा कुन्दमालायाम्---"(नेपथ्ये) इत इतो ऽवतरत्वार्या ।
सूत्रधारः---को ऽयं खल्वार्याह्वानेन साहायकमपि मे सम्पादयति ।
(विलोक्य) कष्टमतिकरुणं वर्तते ।
"लङ्केश्वरस्य भवने सुचिरं स्थितेति रामेण लोकपरिवादभयाकुलेन ।
निर्वासितां जनपदादपि गर्भगुर्वों सीतां वनाय परिकर्षति लक्ष्मणो ऽयम्" ॥
अत्र नृत्यप्रयोगार्थं स्वभार्याह्वानमिच्छता सूत्रधारेण "सीतां वनाय परिकर्षति लक्ष्मणो ऽयम्" इति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्कान्तेन स्वप्रयोगमतिशयान एव प्रयोगः प्रयोजितः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) इति इतो ऽवतरित्विति ।
सूत्रधारपत्न्या आह्वाननागमनोपदेशः कृतः ।
लङ्केश्वरस्येति ।
जनपदात् अयोध्यातो निर्वासितां निष्कामितां गर्भगुर्वोमित्यन्वयः ।
प्रयोगातिशयपदयोगार्थं घदृयन् व्याचष्टे---स्वप्रयोगमतिशयान इति ।
एव प्रयोगः सूचित इति---सीतालक्ष्मणयोः प्रवेशरूपो ऽन्यः प्रयोगः सूचित इत्यर्थः ।
सूचित इत्यत्र प्रयोजित इति क्वचित् पाठः ।
लोचना:
(लो, ई) इत इति ।
अत्रार्य्यपदार्थः सीतारूपो नेपथ्ये पात्राभिमतः ।
नटीरूपस्तु सूत्रधारेणावगतः स्वप्रयोगमतिशयानः प्रकृताथप्रतिपादनात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कालं प्रवृत्तमाश्रित्य सूत्रधुग्यत्र वर्णयेत् ।
तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकम्

6.38

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) प्रवर्त्तके कालाश्रयेणाह---कालमिति ।
तदाश्रयस्य तत्सूचितस्य ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---"आसादितप्रकट--" इत्यादि (332 पृ दृ) ।
"ततः प्रविशति यथानिदिष्टो रामः" ।
यत्रैकश्च समावेशात्कार्यमन्यत्प्रसाध्यते ।
प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधैः

6.39

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) अवलगितलक्षणमाह--यत्रैकत्रेति ।
यत्रैकत्र प्रयोगे सतीत्यन्यः ।
समावेशात् तत्प्रयोगस्य समनिर्दिष्टत्वात् आन्यत्कार्य्यं प्रसाध्यते इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा शाकुन्तले--सूत्रधारो नटीं प्रति ।
"तवास्मि गीतरागेण-" (333 पृ दृ) इत्यादि ।
ततो राज्ञः प्रवेशः ।
योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि ।
अत्र आमुखे ।
उद्धात्य (त) कावलगितयोरितराणि वीथ्यङ्गानि वक्ष्यमाणानि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) तवास्मीति ।
अत्र गीतप्रशंसारूपप्रयोगे सति राज्ञः प्रवेशरूपमन्यत्कार्य्यं साधितम् ।
प्रवर्त्तके कालाश्रयणमतो भेदकं बोध्यम् ।
इत्थं प्रस्तावनारूपेस्य उद्घातकादिपञ्चभेदमुक्त्वा तत्रैव प्रयोगे यथालाभं वीथ्यङ्गान्यपि प्रयोजनीयानीत्याह---योज्यान्यत्रेति ।
वीथ्याख्योपरूपात्मकनाटकप्रभेदस्य वक्ष्यमाणस्याङ्गम् ।
उद्घात्यकावलगितादीनि तयोर्दशाङ्गानि वक्ष्यन्ते ।
आमुखप्रभेदतयापि उद्घात्यकावलगिते उक्ते ।
अतस्तद् भिन्नैकदेशे तदङ्गान्यप्यत्र योजनीयानीत्याह---उद्घात्यकावलगितयोरितराणीति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नखकुट्टस्तु---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) पञ्चप्रभेदा आमुखस्यामी प्रविष्टपात्रसूचितपात्रान्तरप्रवेशघटिता उक्तः ।
अप्रविष्टसूचितपात्रघटितो ऽपि नखकुट्टाख्यः षष्ठप्रभेद इत्याह--नखकुट्टस्तु इति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नेपथ्योक्तं श्रुतं यत्र त्वाकाशवचनं तथा

6.40

समाश्रित्यापि कर्तव्यमामुखं नाटकादिषु ।
एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत्

6.41

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) तल्लक्षणमाह--नेपथ्येति ।
नेपथ्ये वेशरचनास्थले उक्तं पात्रं आकाशे वचनं यस्य तादृशं वा पात्रमाश्रित्य आमुखं कर्त्तव्यमित्यर्थः ।
इत्थमामुखस्य षड् भेदाः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तेनार्थमथ पात्रं वा समाक्षिप्यवै सूत्रधृक ।
प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रयोजयेत्

6.42

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) तेनार्थमिति ।
सूत्रधृक् पात्रं तद्भिन्नमर्थं वा समाक्षिप्यैव सूचयित्वैव तादृशप्रस्तावनान्ते निर्गच्छेदित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वस्त्वितिवृत्तम् ।
लोचना:
(लो, उ) श्रुतं कस्यापि सम्मुखीनस्य मुखादितिवृत्तं प्रकृतग्रन्थाभिधेयम् ।
अस्व च प्रपञ्चनमर्थात् पत्रद्वारेणैव ।
यद्यपि नासूचितस्य पात्रस्य रङ्गभूमिषु प्रवेश इति वचनात् सर्वेषामपि पात्राणां सूचितानामेव रङ्गे प्रवेशस्तथापि प्रस्तावनानन्तरं प्रवेश्यपात्राणामुक्तप्रकारेण विच्छित्तिभिः सूचनमिति शेषः ।
क्वचित्तु सम्भ्रमादियुक्तानां पात्राणां प्रवेशेन सूचनं न पटीक्षेपो ऽपिः यथा चन्द्रकलायां प्रविश्यापटीक्षेपेण संभ्रान्तः शबर इत्यादि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इदं पुनर्वस्तु बुधौर्द्विविधं परिकल्प्यते ।
लोचना:
(लो, ऊ) बुधैर्ग्रन्थकारैः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आधिकारिकमेकं स्यात्प्रासङ्गिकमथापरम्

6.43

अधिकारः फले स्वाम्यमधिकारी च तत्प्रभुः ।
तस्येतिवृत्तं कविभिराधिकारिकमुच्यते

6.44

फले प्रधानफले ।
यथा बालरामायणो रामचरितम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) बालरामायणे रामचरितमिति ।
रामो ऽहं रावणादिवधफले स्वामी, तस्य चरितमाधिकारिकमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अस्योपकरणार्थं तु प्रासङ्गिकमितीष्यते ।
अस्याधिकारिकेतिवृत्तस्य उपकरणनिमित्तं यच्चरितं तत्प्रासङ्गिकम् ।
यथा सुग्रीवादिचरितम् ।
पताकास्थानकं योज्यं सुविचार्येह वस्तुनि

6.45

इह नाट्ये ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) उपकरणनिमित्तमिति ।
उपकरणमुपकारः साहाय्यमित्यर्थः ।
नाटकस्यान्तरङ्गमाह---पताकास्थानकमिति ।
इह नाट्ये इति ।
आमुखे इति---वृत्तसाधारणे नाट्ये इत्यर्थः ।
तेनास्य आमुखे इतिवृत्ते च सम्भव इत्यग्रे व्यक्तीभविष्यति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यत्रार्थे चिन्तिते ऽन्यस्मिंस्तल्लिङ्गो ऽन्यः प्रयुज्यते ।
आगन्तुकेन भावेन पताकास्थानकं तु तत्

6.46

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) तक्ष्मिङ्ग इति ।
चिन्तितार्थसमानचिह्न इत्यर्थः ।
लोचना:
(लो, ऋ) आगन्तुकेन प्रकृतादितरेण ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तद्रेदानाह--सहसैवार्थसंपत्तिर्गुणावत्युपचारतः ।
पताकास्थानकमिदं प्रथमं परिकीर्तितम्

6.47

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) सहसैवेति ।
उपचारतः क्रियातो गुणवती ।
अर्थसंपत्तिरुद्देश्य संपत्तिः ।
सहसैवेत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा रत्नावल्याम्--"वासवदत्तेयम्" इति राजा यदा तत्कण्ठपाशं मोचयति तदा तदुक्त्या "सागरिकेयम्" इति प्रत्यभिज्ञाय "कथं ? प्रिया मे सागरिका ? अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि ! विमुञ्च त्वं लतापाशमेतम् ।
चलितमपि निरोद्धुं जीवितं जीवितेशे ! क्षणमिह मम कण्ठे बाहुपाशं निधेहि" ॥
अत्र फलरूपार्थसंपत्तिः पूर्वापेक्षयोपचारातिशयाद्गुणवत्युत्कृष्ट ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) वासवदत्तेयमिति ।
वासवदत्ता राजपत्नी ।
तद्वेशेन सागरिका आयास्यतीति कृतसङ्केते राज्ञि स्थिते तज्ज्ञात्वा वासवदत्तैव सागरिकाया आगमनात् पूर्वमागत्य सङ्केतभ्गं कृत्वा राजनां ह्रेपयित्वां गता ।
राजा च तामनुनेतुं पश्चाद् चलितः ।
ततस्तद्वेशा सागरिका आगत्य राजानमनासाद्य निर्वदाल्लतापाशेनात्मानं बद्ध्वा मर्त्तुमुद्यता ।
राजा च वासवदत्तामनुनेतुं चलितः ।
पथि तां दृष्ट्वा वासवदत्तैवायं म्रियत इति ज्ञात्वा पाशं मोचयन् सागरिकाया उक्त्या सागरिकेयमिति ज्ञात्वा गुणवतीमुद्देश्यफलसम्पत्तिमाप्तवान् ।
अत्र वासवदत्तामरणरूपे ऽन्यस्मिन्नर्थे चिन्तिते आगन्तुकेन लतापाशेन वासवदत्तामरणचिह्नद्यङ्कितम्रियमाणसागरिकारूपार्थप्रयोग इति पताकस्थानसामान्यलक्षणं बोध्यम् ।
लोचना:
(लो, ॠ) पूर्वापेक्षया पूर्वस्य वासवदत्ताज्ञानस्यापेक्षया ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वचः सातिशयं श्लिष्टं नानाबन्धसमाश्रयम् ।
पताकास्थानकमिदं द्वितीयं परिकीर्त्तितम्

6.48

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) द्वितीयपताकस्थानमाह---वचः सातिशयमिति ।
नानाबन्धो बीजप्रकाशननायकमङ्गलसूचनादिरूपः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा वेण्याम्---
"रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः" ।
अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन बीजार्थप्रतिपादनान्नेतृमङ्गलप्रतिपत्तौ सत्यां द्वितायं पताकास्थानम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) रक्तप्रसाधितेति ।
रक्तेण रुधिरेण भण्डितभूमयः ।
क्षतशरीराः स्वर्गस्था भवन्त्विति श्लेषलभ्योर्ऽथः ।
तदाह---अत्र रक्तादीनामिति ।
अत्रानुरक्ताद्यर्थे चिन्तिते शब्दरूपतल्लिङ्गो ऽन्यो रुधिराद्यर्थ आगन्तुकेन शब्देन प्रयोगात् पताकस्थानसामान्यलक्षणसत्त्वम् ।
इदं पताकास्थानमामुखान्तर्गतं वक्ष्यमाणं च वृत्तान्तर्गतं बोध्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् ।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते

6.49

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) तृतीयमाह---अर्थोपक्षेपकमिति ।
अर्थोपक्षेपकं प्रस्तुतवस्तुसूचकं यत्तु वच इत्यर्थः ।
श्लिष्टेति व्याचष्टे ।
सम्बन्धयोग्येन इति उक्तवाक्यान्वयः सविनयमित्यत्र विनयो विशेषण नयः निश्चयः तद् व्याचष्टे--विशेषेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
लीनमव्यक्तार्थम्, श्लिष्टेन सम्बन्धयोग्येनाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोतपेतम्, सविनयं विशेषनिश्चयप्राप्त्या सहितं संपाद्यते यत्तत्तृतीयं पताकास्थानम् ।
यथा वेण्यां द्वितीये ऽङ्के "कञ्चुकी-देव ! भग्नं भग्नम् ।
राजा--केन ? कञ्चुकी--भीमेन ।
राजा--कस्य ? कञ्चुकी--भवतः ।
राजा--आः ! किं प्रलपसि ? कञ्चुकी--(सभयम्) देव ! ननु ब्रवीमि ।
भग्नं भीमेन भवतः ।
राजा-धिग् वृद्धापसद ! को ऽयमद्य ते व्यामोहः ? कञ्चुकी-देव ! न व्यामोहः ।
सत्यमेव--
"भग्नं भीमेन भवतो मरुता रथकेतनम् ।
पतितिं किङ्गिणीक्वाणबद्धाक्रन्दमिव क्षितौ" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) बग्नमिति--- भग्नं भीमेव मरुता भवतो रथकेतनम् ।
पतितं किङ्किणीजालं बद्धाक्रन्दमिव क्षितौ ।
इति कञ्चुकिना वक्तव्ये सम्भ्रमात् खण्डश उक्तम् ।
दुर्योधनोरुभङ्गरूपार्थोपक्षेपकं भीमेनेत्यत्र भीमसेनरूपेण स्वानुष्ठानयोग्येन केतनभङ्गतिरिक्तभिप्राययुक्तेन दुर्योधनस्य प्रत्युत्तरेणेपेतम् ।
अत्र लीनादिकं स्पष्टार्थमवधेयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र दुर्योधनोरुभङ्गरूपप्रस्तुतसंक्रान्तमर्थोपक्षेपणम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) अर्थोपक्षेपकत्वं व्याचष्टे---अत्रेति ।
अत्र केतुभङ्गरूपे ऽन्यस्मिन् चिन्तिते ऊरुभङ्गरूपार्थप्रयोग आगन्तुकेन श्लिष्टशब्देनेत्यतः पताकास्थानसामान्यलक्षणसत्त्वम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।
प्रधानार्थान्तराक्षेपि पताकास्थानकं परम्

6.50

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) चतुर्थमाह---व्द्यर्थो वचनेति ।
सुश्लिष्टः अर्थद्वये शोभनश्लिष्टः ।
काव्यं श्लोकस्तत्र योजतिः ।
प्रधानार्थान्तरस्य मुख्यतया प्रतिपाद्यार्थान्तरस्य सूचक इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा रत्नावल्याम्---
"उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा- दायासं श्वसनोद्रमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम्" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) उद्दामेति---राज्ञा परिगृहीतां माधवीलतामकालकुसुमितां वासवदत्तयाः पराजयशंसिनीं तस्यैव दर्शयतो राज्ञ उक्तिरियम् ।
समदानां विरहिणीम् अन्यां नारीमिव ।
इमामुद्यानलतां पश्यन्नहं देव्या वासवदत्ताया मुखं कोपविपाटलद्युतिं करिष्यामीत्यन्वयः ।
ममान्यनारीदर्शनेन इव तत्पराजयहेतुकुसुमितमाधवीलतादर्शनेनापि तस्याः कोपो भावीत्यर्थः ।
उद्यानलताया विरहिनार्याश्च विशेषणान्याह---उद्दामेत्यादीनि ।
उक्तलिका उद्रतकलिका उत्कण्ठा च ।
तयोरुद्दामत्वमतिशयः ।
विपाण्डुरं स्वभावाद् विरहाच्च ।
जृम्भा विकाशः श्विसविशेषश्च ।
श्वसनस्य वहिर्वायोर्निः श्वासस्य चोद्रमात् आयासं व्याकुलतां खेदञ्च आतन्वतीं कुर्वतीम् ।
लोचना:
(लो, ऌ) उद्दामेति---उद्रता कलिका कोरक उत्कण्ठा च ।
जृम्भा विकाशः सुखनिः श्वासविशेषश्च ।
श्वसनो निः श्वासः बाह्यपवनश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र भाव्यर्थः सूचितः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) अत्र भाव्यर्थ इति ।
राज्ञा सागरिकादर्शनात् वासवदत्तायाः भावी कोपो मुख्यातया प्रतिपाद्य इति प्रधानं सूचितम् ।
अत्र कुसुमिलतादर्शनाद् भाविनि कोपे चिन्तिते सागरिकादर्शनात् तत्कोप आगन्तुकेन श्लिष्टशब्देन प्रतिपादितः ।
अतः पताकास्थानसामान्यलक्षणसत्त्वम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एतानि चत्वारि पताकास्थानानि क्वचिन्मङ्गलार्थं क्वचिदमङ्गलार्थं सर्वसन्धिषु भवन्ति ।
काव्यकर्तुरिच्छावशाद्भूयो भूयो ऽपि भवन्ति ।
यत्पुनः केनचिदुक्तम्--"मुखसन्धिमारभ्य सन्धिचतुष्टये क्रमेण भवन्ति" इति ।
तदन्ये न मन्यन्ते, एषामत्यन्तमुपादेयानामनियमेन सर्वत्रापि सर्वेषामपि भवितुं युक्तत्वात् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) क्वचिन्मङ्गलार्थमिति ।
प्रथमे मर्त्तु प्रवृत्तवासवदत्ताज्ञानाद्भिलषितसागरिकाप्राप्तेरुद्दामोत्कलिकामित्यत्र भाविन्याः सागरिकाप्राप्तेश्च बोधनात् मङ्गलार्थता ।
रक्तप्रसाधितेत्यादौ कुरूणां मरणस्य भग्नं भीमेनेत्यादौ दुर्योधनोरुभङ्गस्य च बोधनात् तेषाममङ्गलार्थता ।
भूयो भूयो ऽपि इति ।
स्थाने स्थाने इत्यर्थः ।
सन्धिचतुष्टये इति ।
पताकास्थानस्य चतुष्कत्वात् प्रथमोपस्थितसन्धिचतुष्टये इत्यर्थः ।
सर्वत्रापीरि ।
पञ्चसन्धिष्वपि इत्यर्थः ।
सर्वेषामिति सर्वपताकास्थानानामित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा ।
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत्

6.51

लोचना:
(लो, ए) यत्स्यादिति ।
रामादेर्हि छद्मना वालिवधादेरभिधाने गूढतरतदभिप्रायपरिज्ञानानिपुणानां नाटककाव्यादिभिः रसास्वादमुखपिण्डद्वारेण कृत्याकृत्यप्रवृत्तिनिवृत्तियोज्यानां सुकुमारमतीनां राजपुत्रभृतीनां श्रीरामचन्द्रादिमहापुरुषचरितमालोच्यानुचितासु कथासु प्रवृत्तिप्रसङ्गः स्यादिति ।
माहपुरुषचरितमप्यनुचितमितिवृत्तम् ।
नाटकादौ परिहार्यमिति भावः ।
रसस्यानुचितत्वं वक्ष्यमाणव्यभिचारिभावादेः स्वशब्दवाच्यत्वम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अनुचितमितिवृत्तं यथा--रामस्यच्छद्मना बालिवधः ।
तच्चोदात्तराघवे नोनोक्तमेव ।
वीरचरिते तु वाली रामवधार्थमागतो रामेण हत इत्यन्यथा कृतः ।
अङ्केष्वदर्शनीया या वक्तव्यैव च संमता ।
या च स्याद्वर्षपर्यन्तं कथा दिनद्वयादिजा

6.52

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) या च स्याद्वर्षपर्यन्तमिति ।
तादृशी कथा दिनद्वयादिनाभिनेतव्या इत्यर्थः ।
अन्या चेति---अन्या विस्तरा बाहुल्यादभिनेतुमशक्या ।
सा कथा अर्थोपक्षेपकैर्वक्ष्यमाणार्ऽथोपक्षेपकपरिभावितैर्विष्कम्भकादिपञ्चभि र्बुधैः सूच्येत्यर्थः ।
सूच्या इत्यत्र क्षेप्याइति क्वचित् पाठः ।
अङ्केष्वदर्शनीयेत्यादिकं पूर्वत्र अन्या इत्यत्रान्वितम् ।
तेन साप्यर्थोपक्षेपकैः सूच्येत्यर्थः ।
लोचना:
(लो, ऐ) ननु यदि दूराह्वानादयो ऽङ्केष्वदर्शनीयास्तत्कथं नाटकादवुपक्षेपणीया ।
एकदिनमात्रस्य च कथाया अङ्कदर्शनीयत्वेन दिनद्वयादिकथायाः कथं परिग्रहः कथाविस्तारो वा रसविन्घहेतुत्वात्कथमङ्के दर्शनीय इत्यत आहृअङ्केष्विति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अन्या च विस्तरा सूच्या सार्थोपक्षोपकैर्बुधैः ।
अङ्केषु अदर्शनीया कथा युद्धादिकथा ।
वर्षाढूर्ध्वं तु यद्वस्तु तत्स्याद्वर्षादधोभवम्

6.53

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) वर्षादधोभवमुत्तरभवं द्वितीयवर्षादिनापि निष्पाद्यम् ।
पूर्वत्र वर्षपर्यन्तत्वमिह तु वर्षादूर्द्ध्वत्वमिति भेदान्न पौनरुक्त्यम् ।
वर्षादूर्द्ध्वमिति ।
तत् सर्वं वर्षादूर्द्ध्वं न कर्तव्यम् ।
इदमुपलक्षणम् ।
किन्तु मासपर्यन्तमपि न कर्त्तव्यम् ।
किन्तु अङ्कविच्छेदे एव कार्यमित्यर्थः ।
लोचना:
(लो, ओ) ननु एकवर्षकथैव यद्यर्थोपक्षेपेण वाच्या तदूर्द्ध्वं कथा किं परित्याज्या इत्यत आह---वर्षादिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उक्तं हि मुनिना--
"अङ्कच्छेदें कार्यं मासकृतं वर्षसञ्चितं वापि ।
तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित्" ॥
लोचना:
(लो, औ) अङ्कच्छेद इति ।
तदिति, प्रासिद्धम् ।
सर्वं माससञ्चितं वर्षसञ्चितं वापि कार्यं कृत्यम् अङ्कच्छेदे ऽपि कर्त्तव्यम् ।
अर्थादर्थोपक्षेपकैः सूच्यमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एवं च चतुर्दशवर्षव्यापिन्यपि रामवनवासे ये ये विराधवधादयः कथां--शास्ते ते वर्षवर्षावयवदिनयुग्मादीनामेकतमेन सूचनीया न विरुद्धाः ।
दिनावसाने कार्यं यद्दिने नैवोपपद्यते ।
अर्थोपक्षेपकैर्वाच्यमङ्कच्छेदं विधाय तत्

6.54

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) दिनावसाने इति ।
दिनावसानकार्यं यद्वस्तु दिनेनैवोपपद्यते क्रियाबाहुल्याभावात् ।
दिनेनैवाभिनेतुं शक्यत इत्यर्थः ।
दिनैकोपपादनीयं वस्तु कथं वाच्यमित्यत्राह---अर्थोपक्षेपकैरिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
के तेर्ऽथोपक्षेपका इत्याह--
अर्थोपपक्षेपकाः पञ्च विष्कम्भकप्रवेशकौ ।
चूलिकाङ्कावतारो ऽथ स्यादङ्कमुखमित्यपि

6.55

वृत्तवर्तिष्यमाणानां कथंशानां निदर्शकः ।
संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः

6.56

मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः ।
शुद्धः स्यात्स तु संकीर्णो नीचमध्यमकल्पितः

6.57

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) विष्कम्भस्य द्वैविध्यमाह---मध्येनेति ।
उत्कृष्टाधमापात्रभिन्नं पात्रमध्यम् ।
कपालकुण्डलेति ।
तत्कृत्यमित्यर्थः ।
एवमुत्तरत्रापि ।
लोचना:
(लो, अ) यथोद्देशलक्षणमाह--वृत्तेति ।
पात्रस्य मध्यत्वम् अतिमहतः श्रीरामचन्द्रादेर्न्यूनत्वेन ।
विष्कम्भके पात्राणां संस्कृतभाषित्वस्य लक्ष्येषु दर्शनात् ।
मध्यमपात्राणां हि प्राकृतभाषित्वम् ।
तदुक्तं भाषार्णवे--- भाषामध्यमपात्राणां नाटकादौ विशेषतः ।
महाराष्ट्री सौरसेनीत्युक्ता भाषा द्विधा बुधैः ॥
इति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र शुद्धो यथा--मालतीमाधवे श्मशाने कपालकुण्डला ।
सङ्कीर्णो यथा--रामाभिन्दे क्षपणककापालिकौ ।
अथ प्रवेशकः---
प्रवेशको ऽनुदात्तोक्त्या नीचपात्रप्रयोजितः ।
अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा

6.58

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) अङ्कद्वयेति ।
अङ्कद्वयपदस्य द्वितीयाद्यङ्कपरत्वमित्यभिप्रायः ।
शेषमिति ।
वृत्तवर्त्तिष्यमाणेत्यादिरूपम् ।
लोचना:
(लो, आ) नीचपात्रप्रयोजित इत्यत्र नीचत्वं हि असंस्कृतभाषित्वादेव ।
तेन सख्यादिभिश्च प्रवेशकस्य प्रयोजितत्वम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अङ्कद्वयस्यान्तरिति प्रथमाङ्के ऽस्य प्रतिषेधः ।
यथा--वेण्यामश्चत्थामाङ्के राक्षसमिथुनम् ।
अथ चूलिका---
अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) अन्तर्जवनिका ।
वेशरचनास्थानवेष्टनपटः ।
अर्थस्य सूचनेत्यन्वयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा वीरचरिते चतुर्थाङ्कस्यादौ--"(नेपथ्ये) भो भो वैमानिकाः, प्रवर्तन्तां रङ्गमङ्गलानि" इत्यादि ।
"रामेण परशुरामो जितः" इति नेपथ्ये पात्रैः सूचितम् ।
अथाङ्कावतारः---
अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः

6.59

यत्राङ्को ऽवतरत्येषो ऽङ्कावतार इति स्मृतः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) अङ्कान्त इति ।
अङ्कान्ते पात्रैः सूचितोर्ऽथादपरः अङ्कः यदवतरति इत्यर्थः ।
तदङ्कस्याविभागत इति ।
विभागस्तद्भेदः, तदभिन्नत्वेन प्रयोजित इत्यर्थः ।
अत्र द्वितीयान्तात् तस् ।
अङ्कविच्छेदे ऽपि तदङ्कोत्थापिताऽकाङ्क्षयैवावतीर्णो ऽपराङ्क इत्यर्थः ।
तदाह---तदङ्कस्याङ्गविशेष इवेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---अभिज्ञाने पञ्चमाङ्के पात्रैः सूचितः षष्ठाङ्कस्तदङ्कस्याङ्गविशेष इवावतीर्णः ।
अथाङ्कमुखम्---
यत्र सायादङ्क एवस्मिन्नङ्कानां सूचनाखिला

6.60

तदङ्कमुखमित्याहुर्बोजार्थख्यापकं च तत् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) यत्र स्यादङ्क इति ।
अङ्कानां समस्ताङ्कवक्ष्यमाणानमर्थनामखिला पूचनेत्यर्थः ।
अङ्कावतारे तदङ्कमात्रसूचनम् अङ्कमुखे तु समस्ताङ्कसूचनेति भेदः ।
गजार्थेति बीजभूतार्थख्यापनात् ।
बीजार्थख्यापकसंज्ञकञ्च तदित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---मालतीमाधवे प्रथमाङ्कादौ कामन्दक्यवलोकिते भूरिवसुप्रभृतीनां भाविभूमिकानां परिक्षिप्तकथाप्रबन्धस्य च प्रसङ्गात्संनिवेशं सूचितवत्यौ ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) भाविभूमिकानां भाविप्रसङ्गानां परिक्षिप्तः संक्षिप्तः ।
सन्निवेशं स्थाने ऽभिनेयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अङ्कान्तपात्रैर्वाङ्कास्यं छिन्नाङ्कस्यार्थसूचनाम्

6.61

अङ्कान्तपात्रैङ्कान्ते प्रविष्टैः पात्रैः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) अङ्कमुखस्य धनिकेनोक्तं लक्षणान्तरमाह--अङ्कान्तपात्रैरिति ।
छिन्नाङ्कस्य समाप्यमानाङ्कस्य सम्बन्धिभिस्तदङ्कान्ते प्रविष्टैः पात्रैरपराङ्कसूचनमित्यर्थः ।
पूर्वलक्षणे पूर्वप्रविष्टपात्रैः समस्ताङ्कार्थसूचनमत्र तु अङ्कान्तः प्रविष्टपात्रैस्तदुत्तराङ्कार्थमात्रसूचनमिति भेदः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा वीरचरिते द्वितीयाङ्कान्ते--"(प्रविश्य) सुमन्त्रः-भगवन्तौ वशिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः ।
इतरे--क्व भगवन्तौ ।
सुमन्त्रः--महाराजदशरथस्यान्तिके ।
इतरे---तत्तत्रैव गच्छावः" इत्यङ्कपरिसमाप्तौ ।
"(ततः प्रविशन्त्युपविष्टा वशिष्ठविश्वामित्रपरशुरामः)ऽइत्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमान्त्रपात्रेण शतानन्दजनककथाविच्छेदे उत्तराङ्कमुखसूचनादङ्कास्यम्" इति ।
एतच्च धनिकमतानुसारेणोक्तम् ।
अन्ये तुं---"अङ्कावतरणोनैवेदं गतार्थम्" इत्याहुः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) इदं लक्षणं धनिकमत एव इत्याह---एतच्चेति ।
अङ्कावतारेणैवेति ।
तल्लक्षणाक्रान्तत्वादेतस्य आदावङ्कस्य दर्शित इत्यनेन ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरम् ।
यदा संदर्शयेच्छेषमामुखानन्तरं तदा

6.62

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) विष्कम्भकरणमङ्कादावेवेति प्रग्दर्शितमिदानी तस्यैव विशेषवशादामुखस्यान्ते ऽपि करणमित्याह---अपेक्षितमिति ।
शेषमपेक्षितकार्य्यतः ।
शेषं नीरसं भिन्नं वस्तुविस्तरमित्यन्वयः ।
अमुखानन्तरं कार्य्यमित्यन्वयः ।
यौगन्धरायणप्रयोजित इति---विष्कम्भक इति शेषः ।
तत्र हि अपेक्षितो वत्सराजसागरिकयोर्वृत्तान्तः ।
तं परित्यज्यामुखानन्तरं स्वेच्छाचारी भीत एवास्मि भर्त्तुरिति नीरसंस्वभयं यौगन्धरायणेन दर्शितम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कार्यो विष्कम्भको नाट्य आमुखाक्षिप्तपात्रकः ।
यथा--रत्नावल्यां यौगन्धरायणप्रयोजितः ।
यदा तु सरसं वस्तु मूलादेव प्रवर्तते

6.63

आदावेव तदाङ्केस्यादामुखाक्षेपसंश्रयः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) आदावङ्कस्य दर्शित इति यदुक्तं तद्विषयं दर्शयति---यदात्विति ।
मूलादेव नीरसवस्त्वमिश्रणादेव ।
आमुखाक्षेपसंश्रय इति ।
आमुखेन यः पात्रस्याक्षेपः तमाश्रित्य प्रवृत्त इत्यर्थः ।
शाकुन्तलेति ।
तत्र हि मूलादेवानसूयया प्रवर्त्तितः स रस एव शकुन्तलाया विरहः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---शाकुन्तले ।
विष्कम्भकाद्यैरपि नो वधो वाच्यो ऽधिकारिणः

6.64

अन्यो ऽन्येन तिराधानं न कुर्याद्रसवस्तुनोः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) अधिकारिण इति ।
मुख्यफलस्वामिन इत्यर्थः ।
तेन नायकवधः क्वापि न वर्णनीयं इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
रसः शृङ्गारादिः ।
यदुक्तं धनिकेन---
"न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ।
रसं वा न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः" ॥
इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) रसवस्तुनोरिति ।
वस्तु अलङ्कारभिन्नपदार्थः ।
लक्षणैर्ज्ञापकैः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
बीजं बिन्दुः पताका च प्रकरी कार्यमेव च

6.65

अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ।
अर्थप्रकृतयः प्रयोजनसिद्धिहेतवः ।
तत्र बीजम्---
अल्पमात्रं समुद्दिष्टं बहुधा यद्विसर्पति

6.66

फलस्य प्रथमो हेतुर्बोजं तदभिधीयते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) नाट्ये कर्त्तव्यान्तरमाह---स्वल्पमात्रमिति ।
युधिष्ठिरोत्साह इति तस्य बलोत्साह इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुर्दैवानुकूल्यलालितो यौगन्धरायणव्यापारः ।
यथा वा---वेण्यां द्रौपदीकेशसंयमनहेतुर्भीमसेनक्रोधोपचितो युधिष्ठिरोत्साहः ।
अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्

6.67

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) बिन्दुरूपामर्थप्रकृतिमाह---अवान्तरेति ।
बिन्द्वविच्छेदेति परिभाषारूपभिदम् ।
बिन्दुपदं नपुंसकलिङ्गमिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---रत्नावल्यामनङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सति "उदयन्स्येन्दोरिवोद्वीक्षते" इति सागरिका श्रुत्वा "(सहर्षम्) कधं एसो सो उदअणणरिन्दो" इत्यादिरवान्तरार्थहेतुः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) उदयनस्येन्दोरिव इत्यादिकं वन्दिवाक्यम् ।
कथमिति ।
कथं स एव उदयननरेन्द्र इति संस्कृतम् ।
वत्सराज एव उदयननामा ।
अवान्तरार्थे सागरिकविरहे उदयननृपत्वेन ज्ञानात् हि तस्य विरहवर्णनप्रवृत्याच्छेदः ।
किन्तु तत्सूचकं विनैव नृपदर्शनरूपकारणसत्त्वात् प्रवर्त्तते इत्यतो ऽङ्कावतारादिभेदः ।
अङ्कावतारे तु पूर्वप्रविष्टपात्रैः सूचनेति ।
लोचना:
(लो, इ) कथमिति ।
कथमेष सौदयननरेन्द्रः ।
रत्नावल्यामेव द्वितीयबिन्दुर्यथा देवीगमनानन्तरमेवान्तराविच्छेदे विदूषकं प्रति राज्ञा वचनम् ।
धिङमूर्ख ! अलं परिहासेन आभिजात्येन गूढो देव्यास्त्वया न लक्षितः कोपः ।
तथा हि देवीमेव प्रसादयितुं गच्छाव इति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) पताकारूपामर्थप्रकृतिमाह---व्यापीति ।
वृत्तं नायकसहायस्य तच्च व्यापि अनेकालव्यापि ।
प्रासङ्गिकं नायकप्रसङ्गवृत्तम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---रामचरिते-सुग्रीवादेः, वेण्यां भीमादेः, शाकुन्तले-विदूषकस्य चरितम् ।
पताकानायकस्य स्यान्न स्वकीयं फलान्तरम्

6.68

गर्भे सन्धौ विमर्शे वा निर्वाहस्तस्य जायते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) प्रकारान्तरमाह---पताकानायकस्यापीति ।
अनायकस्यापीत्यकारप्रश्लेषः ।
तथा चानायकस्य सुग्रीवादेरपि स्वकीयराज्यलाभादिफलान्तरं यत्तदपि पताकान्तरमित्यर्थः ।
अपिशब्दात् नायकस्य रामस्य सेतुबन्धादि फलान्तरमपि पताकान्तरमिति बोध्यम् ।
गर्भे सन्धाविति ।
गर्भे विमर्षे वा सन्धौ इत्युभयत्र सन्धावित्यस्यान्वयः ।
गर्भविमर्शोपसंहृतिरूपा हि पञ्चसन्धयो वक्ष्यन्ते ।
तत्र गर्भविमर्शरूपसन्धिद्वये तस्य पताकासंज्ञकस्यानायकनायकद्वयफलान्तरस्य निर्वाहो निष्पत्तिरित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---सुग्रीवादेः राज्यप्राप्त्यादि ।
यत्तु मुनिनोक्तम्--"आ गार्भाद्वा विमर्शाद्वा पताका विनिवर्तते" ॥
इति ।
तत्र "पताकेति ।
पताका नायकफलं निर्वहणपर्यन्तमपि पताकायाः प्रवृत्तिदर्शनात्, इति व्याख्यातमभिनवगुप्तपादैः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) आगर्भादिति ।
मुनिवाक्ये पताकेत्युत्कीर्त्य व्याचष्टे---पताकानायकेति ।
अत्रापि अकारप्रश्लेषः ।
अनायकफलरूपा पताकैव आगर्भाद् आविमर्षाद् वा निवर्त्तते इत्यर्थः ।
अस्मिन्नभिनवगुप्तपादव्याख्याने हेतुमाह---निर्वाहपर्य्यन्तमपीति ।
पताकाव्यापि प्रासङ्गिकरूपायाः ।
अनायकस्य फलान्तररूपाया एव पताकाया आगर्भाद् वा आविमर्शाद्वा निवृत्तिरित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता

6.69

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) प्रकरीरूपामर्थप्रकृतिमाह---प्रासङ्गिकमिति ।
प्रसङ्गादुपस्थितं प्रदेशस्थं प्रदेशविशेषे निष्पन्नमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---कुलपत्यङ्के रावणजटायुसंवादः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) रावणजटायुसंवाद इति ।
तस्यार्ऽथप्रकृतित्वं तु रावणहृतसीतावर्णनप्राप्तिद्वारा ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रकरी नायकस्य स्यान्न स्वकीयं फलान्तरम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) नायकस्यापि फलान्तरं पताका ।
प्रकरी तु न नायकस्य फलान्तरमित्यर्थः ।
नच रावणस्यानायकत्वात् फलं तत्फलकत्वात् अस्य पताकत्वप्रसक्तिरिति वाच्यम् ।
अनायकत्वेन नायकसहायस्यैव विवक्षितत्वात्, नञः सदृशर्थकत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---जटायोः मोक्षप्राप्तिः ।
अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धनः

6.70

समापनं तु यत्सिद्ध्यै तत्कार्यमिति संमतम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) कार्य्यरूपार्थप्रकृतिमाह------अपेक्षितमिति ।
आरम्भो नाटकारम्भः ।
समापनमपि नाटकस्यैव ।
रावणवध इति ।
तत्सिद्धौ सत्यां हि नाटकसमापनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---रामचरिते रावणवधः ।
अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः

6.71

आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) अस्य कार्य्यस्य पञ्चावस्था आह---अवस्था इति ।
निष्पादकनिष्पाद्यरूपा अवस्था इत्यर्थः ।
तत्रारम्भयत्नप्राप्त्याशानियताप्तिरूपाः चतस्त्रो ऽवस्था विष्पादिकाः ।
फलागमरूपा तु निष्पाद्या इत्यवधेयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र---
भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये

6.72

यथा---रत्नावल्यां रत्नावल्यन्तः पुरनिवेशार्थं यौगन्धरायणस्यौत्सुक्यम् ।
एवं नायकनायिकादीनामप्यौत्सुक्यमाकरेषु बोद्धव्यम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) तत्रारम्भलक्षणमाह---भवेदिति ।
आकर इति तत्तन्नाटके इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रयत्नस्तु फलाबाप्तौ व्यापारो ऽतित्वरान्वितः ।
यथा रत्नावल्याम्---"तहवि ण अत्थि अण्यो दंसण उवाओ त्ति जधा तधा आलिहिअ जधासमीहिदं करैस्सम्" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) तह वि इति ।
तथापि नास्त्यन्यो दर्शनोपाय इतिन्यथा तथा आलिख्य यथासमीहितं करिष्यमीति संस्कृतम् ।
अङ्गुलिकम्पनानन्तरं तथाप्युक्तिः ।
सङ्गमोपायः तदङ्गभूतो व्यापारस्यैव यत्नत्वेनोक्तत्वात् ।
लोचना:
(लो, ई) तथापि इति ।
तथापि नास्ति अन्यो दर्शनोपाय इति ।
यथा तथालिख्य यथासमीहितं करिष्यामि ।
यथा चन्द्रकलायां यक्ष्मीवरप्रदानरूपफलप्राप्तिसहितो राज्ञश्चन्द्रकलालाभः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इत्यादिना प्रतिपादितो रत्नावल्याश्चित्रलेखनादिर्वत्सराजसङ्गमोपायः ।
यथा च---रामचरिते समुद्रबन्धनादिः ।
उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः

6.73

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) प्राप्त्यशामाह---उपायेति ।
उपायापायशङ्काभ्यां प्राप्तिसम्भवः ।
उद्देश्यप्राप्तिसम्भावना प्राप्त्याशा ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---रत्नावल्यां तृतीये ऽङ्के वेषपरिवर्तनाभिसरणादेः सङ्गमोपायाद्वासवदत्तालक्षणापायशङ्कया चानिर्धारितैकान्तसङ्गमरूपफलप्राप्तिः प्राप्त्यशा ।
एवमन्यत्र ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) वेशपरिवर्त्तनं सागरिकाया वासवदत्तावेशकरणम् ।
तेन राज्ञः समीपे तस्या अभिसारः ।
सङ्गमोपायस्य राज्ञः सागरिकासङ्गमोपायस्य ।
वासवदत्ताया आगमनरूपापायस्य शङ्कयेत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अपायाभावतः प्राप्तिनियताप्तिस्तु निश्चिता ।
अपायाभावान्निर्धारितैकान्तफलप्राप्तिः ।
यथा रत्नावल्याम्--"राजा--देवीप्रसादनं त्यक्त्वा नान्यमत्रोपायं पश्यामि" ।
इति देवीलक्षणापायस्य प्रसादनेन निवारणान्नियतफलप्राप्तिः सूचिता ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) नियतफलप्राप्तिः सूचितेति ।
अत्र देव्याः कोपशान्तिरूपफलस्य नियताप्तिः ।
नचास्य कथं कार्यावस्थात्वं सागरिकासङ्गमनरूपकार्यस्य तेनानिष्पादनात् इति वाच्यम् ।
तत्कोपस्य तत्प्रतिबन्धकत्वेन तदभावस्य तत्कारणत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सावस्था फलयोगः स्याद्यः समग्रफलोदयः

6.74

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) फलागममाह---सावस्थेति ।
फलयोगः फलागमः ।
समग्रफलोदयः समस्तोद्देश्यफलसिद्धिः ।
सामग्यञ्च मुख्योद्देश्यफलस्य उद्देश्यफलान्तरसाहित्यम् ।
तद्वक्ष्यति फलान्तरसहित इति ।
इयमवस्था पूर्वोक्तचतुरवस्थाभिर्निष्पाद्या ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---रत्नावल्यां रत्नावलीलाभश्चक्रवर्तित्वलक्षणफलान्तरलाभसहितः ।
एवमन्यत्र ।
यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः ।
पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्चसन्धयः

6.75

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) यथासंख्यमिति ।
आभिः पञ्चावस्थाभिर्योगादिति वृत्तस्य पञ्चविधैव भागाः ।
पञ्चसन्धयो भवन्तीत्यर्थः ।
लोचना:
(लो, उ) आभिरवस्थाभिरारम्भादिभिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तल्लक्षणमाह---
अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति ।
एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसम्बन्धः सन्धिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) तल्लक्षणं सन्धिसामान्यलक्षणम् ।
कथांशनामित्यत्र एकान्वये सतीत्यस्य व्याख्या ।
एकेनेति ।
एकैकेन प्रयोजनेनेत्यर्थः ।
अवान्तरेत्यादेर्व्याख्या अवान्तरेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तद्भेदानाह--
मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः

6.76

लोचना:
(लो, ऊ) उपसंहृतिः निर्वहणापरपर्याया ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) तद्भेदान् सन्धिभेदान् ।
क्रमादिति---उक्तपञ्चावस्थासाहित्येनैव सन्धिपञ्चकसिद्धेरुक्तत्वात् ।
तत्सहितमुखसन्ध्यादिक्रमेण इत्यर्थः ।
तथा चारम्भावस्थायुक्त इति ।
वृत्ताद्याभासो मुखसन्धिः ।
यत्नयुक्तः प्रतिमुखसन्धिः ।
प्राप्त्याशयुक्तो गर्भसन्धिः ।
नियताप्तियुक्तो विमर्शसन्धिः ।
फलागमयुक्तः उपसंहृतिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथाद्देशं लक्षणमाह---
यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा

6.77

लोचना:
(लो, ऋ) नानार्थेति ।
नानाविधानामर्थानां वाच्यरूपाणां रसानाञ्च सम्भवो यस्यामित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रारम्भेण समायुक्ता तन्मुखं परिकीर्त्तितम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) यत्र बीजेति ।
बीजमितिवृत्तस्य ।
प्रारम्भेणेति ।
उत्साहरूपप्रारम्भावस्थायुक्ता इत्यर्थः ।
प्रथमे ऽङ्के इति तत्र कन्दर्पपूजायां सागरिकाया राज्ञो दर्शनं विधिना आनीय घटितं बीजम् ।
तच्च सागरिकायास्तत्सङ्गमोत्साहसहितम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा--रत्नावल्यां प्रथमे ऽङ्के ।
फलप्रधानोपायस्य मुखसन्धिनिवेशिनः

6.78

लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) मुखसन्धिनिवेशिन इति ।
बीजसमुत्पत्तिरूपमुखसन्धावुद्दिष्टस्य इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---रत्नावल्यां द्वितीये ऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागबीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसंगता--विदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया चित्र फलकवृत्तान्तेन किञ्चिदुन्नीयमानस्योद्देशरूप उद्भेदः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) वासवदत्तया चित्रफलकेति ।
सागरिकालिखितेन राज्ञा स्वेन च युक्तं चित्रफलकं राज्ञा प्राप्तम् ।
वसन्तकहस्तात् स्खलितं वासवदत्तया तत् प्राप्य तत्र लिखितस्य तदुभयानुरागबीजनमुन्नीतम् ।
तादृशो भेदरूपः प्रतिमुखसन्धिश्च वासवदत्तायामागतायां सुसङ्गतावसन्तकयोर्व्यापाररूपो यत्नसहितः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
फलप्रधानोपायस्य प्रागुद्भिन्नस्य किञ्चिन

6.79

गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान्मुहुः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) प्रागुद्भिन्नस्येति ।
प्रतिमुखसन्धावुद्भिन्नस्येत्यर्थः ।
मुहुर्ह्रासान्वेषणवान् समुद्भेद इत्यन्वयः ।
ह्रासेत्यत्र त्रासेत्यपि क्वचित् पाठः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
फलस्य गर्भोकरणाद्रर्भः ।
यथा रत्नावल्यां द्वितीये ऽङ्के---"सुसंगता---सहि, अदक्खिणा दाणि सि तुमं जा एवं भट्टिणा हत्थेण गाहिदा वि कोवं ण मुञ्चसि" इत्यादौ समुद्भेदः ।
पुनर्वासवदत्ताप्रवेशे ह्रासः ।
तृतीये ऽङ्के---"तद्वार्तान्वेषणाय गतः कथं चिरयति वसन्तकः" इत्यन्वेषणम् ।
विढूषकः--ही ही भोः, कोसम्बीरज्जलम्भेणावि ण तादिसो पिअवअस्सस्स परितोसो जादिसो मम सआसादो पियवअणं सुणिअ भवस्सदि" इत्यादावुद्भेदः ।
पुनरपि वासवदत्ताप्रत्यभिज्ञानाद् ह्रासः ।
सागरिकायाः सङ्केतस्थानगमने ऽन्वेषणम् ।
पुनर्लतापाशकरणो उद्भेदः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) सहीति ।
सखि ! अदक्षिणा इदानीमसि त्वम् ।
या एवं भर्त्रा हस्ते गृहीतापि कोपं न मुञ्चसीति संस्कृतम् ।
ही हीति ।
ही हीत्याश्चर्ये ।
भो भोः कौशाम्बीराज्यलाभेनापिन तादृशः प्रियवयस्यस्य परितोषः यादृशो मम सकाशात् प्रियवचनं श्रुत्वा भविष्यतीति संस्कृतम् ।
उद्भेदः सागरिकासङ्गमोपायस्य ।
वासवदत्ताप्रत्यभिज्ञानादिति सङ्केतभङ्गार्थमागतां तां दृष्ट्वेत्यर्थः ।
पुनः सागरिकाकर्त्तृकम् ।
उद्भेदः फलप्रधानोपायस्य ।
लतापाशकरणाद्धि राज्ञः सागरिकादर्शनं ततो गर्भसन्धेः प्राप्त्याशायोगरूपावस्थायोगः ।
लोचना:
(लो, ॠ) सहीति ।
सखि ! अदक्षिणेदानीमसि त्वम् ।
या एवं भर्त्राहस्ते ऽपि गृहीतापि कोपं न मुञ्चसि ।
ही ही भो परितोषे ।
कौशाम्बीराज्यलाभेनापि न तादृशः प्रियवयस्यस्य परितोषः यादृशं मम सकाशात् प्रियवचनं श्रुत्वा भविष्यति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ विमिर्शः---
यत्र मुख्यफलोपाय उद्भिन्नो गर्भतो ऽधिकः

6.80

शापाद्यैः सान्तरायश्च स विमर्श इति स्मृतः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) गर्भतो ऽधिक इति ।
गर्भसन्धौ किञ्चिदुद्भिन्नो ह्रासान्वेषणवांश्च उद्भेदः ।
अत्र ततो ऽधिको ह्रासराह्त्यात् ।
सान्तरायः सविघ्नः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा शाकुन्तले चतुर्थाङ्कादौ---अनसूया---पिअंवदे, जैवि गन्धव्वेण विवाहेण णिब्बुत्तकल्लाणा पिअसही सौन्तला अणुरूवभत्तुभाइणी संवुत्तेति निव्वुदं मे हिअअम्, तह वि एत्तिअं चिन्तणिज्जम्" इत्यत आरभ्य सप्तमाङ्कोपक्षिप्ताच्छकुन्तलाप्रत्यभिज्ञानात्प्रागर्थसञ्चयः शकुन्तलाविस्मरणरूपविन्घालिङ्गितः ।
अथ निर्वहणम्---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) अनसूयेति ।
वक्त्र्या उत्कीर्त्तनम् ।
प्रियंवदे ।
इत्यादिकम् उक्तिः ।
"प्रियंवदे ! यद्यपि गान्धर्वेण विवाहेन निवृत्तकल्याणा प्रियसखी शकुन्तला अनुरूपभर्त्तृगामिनी संवृत्ता इति निर्वृतं मम हृदयम्"इति संस्कृतम् ।
षष्ठाङ्क इति ।
तत्पूर्वं दुर्वाससः शापेन राज्ञः शकुन्तलासमागमरूपप्रधानफलस्य उपायः प्रतिरुद्धः ।
विस्मरणरूपेति ।
"विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् ।
स्मारिष्यति त्वां न स बोधैतो ऽपि सन् कथां प्रमत्तः प्रथमोदितामिव ।
इति ।
दुर्वाससः शापेन विस्मरणम् ।
अयं शपप्रतिबन्धकप्रधानफलोपायरूपः विमर्शसन्धिः शकुन्तलाया राजसमागमप्रत्याशारूपावस्थासहितः ।
लोचना:
(लो, ऌ) पिअंवदे इति ।
प्रियंवदे यद्यपि गान्धर्वेण विधिना निवृत्तकल्याणा प्रियसखी शकुन्तला अनुरूपभर्त्तृगामिनी संवृत्तेति निवृत्तं मे हृदयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम्

6.81

एकार्थमुपनीयन्ते यत्र निर्वहणां हि तत् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) ऐकार्थ्यमुपनीयन्त इति ।
एकोद्देश्यनिर्वाहादेकार्थता ।
स्पष्टमपरम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा--वेण्याम्--"कञ्चुका--(उपसृत्य, सहर्षम्-) महाराज !वर्धसे ।
अयं खलु भीमसेनो दुर्योधनक्षतजारुणीकृतसर्वशरीरो दुर्लक्ष्यव्यक्तिः" इत्यादिना द्रौपदीकेशसंयमनादिमुखसन्ध्यादिबीजानां निजनिजस्थानोपक्षिप्तानामेकार्थयोजनम् ।
यथा वा-शाकुन्तले सप्तमाङ्के ऽशकुन्तलाभिज्ञानादुत्तरोर्ऽथराशिः ।
एषामङ्गान्याह--
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) अयं प्रकीर्णार्थैकात्मतोपनयनरूपो निर्वहणसन्धिः ।
उद्देश्यशकुन्तलासमागमरूपफलागमावस्थासहितः ।
एषामिति पञ्चसन्धानामित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उपक्षेपः परिकरः परिन्यासो विलोभनम्

6.82

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) तत्र मुखसन्धेर्द्वादशाङ्गान्याह---उपक्षेप इत्यादि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भदः करणं भेद एतान्यङ्गानि वै मुखे

6.83

यथोद्देशं लक्षणमाह--
काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ।
लोचना:
(लो, ए) समुत्पत्तिः समुत्पत्तिमात्रम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
काव्यार्थ इतिवृत्तलक्षणप्रस्तुताभिधेयः ।
यथा वेण्याम्--"भीमः---
लाभागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) लाक्षागृहानलेति---"स्वस्था भवन्तु कुरुराजसुताः सभृत्याः"इति सूत्रधारस्योक्तिं श्रुत्वा प्रविष्टस्य भीमस्योक्तिरियम् ।
लाक्षेत्यादिभिः प्राणेषु वित्तनिचयेषु च ये ऽस्मान् प्रहृत्य धार्तराष्ट्रा मयि जीवति सति स्वस्था भवन्ति ? इति ।
अत्र काकुध्वनिना न स्वस्था भविष्यन्तीत्यर्थः ।
लाक्षेत्यादिना प्राणेषु प्रहारप्रवेशेन वित्तनिचयेषु च प्रहारः ।
परिधानकेशानित्यत्र द्वन्द्वः ।
अत्र काव्यार्थस्य कुरुकुलवधप्रतिपादनस्योत्पत्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
समुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरः पुनः

6.84

यथा तत्रैव---
प्रवृद्धं यद्वैरं मम खलु शिसोरेव कुरुभिर्- न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् ।
जरासंधस्योरः स्थलमिव विरूढं पुनरपि क्रुधा भीमः सन्धिं विघटयति यूयं घटयत ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) परिकरलक्षणमाह---समुत्पन्नेति ।
प्रवृद्धं यद्वैरमिति---सन्धिकरणविमुखस्य भीमस्य सहदेवं प्रत्युक्तिरियम् ।
शिशोरेवेति---मम यौवनापेक्षापि तैर्न कृता, शिशुकाल एव विषदानात् ।
आर्यो युधिष्ठिरः ।
किरीटी अर्जुनः ।
युवां नकुलसहदेवौ ।
विरूढं कृष्णदौत्येन जातं, सन्धिमित्यन्वयः ।
अत्र समुत्पन्नलाक्षागृहादिकथनरूपार्थबाहुल्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तन्निष्पत्तिः परिन्यासः---
यथा तत्रैव---
चञ्चद्रभुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि ! भीमः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) परिन्यासलक्षणमाह---तन्निष्पत्तिरिति ।
काव्याभिधेयरूपस्येतिवृत्तस्य निष्पत्तिः---भावनिष्पत्तिकथनमित्यर्थः ।
चञ्चदिति---द्रौपदीं प्रती भीमस्योक्तिरियम् ।
हे देवि द्रौपदि ! तव कचान् केशान् वेणीबद्धान् कुर्वन् भीम उत्तंसयिष्यति ।
उत्तंसनेन दुर्योधनोरुरूपालङ्कारेण विशिष्टान् करिष्यतीत्यर्थः ।
भीमः कीदृशः ? सुयोधनस्य स्त्यानावनद्धेन प्रवृद्धसम्बद्धेन घनशोणितेन शोणपाणिः ।
सुयोधनस्य कीदृशस्य ? चञ्चता चलता भुजेन भ्रमितया गदयाभिघातेन संचूर्णितमूरुयुगलं यस्य तादृशस्य ।
अत्र भाविन्या ऊरुभङ्गनिष्पत्तेः कथनम् ।
लोचना:
(लो, ऐ) स्त्यानेति-स्त्यानः सन् अवनद्धः दृढीभूत इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्रोपक्षेपो नामेतिवत्तलक्षणस्य काव्याभिधैयस्य संक्षेपेणोपक्षेपणमात्रम् ।
परिकरस्तस्यैव बहुलीकरणम् ।
परिन्यासस्ततो ऽपि नश्चयापत्तिरूपतया परितो हृदये न्यसनम्, इत्येषां भेदः ।
एतानि चाङ्गानि उक्तेनैव पौर्वापर्येण भवन्ति, अङ्गान्तराणि त्वन्यथापि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) अक्तत्रयाणां भेदं विचिन्त्य दर्शयति---अत्रेति ।
ततो ऽपि नश्चयापत्तिरूपतया इति निश्चयस्य भाविकर्त्तव्यनिश्चयस्यापत्तिरपादानं बोधनमिति यावत् ।
हृदये बोद्धुर्हृदये ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---गुणाख्यानं विलोभनम् ।
यथा तत्रैव---"द्रौपदी--णाध, किं दुक्करं तुए परिकुविदेण" ।
यथा वा मम चन्द्रकलायां चन्द्रकलावर्णने--सेयम्, "तारुण्यस्यविलासः---" इत्यादि (139 पृ.) ।
यत्तु शकुन्तलादिषु "ग्रीवाभङ्गाभिरामम्---" इत्यादि मृगादिगुणवर्णनं तद्वीजार्थसम्बन्धाभावान्न संध्यङ्गम् ।
एवमङ्गान्तराणामप्यूह्यम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) विलोभनलक्षणमाह--गुणआख्यानमिति ।
किमिति ।
किं दुष्करं त्वया कुपितेन इति संस्कृतम् ।
इदं भीमस्य बलाधिक्यरूपगुणकथनम् ।
तारुण्यस्येति ।
अत्र विलासहासपदे तज्जनकपरे सारोपया लक्षणया प्रयुक्ते ।
अत्र चन्द्रकलासौन्दर्य्याख्यानम् ।
मृगादिगुणवर्णनमिति ।
गुणः--स्पृहणीयो धर्म्मः, अत्र क्रियारूपः ।
बीजार्थः--शकुन्तलाप्राप्तिबीजरूपोर्ऽथः ।
मृगक्रियावर्णनस्य तदसम्बन्धत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
संप्रधारणमर्थानां युक्तिः---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) युक्तिलक्षणमाह---सम्प्रधारणिति ।
उद्देश्यार्थोपपादकयुक्तिप्रदर्शनम्
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा--वेण्यां सहादेवो भीमं प्रति आर्य ! किं महाराजसंदेशो ऽयमव्युत्पन्न एवार्येण गृहीतः" इत्यतः प्रभृति यावद्भीमवचनम् ।
"युष्मान् ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः ।
न लज्जयति दारणां सभायां केशकर्षणम्" ॥
इति ।
----प्राप्तिः सुखागमः

6.85

यथा तत्रैव---"मथ्नामि कौरवशतं समरे न कोपात्---" इत्यादि (284 पृ.) "द्रौपदी--(श्रुत्वा सहर्षम्--) णाध, अस्सुदपुव्वं क्खु एदं वअणम्, ता पुणो पुणो भण" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) प्राप्तिलक्षणमाह---प्राप्तिरिति ।
णाधेति ।
नाथ ! अश्रुतपूर्वं खलु ईदृशं वचनम्, तत्पुनः पुनर्भण इति संस्कृतम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
बीजस्यागमनं यत्तु तत्समाधानमुच्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) समाधानलक्षणमाह---बीजस्येति ।
उक्तस्य उद्देश्यबीजस्य प्रधाननायकसम्मतत्वेन कथनं तत् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा तत्रैव--"(नेपथ्ये कलकलानन्तरम्) भो भो द्रुपदविराटवृष्ण्यन्धक सहदेवप्रभृतयः ! अस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः---
यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्ति कुलस्येच्छता ।
तद्द्यूतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) यत्सत्येति ।
यत् यौधिष्ठिरं क्रोधज्योति इति सर्वत्र विशेषणम् ।
द्यूतारणीति ।
द्यूतरूपायामरण्यां मन्थनकाष्ठे नृपसुताया द्रुपदसुताया द्रौपद्याः केशस्याम्बरस्य चाकर्षणात् सम्भृतक्रोधज्योतिरग्निः ।
अन्यदपि हि ज्योतिररण्यामाकर्षणात्सम्भृतं भवति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्र "स्वस्था भवन्तु मयि जीवति--" इत्यादि बीजस्य प्रधाननायकाभिमतत्वेन सम्यगहितत्वात्समाधानम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) समाधानपदस्य योगार्थमत्रोपपादयति---अत्रेति ।
अत्र भीमोक्त बाजस्य प्रधाननायकयुधिष्ठिरसम्मतत्वकथनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सुखदुः खकृतो योर्ऽथस्तद्विधानमिति स्मृतम्

6.86

यथा बालचरिते---
"उत्साहातिशयं वत्स ! तव बाल्यं च पश्यतः ।
मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः" ।
यथा वा मम प्रभावत्याम्--"नयनयुगासेचनकम्-" इत्यादि (236 पृ.) ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) विधानरूपाङ्गलक्षणमाह---सुखदुः खाभ्यां कृतो ऽपर्थ इत्यर्थः ।
उत्साहेति ।
इदं रामं प्रति जनकस्य वाक्यम् ।
अत्र उत्साहेन सुखम् ।
बाल्येन च दुःखम् ।
नयनयुगेत्यत्र यथोक्तार्थेन सुखम् ।
तद्विरहाद् दुः खम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ।
यथा--वेण्यां द्रौपदी युद्धं स्यान्न वेति संशयाना तूर्यशब्दानन्तरम् "णाध ! किं दाणिं एसो पलअजलहरत्थणिदमन्थ खणे खणे समरदुन्दुभि ताडीअदि" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) भावनालक्षणमाह--कुतूहलेति ।
णाधेति ।
नाथ किमिदानीम् एष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते ।
इति संस्कृतम् ।
अत्र युद्धेच्छा द्रौपद्याः कुतूहलोत्तरा एता वाचः ।
लोचना:
(लो, अ) णाधेति ।
नाथ किमिदानीम् एष प्रलयजलधरः स्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
बीजार्थस्य प्ररोहः स्यादुद्भेदः---
यथा तत्रैव--"द्रौपदी--अण्णां च णाह, पुणोवि तुम्हेहि समरादो आअच्छिअ समास्सासैदव्वा ।
भीमः--ननु पाञ्चालराजतनये ! किमद्यालीकाश्चासनया--
भूयः परिभवक्लान्तिलज्जाविधुरिताननम् ।
अनिः शेषितकौरव्यं न पश्यसि वृकोदरम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) उद्भेदलक्षणमाह---बीजार्थस्येति ।
प्ररोह उत्पाद्यतानिश्चयः ।
णधेति ।
नाथ पुनरपि समाश्वासयितव्याहम् इति संस्कृतम् ।
अहमिति द्रौपद्या आत्मनिर्द्देशः ।
भूय इति ।
बन्धुरितं नामितं भूयो न पश्यसीत्यन्वयः ।
भविष्यत सामीप्ये वर्त्तमाना अत्र भीमस्य कौरववधोत्पाद्यतानिश्चयः ।
लोचना:
(लो, आ) णाधेति ।
नाथ पुनरपि त्वया समाश्वासयितव्याहम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---करणं पुनः

6.87

प्रकृतार्थसमारम्भः--
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) करणलक्षणमाह---करणमिति ।
स्पष्टम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा तत्रैव---"देवि ! गच्छामो वयमिदानीं कुरुकुलक्षयाय" इति ।
---भेदः संहतभेदनम् ।
यथा तत्रैव---"अत एवाद्यप्रभृति भिन्नो ऽहं भवद्भ्यः" ।
केचित्तु---"भेदः प्रोत्साहना" इति वदन्ति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) भेदलक्षणमाह---भेद इति ।
अद्य प्रभृतीति सहदेवे भीमस्योक्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ प्रतिमुखाङ्गानि---
विलासः परिसर्पश्च विधुतं तापनं तथा

6.88

नर्म नर्मद्युतिश्चैव तथा प्रगमनं पुनः ।
विरोधश्च प्रतिमुखे तथा स्यात्पर्युपासनम्

6.89

पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) प्रतिमुखसन्धेस्त्रयोदशाङ्गान्याह--विलास इति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र---
समीहा रतिभोगार्था विलास इति कथ्यते

6.90

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) रतिबोगार्थेति ।
रतिरनुरागः, तद्भोगस्तद्विषयो नायिकादिः, तत्र समीहा इच्छा ।
यद्यति रतिर्निधूवनम् तद्भोगाय इच्छेत्येवमर्थ एव उदाहरणानुसारी युज्यते ।
तथापि ग्रन्थकृद्व्याख्यानुरोधादित्थं व्याख्यातम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
रतिलक्षणस्य भावस्य यो हेतुभूतो भोगो विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः ।
यथा शाकुन्तले---
कमं प्रिया न सुलभा मनस्तु तद्धावदर्शनायासि ।
अकृतार्थे ऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) कामं प्रयेति ।
शकुन्तलालिप्सोर्दुष्मन्तस्य उक्तिरियम्---अकृतार्थे ऽपीति ।
कामिन उद्देश्यसिद्धिरेव मनसिजस्य कृतार्थता, तद्रहिते ऽपि मनसिजे इत्यर्थः ।
उभयप्रार्थना उभयस्य रतिमनुरागाधिक्यम् कुरुत इत्यर्थः ।
प्रकृते च शकुन्तलाया भावदर्शनात् तत्प्रार्थनाप्रार्थितस्य दुष्मन्तस्य रतिं कुरुत इत्यर्थः ।
लोचना:
(लो, इ) काममिति ।
मनसिजे ऽकृतार्थे ऽपि स्त्रीपुंसयुगलस्य सम्भोगं विनापि उभयप्रार्थना अन्यो ऽन्यप्रार्थना रतिं प्रीतिं कुरुते इत्यर्थः ।
नायिकाया नायके नायकस्य नायिकायां यदि प्रार्थन दृश्यते तदा उपभोगाभावे ऽपि तयोः प्रीतिर्भवति तेन तस्या भावदर्शनेन प्रार्थना मयि अभिव्यक्तेति मनः समाश्वासि इति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इष्टनष्टानुसरणं परिसर्पश्च कथ्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) परिसर्पलक्षणमाह---दृष्टनष्टेति ।
नष्टेति णश अदर्शने इति धात्वर्थानुसाराद् दृष्टस्यानर्थक्यम् ।
तथा च पूर्वदृष्टस्य पश्चाददृष्टस्य वस्तुनो ऽनुसरणमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा शाकुन्तले---"राजा---भवितव्यमत्र तया ।
तथा हि---
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारे ऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यते ऽभिनवा" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) भवितव्यमत्र तयेति राज्ञः उक्तिरियम् ।
तया शकुन्तलया भवितव्यं स्थातव्यमिति ।
तत्र हेतुमाह---अभ्युन्नतेति ।
यतो ऽस्य लतागृहस्य पाण्डुसिकते द्वारे ऽभिनवा पदपङ्क्तिर्दृश्यते ।
कीदृशी पुरस्तात् पदस्य पूर्वभागे ऽभ्युन्नता ।
पश्चाद्भागे जघनगौरवादवगाढा ।
अत्र पूर्वदृष्टशकुन्तलानुसरणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कृतस्यानुनयस्यादौ विधुतं त्वपरिग्रहः

6.91

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) विधूतलक्षणमाह---कृतस्येति ।
आदौ कृतस्यानुनयस्य प्रीतेः पश्चादपरिग्रह आहार्य्य इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा तत्रैव---"अलं वो अन्तेउरविरहपज्जुस्सुएण राएसिणा उवरुद्धेण" ।
केचित्तु---"विधृतं स्यादरतिः" इति वदन्ति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) तत्रैवेति ।
शाकुन्तल एव इत्यर्थः ।
अलमिति---अलं वोन्तः--पुरिकविरहपर्युत्सुकेन राजर्षिणा उपरूद्धेनेति संस्कृतम् ।
अत्र सख्या उपरोधवशात् शकुन्तलाया आदौ प्रीतिर्लभ्यते ।
उपरोधनिषेधाच्चाहार्यस्तदपरिग्रहः ।
केचिदितिआहार्यदीदृशनिषेधादरत्यवगमादत्र अस्वरसः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उपायादर्शनं यत्तु तापनं नाम तद्भवेत् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) तापनलक्षणमाह---उपायेति ।
उद्देश्यार्ऽथोपायः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा रत्नावल्याम्---"सगरिका---
दुल्लहजणाणुराओ लज्जा गुरुई परअसो अप्पा ।
पियसहि विसमं पेम्मं मरणं सरणं णवरि एक्कम्" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) दुल्लहेति---"दुर्लभजनानुरागो लज्जा गुर्वो परवश आत्मा ।
प्रियसखि ! विषमं प्रेम मरणं शरणं केवलमेकम्" ॥
इति संस्कृतम् ।
दुर्लभजनो राजा ।
णवरीति केवले देशी, एवं प्रधानं शरणमित्यन्वयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
परिहासवचो नर्म---
यथा रत्नावल्याम्---"सुसंगता--सही ! जस्स किदे तुमं आअदा से अअं दे पुरदो चिट्ठदि ।
सागरिका---(साभ्यसूयम्) कस्स किदे अहं आअदा ? "सुसंगता--अलं अण्णसंकिदेण ।
णं चित्तफलअस्स" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) नर्मलक्षणमाह--परिहासेति ।
सहीति ।
"सिखि ! यस्य कृते त्वामायाता सो ऽयं ते पुरतस्तिष्ठती"ति संस्कृतम् ।
कस्सेति ।
"कस्य कृते ऽहमागता"इति संस्कृतम् ।
अयीति ।
"अयि अन्यशङ्किते ननु चित्रफलकस्य"इति संस्कृतम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---धृतिस्तु परिहासजा

6.92

नर्मद्युतिः---
तथा तत्रैव--"सुसंगता-सहि ! अदक्खिणा दाणिं सि तुमं जा एव्वं भट्टिणा हत्थावलम्बिदावि कोवं ण मुञ्चसि ।
सागरिका--(सभ्रूभङ्गमीषद्विहस्य) सुसंगदे ! दाणिं वि कीलिदुं न विरमसि ।
केचित्तु--"दोषस्याच्छादनं हास्यं नर्मद्युतिः" इति वदन्ति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) नर्मद्युतिलक्षणमाह---धृतिरिति ।
परिहाससहिष्णुता इत्यर्थः ।
सहीति ।
सखि अदक्षिणा इदानीमसि त्वम् ।
या एवं भर्त्रा हस्तावलम्बितापि कोपं न मुञ्चसीति ।
सुसङ्गते ! इदानीमपि न विरमसि ।
अत्र सागरिकायाः सुसङ्गताकृतपरिहाससहिष्णुता ।
नर्मणि तस्यासूयताप्रदर्शनाद् असहिष्णुता इति भेदः ।
केचिदिति ।
अत्र दोषाच्छादनाप्रतीत्या अस्वरसः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---प्रगमनं वाक्यं स्यादुत्तरोत्तरम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) प्रशंसनरूपाङ्गस्य लक्षणमाह--प्रशंशनमिति ।
प्रशस्यते ऽनेन इति प्रशंसनम्, उत्तरोत्तरं तादृशं वाक्यमेव प्रशंसननामाङ्गमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा विक्रमोर्वश्याम्--उर्वशी--जअदु जअदु महाराओ ।
राजा---
मया नाम जितं यस्य त्वया जय उदीर्यते" ।
इत्यादि ।
विरोधो व्यसनप्राप्तिः---
यथा चण्डकौशिके---"राजा---नूनमसमीक्ष्यकारिणा मया अन्धेनेव स्फुरच्छिखाकलापो ज्वलनः पद्भ्यां समाक्रान्तः" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) विरोधलक्षणमाह---विरोध इति ।
राजा हरिश्चन्द्रः ।
स्फुरदर्चिः--समूहोज्ज्वलनो विश्वामित्रः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---क्रुद्धस्यानुनयः पुनः

6.93

स्यात्पर्युपासनं--
यथा रत्नावल्याम्--"विढूषकः---भो, मा कुप्य ।
एषा हि कदलीघरन्तरं गादा" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) पर्युपासनाङ्गलक्षणमाह---कृतस्येति ।
कृतस्य कोपहेतोरित्यर्थः ।
पुनरनुनयः कोपाकरणहेतुप्रदर्शनप्रित्यर्थः ।
भो इति ।
भो वयस्य मा कुप्य ।
एषा हि कदलीगृहान्तरं गतेति संस्कृतम् ।
एषेति---कदलीगृहान्तरप्रवेशस्य प्रदर्शनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---पुष्पं विशेषवचनं मतम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) पुष्पनामाङ्गलक्षणमाह---मुष्पमिति ।
अयं विशेषो विलक्षणपदार्थ इत्येवमर्थकं वचनमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा तत्रैव---"(राजा हस्ते गृहीत्वा स्पर्शं नाटयति ) विदूषकाः---भो वअस्स ! एसा अपुव्वा सिरी तए समासादिदा ।
राजा---वयस्य ! सत्यम्---
श्रीरेषा, पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतो ऽन्यथा स्त्रवत्येष स्वेदच्छद्मामृतद्रवः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) भो इति ।
"भो वयस्य एषापूर्वा श्रीस्त्वया समासादिता"इति संस्कृतम् ।
श्रीरेषेति ।
स्वेदच्छद्म घर्मव्याजः ।
पारिजातपल्लवाद् अमृतद्रवस्त्रवणात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रत्यक्षनिष्ठुरं वज्रम्---
यथा तत्रैव---"राजा---कथमिहस्थो ऽहं त्वया ज्ञातः ? सुसंगता---ण केवलं तुमं समं चित्तफलएण ।
ता जाव गदुअ गदुअ देवीए णिवेदैस्सम्" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) वज्ररूपाङ्गलक्षणमाह--प्रत्यक्षेति ।
न केवलमिति ।
न केवलं त्वं समं चित्रफलकेन ।
तद्यावद्रत्वा देव्यै निवेदयिष्यमि ।
इति संस्कृतम् ।
इदं सुसङ्गतावाक्यं राज्ञः साक्षान्निष्ठुरम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---उपन्यासः प्रसादनम्

6.94

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) उपन्यासलक्षणमाह--उपन्यास इति ।
प्रसादनं प्रसादनप्रार्थना ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा तत्रैव--"सुसंगता--भट्टुण ! अलं सङ्काए ।
मए वि भटिणीए पसादेण कीलिदं ज्जेव एदिहिं ।
ता किं कण्णाभरणोण ।
अदो वि मे गरुअरो पसादो एसो, जं तुए अहं एत्थ आलिहिदत्ति कुविदा मे पिअसही साअरिआ ।
एसा ज्जेव पसादीअदु" ।
केचित्तु---"उपपत्तिकृतो ह्यर्थ उपन्यासः स कीर्तितः" ।
इति वदन्ति ।
उदाहरन्ति च, तत्रैव---"अदिमुहरा क्खु सा गब्भदासी" इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) भर्तः ! अलं शङ्कया मयापि भर्त्र्याः प्रसादेन क्रीडितमेव एतैः ।
तत् किं कर्णाभरणेन ? अतो ऽपि मे गुरुतरः प्रसाद एष यत्त्वयाहमत्रालिखितेति कुपिता मे प्रियसखी सागरिका ।
एषैव प्रसाद्यतामिति संस्कृतम् ।
तैः कर्णाभरणैः किं त्वयेत्यादिः सागरिकोक्तेरनुवादः ।
अत्र सागरिकाप्रसादनप्रार्थना उपपत्तिकृत इति युक्त्युपपादसत्वादुक्तेत्यर्थः ।
अदीति ।
अदिमुखरा खल्वेषा गर्भदासीति संस्कृतम् ।
नार्भदासी अन्तः पुरदासी ।
अत्र समं चित्रफलकेनेत्यादि निष्ठुरं सुसङ्गतया पूर्वमुक्तं वचनं विदूषकोक्त्युपपादकम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) वर्णसंहाराङ्गलक्षणमाह---चातुर्वर्ण्येति ।
ब्राह्मणाद्यनेकवर्णानां मेलनकथनमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा महावीरचरिते तृतीये ऽङ्के---
परिषदियमृषीणामेष वीरो युधाजित् सह नृपतिरमात्यैर्लोमपादश्च वृद्धः ।
अयमविरतयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामङ्ग भो याचकास्ते ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) परिषदियमिति ।
मिलितब्राह्मणाद्यनेकवर्णसभाप्रदर्शनमिदम् ।
इयमृषीणां परिषद् सभा ।
युधाजित् ।
केकयदेशपकतिरिति ऋषिभिरमात्यैश्च समम् एष वृद्धो राजा लोमपादः ।
अयमपि जनकानां जनकवंशस्य प्रभुः सीरध्वजः अविरतयज्ञो ब्रह्मवादी च ।
अद्रुहः द्रोदशून्यास्ते प्रसिद्धा याजकाः एते इति शेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इत्यत्र ऋषिक्षादीनां वर्णानां मेलनम् ।
अभिनवगुप्तपादास्तु--"वर्णशब्देन पात्राण्युपलक्ष्यन्ते ।
संहारो मेलनम्" इति व्याचक्षते ।
उदाहरन्ति च रत्नावल्यां द्वितीये ऽङ्के--"अदो वि मे अत्त्रं गुरुअरो पसादो--" इत्यादेरारभ्य "णं हत्थे गेण्हिअ पसादेहि णम् ।
राजा--क्वासौ क्वासौ" इत्यादि ।
अथ गार्भाङ्गानि---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) पात्राणीति ।
नाट्यपात्राणीत्यर्थः ।
अदोवीति ।
अतो ऽपि मे अयं गुरुतरः प्रसाद इत्यादेरारभ्य इत्यर्थः ।
इत्यादेरित्यवधौ पञ्चमी ।
जं किण अहं तत एत्थ आलिहि देत्यादिकमादावित्याद्यविधिरूपेत्यर्थः ।
णं हत्थेति ।
ननु हस्ते गृहीत्वा प्रसादय एनामित्यर्थः ।
क्वासौ क्वासाविति हर्षे वीप्सा ।
अत्र राजा सुसङ्गता सागरिकाश्च पात्राणि, एषां मेसनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अभूताहरणं मार्गो रूपोदाहरणो क्रमः

6.95

संग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च ।
त्रो (तो) टकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा

6.96

तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम् ।
यथा अश्वत्थामाङ्के---
अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति पुनर्व्याहृतं सत्यवाचा ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) गर्भसन्धेर्द्वादशाङ्गान्याह---अभूतेति ।
अभूताहरणलक्षणमाह---तत्र व्याजेति ।
अश्वत्थामा हत इति युधिष्ठिरस्य व्याजाश्रयवाक्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥
तत्त्वार्थकथनं मार्गः---
यथा चण्डकौशिके--"राजा---भगवन् ! गृह्यतामर्जितमिदं भार्यातनयविक्रयात् ।
शेषस्यार्थे करिष्यापि चण्डाले ऽप्यात्मविक्रयम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) मार्गरूपाङ्गलक्षणमाह---तत्त्वार्थेति ।
अव्याजकथनमित्यर्थः ।
गृह्यतामिति--विश्वामित्रं प्रति हरिश्चन्द्रनृपतेरुक्तिरियम् ।
भार्य्यायास्तनयस्य विक्रयणादर्जितमिदं वित्तं गृह्यतामित्यन्वयः ।
शेषस्य वित्तस्याप्यर्थे निमित्तमात्मविक्रयं करिष्यासि ।
तत्र राज्ञः आपद्यपि अव्याजकथनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
रूपं वाक्यं वितर्कवत्

6.97

यथा रत्नावल्याम्--"राजा---
मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे ।
कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) रूपात्मकमङ्गमाह---रूपमिति ।
वितर्को ऽसम्भविस्तुहेत्वनुसन्धानम् ।
मनः प्रकृत्यैवेति--सागरिकाविरहिणो राज्ञो ऽयं वितर्कः ।
दुर्लक्ष्यं लक्षितुं द्रष्टुमशक्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उदाहरणमुत्कर्षयुक्तं वचनमुच्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) उदाहरणरूपस्याङ्गस्य लक्षणमाह---उदाहरणमिति ।
उत्कर्षयुक्तं स्वाहङ्कारयुक्तम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा अश्वत्थामाङ्के--
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी, चरति मयि रणो यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तको ऽहम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) यो यः शस्त्रमिति ।
क्रुद्धस्याश्वत्थाम्न उक्तिरियम् ।
मयि रणे चरति सात पाण्डवीनां चमूनां मध्ये स्वभुजगुरुमदः सन् यो यः शस्त्रं बिभिर्ति एवं यो यः पाञ्चालगोत्र इत्यादि ।
एवं यो यस्तत्कर्म इत्यादि ।
तत्कर्म मृतस्य मम पितुः शिरश्छेदनरूपम् ।
एवं यश्च यश्च मम प्रतीमः क्रोधान्धो ऽहं जगतमन्तकस्य तस्य तस्यान्तक इत्यर्थः ।
तैर्जगदन्तकस्य क्रोधोद्दीपनाद् एव जगदन्तक इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
भावतत्त्वोपलब्धिस्तु क्रमः स्यात्---
यथा शासुन्तले---"राजा---स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि ।
तथाहि--
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
पुलकाञ्चितेन कथयति मय्यनुरागं कपोलेन ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) क्रमरूपाङ्गलक्षणमाह---भावेति ।
भावस्यानुरागस्य तत्त्वेनोपलब्धिरित्यर्थः उन्नमितेति---पदानि श्लोकघटकदानि रचयन्त्याः अस्या आननं कर्तृ पुलकाञ्चितेन कपोलेन मयि अनुरागं कथयति इत्यर्थः ।
कीदृशमाननम् ? उन्नमितैकभ्रूलतम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---संग्रहः पुनः

6.98

सामदानार्थसंपन्नः--
यथा रत्नावल्याम्---"राजा---साधु वयस्य ! इदं ते पारितोषिकम् ।
(इति कटकं ददाति ) ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) सामदानेति ।
साम्ना प्रीत्या दानेन च संप्रदानस्य दीपमानधनसंपत्तिरित्यर्थः ।
साध्विति---अत्र दीयमानकटकरूपधनसंपत्तिविर्दूषकस्य ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---लिङ्गादूहो ऽनुमानता ।
यथा जानकीराघवे नाटके---"रामः---
लीलागतैरपि तरङ्गयतो धरित्रीमालोकनैर्नमयतो जगतां शिरांसि ।
तस्यानुमापयति काञ्चनकान्तिगौरकायस्य सूर्यतनयत्वमधृष्यतां च ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) अनुमानरूपाङ्गलक्षणमाह---लिङ्गादिति ।
अनुमानता का मानम् ।
लीलेति ।
परशुरामवर्णनमिदम् ।
तस्य लीला व्यवसायः ।
सूर्य्यतनयत्वं सूर्य्यतुल्यतेजस्वित्वेन सूर्य्यपुत्रत्वमधृष्यत्वं चानुमापयति ।
तस्य कीदृशस्य गतैर्गमनैरपि धरित्रो तरङ्गयतः चालयतः ।
आलोकनैर्जगतां शिरांसि नमयतस्तद्दृष्टमात्रैः सर्वैः प्रणम्यमानत्वात् ।
काञ्चनकान्तिवद् गौरकायस्य ।
********** एन्द् ओf चोम्मेन्तर्य् **********
रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत्

6.99

यथा रत्नाषल्याम्---"प्रिये सागरिके ! शीतांशुर्मुखमुत्पले तव दृशौ, पद्मानुकारौ करौ, रम्भास्तम्भनिभं तथोरुयुगलं, बाहू मृणालोपमौ ।
इत्यह्लादकराखिलङ्गि ! रभसान्निः शङ्कमालिङ्ग्य मा- मङ्गनि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) प्रार्थनाङ्गरूपाङ्गलक्षणमाह---रतीति ।
रत्यर्थं यो नायिकाया हर्षो नायकस्य तादृशोत्सवानां प्रार्थनेत्यर्थः ।
शीतांशुरित्यादि ।
शीतांशुरूपत्वादिना आह्लादकराखिलाङ्गि ! एहि एहि रभसात् बलात् मदङ्गानि निः शङ्कमालिङ्ग्य अनङ्गतापविधुराणि तानि निर्वापय ।
तापशून्यानि कुरु इत्यर्थः ।
अत्रालङ्गनाधीनोत्सवप्रार्थना ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इदं च प्रार्थनाख्यमङ्गम् ।
यन्मते निर्वहणो भूतावसरत्वात्प्रशस्तिनामाङ्ग नास्ति तन्मतानुसारेणोक्तम्, अन्यथा पञ्चषष्टिसंख्यत्वप्रसङ्गात् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) अत्रैतदंशस्य निर्वहणसन्धेः प्रशस्तिनामाङ्गस्य वैकल्पिका स्थितिः ।
अनयोर्मिलितस्थितसत्त्वे तु वक्ष्यमाणचतुः षष्टिसंख्यासान्ध्यङ्गानां न भवति ।
पञ्चषष्टित्वापत्तेः ।
तथा हि अत्र गर्भसन्धौ एतदङ्गसत्त्वे एतान्यङ्गनि त्रयोदश भवन्ति, मुखसन्ध्यङ्गनि च द्वादशोक्तानि, अन्यसन्धिद्वयाङ्गानि च त्रयोदश त्रयोदश ।
निर्वहणसन्ध्यङ्गानि चतुर्दशेति ।
पञ्चषष्टित्वं प्रसजति ।
अतो यन्मते निर्वहणसन्धौ प्रशस्तिनामकं चरमाङ्गं नास्ति तन्मते एवात्रेदम् अङ्गमन्यथा तु नेत्याह--इदञ्चेति ।
तत्र प्रशस्तिनामाङ्गसत्त्वे हेतुमाह---भूतावसरत्वाभावादिति ।
भूतानि प्राणिनो नाट्यपात्राणि तदवसरत्वं तद्वत्त्वम् ।
अङ्गानाम् इत्यङ्गनि भूतावसराण्युच्यन्ते ।
प्रशस्तयङ्गस्य सदस्याशीर्वादत्वेन तथात्वाभावादित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
रहस्यार्थस्य तद्भेदः क्षिप्तिः स्यात्---
यथाश्वत्थामाङ्के---
एवस्यैव विपाको ऽयं दारुणो भुवि वर्तते ।
केशग्रहे द्वितीये ऽस्मिन्नूनं निः शेषिताः प्रजाः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) क्षिप्तिरूपमङ्गमाह--रहस्यार्थस्येति ।
रहस्यार्थो ऽभिनेतव्यार्थ इतिवृत्तरूपोर्ऽथस्तस्य भेद उत्पत्तिसूचनम् ।
एकस्येति ।
एकस्य द्रौपदीकेशग्रहणस्य ।
द्वितीये मृतद्रोणस्य धृष्टद्युम्नेन केशग्रहे ऽत्र सर्वसंहाररूपस्य रहस्यस्य उत्पत्तिसूचनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---त्रो(तो) टकं पुनः ।
संरब्धवाक्--
यथा चण्डकौशिके---"कौशिकः--आः, पुनः कथमद्यापि न सम्भूता स्वर्णादक्षिणाः" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) त्रोटकरूपाङ्गलक्षणमाह--त्रोटकं पुनरिति ।
संरब्धवाक् सक्रोधवाक् ।
आः पापेति ।
हरिश्चन्द्रं नृपं प्रति पृथिवीदानदक्षिणादानार्थं विश्चामित्रस्य सक्रोधवाक ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---अधिबलभिसंमधिच्छलेन यः

6.100

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) अधिबलाङ्गलक्षणमाह---अधिबलमिति ।
अभिसन्धिरुद्देशषटनार्थं छलेनानुसन्धानम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा रत्नावल्याम्---"काञ्चनमाला---भट्टिणि, इयं सा चित्तसालिआ ।
वसन्तअस्स सण्णं करोमि " इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) भट्टिणि इति ।
हे भर्त्रि ! इयं चित्रशालिका ।
तावद् वसन्तकस्य संज्ञां करोमीति संस्कृतम् ।
चित्रशालिकायां राज्ञः समीपे वासवदत्तावेशेन सागरिकामानेतुं तया सह वसन्तकेन संकेते कृते काञ्चनमालया तज्ज्ञात्वा वासवदत्तामेवानीय वसन्तकस्थाने सागरिकाऽगता इत्यङ्गुलिसंज्ञां कर्त्तुं वासवदत्तायामुक्तिरियं तस्याः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नृपादिजनिता भीतरुद्वेगः परिकीर्तितः ।
यथा वेण्याम्---
प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।
स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) नृपादिजनितेति ।
नृपादौ केनापि जनिता भीतिरित्यर्थः ।
प्राप्तावेकरथेति ।
स कर्णारिरर्जुनः स च कूरकर्म्मा कूरो वृकोदरो भीमः ।
एतावेकरथारूढौ भ्रातरौ प्राप्तावगतावित्यर्थः ।
कर्णारित्वेन कूरकर्म्मत्वेन च दुर्य्योधनस्य भीतिजननम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
शङ्काभयत्रासकृतः सम्भ्रमो विद्रवो मतः

6.101

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) विद्रवरूपाङ्गमाह---शङ्काभयेति ।
शङ्कया अनिष्टशङ्कया भयत्रासौ तत्कृतो यः संभ्रमः व्याकुलता विद्रवो मत इत्यर्थः ।
भाव्यनिष्टद्वेषो भयम् ।
आकस्मिकानिष्टोत्पत्त्या कर्त्तव्यमूढता तु त्रासः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा--
कालान्तककरालास्यं क्रोधोद्भूतं दशाननम् ।
विलोक्य वानरानीके सम्भ्रमः को ऽप्यजायत ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) कालान्तकेति ।
क्रोधोद्धूतं क्रोधकम्पितं दशाननं विलोक्य वान रानीके को ऽपि संभ्रमो ऽजायत इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ विमर्शाङ्गानि---
अपवादो ऽथ संफेटो व्यवसायो द्रवो द्युतिः ।
शक्तिः प्रसङ्गः शेदश्च प्रतिषेधो विरोधनम्

6.102

प्ररोचना विमर्शे स्यादादानं छादनं तथा ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) विमर्शसन्धेस्त्रयोदशाङ्गान्याह---अपवाद इत्यादि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दोषप्रख्यापवादः स्यात्---
यथा वेण्याम्---"युधिष्ठिरः---पञ्चालक ! क्वचिदासादिता तस्य दुरात्मनः कौख्यापसदस्य पदवी ।
पाञ्चालकः--न केवलं पदवी, स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलब्धः" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) दोषप्रख्या दोषप्रख्यापनम् ।
कौरवापसदस्य कौरवाधमस्य पदवी पादचिह्नम् ।
सो ऽपि दुरात्मा दुर्योधनः ।
अत्रोक्त्यामेव दोषप्रख्यापनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---संफेटो रोषभाषणम्

6.103

यथा तत्रैव---"राजा---अरे रे मरुत्तनय ! वृद्धस्य राज्ञः पुरतो निन्दितमप्यात्मकर्म शलाघसे ।
शृणु रे--
कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यश्रं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी ।
तस्मिन् वेरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा बाह्वोर्वोर्यातिभारद्रविणगुरुमदं मामजित्वैव दर्पः ॥
भीमः---(सक्रोधम्) आः पाप ।
राजा---आः पाप" ।
इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) सम्फेटरूपमङ्गमाह---अरे रे इत्यादि ।
दुर्योधनस्य भीमं संबोध्य उक्तिरियम् ।
वृद्धस्य राज्ञः धृराष्ट्रस्य ।
कृष्टा इति--तव भीमस्य तव अर्जुनस्य तस्य राज्ञो युधिष्ठिरस्य वा पशोस्तयोर्नकुलसहदेवयोर्वा पश्वोर्भार्या, भुवनपतेर्मम आज्ञया नृपतीनां समक्षं द्यूतदासी केशेषु कृष्टा ।
ये नरेन्द्रा युष्माभिर्हतास्तैस्तादृशे वैरानुबन्धे किमपकृतं तद्वद ।
तान् जित्वा यो दर्पः स किं मामजित्वेति काकुध्वनिविशेषवशाज् जित्वैव दर्प इति गम्यते ।
मां कीदृशम् ? बाह्वोर्वोर्यातिभाररूपेण द्रविणेन धनेन गुरुमदम् ।
आः पापेति ।
भीमदुर्योधनयोः परस्परं प्रति उक्तिः ।
राजा दुर्योधनः ।
अत्र द्वयोरेव रोषभाषणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
व्यवसायश्च विज्ञेयःत प्रतिज्ञाहेतुसंभवः ।
यथा तत्रैव---"भीमः---
निहताशेषकौरव्यः क्षीबो दुःशासनासृजा ।
भङ्क्ता दुर्योधनस्यौर्वोर्भोमो ऽयं शिरसा नतः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) व्यवसायरूपमङ्गमाह---व्यवसायश्च इति ।
प्रतिज्ञाहेतोः प्रतिज्ञार्थस्य संभवो निष्पत्तिः, तत्कथनमित्यर्थः ।
निहतेति ।
क्षीबो मत्तः ।
असृजा शोणितेन ।
भङ्क्ता भङ्गकर्त्ता ।
********** एन्द् ओf चोम्मेन्तर्य् **********
द्रवो गुरुव्यतिक्रान्तिः शोकावेगादिसम्भवा

6.104

यथा तत्रैव---"युधिष्ठिरः---भगवन् ! कृष्णाग्रज ! सुभद्राभ्रातः ! ज्ञातिप्रीतिर्मनसि न कृता, क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन ।
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः को ऽयं पन्था यदसि विमुखो मन्दभाग्ये मयि त्वम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) द्रवरूपमङ्गमाह--द्रव इति ।
गुरोर्व्यतिक्रान्तिः भर्त्सनमित्यर्थः ।
भगवन् इत्यादि ।
युधिष्ठिरस्य दुर्योधनानुरागक्रुद्धबलभद्रभर्त्सनमिदम् ।
कृष्णग्रजेति सुभद्राभ्रातरिति च द्वयं स्वपक्षानुरागौचित्याय सम्बन्धप्रदर्शनम् ।
ज्ञातिप्रीतिरिति ।
ज्ञातयो वयम् ।
क्षत्रियाणां धर्मो ऽपि मनसि न कृत इत्यर्थः ।
अयुध्यमानवधवैमुख्यं हि क्षत्रियाणां धर्मः ।
वयं ह्ययुध्यमानाः ।
तवानुजस्य श्रीकृष्णस्य अर्जुनेन सह रूढं तत्सख्यमपि न गणितम् ।
शिष्ययोर्भोमदुर्योधनयोस्तुल्यः स्नेहानुबन्धः ।
कामं यथेष्टम् ।
भवतु वरम् ।
यन्मन्दभाग्ये मयि त्वं विमुखः ।
को ऽयं पान्यथाः इत्यर्थः ।
अत्र गुरोर्बलभद्रस्य युधिष्ठिरेण भर्त्सनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तर्जनोद्वेजने प्रोक्ता द्युतिः---
यथा तत्रैव दुर्योधनं प्रति कुमारवृकोदरेणोक्तम्----
जन्मेन्दोविमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुः शासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे ।
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे त्रासान्मे नृ-पशो ! विहाय समरं पङ्के ऽधुना लीयसे ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) द्युतिरूपाङ्गलक्षणमाह---तर्ज्जनेति ।
कुमारेणेति ।
भीमेनेत्यर्थः ।
क्वचित् कुमारवृकोदरेणेत्येव पाठः ।
जन्मेति ।
विमलेन्दोः कुले जन्म व्यपदिशसि ।
अद्यापि गदां धत्से दधासि ।
दुः शासनस्य कोष्णेनाल्पोष्णेन शोणितमधुना क्षीबं मत्तं मां रिपुं भाषसे ।
न तु कार्येण प्राणदातारं भाषस इत्यर्थः ।
मुधुकैटभद्विषि श्रीकृष्णे ऽपि दर्पान्धः उद्धतं साहङ्कारं चेष्टसे ।
हे नृपशो ! मे मत्तस्त्रासात् समरं विहायाधुना स त्वं कथं पङ्के लीयसे इत्यर्थः ।
अत्र कथमिति काकुगम्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---शक्तिः पुनर्भवेत् ।
विरोधस्य प्रशमनम्---
यथा तत्रैव---
"कुर्वन्त्वाप्ता हतानां रणशिरसि जना भस्मसाद् देहभारा- नश्रून्मिश्रं कथञ्चिद्ददतु जलममी बान्धवा बान्धवेभ्यः ।
मार्गन्तां ज्ञातिदेहान् हतनरगहने खण्डितान् गृध्रकङ्कैः- रस्तं भास्वान् प्रयातः सह रिपुभिरयं संह्रिन्तां बलानि ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) शक्तिरूपमङ्गमाह---शक्तिरिति ।
विरोधस्य प्रशमनं समापनकथनमित्यर्थः ।
कुर्वन्त्वाप्ता इति ।
रणशिरसि हतानां देहभारान् ।
आप्ता बान्धवाः वह्निसात् कुर्वन्त्वित्यर्थः ।
तथा अमी बान्धवाः कथञ्चित् अस्त्रैर्मिश्रं जलं बान्धवेभ्यो ददतु ।
तथा हतनरगहने गृध्रकाकैः खण्डितान् ज्ञातिदेहान् मार्गन्ताम् ।
रिपुभिः सहायं भास्वानस्तं प्रयातः, बलानि संह्रियन्तामित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---प्रसङ्गो गुरुकीर्त्तनम्

6.105

यथा मृच्छकटिकायाम्---"चाण्डालकः---एसो क्खु सागलदत्तस्स सुदो अज्जविस्मदत्तस्म णत्तिओ चालुदत्तो वावादिदुं वञ्झट्ठाणं णिज्जै एदेण किल गणिआ वसन्तसेणा सुअण्णलोहेण वावादि देत्ति ।
चारुदत्तः---(सनिर्वेदं स्वगतम्) "मखशतपरिपूतं गोत्रमुद्भासितं यत्, सदसि निविडचेत्यव्रह्मघोषैः पुरुस्तात् ।
मम निधनदशायां वर्त्तमानस्य पापैस्तदसदृशमनुष्यैर्घुष्यते घोषणायाम्" ॥
इत्यनेन चारुदत्तवधाभ्युदयानुकूलप्रसङ्गाद् गुरुकीर्त्तनमिति प्रसङ्गः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) प्रसङ्गरूपाङ्गमाह---प्रसङ्ग इति ।
चाण्डालक इति ।
हन्तुं नीयमानं चारुदत्तं दृष्ट्वा चाण्डालक आह इत्यर्थः ।
एष इति ।
एष सगरदत्तस्य सुत आर्यविश्वदत्तस्य नप्ता चारुदत्तः व्यापादयितुं वध्यस्थानं नीयते ।
एतेन किल गणिका वसन्तसेना सुवर्णलोभेन व्यापादितेति (संस्कृतम् ) ।
एतच्छ्रुत्वा चारुदत्तः स्वीयप्रशस्तकुलकीर्त्तनात् लज्जया आह---मखशतेति ।
यन्मम गोत्रं परिपूतं तथा पुरस्तात् पूर्वकाले निबिडैश्चैत्यैरुद्भटैर्ब्रह्मघोषैः सदसि उद्भाषितं सभायामुच्चैः-- स्वरेण ब्राह्मणैः प्रशस्तमित्यर्थः ।
निधनदशायां वर्त्तमानस्य मम तद्रोत्रं पापैः असदृशमनुष्यैश्चाण्डालैः वध्यघोषणायामुद्धोष्यत इत्यर्थः ।
इत्यनेन इति ।
चारुदत्तस्य वधरूपो यो घातकानामभ्युदयस्तदनुकूल इत्यर्थः ।
तत्कुलघातकस्यैव घातकानाम् इष्टत्वात् गुरुकीर्त्तनम् ।
वध्यस्य पितृपितामहादिकीर्त्तनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
मनश्चेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः ।
मनः समुत्पन्नो यथा मालतीमाधवे---
दलति हृदयं गाढोद्वेगो द्विधा न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः, करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी, न कृन्तति जीवितम् ॥
एवं चेष्टासमुत्पन्नो ऽपि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) खेदरूपमङ्गमाह---मनश्चेष्टेति ।
दललीति ।
कपालकुण्डलापहृतमालतीशोकात् माधवस्योक्तिरियम् ।
न विदीर्यते न तु द्विखण्डं भवतीत्यर्थः ।
विकलः कायो मोहं वहतीत्यन्वयः ।
न कृन्तति न छिनत्ति ।
एवं चेष्टेति ।
स्त्रस्तांशावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा- दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बद्धं कर्णशिरीषरोधिवदने घर्माम्भसां जालकम् बन्धे स्त्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्द्धजाः ॥
इति घटोत्क्षेपणचेष्टया शकुन्तलायाः श्रमः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ईप्सितार्थप्रतीघातः प्रतिषेध इतीष्यते

6.106

यथा मम प्रभावत्यां विदूषकं प्रति प्रद्युम्नः---सखे ! कथमिह त्वमेकाकी वर्त्तसे ? क्व नु पुनः प्रियसखीजनानुगम्यमाना प्रियतमा मे प्रभावती ? विदूषकः- असुर वैणा आआरिअ कहिं वि णीदा ।
प्रद्युम्नः---(दीर्घं निश्वस्य ) हा पूर्णचन्द्रमुखि ! मत्तचकोरनेत्रे ! मामानताङ्गि ! परिहाय कुतो गतासि ?" ।
गच्छ त्वमद्य ननु जीवित ! तूर्णमेव दैवं कदर्थनपरं कृतकृत्यमस्तु ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) प्रतिषेधरूपमङ्गमाह---ईप्सितेति ।
असुरवैणेति---असुरपतिना आकृष्य कुत्रापि नीता इति संस्कृतम् ।
हा पूर्णचन्द्र इति पूर्वार्धे प्रियां सम्बोध्य शोचित्वापरार्द्धे जीवितं सम्बोध्य आह गच्छ त्वमद्यति ।
तत्र एव कदर्थनपरं दैवं कृतकृत्यमस्तु इत्यर्थः ।
अत्रेप्सितस्य प्रभावतीसमागमस्य प्रतिघातः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कार्यात्ययोपगमनं विहोधनमिति स्मृतम् ।
यथा वेण्याम्---युधिष्ठिरः---
तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निवृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् ।
भीमेन प्रियसाहसेन रभासादल्पावशेषे जये सर्व जीवितसंशयं वयममी वाचा समारोपिताः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) निरोधरूपमङ्गमाह---कार्य्यत्ययेति ।
उद्देश्यकार्य्यस्यात्ययोपगमनं भवनमित्यर्थः ।
तीर्णे इति ।
दुर्य्योधनेन समं गदायुद्धे भीमेनोक्तम् ।
मत्पराजये सर्वेषां भ्रातॄणां पराजय इति ।
इदं श्रुत्वा युधिष्ठिरस्य स्वजयरूपकार्य्यस्यात्ययो भावनीमदम् ।
अल्पावशेषे जये प्रियसाहसेन भीमेन सर्वे वयं जीवितसंशयं प्रापिता इत्यन्वयः ।
जयस्याल्पावशेषत्वं दर्शयति---तीर्ण इति ।
निर्वृत शान्ते ।
कर्णाशीविषेति ।
आशीदन्तस्तत्र विषं यस्य ।
कर्णरूपे तादृशे भोगिनि सर्पे इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी

6.107

यथा वेण्याम्---"पाञ्चालकः--अहं देवेन चक्रपाणिना सहितः---" इत्युपक्रम्य कृतं सन्देहेन ।
पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णात्यन्तचिरोज्झिते तु कबरीबन्धे करोतु क्षणम् ।
रामे शातकुठारभास्वरकरे क्षत्रद्रुमोच्छेदिनि क्रमधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) प्ररोचनारूपमङ्गमाह---प्ररोचना त्विति ।
संहारार्थप्रदर्शिनीति ।
कार्य्योपसंहारप्रदर्शिनी वाक् इत्यर्थः ।
पूर्य्यन्तामिति ।
गदायुद्धे भीमजयजिज्ञासार्थं कृष्णेन प्रहितस्य पाञ्चालकस्य युधिष्ठिरं प्रति उक्तिरियम् ।
ते तव राज्याभिषेकाय पूर्य्यन्तामित्यन्वयः ।
अत्यन्तचिरोज्झिते ऽपि कबरीबन्धे कृष्णा द्रौपदी क्षणमुत्सवं करोतु इत्यन्वयः ।
भीमस्य जयसंशये कथमेतत् स्यादित्याह ।
राम इति ।
शातकुठारेण भासुरकरे क्षत्ररूपद्रुमोच्छेदिनि रामे परशुरामे वृकोदरे च क्रोधान्धे आजौ परिपतति गच्छति सति कुतो जयसंशय इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कार्यसंग्रह आदानम्---
यथा वेण्याम्---"भो भोः समन्तपञ्चकचारिणः ! ।
नाहं रक्षो न भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियो ऽस्मि ।
भो भो राजन्यवीराः ! समरशिखिशिखाभुक्तशेषाः ! कृतं व--
स्त्रासेनानेन लीनैर्हतकरितुरगान्तहितैरास्यते यत् ॥
अत्र समस्तरिपुवधकार्यस्य संकृहीतत्वादादानम् ---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) आदानरूपाङ्गलक्षणमाह---कार्य्यसंग्रह इति ।
उद्देश्यकार्य्यस्य संग्रहः प्राप्तिरित्यर्थः ।
नाहं भूत इति ।
देवयोनिप्राणिविशेषो भूतो नाहमित्यर्थः ।
अत एव पुंलिङ्गता ।
भूतो ऽमी देवयोनय इति कोषात् ।
तर्हि कस्त्वमिति अत्राह---रिपुरुधिरेति ।
क्रोधनःसन् रिपुरुधिरजलेन क्लेदिताङ्गः प्रीणिताङ्गः सन् प्रकामं यथेष्टं निस्तीर्णः महाप्रतिज्ञारूपे जलनिधित्वं वनत्वं च रूपितं बोध्यम् ।
भो भोः समररूपाग्निशिखया भुक्तशेषा राजन्यवीराः ! वो युष्माकमनेन आसेन कृतमलम् ।
अयं आसो व्यर्थः ।
मया यूयं न हन्तव्या इत्यर्थः ।
आसः कथं ज्ञात इत्यत्राह--हतेति ।
यद् यद् हतकरितुरगान्तर्हितैर्युष्माभिरास्यते स्थीयते ।
अत्रेति ।
समस्तरिपुवधरूपस्य कार्य्यस्य संगृहीतत्वात् प्राप्तत्वादित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तदाहुश्छादनं पुनः ।
कार्यार्थमपमानादेः सहनं खलु यद्भवेत्

6.108

यथा तत्रैव---अर्जुनः-आर्य ! प्रसीद किमत्रक्रोधेन--
अप्रियाणि करोत्वेष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) अपमानादेरित्यादि पदाद् व्द्युरुक्तिपरिग्रहः ।
आप्रियाणीति ।
एष दुर्य्योधनः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ निर्वहणाङ्गानि ।
सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् ।
कृतिः तप्रसाद आनन्दः समयो ऽप्युपगूहनम्

6.109

भाषणं पूर्ववाक्यञ्च काव्यसंहार एव च ।
प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः

6.110

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) निर्वहणसन्धेश्चतुर्दशाङ्गान्याह---सन्धिर्विबोध इत्यादि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र---
बीजोपगमनं सन्धिः---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) तत्र सन्धिरूपाङ्गमाह---बीजोपगमनमिति ।
प्रतिज्ञातार्थरूपस्य बीजस्य सिद्ध्या तत्स्मरणमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा तत्रैव (वेण्याम्)---"भीमः-भवति ! यज्ञवेदिसम्भवे ! स्मरति भवती यन्मयोक्तम्--"चञ्चद्भुजे" त्यादि" ।
अनेन मुखे क्षिप्तबीजस्य पुनरुपगमनमिति सन्धिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) कौरवशतं हत्वा भवति यज्ञेत्यादिकं भीमस्योक्तिः ।
चञ्चद्भुजेत्यादिकं प्राग् व्याख्यातम् ।
अनेनेति ।
मुखे प्रथमतः क्षिप्तमुपन्यस्तं प्रतिज्ञया बोधितं बीजं प्रतिज्ञातार्थरूपं पुनरुपगतं ज्ञापितमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---विबोधः कार्यमार्गणम् ।
यथा तत्रैव---"भीमः--मुञ्चतु मामार्यः क्षणमेकम् ।
युधिष्ठिरः--किमपरमवशिष्टम् ? भीमः--सुमहदवशिष्टम् ।
संयमयामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् ।
युधिष्ठिरः--गच्छतु भवान्, अनुभवतु तपस्विनी वेणीसंहारम्" इति ।
अनेन केशसंथमनकार्यस्यान्वेषणाद्विबोधः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) विबोधरूपमङ्गमाह---विबोध इति ।
कार्य्यमार्गणं कार्य्यस्यान्वेषणम् ।
केशहस्तमिति ।
केशकलापं "पाशश्च पक्षश्च हस्तश्च कलापार्थाः ।
कचात् परे ।
" इति कोषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उपन्यासस्तु कार्याणां ग्रथनं---
यथा तत्रैव---भीमः--पाञ्चालि ! न खलु मयि जीवति सहर्ंत्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् ।
तिष्ठ, स्वयमेवाहं संहरमि " इति ।
अनेन कार्यस्योपक्षेपाद्रग्रथनम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) उपन्यासरूपमङ्गमाह---उपन्यास इति ।
ग्रथनं करिष्यमाणकार्य्यकथनम् ।
विलुलिता विशकलीकृता ।
उपक्षेपात् करिष्यमाणतयोपन्यासात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---निर्णयः पुनः

6.111

अनुभूतार्थकथनं---
यथा तत्रैव, भीमः--देव अजातशत्रो ! अद्यापि दुर्योधनहतकः ।
मया हि तस्य दुरात्मनः--
भूमौ क्षिप्तं शरीरं निहतमिदमसृक्चन्दनाभं निजाङ्गे तक्ष्मीरार्ये निषक्ता चतुरुदधिपयः सीमया सार्द्धमुर्व्या ।
भृत्या मित्राणि योधाः कुरुकुलमनुजा दग्धमेतद्रणाग्नौ नामैकं यद्ब्रवीषि क्षितिप ! तदधुना धार्त्तराष्टस्य शेषम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) निर्णयरूपमङ्गमाह---निर्णय इति ।
अजातशत्रो इति युधिष्ठिरस्यापरं नाम ।
भूमौ क्षिप्तमिति ।
तस्य दुरात्मनो दुर्य्योधनस्य शरीरं मया भूमौ क्षिप्तं पातितम् ।
तस्येदमसृक् निजाङ्गं चन्दनाभं चन्दनवन्निहितम् ।
चतुरुदधिपयः सीमया उर्व्या सार्द्धम् ।
आर्य्ये! त्वयि लक्ष्मीर्नियुक्ता ।
रणाग्नवेतद्दग्धम् ।
तदेव किमितीत्याह---भृत्या इत्यादि ।
भृत्याद्याः कुरुकुलमनुजाः इत्यन्वयः ।
हे क्षितिप ! धार्त्तराष्ट्रस्य यन्नाम ब्रवीषि अधुना तदेव शेषमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---वदन्ति परिभाषणम् ।
परिवादकृतं वाक्यम्---
यथा शाकुन्तले--राजा आर्ये ! अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ? ।
तापसी---
को तस्स धम्मदारपरिट्टाइणो णामं गेण्हिस्सदि" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) परिभाषणरूपमङ्गमाह---वदन्तीति ।
परिवादेति परिवादेनार्थेन कृतं वाक्यं परिवादार्थकं वाक्यमित्यर्थः ।
आर्य्ये ! अथ सेत्यादिपृच्छा दुर्वाससः शापाधीनविस्मरणकृतशकुन्तलापरित्यागस्य पश्चात्तां स्मृत्वा तामनासाद्य विरहिणः स्वर्गादागच्छतस्तापसीमुखात् तत्प्रसङ्गं श्रुत्वा दुष्मन्तस्य ।
को तस्सेति ।
कस्तस्य धर्मदारपरित्यागिनो नाम ग्रहीष्यतीति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---लब्धार्थशमनं कृतिः

6.112

यथा वेण्याम्--"कृष्णः--एते भगवन्तो व्यास--वाल्मीकिप्रभृतयो ऽभिषेकं धारयन्तस्तिष्ठन्ति" इति ।
अनेन प्राप्तराज्यस्याभिषेकमङ्गलैः स्थिरीकरणं कृतिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) कृतिरूपमङ्गमाह---लब्धानुगमनमिति ।
अनुगमनं स्थिरीकरणम् ।
अभिषेकं धारयन्तः प्रापयन्तः ।
धारयन्तीति क्वचित् पाठः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
शुश्रूषादिः प्रसादः स्यात्---
यथा तत्रैव भीमेन द्रौपद्याः केशसंयमनम् ।
---आनन्दो वाञ्छितागमः ।
यथा तत्रैव---"द्रौपदी---विसुमरिदं एदं वावारं णाधस्स पसादेण पुणो वि सिक्खिस्सं" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) आनन्दरूपाङ्गमाह---आनन्द इति ।
विसुमरिदं इति ।
विस्मृतमिमं व्यापारं नाथस्य प्रसादेन पुनरपि शिक्षिष्ये इति संस्कृतम् ।
व्यापारः केशसंयमनरूपः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
समयो दुःखनिर्याणां---
यथा रत्नावल्याम्--"वासवदत्ता---(रत्नावलीमालिङ्ग्य) समस्सस बहिणिए ! समस्सस" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) समयरूपमङ्गमाह---समय इति ।
समस्सस इति ।
समाश्वसिहि भगिनि ! समाश्वसिहीति संस्कृतम् ।
इयं सागरिकायाः मातुलकन्यकात्वेन परिचये सति वासवदत्ताया उक्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---तद्भवेदुपगूहनम्

6.113

यत् स्यादद्भुतसम्प्राप्तिः--
यथा मम प्रभावत्यां नारददर्शनात् प्रद्युम्न ऊर्द्ध्वमवलोक्य---
दधद्विद्युल्लेखामिव कुसुममालां मरिमलभ्रमद्भृङ्गश्रेणीध्वनिभिरुपगीतां तत इतः ।
दिगन्तं ज्योतिभिस्तुहिनकरगौरैर्धवलयन्नितः कैलासाद्रिः पतति वियतः किं पुनरिदम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) उपगूहनरूपमङ्गमाह---तद्भवेदिति ।
अद्भुतसंप्राप्तिः अद्भुतदर्शनम् ।
दधदित्यादि ।
कैलासाद्रेरित्यपाये पञ्चमी ।
तथा च कैलासाद्रेरपेतो वियतो वियतो ऽवधेः पतति कश्चित् पदार्थ इति शेषः ।
कैलासाद्रिरिति क्वचित् प्रामादिकः पाठः ।
तस्य कुसुममालाधारणाभावात् ।
कीदृशः पदार्थः ? विद्युल्लेखामिव कुसुममालां दधत् ।
मालां कीदृशी ? परिमलेन तत इतो भ्रमन्तीनां भृङ्गश्रेणीनां ध्वनिभिरुपगीताम् ।
पदार्थश्च कीदृशः ? तुहिनकरगौरैर्ज्योतिर्भिर्दिगन्तं शवलयन् ।
दिगन्तस्यापि श्यामत्वेन धवलज्योतिर्मिश्रणात् शवलता ।
अतः किं पुनरिदमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---सामदानादि भाषण्म् ।
यथा चण्डकौशिके--"धर्मः---तदेहि धर्मलोकमधितिष्ठ" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(पि, फ) भाषणरूपमङ्गमाह---सामदानेति ।
सम्प्रदानस्य शान्तत्वं सामतेन दानम् ।
आदिपदाद् दातुर्मुक्तिर्वा इति ।
यत्तु संग्रहरूपस्य गर्भसन्धङ्गस्य सामदानार्थसम्पत्तिरिति लक्षणम्, तत्र दातुरेव सामप्रीतिरर्थश्च धनमिति भेदः ।
धर्मलोकं धर्म्मार्ज्जितं लोकम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम्

6.114

यथा वेण्याम्--भीमः--बुद्धैमतिके ! क्व सा भानुमती ।
परिभवतु सम्प्रति पाण्डवदारान्" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) पूर्ववाक्यरूपमङ्गमाह---पूर्ववाक्यं त्विति ।
यथोक्तार्थोपदर्शनम् परेण यथोक्तकटुवाक्यस्य स्मरणमित्यर्थः ।
भानुमती दुर्य्योधनस्य पत्नी तथा दासीद्वारा प्राक् कटूक्तिः कृता ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते ।
यथा सर्वत्र---किं ते भूयः प्रियमुपकरोमि" ।
इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) काव्यसंहाररूपमङ्गमाह---वरप्रदानेति ।
वरप्रदानार्थं संप्रप्तिस्तत्कालोपस्थितिरित्यर्थः ।
सर्वत्रेति ।
सर्वनाटकान्ते इत्यर्थः ।
किन्ते इत्यादिना हि वरप्रदानार्थं तत्कालोपस्थितिर्लभ्यते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते

6.115

यथा प्रभावत्याम्---
राजानः सुतनिर्विशेषमधुना पश्यन्तु नित्यं प्रजा जीयसुः सदसद्विवेकपटवः सन्तो गुणग्राहिणः सस्यस्वर्णसमृद्धयः समधिकाः सन्तु क्षमामण्डले भूयादव्यभिचारिणी त्रिजगतो भक्तिश्च नारायणो ॥
अत्र चोपसंहारप्रशस्त्योरन्त एकेन क्रमेणैव स्थितिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) प्रशस्तिरूपमङ्गमाह---नृपदेशादीति ।
नृपस्य देशादः शान्तिः स्वस्त्ययनमाशीर्वाद इत्यर्थः ।
राजान इत्यादि ।
अधुना सुतनिर्विशेषं यथा स्यात् तथा राजानः प्रजाः पश्यन्तु ।
गुणग्राहिणः सन्तः शिष्टा जीयासुः उत्कर्षभाजो भवन्तु, यतस्ते सदसद्विवेकपटवः ।
क्षमामण्डले शस्यानां सुवर्णानाञ्च समृद्धयः समधिकाः सन्तु ।
नारायणे चाव्यभिचारिणी अकादाचित्की भक्तिः त्रिजगतां भूयादिति नृपदेशादिशान्तिः ।
अत्र चेति---काव्यसंहाररूपमङ्गोपसंहारः ।
अनेनाटकान्ते उपसंहारप्रशस्त्योर्निर्दिष्टक्रमणैवोपस्थितिरित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
"इह च मुखसंधौ उपक्षेपपरिन्यासयुक्त्युद्भेदसमाधानानां प्रतिमुखे च परिसर्पणप्रगमनवज्रोपन्यासपुष्पाणां गर्भे ऽभूताहरणमर्गत्रो (तो) टकाधिबलक्षेपाणां विमर्शे ऽपवादशक्तिव्यवसायप्ररोचनादानानां प्राधन्यम् ।
अन्येषां च यथासम्भवं स्थितिः" इति केचित् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) सन्धिषु यान्यङ्गान्युक्तानि तेषु कतिचित् अङ्गान्येव आवश्यकत्वेन प्रधानानीति केचिदाहुः ।
सन्धौ सन्धौ च तानि दर्शयति ।
इह चेति ।
केचिदिति अस्वरसः ।
सर्वेषामङ्गानामनियमे नानावश्यकत्वदर्शनादुपसंहारप्रशस्त्योरेवावश्यकत्वदर्शनात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
चतुःषष्टिविधं ह्येतदङ्गं प्रोक्तं मनीषिभिः ।
कुर्यादनियते तस्य संधावपि निवेशनम्

6.116

रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता ।
यथा वेहीसंहारे तृतीयाङ्के दुर्योधनकर्णयोर्महत्संप्रधारणम् ।
एवमन्यत्रापि ।
यत्तु रुद्रटादिभिः "नियम एव " इत्युक्तं तल्लक्ष्याविरुद्धम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) चतुः षष्टिरिति ।
प्रार्थनाप्रशस्त्योर्मतभेदेन वैकल्पिकत्वस्योक्तत्वात् ।
समुच्चये तु पञ्चषष्टित्वापत्तेरित्युक्तं प्रगेव ।
सन्धीनामुक्तान्यङ्गानि ।
प्रायिकत्वाभिप्रायेणैवोक्तानि ।
रसानुगुणानुरोधेन तु एकसन्धेरङ्गनि अन्यसन्धावपि कुर्य्यादित्याह---कुर्य्यादनियते इति ।
अनियते सन्धवपि तस्याङ्गस्य निवेशनं कुर्य्यात् इत्यन्वयः ।
संप्रधारणमिति ।
मुखसन्धेर्युक्तिरूपमङ्गसंप्रधारणं तच्च गर्भसन्धावपि कृतमित्यर्थः ।
तत्र दुर्य्योधनकर्णाभ्यां युक्तिकरणात् ।
तल्लक्ष्यविरुद्धमिति ।
लक्ष्येषु उदाहरणनाटकेषु अनियमदर्शनात् विरुद्धमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
इष्टार्थरचनाश्चर्यलाभो वृत्तान्तविस्तरः

6.117

रागप्राप्तिः प्रयोगस्य गोष्यानां गोपनं तथा ।
प्रकाशनं प्रकाश्यानामङ्गानां षड्विधं फलम्

6.118

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) इदानीमुक्ताङ्गानां यथासम्भवं षट् फलान्याह ।
इष्टानुसरणेति ।
इष्टस्यार्थस्यानुसरणमित्यर्थः ।
इष्टार्थरचनेति ।
इष्टानुहरणेति क्वचित् पाठः ।
आश्चर्य्यलाभो ऽद्भुतवस्तुलाभ इत्यर्थः ।
वृत्तान्तस्य विस्तरेण ज्ञानम् ।
रागप्राप्तिरनुरागलाभः ।
गोप्यानामर्थानां संगोपनम् ।
प्रकाश्यानामर्थानां प्रकाशनञ्चेति प्रयोगस्य मुखसन्ध्यादिप्रयोगस्य अङ्गानामुपक्षेपाद्यङ्गानां षट् फलानीत्यर्थः ।
यथा काव्यार्थेत्पत्तिरूपस्य उपक्षेपरूपस्य मुखसन्ध्यङ्गस्य इष्टानुसरणं फलम् ।
एवमन्याङ्गानामन्यानि पञ्चफलानि यथासम्भवं नाटकेषुअनुसन्धेयानि ।
लोचना:
(लो, ई) यद्वस्तु गोपयितुमिष्टं तदङ्गस्वरूपविज्ञापनेन सुखेन गोपयितु एवं प्रकाश्यानां प्रकाशश्चेत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् ।
अङ्गहीनं तथा काव्यं न प्रयोगाय युज्यते

6.119

संपादयेतां संध्यङ्गं नायकप्रतिनायकौ ।
तदभावे पताकाद्यस्तदभावे तथेतरत्

6.120

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) नाट्ये प्रयोगे ऽङ्गानामावश्यकत्वमाह---अङ्गहीन इति ।
नारम्भक्षमः न कार्य्यारम्भक्षमः ।
सम्पादयेतामिति ।
अनेन सन्ध्यङ्गनिर्वाहकौ प्रथमतो नायकप्रतिनायकावेवेति उक्तम् ।
तदभावे क्वचित् ताभ्यामनिर्वाहे पताकाद्यास्तन्निर्वाहकाः ।
पताका च "व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिदीयते ।
ऽ; इत्यनेन नायकस्य वृत्तं पताकेत्युक्तम् ।
अत्र च तत्सम्बन्धात् नायकसहाय एव तत्त्वेनोक्तः ।
तदाद्यास्तन्निर्वाहकाः ।
आद्यपदात् नायिकासहायाः, तैरप्यनिर्वाह्यं यत् ।
इतरो ऽपि तन्निर्वाहक इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रायेण प्रधानपुरुषप्रयोज्यानि सन्ध्यङ्गानि भवन्ति ।
किन्तूपक्षेपादित्रयं बीजस्याल्पमात्रसमुद्दिष्टत्वादप्रधानपुरुषप्रयोजितमेव साधु ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) उपक्षेपाद्यङ्गत्रयस्य च प्रधाननायकेतरेण समुद्दिष्टत्वे एव साधुता इत्याह--किन्तूपक्षेपेति ।
तत्र हेतुमाह---बीजस्येति ।
प्रधानेतिवृत्तरूपस्य काव्यार्थस्य यन्मूलं तद्वीजं तस्याल्पमात्रसमुद्देशस्योपक्षेपकाद्यङ्गत्रयेण कृतत्वादप्रधानपुरुषभीमसेनादिसमुद्दिष्टत्वमेव साध्वित्यर्थः ।
प्रधानपुरुषस्य धीरोदात्तत्वेन कर्त्तव्येतिवृत्तबीजसमुद्देशस्य अल्पस्यापि तेन करणानौचित्याद् इति भावः ।
तथा हि काव्यार्थस्य समुत्पत्तिरूपं यदुपक्षेपरूपमङ्गं तेन वेण्यां लाक्षागृहानलेत्यादि भीमोक्त्या कुरुकुलवधरूपकाव्यार्थस्य तस्य बीजसमुत्पत्तिः प्रतिपादिता ।
समुत्पन्नार्थबाहुल्यं यत्परिकरात्मकमङ्गं तेन "प्रवृद्धं यद्वैरं ममऽ; इत्यादि भीमोक्त्या तद् बाहुल्यं प्रतिपादितम् ।
काव्यार्थनिष्पत्तिकथनरूपं यत् परिन्यासात्मकमङ्गं तेन "चञ्चद् भुजेऽ; त्यादिभीमोक्त्या निष्पत्तिः प्रतिपादिता ।
एतत् त्रयञ्च प्रधाननायकोक्तं तदधीरतापदकं स्यात् ।
नच समुत्पन्नार्थबाहुल्यकाव्यार्थनिष्पत्त्योः कथं बीजस्याल्पसमुद्दिष्टत्वमिति वाच्यम् ।
असमस्तोद्दिष्टस्यैवाल्पोद्दिष्टत्वमित्यभिप्रायात् ।
बीजोद्देशमात्रादेव नायकस्य धीरोदात्तत्वभङ्ग इत्यत्र एव तात्पर्य्यात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
रसव्यक्तिमपेक्ष्यैषामङ्गानां संनिवेशनम् ।
न तु केवलया शास्त्रस्थितिसंपादनेच्छया

6.121

तथा च यद्वेण्यां दुर्योधनस्य भानुमत्या सह विप्रलम्भो दर्शितः, तत्ताद्दशे ऽवसरे ऽत्यन्तमनुचितम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) रसव्यक्तिमिति ।
तत्सन्धीनां यान्यङ्गन्युक्तानि ।
तानि तत्रैवेति नियमः ।
किन्तु रसव्यञ्जनापेक्षया एव एषां निवेशनं न तु नाट्यसास्त्रोक्तस्थितिसम्पादनेच्छया इत्यर्थः ।
यद्यपीदं प्रागप्युक्तं तथापि रसव्यक्त्यनपेक्षया करणे दोष त्वप्रतिपादनाय पुररूक्तम् ।
तदाह--तथा चेति ।
रसव्यक्त्यनपेक्षया निवेशनं तु नोचितमेवेत्यर्थः ।
तादृशे ऽवसरे इति ।
वीररसे इत्यर्थः ।
न चाङ्गसन्निवेशनानौचित्ये दर्शयितव्ये रसनिवेशनानौचित्यप्रदर्शनमिदमसम्बद्धमिति वाच्यम् ।
अङ्गहीनरसाभावेन विप्रलम्भप्रदर्शनादेव तदङ्गस्यापि प्रदर्शनात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अविरुद्धं तु यद्वृत्तं रसादिव्यक्तये ऽधिकम् ।
तदष्यन्यथयेद्धीमान्न वदेद्वा कदाचन

6.122

अनयोरुदाहरणं सत्प्रबन्धेष्वभिव्यक्तमेव ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) स्वविरुद्धमिति ।
स्वस्योपक्रान्तवृत्तस्य विरुद्धमधिकं यद् वृत्तं वृत्तान्तः तदपि रसाभिव्यक्तये ऽन्यथयेदुपक्रान्तरसाविरुद्धतया प्रतिपादयेत् ।
तदसम्बे तु न वदेदितियर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ वृत्तयः---
शृङ्गारे कौशिकी वीरे सात्त्वत्यारभटी पुनः ।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती

6.123

चतस्त्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृकाः ।
स्युर्नायिकादिव्यापारविशेषा नाटकादिषु

6.124

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) अथ वृत्तय इति ।
शृङ्गार इति ।
नायकादीनां व्यापारविशेषाश्चतस्त्रो वृत्तयो नाटकादिषु नाटकप्रकरणादिदशरूपकेषु नाटिकाद्यष्टादशोपरूपकेषु च सर्वनाट्यस्य मातृका मूलभूताः जनन्य इत्यर्थः ।
नायकादीत्यादिपदात् समस्तपात्रपरिग्रहः ।
तेन वक्ष्यमाणोदाहरणेषु पात्रान्तरकृत्यं नानुपपन्नम् ।
तत्र रसविशेषेषु वृत्तिविशेषानाह---शृङ्गार इत्यादि ।
वीरे सात्त्वतीत्यन्वयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र कौशिकी---
या श्लक्ष्णनेपथ्यविशेषचित्रा स्त्रीसंकुला पुष्कलनृत्यगीता ।
कामोपभोगप्रभवोपचारा सा कौशिकी चारुविलासयुक्ता

6.125

लोचना:
(लो, उ) कामेन मदनेन हेतुना य उपभोगः सम्भोगस्तत्कारणानि उपचाराश्चन्द्रचन्दनघनसारादयो यस्याम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नर्म च नर्मस्फूर्जो नर्मस्फोटो ऽथ नर्मगर्भश्च ।
चत्वार्यङ्गान्यस्या---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) या श्लेक्ष्णेति---लक्षणमुत्तमम् ।
नेपथ्यं वेशः ।
स्त्रीसंकुला स्त्रीव्यापारविमिश्रिता ।
पुष्कलं बहुलम् ।
अस्या अङ्गानि चत्वारि इत्याह---नर्म चेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र---
---वैदग्ध्यक्रीहितं नर्मः

6.126

इष्टजनावर्जनकृत्तच्चापि त्रिविधं मतम् ।
विहितं शुद्धहास्येन सशृङ्गारभयेन च

6.127

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) अत्र नर्मलक्षणमाह---वैदग्ध्येति ।
वैदग्ध्येन क्रीडितमित्यर्थः ।
तत्फलमाह---इष्टेति ।
इष्टजनस्यावर्जनमनुरागेण नम्रता तत्कृद् इत्यर्थः ।
तच्च नर्मत्रिविधम् इत्याह ।
तच्चेति ।
त्रैविध्यमाह---शुद्धहास्येनेति ।
शुद्धेन सशृङ्गारेण समयेन च हास्येन विहितमिति त्रैविध्यम् ।
भयञ्च हास्यविषयं बोध्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र केवलहास्येन विहितं यथा रत्नावल्याम्---"वासवदत्ता--(फलकमुद्दिश्य सहासम्) एसा वि अवरा तव समीवे जधालिहिदा एदं किं अज्जवसन्तस्स विण्णाणम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) एसावीति ।
एषाप्यपरा तव समीपे या आलिखिता एतत् किमार्यवसन्तकस्य विज्ञानम् ? (संस्कृतम्) ।
चित्रफलके सागरिकया लिखितं राजानं दृष्ट्वा सुसङ्गतया तत्समीपे सागरिकापि लिखिता ।
तत्र लिखितं राजानं दृष्ट्वा वासवदत्तया पृष्टं केन त्वमत्र लिखिता इति ।
ततो राज्ञोक्तं शिल्पविज्ञानार्थं समुल्लिखितमिदमिति ।
ततस्तदन्तिके सागरिकां लिखितां दृष्ट्वा "एषा क्रोधेन तस्याः शृङ्गाराभावात् ।
प्रबन्धरसस्तु शृङ्गार इति तत्रेयं वृत्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सशृङ्गारहास्येन यथा शाकुन्तले--राजानं प्रति शकुन्तला--असंतुट्ठो उण किं करिस्सदि ।
राजा--
इदमं ।
(इति व्यवसितःशकुन्तलावक्त्रं ढौकते) ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) असंतुष्ठो उणेति ।
असंतुष्टः पुनः किं करिष्यति ? इति (संस्कृतम्) ननु कमलस्य मधुकरः सन्तुष्यति गन्धमात्रेण इति राज्ञ उक्त्यनन्तरं शकुन्तलाया इयं पृच्छा ।
ढौकते चुम्बनार्थम् ।
वक्त्रमाननम् आच्छादयति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सभयहास्येन यथा रत्नावल्याम्---आलेख्यदर्शनावसरे सुसंगता--जाणिदो मए एसो वुत्तन्तो समं चित्तफलएण ।
ता देवीए गदुअ निवेदैस्सम् ।
एतद्वाक्यसम्बन्धि नर्मोदाहृतम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) जाणिदो इति ।
ज्ञातो मयैष वृत्तान्तः ।
समं चित्रफलकेन ।
तद्देव्यै गत्वा निवेदयिष्यामीति (संस्कृतम्) ।
अत्र राज्ञो भीतियुक्तेन सुसङ्गताया हासेन विहितं नर्म वैदघ्ध्यक्रीडितम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एवं वेषचेष्टासम्बन्ध्यपि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) वाचा इव वेशचेष्टाभ्यामपि संभवतीत्याह---एवमिति ।
तत्र सागरिकायाः सङ्केतभङ्गार्थं तद्वेशाया वासवदत्ताया आगमने वेशेन बोध्यम् ।
क्वचित् नायिकायाश्च पलायमानादिचेष्टया आपि तद्वोध्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नर्मस्फूर्जः सुखारम्भो भयान्तो नवसंगमः ।
यथा मालविकायाम्--सङ्केतनायकमभिसृतायां "नायकः--
विसृज सुन्दरि ! सङ्गमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे ।
परिगृहण गते सहकारतां त्वमतिमुक्तलताचरितं मयि" ॥
मालविका--"भट्टा, देवीए भएण अप्पणो वि पिअ कौं ण पारेमि" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) नर्मस्फूर्जमाह---नर्मस्फुर्ज इति ।
मालविकायामिति ।
मालविकानामनाटिकायामित्यर्थः ।
सङ्केतनायकं नायकम्, नियिकायां मालविकायाम् ।
विसृजेति ।
सुन्दरि ! सङ्गमे साध्वसं भयं विसृज ।
ननु भोश्चिरात् प्रणयोन्मुखे मयि अतिमुक्तलतायाः माधवीलतायाश्चरितं गृहाण ।
मयि कीदृशे ? सहकारतां चूतवृक्षतां गते, माधविकया चूतालिङ्गनात्, तद्वत् मामालिङ्गेत्यर्थः ।
भट्टा इति ।
हे भर्त्तः ! देव्याः भयेन आत्मनो ऽपि प्रियं कर्त्तुं न पारयामि (संस्कृतम्) ।
आत्मनः प्रियमपीकत्यन्वयः ।
अत्र सुखेन सङ्गमरूपनर्मारम्भो भयान्तः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ नर्मस्फोटः---
नर्मस्फोटो भावलेशैः सूचिताल्परसा मतः

6.128

यथा मालतीमाधवे---
गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किन्त्वेतत् स्यात् किमदन्यदितो ऽथवा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥
अलसगमनादिभिर्भावलेशैर्माधवस्य मालत्यामनुरागः स्तोकः प्रकाशितः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) नर्मस्फोटमाह---नर्मस्फोट इति ।
गमनमलसमित्यादि ।
माघवस्य मालत्यां भवसूचिकेयमुक्तिः ।
अलसगमनादिकम् एतत् किन्नु तस्याः, ननु भोः किं स्यात् इतो ऽन्यत्, अथ वा कियत्स्यादित्यर्थः ।
अधिकाधिकस्यापि सम्भावनीयत्वादिति भावः ।
अधिकाधिकस्य सम्भावनीयं हेतुमाह---भ्रमति भुवन इति ।
ते ते भावा वसन्तरवेन्द्वादयः ।
अत्रोत्तरोत्तराधिकाधिकसम्भावनायां पूर्वोक्तैः सूचितस्य भावस्य लेश एवेत्याह---अलसेत्यादि ।
अलसगमनादिभिरित्यत्र अलसगमनादिभैः सूचितैरित्यर्थः ।
अनुरागो निप्रलम्भरसः ।
सम्भोगरूपनर्मेच्छावत्त्वात् अत्र नर्म ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नर्मगर्भो व्यवहतिर्नेतुः प्रच्छन्नवर्तिनः ।
यथा--तत्रैव सखीरूपधारिणा माधवेन मालत्या मरणव्यवसायवारणम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) नर्मगर्भमाह---नर्मगर्भ इति ।
प्रच्छन्नवर्त्तिनः प्रच्छन्नीभूय तिष्ठतः नेतुर्नायकस्य इत्यर्थः ।
व्यवहृतिर्व्यवसायः ।
सखीरूपेति ।
मालत्याः सखी लवङ्गिका ।
पित्रा राजाज्ञया जरते नन्दनाय दातुं कृतनिश्चया मालतीति देवतगृहे स्वमरणं प्रार्थयन्ती लवङ्गिकायाः पादे पतिता मालती ।
स्तम्भन्तरितस्थितो माधवश्च लवङ्गिकावेशेन आगत्य लवङ्गिकाम् अपसार्य तत्स्थाने स्वपादं दत्त्वा स्थितः ।
ततो मालती उत्थाया लवङ्गिकाबुद्ध्या तमालिङ्ग्य पश्चाद् दृष्ट्वा परिचीयमाना व्यवसायत् निववृते इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ सात्त्वती---
सात्त्वती बहुला सत्त्व--शौर्यत्यागदयार्जवैः

6.129

सहर्षा क्षुद्रशृङ्गारा विशोका साद्भुता तथा ।
उत्थापको ऽथ सांघात्यः संलापः परिवर्त्तकः

6.130

विशेषा इति चत्त्वारः सात्त्वत्याः परिकीर्त्तिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) सात्त्वतीं वृत्तिमाह---अथेति ।
सत्त्वादिभिः समस्तव्यस्ताल्पतरैर् बहुला तद्वैशिष्ट्यात् बाहुल्यवती हर्षाद्यन्यतरयुक्ता वृत्तिश्च सात्त्वतीत्यर्थः ।
विशोक विगतशोका ।
वीरे रसे शृङ्गारस्यानुषङ्गिकत्वेन क्षुद्रत्वम् ।
अत्र क्षुद्रशृङ्गारत्वेन स्त्रीसंकुलत्वकामोपबोगराहित्येन वीररसत्वेन कौशिकीतो विशेषः ।
अस्याः प्रभेदचतुष्टयमाह---उत्थापक इत्यादि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उत्तेजनकरी शत्रोर्वागुध्यापक उच्यते

6.131

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) उत्तेजनेति---शत्रुं जेतुं मित्रस्य उत्तेजनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा महावीरचरिते---
आनन्दाय च विस्मयाय च मया दृष्टो ऽसि दुःखाय वा वैतृष्ण्यन्तु ममापि सम्प्रति कुतस्त्वद्दर्शने चक्षुषः ।
त्वत्साङ्गत्यसुखस्य नास्मि विषयस्तत् किं वृथा व्याहृतैः ? अस्मिन् विश्रुतजामदग्न्यदमने पाणौ धनुर्जृन्भताम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) आनन्दाय चेति---परशुरामागमे रामं प्रति जनकस्य वाक्यमिदम् ।
धनुर्भङ्गेन प्रतीज्ञातार्थसिद्ध्या योग्यवरप्राप्त्या चानन्दः ।
वीर्य्यातिशयदर्शनाद् विस्मयः ।
रामं हन्तुं परशुरामागमनात् दुः खम् ।
अतो ऽद्य त्वद्दर्शने सम्प्रति एतत् क्षणे चक्षुषः कुतो वैतृष्णयम् ।
उत्कण्ठाबाहुल्यात् क्षणान्तरे ऽनिष्टनिवृत्तौ तु उत्कण्ठानिवृत्त्या वैतृष्ण्यं स्यादिति सम्प्रति पदभावार्थः ।
बहुव्याहृतैर्वा किं, यतो वैवाहिकमाङ्गल्यसुखस्य न विषयो ऽस्मि ।
अतो ऽस्मिन् विंस्मृतस्य जामदग्न्यस्य विजयनिमित्तं तव बाहौ धनुर्जृम्भतामित्यर्थः ।
अत्र परशुरामं जेतुमुत्तेजनम् ।
अत्र विस्मयवशाद् रामशौर्य्येणानन्दादिना च वैशिष्ट्यं वीरो रसः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
मन्त्रार्थदैवशक्त्यादेः साघात्यः सङ्घभेदनम् ।
मन्त्रशक्त्या यथा---मुद्राराक्षसे राक्षससायानां चाणक्येन स्वबुद्ध्या भेदनम् ।
अर्थशक्त्यापि तत्रैव ।
दैवशक्त्या यथा---रामायणो रावणाद्विभीषणस्य भेदः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) संहात्यमाह--मन्त्रार्थेति ।
मन्त्रस्य मन्त्रणार्थस्य धनस्य दैवस्यादृष्टस्य वा शक्तेः शक्तिहेतोः संघस्य सैन्यसमूहस्य भेदनमित्यर्थः ।
राक्षसः शत्रुमन्त्री; चाणक्यो राजमन्त्री; स्वबुद्ध्या स्वमन्त्रणया ।
अत्र चाणक्यस्य सत्त्वदानानेकसत्त्वं संघभेदनवशाद् वीरो रसः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
संलापः स्याद्रभीराक्तिर्नानाभावसमाश्रयः

6.132

यथा वीरचरिते---"रामः--अयं सः, यः किल सपरिवारकार्त्तिकेयविजयावजीतेन भगवता नीललोहिते परिवत्सरसहस्त्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः ।
परशुरामः--राम दाशरथे ! स एवायमार्यपादानां प्रियः परशुः ।
"इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) संलापमाह--संलाप इति ।
कार्त्तिकेयविजयावर्जितेनेति ।
तद् विजये नम्रीभूतेनेत्यर्थः ।
अत्र कौतुकेनेव विजयो न तु वास्तव इति तत्पितृप्रसादगम्यम् ।
तथापरप्रसादलब्धेन परशुना को ऽयं गर्व इति रामस्य गभीरात्मिका उक्तिः ।
परशुरामोक्तौ तत्प्रियवस्त्वपि मह्यं दत्तमिति स्वमहत्त्वख्यापनमेव गभीरता ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रारब्धादन्यकार्याणां कारणं परिवर्तकः ।
यथा वेण्याम्---"भामः---सहदेव ! गच्छ त्वं गुरुमनुवर्तस्व ।
अहमप्यस्त्रागारं प्रविश्यायुधसहायो भवामीति यावत् ।
अथवा आमन्त्रयितव्यैव मया पाञ्चाली" ।
इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) परिवर्त्तकमाह--प्रारब्धादिति ।
सहदेवेति--अत्र प्रारब्धं कार्य्यं युद्धम् ।
ततो ऽन्यत् पाञ्चाल्यामन्त्रणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथारभटी---
मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः

6.133

संयुक्ता वधबन्धाद्यैरुद्धतारभटी मता ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) अथारभटीति ।
मायेति ।
माया विद्याविशेषस्तया इन्द्रजालं परस्परविरुद्धनानावस्तुप्रदर्शनम्, संग्रमो युद्धम्, क्रोधेन उद्भ्रान्तचेष्टितम्---स्वपरंज्ञानराहित्येन चेष्टा ।
एतैर्युक्ता इत्यर्थः ।
अस्याः प्रभेदचतुष्टयमाह---
********** एन्द् ओf चोम्मेन्तर्य् **********
वस्तूत्थापनसंफैटौ संक्षिप्तिरवपातनम्

6.134

इति भेदास्तु चत्वार आरभट्याः प्रकीर्तिताः ।
मायाद्युत्थापितं वस्तु वस्तुत्थापनमुच्यते

6.135

यथोदात्तराघवे---
जीयन्ते जयिनो ऽपि सान्द्रतिमिरव्रातैर्वियद्व्यापिभिर्- भास्वन्तः सकला रवेरपि कराः कस्मादकस्मादमी ।
एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरा मुञ्चन्त्याननकंदरानलमुचस्तीव्रान् रवान् फेरवाः ॥
इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) वस्तृत्थापनलक्षणमाह--मायेति ।
जीयन्त इत्यादि ।
जयिनो ऽपि वीरा वियद्व्यापिभिर्निशीथतिमिरैः समूहैर्जोयन्ते आच्छाद्यन्ते ।
रवेरपि अमी भास्वन्तः सकलाः कराः अकस्मादकाले कस्मादच्छाद्यन्ते ।
उग्रकबन्धकण्ठरुधिरैराध्मायमानम् उत्फुल्लमानमुदरं येषां तादृशाः ।
आननरूपाभ्यः कन्दराभ्यो ऽनलमुच एते फेरवाः शृगालाश्च तीव्रान् रवान् मुञ्चन्तीत्यर्थः ।
अत्र परस्परविरुद्धालीकतिमिररविरश्म्यादिप्रदर्शनरूपमिन्द्रजालरूपवस्तु माययोत्थापितम् ।
रौद्रो रसः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
संफेटस्तु समाघातः क्रुद्धसत्वरयोर्दूयोः ।
यथा मालत्यां माधवाघोरघण्टयोः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) सम्फेटलक्षणमाह---सम्फेटस्त्विति ।
समाघातः प्रहारोक्तिः ।
क्रुद्धेति ।
क्रुद्धौ च तौ सत्वरौ चेति कर्मधारयः ।
माधवाघोरेति ।
तत्र द्वयोः क्रुद्धता ।
सत्वरता परस्परप्रहारोक्तिश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
संक्षिप्ता वस्तुरचना शिल्पैरितरथापि वा

6.136

संक्षिप्तिः स्यान्निवृत्तौ च नेतुर्नेत्रन्तरग्रहः ।
यथोदयनचरिते कलिञ्जहस्तिप्रयोगः ।
द्वितीयं यथा वालिनिवृत्त्या सुग्रीवः ।
यथा वा परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनम्--"पुण्या ब्राह्मणजातिः--ऽइति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) संक्षिप्तिलक्षणमाह--संक्षिप्तेति ।
नेतुर्नृत्यपात्रस्य एकस्य निवृत्तौ नेत्रन्तरस्य ग्रह एव संक्षिप्तवस्तुरचना ।
सा च शिल्पैरशिल्पैर्वेत्यर्थः ।
शिल्पं विलक्षणवस्तु निर्माणकौशलम् ।
किलिञ्जहस्तिप्रयोग इति ।
तत्र वास्तवस्तिरूपपात्रनिवृत्तौ शिल्पेन किलिञ्जनामहस्तिरूपपात्रप्रदर्शनम् ।
अशिल्पैराह---द्वितीयमिति ।
औद्धत्यनिवृत्त्येति ।
अत्र धर्मनिवृत्त्या धर्मिणि निवृत्तिर्बोध्या ।
औद्धत्यकालीनश्च रौद्रो रसः ।
एव सुग्रीवकिलञ्जहस्तिनोः पूर्वं रौद्रो रसो बोध्यः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रवेशत्रासनिष्क्रान्तिहर्षविद्रवसंभवम्

6.137

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) अवपातलक्षणमाह---प्रवेशेति ।
प्रवेशादिविद्रवान्तानां सम्भव उत्पादनमवपातनमित्यर्थः ।
विद्रवः पलायनम् ।
मिलितानामेषामुत्पादनम् ।
प्रविश्येति ।
तेन पुरुषेण सर्वमिदं कृतम् ।
क्रोधवशात् एतत् कारणात् रौद्रोरसः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अवपातनमित्युक्तं---
यथा कृत्यरावणो षष्ठे ऽङ्के--"(प्रविश्य खङ्गहस्तः पुरुषः)" इत्यतः प्रभृति निष्क्रमणपर्यन्तम् ।
---पूर्वमुक्तैक भारती ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) भारतीवृत्तिस्तु पूर्वमुक्तैवेत्याह---पूर्वमिति ।
भारती संस्कृतप्रायो वाग्व्यापारो नराश्रय इति ।
स्थापककृत्यप्रसङ्गेन प्रागुक्तेत्यर्थः ।
सा च सर्वसाधारण्येनेत्युक्तम् ।
रसे सर्वत्र भारती ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ नाट्योक्तयः---
अश्राव्य खलु यद्वस्तु तदिह स्वगतं मतम्

6.138

सर्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम् ।
रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते

6.139

त्रिपताककरेणान्यानपवार्यान्तरा कथाम् ।
आन्योन्यामन्त्रणं यत्स्यात्तज्जनान्ते जनान्तिकम्

6.140

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) नाट्योक्तय इति ।
नाट्ये परिभाषाविशेषा इत्यर्थः ।
तद्भवेदित्यादेः परत्रान्वयः ।
त्रिपताकेत्यादिकं जनान्तिकलक्षणम् ।
त्रिपताकलक्षणमग्रे वक्ष्यति ।
अन्तरा कथां कथामध्ये ।
तादृशेन करेणान्यमपवार्य्याच्छाद्य जनस्यान्ते अन्तिके यत् अन्योन्यामन्त्रणं कथनं, तज्जनान्तिकमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
किं व्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते ।
श्रुत्वेवानुक्तमष्यर्थं तत्स्यादाकाशभाषितम्

6.141

यः कश्चिदर्थो यस्माद्रोपनीयस्तस्यान्तरत ऊर्ध्वं सर्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तज्जनान्तिकम् ।
परावृत्यान्यस्य रहस्यकथनमपवारितम् ।
शेषं स्पष्टम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) विना पात्रमिति ।
रङ्गाप्रविष्टमुद्दिश्य इत्यर्थः ।
त्रिपताकेयादिकं व्याचष्टे---यः कश्चिदिति ।
तस्यन्तरत इति ।
तद्भिन्ने जने इत्यर्थः ।
इयं जनान्ते इत्यस्य व्याख्या ।
ऊर्द्ध्वं सर्वेति त्रिपताकव्याख्यानम् ।
अपवारितं व्याचष्टे---परावृत्त्येति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् ।
दत्तप्रयाणि वणिजां चेटचेट्योस्तथा पुनः

6.142

वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) पात्राणां नामान्याह---दत्तामिति ।
वसन्तादिषु वर्णनीयस्य वस्तुनो यन्नाम भवेत् चेटचेट्योस्तथा नाम इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वेश्या यथा वसन्तसेनादिः ।
वणिग्विष्णुदत्तादिः ।
चेटः कलहंसादिः ।
चेटी मन्दारिकादिः ।
नाम कार्यं नाटकस्य गर्भितार्थप्रकाशकम्

6.143

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) गर्भितार्थ इति ।
नाटके गर्भितः प्रतिपाद्यो योर्ऽथस्तत्प्रकाशकं नाटकस्य नाम कार्य्यमित्यर्थः ।
सूचितार्थेति क्वचित् पाठः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा रामाभ्युदयादिः ।
नायिकानायकाख्यानात्संज्ञा प्रकरणादिषु ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) नायिकानायकेति ।
प्रकरणभाणादयो ये रूपकप्रभेदास्तेषु ।
संज्ञा नायकनायिकयोराख्यानं संज्ञानामैवेत्यर्थः ।
नाटिकासट्टकादीनामिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा मालतीमाधवादिः ।
नाटिकासट्टकादीनां नायिकाभिर्विशेषणम्

6.144

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) नाटिकादीन्यष्टादशोपरूपकाणि यान्युक्तनि तेषां विशेषणं नाम काभिर्नायिकानाम्नैवेत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा रत्नावली-कर्पूरमञ्जर्यादिः ।
प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते ।
यथा शाकुन्तले--ऋषी, "गच्छावः" इत्यर्थे "साधयावस्तावत्" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) प्रायेणेति---कलापमते कारितम्, पाणिनिमते णिच् ।
तदन्तः साधधातुः गमेः स्थाने प्रायेण प्रयुज्यते इत्यर्थः ।
ऋषी इति ।
शर्ङ्गरवशारद्वतयवक्त्रोर्निदेशः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
राजा स्वमीति देवेति भृत्यैर्भट्टेति चाधमैः

6.145

राजषिभिर्वयस्येति तथा विढूषकेण च ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) राजर्षिभिरिति ।
विदूषकेण च वयस्येति राजर्षिर्वाच्य इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
राजन्नित्यृषिभिर्वाच्यः सो ऽपत्यप्रत्ययेन च

6.146

लोचना:
(लो, ऊ) अपत्यप्रत्ययेन यथा--हे राघव ! हे दाशरथे ! इत्यादि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
स्वेच्छया नामभिविप्रविप्र आर्येति चेतरैः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) राजन्निति ।
स राजा ऋषिभिः राजन्नति अपत्यप्रत्ययेन च वाच्य इत्यर्थः ।
यथानर्घराघवे ऐन्दुमतेयेति विश्वामित्रेण दशरथः ।
विप्रस्तु विप्रैः स्वेच्छया नामभिर्वाच्यः ।
इतरैस्तु आर्य्येति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विढूषकः

6.147

वाच्यौ नटीसूत्रधारावार्यनाम्ना परस्परम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) वयस्येत्यथवेति ।
विदूषको राज्ञा वयस्येति वाच्यः, अथवा नाम्नैव इति ।
वाच्यौ नटीसूत्रधारविति ।
आर्य्यनाम्ना इति ।
एकदेशे समस्तद्वयकीर्त्तनम् ।
तेन नट्या आय्यर्पुत्र इति ।
सूत्रधारेणार्य्येति वाच्यावित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सूत्रधारं वदेद्भाव इति वै पारिपार्शिवकः

6.148

सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) मारिषेति पारिपार्श्विकं वदेत् ।
हण्डे इति समास्तुल्यजनाः ।
अधमैर्हण्डेति वाच्या ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वयस्येत्युत्तमैर्हहो मध्यैरार्येति चाग्रजः

6.149

भगवन्निति वक्तव्याः सर्वैर्देवषिलिङ्गिनः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) समा उत्तमैस्तु वयस्येति ।
मध्यमैस्तु हंहो इति वाच्या इत्यर्थः ।
अग्रजः सानुजैरार्य्येत्यर्थः ।
भगवन्निति ।
देवर्षयो लिङ्गिनः परिव्राजकाश्च सर्वैरेव भगवन्निति वाच्याः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वदेद्राज्ञीं च चेटीं च भवतीति विदूषकः

6.150

आयुष्मन् रथिनं सूतो वृद्धं तातेति चेतरः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) रथिनं वृद्धसूत आयुष्मन्निति इतरस्तु तातेति वदेदित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वत्सपुत्रकतातेति नाम्ना गोत्रेण वा सुतः

6.151

लोचना:
(लो, ऋ) गोत्रेण यथा--हे कौशिक ! हे आत्रेय ! इत्यादि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
शिष्यो ऽनुजश्च वक्तव्यो ऽमात्य आर्येति चाधमैः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) वत्स पुत्रकेति ।
सुतः शिष्यो ऽनुजश्च वत्सेत्यादिभिर्वक्तव्य इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
विप्रैरयममात्येति सचिवेति च भण्यते

6.152

साधो ! इति तपस्वी च प्रशान्तश्चोच्यते बुधैः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) प्रशान्तश्चेति---शान्तो जन इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
स्वगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते

6.153

उपाध्यायेति चाचार्यो महाराजेति भूपतिः ।
स्वामीति, युवराजस्तु कुमारो भर्तृदारकः

6.154

भद्रसौम्यमुखेत्येवमधमैस्तु कुमारकः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) भूपतिर्महाराजेति ।
युवराजस्तु स्वमीते सम्बोधने वाच्य इत्यर्थः ।
एवमुत्तरत्रापि ।
कुमारो युवराजेतरः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृदारिका

6.155

पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैः स्त्रियः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) पतिर्यथेति ।
ज्येष्ठ उत्तमस्तथा चोत्तममध्यमाधमैः स्वस्त्रियः स्त्रीभिः पतिर्यथा तथा वाच्य इत्यर्थः ।
तथा चार्य्यपुत्रेति पत्युरुच्यमानत्वात् आर्य्यैति पत्या स्त्रियो वाच्या इत्यर्थः ।
लोचना:
(लो, ॠ) पतिर्यथेति ।
पतिर्येन स्वामिन्नित्युच्यते तेन तद्भार्य्या स्वामिनीति ।
येन भर्त्तोति तेन भट्टिणीते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
हलेति सदृशी, प्रेष्या हञ्जे वेश्याज्जुका तथा

6.156

कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरती जनैः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) वेश्या सम्बोधने अज्जुकेत्युच्यते इत्यर्थः ।
भट्टिन्यम्बेति ।
अनुगतैर्जनैरर्थादनुगम्यमानस्त्रीभिर्भट्टिनीत्यम्बेति चोच्यते ।
इतरैर्जनैः पूज्या वृद्धा जरतीति वाच्येत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः

6.157

लोचना:
(लो, ऌ) हे चार्वाक ! हे कोलिकेय ! इत्यादि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
शका (शक्या) दयश्च संभाष्या भद्रदत्तादिनामभिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) पाषण्डाश्च स्वसमयागतैरामन्त्रणैश्च वाच्या इत्यर्थः ।
शाक्यादयो बौद्धादयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा

6.158

तेनैव नाम्ना वाच्यो ऽसौ ज्ञेयाश्चान्ये यथोचितम् ।
अथ भाषाविभागः---
पुरुषाणामनीचानां संस्कृतं स्यात्कृतात्मनाम्

6.159

सोरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) अथ भाषेति ।
वक्तृविशेषस्य भाषाविशेष इत्यर्थः ।
पुरुषाणामिति ।
नीचेतरेषां कृतात्मनां शुद्धानां पुरुषाणामित्यन्वयः ।
शौरसेन्यादयो बह्व्यो भाषाः प्राकृतविशेषाः प्राकृतवृत्तौ अनुसन्धेयाः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत्

6.160

अत्रोक्ता मागधी भाषा राजान्तः पुरचारिणाम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) तादृशानामनीचानाम् ।
नाथा गीतयः ।
अत्रेति ।
गाथस्वित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
चेटानां राजपुत्राणां श्रेष्ठानां चार्धमगधी

6.161

प्राच्यां विदूषकादीनां, धूर्तानां स्यादवन्तिजा ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) चेटानामिति ।
श्रेष्ठिनां राजपुत्रचेटानामित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम्

6.162

शवराणां शकादानां शाबरीं संप्रयोजयेत् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) अहिदीव्यतां सर्पशेलकानां तेषां चेत्यन्वयः ।
शकारो राजशालकः ।
शकानां पार्वतीयम्लेच्छविशेषाणाम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
बाह्लीकभाषोदीच्यानां द्राविडी द्राविडादिषु

6.163

आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) पुक्तसश्चण्डालविशेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आभीरी शाबरी चापि काष्ठपात्रोपजीविषु

6.164

तथैवाङ्गारकारादौ पैशाची स्यात्पिशाचवाक् ।
चेटीनामष्यनीचानामपि स्यात्सौरसेनिका

6.165

बालानां षण्डकानां च नीचग्रहविचारिणाम् ।
उन्मत्तानामातुराणां सैव स्यात्संस्कृतं क्वचित्

6.166

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) षण्डका नपुंसकाः ।
नीचानां ग्रहविचारकाणा चेत्यन्वयः ।
सैवशौरसेनिकैव ।
क्वचिदेषां संस्कृतमपीत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ऐश्वर्येण प्रमत्तस्य दारिद्र्योपद्रुतस्य च ।
भिक्षु वल्कधरादीनां प्राकृतं संप्रयोजयेत्

6.167

संस्कृतं संप्रयोक्तव्यं लिङ्गिनीषूत्तमासु च ।
देवीमन्त्रिसुतावेश्यास्वपि कैश्चित्तथोदितम्

6.168

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) तथोदितं संस्कृतोक्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यद्देश्यं नीचपात्रन्तु तद्देश्यं तस्य भाषितम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) यद्देश्यं यद्देशीयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः

6.169

योषित्सखीबालवेश्याकितवाष्सरसां तथा ।
वैदग्ध्याथ प्रदातव्यं संस्कृतं चान्तरान्तरा

6.170

एषामुदाहरणान्याकरेषु बोद्धव्यानि ।
भाषालक्षणानि मम तातपादानां भाषार्णवे ।
षट्त्रिंशल्लक्षणान्यत्र, नाट्यालंकृतयस्तथा ।
त्रयस्त्रिंशत्प्रयोज्यानि वीथ्यङ्गानि त्रयोदश

6.171

लास्याङ्गानि दश यथालाभंरसव्यपेक्षया ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) षट्त्रिंशदिति ।
अत्र नाटकलक्षणानि सकलानि षट्त्रिंशद्धर्माणि प्रयोज्यानि इत्यर्थः ।
तथा च त्रयः त्रिंशत् नाट्यालङ्कृतयः ।
त्रयोदश वीथ्यङ्गानि, द श लास्याङ्गानि यथालाभं प्रयोज्यानि ।
तत्र षट्त्रिंशल्लक्षणानि उद्दिशतिभूषणेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथालाभं प्रयोज्यानीति सम्बन्धः ।
अत्रेति नाटके ।
तत्र लक्षणानि--
भूषणाक्षरसंघातौ शोभोदाहरणं तथा

6.172

हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः ।
निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च

6.173

दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ।
विशेषणनिरुक्ती च सिद्धिभ्रशविपर्ययौ

6.174

दाक्षिण्यानुनयौ मालार्थापत्तिर्गर्हणं तथा ।
पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनम्

6.175

लेशो मनोरथो ऽनुक्तसिद्धिः प्रियवचस्तथा ।
तत्र---
लक्षणानि गुणैः सालंकारैर्योगस्तु भूषणम्

6.176

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) लक्षणानीति ।
एतानि लक्षणसंज्ञकानि षट्त्रिंशत् इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---आक्षिपन्त्यरविन्दानि मुग्धे ! तव मुखश्रियम् ।
कोषदण्डसमग्रणां किमेषामस्ति दुष्करम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) अत्र भूषणसंज्ञकस्य लक्षणस्य लक्षणमाह--तत्र गुणैरिति ।
आभिपन्तीति ।
अरविन्दानि कर्त्तॄणि ।
आक्षिपन्ति अधिक्षिपन्ति स्पर्द्धन्ते वा ।
कोषः कुङ्भवा एवा को षो धनम् ।
दण्डो नालमेव दण्डः शास्तिः ।
अर्थश्लेषमूलोर्ऽथान्तरन्यासो ऽलङ्कारः ।
माधुर्यं च गुणः ।
लोचना:
(लो, ए) आक्षिपन्तीति---कोषः कुड्मलः द्रव्यौघश्च ।
दण्डो नालं दुष्टनिग्रहश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वर्णनाक्षरसंघातश्चित्रार्थैरक्षरैर्मितैः ।
यथा शाकुन्तले--"राजा---कच्चित्सखीं वो नातिबाधते शरीरसंतापः ।
प्रियंवदा--सम्पदं लधोसहो उअसमं गमिस्सदि" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) अक्षरसङ्घातमिति ।
वर्णनेति ।
चित्रार्थैर्मितैरक्षरैर्वर्णनेत्यर्थः ।
सम्पदमिति ।
साम्प्रतं लब्धौषध उपशमं गमिष्यतीति (संस्कृतम्) ।
अत्र त्वत्प्रप्तिरेवौषधप्राप्तिरिति भङ्ग्या कथयमानोर्ऽथश्चित्रः ।
अक्षराणि चाल्पानि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सिद्धैरर्थैः समं यत्राप्रसिद्धोर्ऽथः प्रकाशते

6.177

श्लिष्टश्लक्षणचित्रार्था सा शोभेत्यभिधीयते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) शोभालक्षणमाह---सिद्धैरिति ।
सिद्धैरुपमानभूतैरर्थैः सममेकवाक्येनैव अप्रसिद्ध उपमेयभूतोर्ऽथो विधेयान्वयार्थं प्रकाशते ।
सा शोभा कीदृशी, श्लिष्टशब्दचिह्नचित्रार्थेत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---
"संद्वंशसम्भवः शुद्धः कोटिदो ऽपि गुणान्वितः ।
कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) सद्वंशेति ।
धनुरिव क्रूरः प्रभुः काम यथेष्टं सतां वर्जनीयः ।
आवर्जनहेतुसत्त्वे ऽपि क्रौर्यात् वर्जनीय इत्यर्थः ।
द्वयोरेवावर्जनहेतून् श्लेषादाहसद्वंशेति ।
सद्वंशः सद्वेणुः सत्कुलं च ।
शुद्धः कीटाविद्धो निष्पापश्च ।
कोटि कोटिसंख्यकं धनं ददाति तथाकोट्याद्यतिगुणो ज्या शौर्यादिश्च ।
अत्र सिद्धेन धनुषा समं प्रसिद्धः क्रूरः प्रभुः विधेयवर्जनान्वयार्थं प्रकाश्यते ।
श्लेष्टशब्देन च चित्रोर्ऽथः ।
लोचना:
(लो, ऐ) सद्वंशेति ।
वंशोन्वयः पेणुश्च ।
सुद्धो निष्पापः कीटवेधादिरहितश्च ।
कोटिः संख्याविशेषः अटनी च ।
गुणः शौर्यादिः मौर्वो च ।
कूरो दारुणः कर्कशश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात्

6.178

साध्यते ऽभिमतश्चार्थस्तदुदाहरणं मतम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) उदाहरणलक्षणमाह---यत्र तुल्यार्थेति ।
प्रक्रान्तार्थतुल्यावबोधकेन वाक्येन प्रक्रान्तार्थस्यातिशयित्वप्रदर्शनात् अभिमतो ऽतिशयितत्वरूपोर्ऽथः साध्यते इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---
अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् ।
का दिनश्रीर्विनार्केण का निशा शशिना विना ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) अनुयान्त्येति ।
राममनुयान्तीं सीतां प्रति अनसूयाया उक्तिरियम् ।
जनातीतं जनेभ्यो निर्गतं वनगमनोन्मुखम् इत्यर्थः ।
विनार्केण इति ।
मेघाच्छन्नदिनश्रियोर्ऽकाभावो बोध्यः ।
अत्र सीतातुल्यार्थे दिनश्रीनिशे ।
सीतायाश्च प्रशंसारूपोतिशयो ऽभिमतस्तदुक्तवाक्येन साधितः ।
अत्र वाक्यभेदात् उपमानोपमेययोः समं प्रकाशनाभावात् श्लेषाभावाच्च पूर्वस्माद् भेदः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
हेतुर्वाक्यं समासोक्तमिष्टकृर्द्धतुदर्शनात्

6.179

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) हेतुसंज्ञकलक्षणमाह---हेतुरिति ।
समासः संक्षेपः ।
इष्टकृत् प्रतिपाद्यस्याभिमतकृद् ।
हेतुप्रदर्शनात् पृष्टार्थस्य हेतुदर्शनात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा वेण्यां भीमं प्रति "चेटी--एवं मए भणिदं भाणुमदि तुह्माणं अमुक्केसु केसेसु कहं देवीए केसा संजमिअन्तित्ति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) एवं मए इति ।
"एवं मया भणितम् ।
भानुमति ! युष्माकममुक्तेषु केशहस्तेषु कथं देव्याः केशाः संयम्यन्ते इति" (संस्कृतम्) अत्र द्रौपद्याः केशासंयमनहेतौ भानुमत्या पृष्टे सभ्रातृकदुर्योधनवधाभावे हेतौ प्रदर्शयितव्ये वैधव्यचिह्नस्य भानुमत्याः केशमोचनस्य अभावो हेतुः संक्षेपेण प्रदर्शितः, स एव च भीमस्याभिमतकृत् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
संशयो ऽज्ञाततत्त्वस्य वाक्ये स्याद्यदनिश्चयः ।
यथा ययातिविजये---
इयं स्वर्गाधिनाधस्य लक्ष्मीः किं यक्षकन्यका ।
किं चास्य विषयस्यैव देवता किमु पार्वती ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) संशयाख्यं लक्षणमाह---संशयेति ।
अज्ञाततत्त्वस्य जनस्य वाक्ये शृण्वता यदनिश्चयः स इत्यर्थः ।
यदित्यनिश्चयक्रियाविशेषणमव्ययम् ।
इयमिति ।
काञ्चिद् दिव्यकन्यकां दृष्ट्वा तत्त्वमजानतो वितर्को ऽयम् ।
स्वर्गाधिनाथस्य इन्द्रस्य लक्ष्मीः सम्पत् किम् ? किं यक्षकन्यकेत्युभयत्र किंपदार्थान्वयः ।
अस्य विषयस्य संसारस्य ।
अत्र श्रोतुरनिश्चयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दृष्टान्तो यस्तु पक्षेर्ऽथसाधनाय निदर्शनम्

6.180

यथा वेण्याम् --"सहदेवः---आर्य ! उचितमेवैतत्तस्या यतो दुर्योधनकलत्रं हि सा" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) दृष्टान्ताख्यं लक्षणमाह--दृष्टान्त इति ।
पक्षार्थस्योपन्यस्तार्थस्य साधनाय निदर्शनं हेतुप्रदर्शनम् ।
आर्य इत्यादि ।
अत्र द्रौपद्या उपन्यस्तस्य भानुमत्या दौर्जन्यस्य दुर्योधनकलत्रत्वं हेतुः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तुल्यतर्को यदर्थेन तर्कः प्रकृतिगामिना ।
यथा तत्रैव---
प्रयेणैव हि दृश्यन्ते कामं स्वप्नाः शुभाशुभाः ।
शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) तुल्यतर्काख्यं लक्षणमाह--तुल्यतर्क इति ।
प्रकृतो ऽत्र वक्ता तद्रामिनार्थेन यत्तर्क आशङ्केत्यर्थः ।
अत्रापि यदित्यव्ययम् ।
प्रायेणैव हीति ।
नकुलेनाहिशतं हत्वा भानुमत्याः स्तने क्षत इति भानुमत्या दृष्टे स्वप्रे कथिते दुर्योधनस्येयमाशङ्का ।
********** एन्द् ओf चोम्मेन्तर्य् **********
संचयोर्ऽथानुरूपो यः पदानां स पदोच्चयः

6.181

यथा शाकुन्तले---
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥
अत्र पदपदार्थयोः सौकुमार्यं सदृशमेव ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) पदोच्चयाख्यं लक्षणमाह---सञ्चय इति ।
पदानां सञ्चय इति ।
पदानां सञ्चयः समूहो योर्ऽथानुरूपः स इत्यर्थः ।
अनुरूपं चार्थस्य कोमलत्वे पदानामपि तथात्वम् ।
अधर इत्यादि राज्ञः शकुन्तलावर्णनमिदम् ।
अर्थो यथा कोमलस्तथा शब्दोच्चयो ऽपि कटुवर्णविरहात् कोमल इत्याह---अत्र पदपदार्थयोरिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परपक्षव्युदासार्थं तन्निदर्शनमुच्यते

6.182

यथा--क्षात्रधर्मोचितैर्धर्मैरलं शत्रुवधे नृपाः ।
किं तु बालिनि रामेण मुक्तो बाणः पराङ्मुखे ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) निदर्शनाख्यं लक्षणमाह---यत्रार्थानामिति सूत्रार्थः स्पष्टः ।
क्षात्रेति ।
अत्राधर्मयुद्धेन शत्रुमारणार्थं प्रसिद्धस्य रामेणान्यायेन वालिवधस्य निदर्शनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अभिप्रायस्तु सादृश्यादभूतार्थस्य कल्पना ।
यथा शाकुन्तले---
इदं किलाव्याजमनोहरं वपुस्तपः क्लमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्नधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) अभिप्रायाख्यं लक्षणमाह---अभिप्रायस्त्विति ।
अभूतार्थस्य असम्भाविनोर्ऽथस्य कल्पना आपादनम् ।
इदं किलेति ।
तपस्योचितवेशां शकुन्तलां दृष्ट्वा दुष्यन्तस्योक्तिरियम् ।
किल निश्चितमिदम् ।
अव्याजमनोहरम् अकृत्रिमरम्यं वपुः यः ऋषिः कण्वः तपः क्षमं साधयितुमिच्छति ।
ध्रुवमुत्प्रेक्षते ।
स ऋषिर्नोलोत्पलपत्रधारया शमीलतां छेत्तुं व्यवस्यतीत्यर्थः ।
अत्र लतारूपसादृश्यात् असम्भविनो नीलोत्पलपत्रधारया शमीलताछेदनस्यापादनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्राप्तिः केनचिदंशेन किञ्चिद्यत्रानुमीयते

6.183

यथा मम प्रभावत्याम्--"अनेन खलु सर्वतश्चरता चञ्चरीकेणावश्यं विदिता भविष्यति प्रियतमा मे प्रभावती" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) प्राप्त्याख्यं लक्षणमाह---प्राप्तिरिति ।
अनेनेति--चञ्चरीको भ्रमरः ।
अत्र सर्वतश्चरणांशेन प्रभावतीदर्शनानुमानम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थसाधनम् ।
यथा मम चन्द्रकलायाम्---"राजा---नूनमियमन्तः पिहितमदनविकारा वर्तते ।
यतः--
"हसति परितोषरहितं निरीक्ष्यमाणापि नेक्षते किञ्चित् ।
सख्यामुदाहरन्त्यामसमञ्जसमुत्तरं दत्ते" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) विचारलक्षणमाह---विचार इति ।
हसतीति---अन्येन निरीक्ष्यमाणपि किञ्चिन्नेक्षते ।
असमञ्जसं सख्या आकाङ्क्षानिवर्त्तकम् ।
सर्वमिदं मदनाकुलमनस्त्वात् ।
अत्र समस्तयुक्तिवाक्यैरप्रत्यक्षमदनविकारसाधनम् ।
पूर्वोक्तमनुमानं त्वंशेन इति भेदः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
देशकालस्वरूपेणा वर्णना दिष्टमुच्यते

6.184

यथा वेण्याम्--"सहदेवः--
"यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धे ऽद्य संभृतम् ।
तत्प्रावृडिव कृष्णोयं नूनं संवर्धयिष्यति" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) दिष्टाख्यं लक्षणमाह--देशेति ।
यद्वैद्युतमिति ।
आर्य्ये त्वयिभीमे ज्योतिः क्रोधजनितं स्वतेजः सम्भृतमाविष्कृतम् ।
वैद्युतं विद्युत्सम्बन्धि ।
तत्प्रावृडिवेति ।
प्रावृषा वैद्युततेजसः सम्बर्द्धनात् ।
अत्र क्रोधोचितकाले तद्वर्णनम्
********** एन्द् ओf चोम्मेन्तर्य् **********
उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः ।
यथा शाकुन्तले---
शुश्रूषस्व गुरून्, कुरु प्रियसखीवृत्तिं सपत्नीजने, भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्यष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो, वामाः कुलस्याधयः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) उपदिष्टाख्यं लक्षणमाह---उपदिष्टमिति ।
शास्त्रमत्र नीतिशास्त्रम् शुश्रूषस्व इति ।
पतिगृहे प्रेष्यमाणां शकुन्तलां प्रति कण्वस्योक्तिरियम् ।
विप्रकृता तिरस्कृतापि रोषणतया भर्त्तुः प्रतीपं मा स्म गमः ।
भूयिष्ठमतिशयं दक्षिणा यथोचितव्यवहारिणी ।
वामा उपदिष्टे तद् विपरीतकारिण्यः कुलस्याधयो मनसः व्यथाकारिण्यः ।
शुद्धसारोपात्रलक्षणा ।
कुलस्याधमा इति क्वचित् पाठः ।
इदं नीतिशास्त्रानुसारि वाक्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
गुणातिपातः कार्यं यद्विपरीतं गुणान्प्रति

6.185

यथा मम चन्द्रकलायां चन्द्रं प्रति---
जै संहरिज्जै तमो धेप्पै सअलेहि ते पाओ ।
वससि सिरे पसुबैणो तहवि ह इत्थीअ जीअणं हरसि ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) गुणातिपाताख्यं लक्षणमाह---गुणातिपात इति ।
गुणाः स्वनिष्ठगुणाः ।
तान् प्रति इति तेषामित्यर्थः ।
तथा च स्वनिष्ठगुणानां विरोधि यत् स्वकार्य्यं तदित्यर्थः ।
तह संहरिज्जै इति ।
त्वया संह्रियते तमो गृह्यते सकलैस्तव पादः ।
वससि शिरसि पशुपतेस्तथापि स्त्रीणां जीवनं हरसि ॥
(इति संस्कृतम्) ।
तमः तिमिरमेव तमोगुणः ।
पादो रश्मिरेव चरणः ।
अत्र एतादृशगुणविरुद्धमुक्तकार्य्यम् ।
लोचना:
(लो, ओ) अस्यार्थः--तमो ऽन्धकारः अज्ञानं च ।
पादो रश्मिश्चरणश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यः सामान्यगुणोद्रेकः स गुणातिशयो मतः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) गुणातिशयाख्यं लक्षणमाह---यो ऽसामान्येति ।
असामान्यस्य अन्यावृत्तेर्गुणसाय यो निर्दिश्यमाने वस्तुनि उद्रेक इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा तत्रैव---"राजा---(चन्द्रकलाया मुखं निदिश्य)
असावन्तश्चञ्चद्विकचनवनीलाब्जयुगल- स्तलस्फूर्जत्कम्बनविलसदलिसंघात उपरि ।
विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ! ते ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) असाविति ।
हे सुमुखि ! निर्दिश्यमानमुखरूपश्चन्द्रः कुतस्ते प्राप्तः ।
त्वया प्राप्त इत्यर्थः ।
सम्बन्धविवक्षया निष्ठासंयोगे ऽपि षष्ठी ।
यद्वा ते तुभ्यं तव स्थाने वा कुतः प्राप्तः कुत आगत इत्यर्थः ।
कीदृशः ।
अन्तर्मध्ये चञ्चत् चञ्चलं विकचनवनीलोत्पलयुगलं यस्य तादृशः ।
नयनद्वयमत्र नीलाब्जम् ।
तथा तले ऽधोभागे स्फूर्जत् दीप्यमानः कम्बुः रेखात्रयं यस्य तादृशः ।
कणलेखात्रयं कम्बुः ।
श्लेषाञ्च स एव कम्बुः शंखः ।
तथा उपरि विलसन् अलिसङ्घातो यस्य तादृशः ।
अत्र केशा एव अलिसङ्घातः ।
तथा दोषारात्रेरासङ्ग एव दोषाणामासङ्गस्तं विना सततमेव परिपूर्णाखिलकलो विगलितकलङ्कश्च ।
अत्रैषामन्यचन्द्रावृत्तिगुणानां मुखात्मकचन्द्रे उद्रेकः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सिद्धानर्थान् बहूनुक्त्वा विशेषोक्तिर्विशेषणम्

6.186

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) विशेषणाख्यलक्षणमाह---अर्थानिति ।
सिद्धान् उपमानोपमेयसाधारणान् बहून् उत्कर्षहेतूनर्थान् धर्मान् इत्यर्थः ।
विशेषोक्तिः उपमेये उपमानव्यावर्त्तकधर्मोक्तिरित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---तृष्णापहारी विमलो द्विजावासो जनप्रियः ।
हृदः पद्माकरः किन्तु बुधस्त्वं स जलाशयः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) तृष्णापहारीति---अत्र त्वं चेत्यर्थवशात् लभ्यम् ।
तथा च ह्रदः सरः त्वं च तृष्णापहारी तृष्णा पिपासा धनाकाङ्क्षा च ।
विमलः स्वच्छजलः निष्पापश्च ।
द्विजानामावासो ऽधिकरणम्; द्विजानां विप्राणामाश्रयश्च ।
जनानां प्रियः हितकारित्वात् ।
पद्मानां पद्मायाश्च आकरो निवासस्थानम् ।
इत्थमुभयसाधारणानुकूलधर्मान् उक्त्वा व्यावर्त्तकधर्ममाह---किन्त्विति ।
बुधः पण्डितः त्वं स तु ह्रदो जलाशयो जलयुक्तः ख्यात एव ।
जडाशयः निर्बुद्धिचित्तः डलयोरेकत्वं, जलाशयः शीतलः ख्यात इति वा ।
लोचना:
(लो, औ) तृष्णेति---द्विजाः ब्राह्मणाः पक्षिणश्च ।
पद्माकरो लक्ष्मीविधात् पद्मानामाकरश्च ।
जलाशयो जलस्याशयो जडाशयश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
पूर्वसिद्धार्थकथनं निरुक्तिरिति कीर्त्यते ।
यथा वेण्याम्---"निहताशेषकौरव्यः---"इत्यादि ।
(379 पृ.)
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) निरुक्त्याख्यं लक्षणमाह---पूर्वसिद्धेति ।
स्वयं पूर्वकृतार्थकथनमित्यर्थः ।
निहतेति ।
प्रतिज्ञाहेतुसम्भवरूपस्य विमर्शसन्ध्यङ्गस्य अपीदमुदाहरणमुपाधिभेदात् आविरुद्धम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
बहूनां कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये

6.187

यथा---यद्वीर्यं कूर्मराजस्य यश्च शेषस्य विक्रमः ।
पृथिव्या रक्षणो राजन्नेकत्र त्वयि तत्स्थितम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) सिद्ध्याख्यं लक्षणमाह---बहूनामिति ।
अभिप्रेतार्थः स्तुतिः स्तुत्यर्थं बहुधर्भिकीर्त्तनमित्यर्थः ।
यद्वीर्य्यमिति ।
अत्र कूर्मराजाद्यनेकधर्मिकीर्त्तनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दृप्तादीनां भवेद्भ्रंशो वाच्यादन्यतरद्वचः ।
यथा वेण्याम्---कञ्चुकिनं प्रति "दुर्योधनः---
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम्" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) भ्रंशाख्यलक्षणमाह---दृप्तादीनामिति ।
वाच्याद् वक्तुमिष्टादन्यद् यत् दृप्तानां वचो भवेदित्यर्थः ।
वाच्यादन्यतरद् वच इति अप्रामाणिकः पाठः ।
सहभृत्यगणमिति ।
अत्र वक्ता दुर्य्योधनो दृप्तः ।
पाण्डुसुतं सुयोधन इति वक्तव्ये वैपरीत्येन अन्यदभिहितः ।
लोचना:
(लो, अ) पाण्डुसुतं सुयोधन इति वक्तव्ये पाण्डुसुतः सुयोधनभिति वचनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
विचारस्यान्यथाभावः संदेहात्तु विपर्ययः

6.188

यथा---मत्वा लोकमदातारं संतोषे यैः कृता मतिः . त्वयि राजनि ते राजन्न तथा व्यवसायिनः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) विपर्य्ययाख्यलक्षणमाह--विचारस्येति ।
सन्देहानन्तरं यो विचारो निर्णयस्तस्यान्यथात्वमित्यर्थः ।
मत्वा लोकमिति ।
अयाचनेनापि सन्तुष्टत्वे त्वयि अन्यथा व्यवसायिनो याचन्ते इत्यर्थः ।
अत्रार्थप्राप्त्यप्राप्तिसन्देहादनन्तरं याचनवैमुख्यनिर्णयस्य उपश्लोक्ये राजनि अन्यथाभावः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्तनम् ।
वाचा यथा---प्रसाधय पुरीं लङ्कां राजा त्वं हि बिभीषण ॥
आर्येणानुगृहीतस्य न विघ्नः सिद्धिमन्तरा ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) दाक्षिण्याख्यं लक्षणमाह---दाक्षिण्यमिति ।
परचिन्तानुवर्त्तनं परचित्तप्रीणनम् ।
प्रसाधयेति ।
विभीषणचित्तप्रीणनमिति लक्ष्मणस्य वारक्यम् ।
सिद्धिमन्तरा सिद्धेर्मध्ये ।
एवं चेष्टयापीति ।
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥
इति शकुन्तलायाश्चेष्टया दुष्मन्तस्य चित्तप्रीणनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एवं चेष्टयापि ।
वाक्यैः स्निग्धैरनुनयो भवेदर्थस्य साधनम्

6.189

यथा वेण्याम्---अश्वत्थामानं प्रति "कृपः---दिव्यास्त्रग्रमकोविदे भारद्वाजतुल्यपराक्रमे किं न संभाव्यते त्वयि" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) अनुनयाख्यं लक्षणमाह---वाक्यैः स्निग्धैरिति ।
अर्थः स्वाभीष्टम् ।
दिव्यास्त्रेति, अत्र युद्धप्रवर्त्तनमेव स्वाभीष्टम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
माला स्याद्यदभीष्टार्थं नैकार्थप्रतिपादनम् ।
यथा शाकुन्तले---"राजा---
किं शीकरैः क्लमविमर्दिभिरार्द्रवातं सञ्चारयामि नलिनीदलतालवृन्तम् ।
अङ्के निवेश्य चरणावुत पद्मताम्रौ संवादयामि करभोरु ! यथासुखं ते" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) मालाख्यं लक्षणमाह---माला स्यादिति ।
नैकार्थस्य नानाविधार्थस्य प्रतिपादनमित्यर्थः ।
नञर्थस्यात्र नशब्दस्य नाक्षरविपर्ययः ।
किं शीकरैरिति ।
शकुन्तलां प्रती दुष्मन्तस्य वाक्यमिदम् ।
तालवृन्तं व्यजनम् ।
शीकरैरार्द्रवातमित्यन्वयः ।
संवाहयामि पीडयामि ।
अत्र शकुन्तलासम्भोगरूपस्वाभीष्टार्थं तालवृन्तचालनाद्यनेकप्रतिपादनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अर्थापत्तिर्यदन्यार्थोर्ऽथान्तरोक्तेः प्रतीयते

6.190

यथा वेण्याम्---द्रोणो ऽश्चत्थामानं राज्ये ऽभिषेक्तुमिच्छतीति कथयन्तं कर्णं प्रति "राजा---साधु अङ्गराज ! साधु, कथमन्यथा---
दत्त्वामयं सो ऽतिरथो वध्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैव चेत्कथमन्यथा" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) दत्त्वाभयमिति ।
किरीटिनार्जुनेन सिन्धुराजम् ।
नैवं चेदिति ।
राज्ये स्वपुत्राभिषेकेच्छा न चोदित्यर्थः ।
अत्र सिन्धुराजोपेक्षारूपान्यार्थोक्तिवशात् निर्द्दिष्टाया द्रोणस्य तादृशेच्छाया निश्चय इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत् ।
यथा तत्रैव--कर्णं प्रति "अश्वत्थामा--
निर्वोर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं सम्प्रत्येव भयाद्विहाय समरं प्राप्तो ऽस्मि किं त्वं यथा ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) गर्हणाख्यं लक्षणमाह---दूषणेति ।
दूषणोद्धोषणायां सत्यां तयैव उद्धोषणया दूष्यमाणस्य भर्त्सनेत्यर्थः ।
निर्वोर्यमिति ।
कर्णस्य गुरुः परशुरामः ।
तस्य शापरूपं भाषितं तद्वशात् निर्वोर्यमेव तवायुधं किं मे करिष्यतीर्यर्थः ।
एवकारश्चात्र दर्शितक्रमेण योज्यः ।
अत्र शस्त्रस्य निर्वोर्यत्वरूपदूषणोद्धोषणया दूष्यमाणस्य कर्णस्य भर्त्सनाप्रतीतिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
जातो ऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रियं प्रतिकरोप्यस्त्रेण नास्त्रेण यत्" ॥
अभ्यर्थनापरैर्वाक्यैः पृच्छार्थान्वेषणं मता

6.191

यथा तत्रैव---"सुन्दरकः---अज्जा, अवि णाम सारधिदुदिओदिट्ट तुह्मेर्हि महाराओ दुर्योधणो ण वेत्ति" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) पृच्छाख्यं लक्षणमाह--अभ्यर्थनेति ।
अभ्यर्थनापरैर्वाक्यैरर्थस्यानुसन्धीयमानस्यार्थस्यान्वेषणं पृच्छेत्यर्थः ।
सुन्दरको दुर्य्योधनस्यानुचरः ।
अज्ज इति ।
आर्य, आर्य, अपि नाम सारथिद्वितीयो दृष्टो युष्माभिर्माहारजो दुर्य्योधनो न वेति ।
(इति संस्कृतम्)
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रसिद्धिर्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् ।
यथा विक्रमोर्वश्याम्---"राजा---
सूर्याचन्द्रमसौ यस्य मातामहपितामहौ ।
स्वयं कृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) प्रसिद्धाख्यं लक्षणमाह---प्रसिद्धिरिति ।
लोकसिद्धार्थैरुत्कृष्टैरर्थाप्यमाणैरर्थस्य स्वाभीष्टार्थस्य साधनमित्यर्थः ।
सूर्याचन्द्रमसौ इति ।
द्वाभ्याम् उर्वश्या भुवा चेत्यन्वयः ।
सो ऽहं पृच्छामीति शेषः ।
अत्र लोकसिद्धार्थसूर्यादिकुलोद्भवत्वादिः तदुक्त्या स्वाभीष्टार्थस्य पृष्टार्थकथनरूपस्य साधनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सारूप्यमनुरूपस्य सारूप्यात्क्षोभवर्धनम्

6.192

यथा वेण्याम्--दुर्योधनभ्रान्त्या भीमं प्रति "युधिष्ठिरः---दुरात्मन् !दुर्योधनहतक !-" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) सारूप्याख्यं लक्षणमाह---सारूप्यमिति ।
अनुभूतविशेषभिन्ने ऽनुभूतार्थसादृश्यात् आत्मनः क्षोभवर्द्धनमित्यर्थः ।
दुरात्मन् इत्यादि ।
अत्रानुभूतदुर्योधनसादृश्यात् भीमदर्शने क्षोभवृद्धिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते ।
यथा मम चन्द्रकलायाम्---"राजा---प्रिये ! अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।
(आत्मानं निर्दिश्य---) अयमीहितकुसुमानां सम्पादयिता तवास्ति दासजनः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) संक्षेपाख्यं लक्षणमाह--संक्षेपेति ।
अन्यजनस्यार्थे प्रयोजननिमित्तम् आत्मा प्रयुज्यते नियुज्यते इत्यर्थः ।
अङ्गानि खेदयसीति--कुसुमापचयार्थमिति शेषः ।
अत्र प्रियायाः कुसुमापचयनिमित्तं राज्ञा आत्मा नियुक्तः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
गुणानां कीर्तनं यत्तु तदेव गुणाकीर्तनम्

6.193

यथा तत्रैव--"नेत्रे खञ्जनगञ्जने सरसिजप्रत्यथि--" इत्यादि (पृ.)
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) गुणकीर्त्तनाख्यं लक्षणमाह--गुणानामिति ।
नेत्रे खञ्जनगञ्जने इत्यादि प्रागुक्तम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
स लेशो भण्यते वाक्यं यत्सादृश्यपुरः सरम् ।
यथा वेण्याम्---"राजा---
हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या शलाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) लेशाख्यं लक्षणमाह---सलेश इति ।
सादृश्यपुरः सरं सादृश्योक्तिपूर्वकम् ।
हते जरतीति ।
सा श्लोघा अभिमन्युवधात् इति शेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत्

6.194

यथा---रतिकेलिकलः किंचिदेष मन्मथमन्थरः ।
पश्य सुभ्र ! समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) मनोरथाख्यं लक्षणमाह---मनोरथस्त्विति ।
स्वाभिप्रायस्थवृत्तान्ततुल्यस्य अन्यदीयवृत्तान्तस्य प्रदर्शनं भङ्गिः ।
रतिकेलीति, रति--केल्यर्थं किञ्चित् कलः मधुरास्फुटाल्पध्वनिः ।
मन्मथेन मन्थरः ।
अन्यत्र उढ्ढीयागच्छन् ।
आश्वस्तामनुद्विग्नाम् ।
अत्र स्वाभिप्रायस्थाया रतेस्तुल्यायाः कादम्बरतेः प्रदर्शनभङ्ग्या उक्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
विशेषार्थोहविस्तारो ऽनुक्तसिद्धिरुदीर्यते ।
यथा---"गृहवृक्षवाटिकायाम्---
दृश्येते तन्वि ! यावेतौ चारुचन्द्रमसं प्रति ।
प्राज्ञे कल्याणनामानावुभौ तिष्यपुनर्वसू" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) अनुक्तसिद्ध्याख्यं लक्षणमाह---विशेषेति ।
प्रस्तावे प्रकरणे सति विशेषार्थस्य ऊहः प्रणिधानेन गम्यत्वम् ।
प्रकरणाभावे तु तादृशोहासम्भव एवेति भावः ।
दृश्येत इति ।
हे तन्वि ! हे प्राज्ञे ! चन्द्रमसं प्रति चन्द्रमसि यावेतौ चारू दृश्येते तावुभौ कल्याणनामानौ तिष्यपुनर्वसू इत्यर्थः ।
अत्र तद्द्वयविशिष्टचन्द्रतृल्यता प्राकरणिकनेत्रद्वयविशिष्टे मुखे ऊह्यते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
स्यात्प्रमाणयितुं पूज्यं प्रियोक्तिर्हर्षभाषणम्

6.195

यथा शाकुन्तले---
उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु सम्पदः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) प्रियवचः संज्ञकं लक्षणमाह--स्यादिति ।
पूज्यं जनं प्रमाणयितुमिति प्रमाणत्वेन उत्कृष्टत्वेन ज्ञापयितुं हर्षेण भाषणं प्रियोक्तिः प्रियवच इत्यर्थः ।
उदेतीति ।
तव प्रसादस्येति ।
प्रसादजन्यानां सम्पदां शीघ्रोत्पत्त्या पुरस्त्वारोपः ।
अत्र मुनेः प्रकृष्टत्वप्रतिपादनार्थमिदं हर्षभाषणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ नाट्यालङ्काराः--
आशीराक्रन्दकपटाज्ञमागर्वोद्यमाश्रयाः ।
उत्प्रासनस्पृहाक्षोभपश्चात्तापोपपत्तयः

6.196

आशंसाध्यवसायौ च विसर्पाल्लेखसंज्ञितौ ।
उत्तेजनं परीवादो नीतिरर्थविशेषणम्

6.197

प्रोत्साहनं च साहाय्यमभिमानो ऽनुवर्तनम् ।
उत्कीर्त्तनं तथा याच्ञा परिहारो निवेदनम्

6.198

प्रवर्तनाख्यानयुक्तिप्रहर्षाश्चोपदेशनम् ।
इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः

6.199

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) नाट्यालङ्कृतयस्त्रस्त्रिंशादिति यदुक्तं ता वक्तुमाह---अथेति ।
ता अलङ्कतीरुद्दिशति---आशीरित्यादि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आशीरिष्टजनाशंसा---
यथा शाकुन्तले---
ययातेरिव शमिष्ठा पत्युर्बहुमता भव ।
पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) आशीराख्यानमलङ्कृतिमाह---आशीरिष्टजनेति ।
इष्टजने आशीर्वादः इत्यर्थः ।
शर्मिष्टा पुरुं पुत्रं यथा प्राप तथा त्वमाप्येवं पुत्रं प्राप्नुहीत्यन्वयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---आकन्दः प्रलपितं शुचौ ।
यथा वेण्याम्--"कञ्चकी--हा देवि ! कुन्ति ! राजभवनपताके !-" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) आक्रन्दाख्यामलङ्कृतिमाह---आक्रन्द इति ।
स्पष्टम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कपटं मायया यत्र रूपमन्यद्विभाव्यते

6.200

यथाकुलपत्यङ्के---
मृगरूपं परित्यज्य विधाय कपटं वपुः ।
नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) कपटाख्यामलङ्कृतिमाह---कपटमिति ।
विभाव्यते दर्श्यते ।
मृगरूपमिति ।
तेन मायामृगरूपेण मारीचराक्षसो मृगरूपं मृगधर्मं स्वरविशेषं परित्यज्य ।
अर्थाद्रमणीयस्वरविशेषमुच्चार्य्य इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अक्षमा सा परिभवः स्वल्पो ऽपि" न विषह्यते ।
यथा शाकुन्तले---"राजा--भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिः ।
किं पुनरिमामभिसन्धाय लभ्यते ।
शार्ङ्गरवः---विनिपातः---ऽइत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) अक्षमाख्यामलङ्कृतिमाह---अक्षमेति ।
स्वल्पे ऽपि परिभवो यन्न विषह्यते इत्यर्थः ।
भो भो इत्यादि ।
शकुन्तलापरिणयमस्मरन्तं दुष्यन्तं प्रति तवेयं जायेति शार्ङ्गरवेण कण्वसिष्येण उक्ते भो भो इति राज्ञ उक्तिः ।
इमां जायाम् ।
उत्र भो भोः सत्यवादिनित्याक्षेपोक्त्या कृतस्य परिभवस्य विनिपात इत्युक्त्या शार्ङ्गरवेण न विषेहे ।
********** एन्द् ओf चोम्मेन्तर्य् **********
गर्वो ऽवलेपजं वाक्यं---
यथा तत्रैव---"राजा---ममापि नाम सत्त्वैरभिभूयन्ते गृहाः" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) गर्वाख्यामलङ्कृतिमाह---गर्व इति ।
अवलेपो ऽहङ्कारः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---कार्यस्यारम्भ उद्यमः

6.201

यथा कुम्भाङ्के--"रवणः--पश्यामि शोकविवशो ऽन्तकमेव तावत्" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) उद्यमाख्यामलङ्कृतिमाह---कार्य्यस्येति ।
कुम्भे कुम्भनाम्नि नाटके पश्यामीति इन्द्रजित्शोकार्त्तस्य रावणस्य स्वयं युद्धारम्भे आत्मनो ऽन्तकत्वकथनमिदम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ग्रहणं गुणवत्कार्यहेतोराश्रय उच्यते ।
यथा विभीषणनिर्भर्त्सनाङ्के--"विभीषणः--राममेवाश्रयामि" इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) आश्रयाख्यामलङ्कृतिमाह---ग्रहणमिति ।
राममेवेति ।
अत्रात्मनो लङ्काधिपत्यस्य गुणवत्कार्य्यस्य हेतो रामाश्रयणस्य ग्रहणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उत्प्रासनं तूपहासो यो ऽसाधौ साधुमानिनि

6.202

यथा शाकुन्तले--"शार्ङ्गरवः--राजन् ! अथ पुनः पूर्ववृत्तान्तमन्यसङ्गद्विस्मृतो भवान् ।
तत्कथमधर्मभीरोर्दारपरित्यागः---" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) उत्प्रासनाख्यामलङ्कृतिमाह---उत्प्रासनमिति ।
साधुमानिनि, आत्मनि साधुत्वमानिनि ।
राजनित्यादिरुपहासः ।
कृतविस्मरणात् राज्ञो ऽसाधुत्वम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा ।
यथा तत्रैव---"राजा---
चारुणा स्फुरितेनायमपरिक्षतकोमलः ।
पिपासतो ममानुज्ञां ददातीव प्रियाधरः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) स्पृहाख्यामलङ्कृतिमाह---आकाङ्क्षा इति ।
चारुणेति---शकुन्तलायाः स्फुरदधरदर्शनात् तत्पानेच्छो राज्ञ उक्तिरियम् ।
अपरिक्षतकोमलो ऽयमधरश्चारुणि स्फुरितेन मम पानानुज्ञां ददातीव इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु

6.203

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) क्षोभाख्यामलङ्कृतिमाह---अधिक्षेपेति ।
अधिक्षेपः तिरस्कारः तदर्थकवचोजनको यः क्षोभः क्रोधश्चलचित्तता स क्षोभाख्यो ऽलङ्कार इत्यर्थः ।
त्वयेत्यादिकं रामं प्रति रावणस्य वाक्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---त्वया तपस्विचाण्डाल ! प्रच्छन्नवधवर्तिना ।
न केवलं हतो वाली स्वात्मा च परलोकतः ॥
मोहावधीरितार्थस्य पश्चात्तापः स एव तु ।
यथानुतापाङ्के--"रामः---
किं देव्या न विचुम्बितो ऽस्मि बहुशो मिथ्याभिशप्तस्तदा" इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) पश्चात्तापाख्यामलङ्कृतिमाह---मोहावधीरितार्थस्येति ।
गोत्रस्खलितादितो रामे मिथ्यामिशापं दत्त्वा मानिन्यां सीतायां तामनुनीय कार्य्यान्तराद्वहिर्गतस्य रामस्य तदा तत्कर्त्तृकचुम्बनकरणानुतापो ऽयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उपपत्तिर्मता हेतोरुपन्यासोर्ऽथसिद्धये

6.204

यथा वध्यशिलायाम्---
"म्रियते म्रियमाणो या त्वयि जीवति जीवति ।
तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) उपपत्त्याख्यामलङ्कृतिमाह---उपपत्तिरिति ।
अर्थस्याभिमतार्थस्य सिद्धये तद्धतोरुपन्यास इत्यर्थः ।
वध्यशिला नाटकविशेषः ।
म्रियत इति वध्यशिलायां हन्तुमानीतं स्वमरणेन मरिष्यमाणां स्वप्रियामनुशोचन्तं कञ्चित् प्रति माहदयालोरुक्तिरियम् ।
पूर्वाद्धोक्तरूपां प्रियां जीवन्तीं यदिच्छसि तदा मामासुभिरात्मानं रक्ष ।
त्वत्परिवर्त्तमहं म्रिये ।
अत्र वध्यत्राणं वक्तुरभिप्रेतं तत्सिद्धये वध्यप्रियादीवनेच्छारूपेतोरुपन्यासः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आशंसनं स्यादाशंसा---
यथा श्मशाने---"माधवः---
"तत्पश्येयमनङ्गमङ्गलगृहं भूयो ऽपि तस्या मुखम्" इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) आशंसाख्यामलङ्कृतिमाह---आशंसनमिति ।
आशंसनम् अर्थसिद्धये प्रार्थनम् ।
आशीर्नामालङ्कृतिस्तु परार्थस्य सिद्धये आशीर्वादः ।
तत्पश्येयमिति ।
तस्या मालत्या मुखम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---प्रतिज्ञाध्यवसायकः ।
यथा मम प्रभावत्याम्---"वज्रनाभः---
अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया ।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) व्यवसायाख्यामलङ्कृतिमाह---प्रतिज्ञेति व्यवसायक इति स्वार्थे कः ।
अस्य वक्ष इति ।
वो युष्माकं श्रीकृष्णादीनां सम्बन्धिनो ऽस्य प्रद्युम्नस्य वक्ष इत्यर्थः ।
भुवनद्वयं स्वर्गमर्त्त्यरूपम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
विसर्पो यत्समारब्धं कर्मानिष्टफलप्रदम्

6.205

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) विसर्परूपामलङ्कृतिमाह---विसर्प इति ।
समारब्धमिति ।
अतीतारम्भप्रदर्शनम् ।
अनिष्टफलदं कथितमिति शेषः ।
तच्च समारब्धम् ।
एकस्येति ।
केशेषु गृहीत्वा धृष्टद्युम्नेन हतस्य द्रोणस्य शिरसि छिन्ने क्रुद्धस्य अश्वत्थाम्न उक्तिरियम् ।
एकस्य दुः शासनेन द्रौपद्याः केशग्रहणस्यायं विपाकः अखिलक्षत्त्रिय क्षयकृत्संगरः ।
द्वितीये मत्पितुः केशग्रहः ।
अत्र केशग्रहारम्भणमनिष्टफलयुक्तम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा वेण्याम्---"एकस्यैव विपाको ऽयम्--" इत्यादि (376 पृ.)
कार्यग्रहणमुल्लेख---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) उल्लेखाख्यामलङ्कृतिमाह---कार्य्यदर्शनमिति ।
संबोध्यस्य कार्य्यप्रदर्शनमित्यर्थः ।
तापसाविति राज्ञो मृगहननं निर्वार्य्य समिदाहरणाय इत्युचतुरित्यर्थः ।
अत्र राज्ञः शकुन्तलाविशिष्टाश्रमप्रवेशरूपकार्य्यप्रदर्शनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा शाकुन्तले---राजानं प्रति "तापसौ---समिदाहरणाय प्रस्थितावावाम् ।
इह चास्मद्गुरोः कण्वस्य कुलपतेः साधिदैवत इव शकुन्तलयानुमालिनीतीरमाश्रमो दृश्यते ।
न चेदन्य (था) कार्यातिपातः, प्रविश्य गृह्यतामतिथैसत्कारः" इति ।
---उत्तेजनमितीष्यते ।
स्वकार्यसिद्धये ऽन्यस्य प्रेरणाय कठोरवाक्

6.206

यथा---इन्द्रजिच्चण्डवीर्यो ऽसि नाम्नैव बलवानसि ।
धिग्धिक्प्रच्छन्नरूपेण युध्यसे ऽस्मद्भयाकुलः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) उत्तेजनाख्यामलङ्कृतिमाह---उत्तेजनमिति ।
कठोरा परुषा ।
इन्द्रजित् इत्यादिकम् इन्द्रजितं संबोध्य लक्ष्मणस्य परुषवाक्यमिदम् ।
प्रच्छन्नरूपेण मेघान्तरितवषुषा ।
अत्र दर्शनरूपस्वकार्य्यसिद्धये इन्द्रजित्प्रेरणाय इयं वाक् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
भर्त्सना तु परीवादो---
यथा सुन्दराङ्के--"दुर्योधनः धिग् धिक् सूत ! किं कृतवानसि ।
वत्सस्य मे प्रकृतिदुर्ललितस्य पापः पापं विधास्यति--" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) परीवादाख्यामलङ्कृतिमाह---भर्त्सनेति ।
सुन्दरो वेणीसंहारस्यैवाङ्कः ।
वत्सस्य कर्णपुत्रस्य वृषसेनस्य पापः पाण्डवः पापं वधम् ।
अत्र रथमादाय पलायितस्य सारथेर्भर्त्सना ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---नीतिः शास्त्रेण वर्तनम् ।
यथा शाकुन्तले--"दुष्यन्तः---विनीतवेषप्रवेश्यानि तपोवनानि" ।
इति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) नीत्यख्यामलङ्कृतिमाह---नीतिरिति ।
स्पष्टमिदम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनमनेकधा

6.207

उपालम्भविशेषेण तत् स्यादर्थविशेषणम् ।
यथा शाकुन्तले राजानं प्रति "शार्ङ्गरवः--आः कथमिदं नाम, किमुपन्यस्तमिति ? ननु भवानेव नितरां लोकवृत्तान्तनिष्णातः ।
सतीमपि ज्ञातिकुलैकसंश्रयां जनो ऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) अर्थविशेषाख्यमलङ्कृतिमाह---उत्कस्यार्थस्येति ।
परोक्तस्यार्थस्य उपालम्भविधया यत् अनेकधा उत्कीर्त्तनमित्यर्थः ।
उत्कीर्त्तनमनुवादः ।
आः कथमिदमिति ।
शकुन्तलां स्वीकर्त्तुं बहुशः शार्ङ्गरवेणोक्ते राज्ञोक्तं किमिदमुपन्यस्तमिति ।
उपहासविधया शार्ङ्गरवेणानेकधा तदनुवादः क्रियते ।
किमिदमितीति ।
अत्र वीप्सा बोध्या तदेव अनेकधात्वात् ।
सतीमपीति ।
ज्ञातिः पतृपक्षः ।
अन्यथा भासतीं ।
स्वबन्धुभिः पितृपक्षीयैः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रोत्साहनं स्यादुत्साहगिरा कस्यापि योजनम्

6.208

यथा बालरामायणे---
कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससि ।
तज्जगत्त्रितयं त्रातुं तात ! ताडय ताडकाम् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) प्रोत्साहनाख्यामलङ्कृतिमाह---प्रोत्साहनमिति ।
योजनं नियोजनं प्रवर्त्तनमित्यर्थः ।
कालरात्रीति ।
रामं प्रति विश्वामित्रस्य वाक्यमिदम् ।
कालराक्षिवत् कराला भीषणा इयं ताडका ।
विचिकित्ससि त्यजसि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
साहाय्यं सङ्कटे यत्स्यात् सानुकूल्यं परस्य च ।
यथा वेण्याम्--कृपं प्रति "अश्वत्थामा---त्वमपि तावद्राज्ञः पाशर्ववर्तो भव ।
कुपः---वाञ्छाम्यहमद्य प्रतिकर्तुम्--" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) साहाय्याख्यामलङ्कृतिमाह--साहाय्यमिति स्पष्टम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अभिमानः स एव स्यात्---
लोचना:
(लो, आ) स एव यो भाषितः स एवाभिमान एव ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा तत्रैव---"दुर्योधनः---मातः किमप्यसदृशं कृपणं वचस्ते---" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) अभिमानाख्यमालङ्कृतिमाह---अभिमान इति ।
वाक्यात् यो ऽभिमानः प्रतीयते स एवाभिमानाख्यालङ्कार एव ।
मातरिति ।
पाण्डवेभ्यो राज्यं दातुं गान्धार्या उक्ते दुर्योधनस्याभिमानमूलेयमुक्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---प्रश्रयादनुवर्तनम्

6.209

अनुवृत्तिः---
यथा शाकुन्तले--"राजा---(शकुन्तलां प्रति) अयि ! तपो वर्धते ।
अनुसूयादाणिं अदिधिविसेसलाहेण" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) अनुवृत्त्याख्यामलङ्कृतिमाह---प्रश्रयादिति ।
प्रश्रयो विनयः ।
अनुवर्त्तनं प्रीणनम् ।
अयीति ।
अत्र राज्ञो ऽनसूयायाः परस्परं प्रीणनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---भूतकार्याख्यानमुत्कीर्तनं मतम् ।
यथा बालारामायणे---
अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।
इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) उत्कीर्त्तनाख्यामलङ्कृतिमाह---भूतेति ।
भूतकार्यं पूर्ववृत्तम् ।
न च पूर्वसिद्धार्थकथनात्मकं यत् निरुक्तिरूपं नाट्यलक्षणमुक्तं तद्भेद इति वाच्यम् ।
तत्र स्वकृतिरूपस्य पूर्वसिद्धार्थस्य निहताशेषकौरव्य इत्यादिना कथनमत्र तु स्वपरसाधारणकृतपूर्ववृत्तस्य इति तद्भेदः ।
अत्र आसीदिति पुष्पकेणागमने रणस्थलं सीतां दर्शयतो रामस्य वाक्यमिदम् ।
भवद्देवरे लक्ष्मणे वक्षसि रावणेन शक्त्या गाढं ताडिते सति द्रोणाद्रिः गन्धमाहनाद्रिः अत्र हनुमता आहृतः ।
देवरत्वकथनम् अनुरागोत्पादनाय ।
दिव्यैः लक्ष्मणशरैः इन्द्रजित् लोकान्तरं प्रापितः ।
हे मृगाक्षि ! राक्षसपतेः रावणस्य कण्ठाटवी केनाप्यत्र कृत्ता अर्थात् मया ।
********** एन्द् ओf चोम्मेन्तर्य् **********
याच्ञा तु क्वापि याच्ञा या स्वयं दूतमुखेन वा

6.210

यथा----अद्यापि देहि वैदेहिं दयालुस्त्वयि राघवः ।
शिरोभिः कन्दुकक्रीडां किं कारयसि वानरान् ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) याच्ञारूपामलङ्कृतिमाह---याच्ञेति ।
दूतमुखेन वा इत्युक्तेः दूतमुखेन याचनोचितवस्तुयाच्ञा लभ्यते ।
तेन तत् पश्येयमनङ्गमङ्गलगृहमित्यादौ उदाहरणके आशंसनाख्यालङ्कारेणैव भेदः ।
अद्यापीत्यादिकं रावणे ऽङ्गदस्य वाक्यम् ।
शिरोभिरिति ।
रामच्छिन्नत्वच्छिरोभिरित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
परिहार इति प्रोक्तः कृतानुचितमार्जनम् ।
यथा--प्राणप्रयाणदुःखार्त उक्तवानस्म्यनक्षरम् ।
तत्क्षमस्व विभो ! किं च सुग्रीवस्ते समर्पितः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) परिहाररूपामलङ्कृतिमाह---परिहार इतीति ।
प्राणप्रयाणमिति ।
रामं प्रति म्रियमाणस्य वालिन उक्तिरियम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अवधीरितकर्तव्यकथनं तु निवेदनम्

6.211

यथा राघवाभ्युदये---"लक्ष्मणः--आर्य ! समुद्राभ्यर्थनया गन्तुमुद्यतो ऽसि तत्किमेतत्" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) निवेदनाख्यामलङ्कृतिमाह---अवधीरितेति ।
अवधीरितम् अबधारणा ।
तत्र किमेतादित्यर्थः ।
अवधीरणैवात्र कर्त्तव्या इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रवर्तनं तु कार्यस्य यत्सयात्साधुप्रवर्तनम् ।
यथा वेण्याम्---"राजा---कञ्चुकिन् ! देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य भीमसेनस्य विजयमङ्गलाय प्रवर्तन्तां तत्रोचिताः समारम्भाः" ।
आख्यानं पूर्ववृत्तोक्तिर्---
यथा तत्रैव--"देशः सो ऽयमरातिशोणितजलेर्यस्मिन् ह्रदाः पूरिताः--ऽइत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) प्रवर्त्तनाख्यामलङ्कृतिमाह---प्रवर्त्तनं तु इति ।
कार्यस्य सम्बन्धै यत् साधुनो मङ्गलस्य प्रवर्त्तनं तत् इत्यर्थः ।
आख्यानरूपामलङ्कृतिमाह---पूर्ववृत्तोक्तिरत्र क्रोधमूलकत्वेन विशेषणीया ।
तेन भूतकार्य्याख्यानरूपात् उत्कीर्त्तनालङ्कारात् भेदः देशः सो ऽयमित्यादि ।
अश्वत्थाम्नः क्रोधात् पूर्ववृत्तोक्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---युक्तिरर्थावधारणम्

6.212

यथा तत्रैव---
यदि समरमपास्य नास्ति मृत्योर्भयमिति युक्तमितो ऽन्यतः प्रयातुम् ।
अख मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम् ? ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) युक्तिरूपामलङ्कृतिमाह---युक्तिरिति ।
हेतुप्रदर्शनेन परेषां कार्यार्थनिश्चायनमित्यर्थः ।
यदि समरमिति ।
द्रोणस्य मरणेन पलायमानान् वीरान् प्रति अश्वत्थाम्न उक्तिरियम् ।
अत्रोक्तहेतुप्रदर्शनेन युद्धकर्त्तव्यतानिश्चायनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रहर्षः प्रमदाधिक्यं---
यथा शाकुन्तले---"राजा - तात्किमिदानीमात्मानं पूर्णमनोरथं नाभिनन्दामि" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) प्रहर्षाख्यामलङ्कृतिमाह---प्रहर्ष इति स्पष्टम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---शिक्षा स्यादुपदेशनम् ।
यथा तत्रैव--"सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदसक्कारं अदिधिविसेसं उज्झिअ सच्छन्ददो गमणम्" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) उपदेशानरूपामलङ्कृतिमाह---शिक्षेति ।
सहीति ।
सखि ! न युक्तमाश्रमवासिनो जनस्याकृतसत्कारमतिथिविशेषमुक्त्वा स्वच्छन्दतो गमनम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एषां च लक्षणनाट्यालङ्काराणां सामान्यत एकरूपत्वे ऽपि भेदेन व्यपदेशो गड्डलिकाप्रवाहेण ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) एषां चेति ।
लक्षणानि उक्तानि षटत्रिंशत्, नाट्यालङ्कारा उक्तास्त्रयत्रिंशत् ।
एकरूपत्वे ऽपीति ।
लक्षणत्वालङ्कारत्वयोर्विनिगमकाभावाल्लक्षणानामप्यलङ्कारत्वम् अलङ्काराणमपि लक्षणत्वम् इत्येवम् एकरूपत्वसम्भवे ऽपीत्यर्थः ।
भेदेनेति ।
एतानि लक्षणानि, एता अलङ्कृतय इत्येवं भेदेन इत्यर्थः ।
गड्डलिकाप्रवाहो ऽनादिसिद्धो निर्मलो व्यवहारः ।
लोचना:
(लो, इ) गड्डरिकाप्रवाहेणेति---यथा गड्डरिका एका अपरां तां चंतरानुगच्छति, तासां गतानुगतमात्रेण भेदः तथा लक्षणनाट्यालङ्कारयोरपीति भावः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एषु च केषांचिद्गुणालङ्कारभावसंध्यङ्गविशेषान्तर्भावे ऽपि नाटके प्रयत्नतः कर्त्तव्यत्वात्तद्विशेषोक्तिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) एषु चेति ।
केषाञ्चित् वक्ष्यमाणोपमाव्यतिरेकालङ्कारादिरूपत्वेन तेषु काव्याङ्गेषु केषाञ्चिच्च गुणभावतत्सम्वन्धिव्यञ्जकत्वेन तेषु काव्याङ्गेषु अन्तर्भावसम्भवे ऽपि इत्यर्थः ।
प्रयत्नतः कर्त्तव्यत्वादिति---कर्त्तव्यता च तत्तप्रसङ्गौचित्यानुसारेण यथायोग्यमेव न तु सर्वत्रैव सर्वेषाभित्यवधेयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एतानि च---
पञ्चसन्धि चतुर्वृत्ति चतुः षष्ट्यङ्गसंयुतम् ।
षडविंशल्लक्षणोपेतमलङ्कारोपशोभितम् ।
महारसं महाभोगमुदात्तरचनान्वितम् ।
लोचना:
(लो, ई) महारसमिति---रसभावनिरन्तरम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
महापुरुषसत्कारं साध्वाचारं जनप्रियम् ॥
सुश्लिष्टसन्धियोगं च सुप्रयोगं सुखाश्रयम् ।
मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥
इति मुनिनोक्तत्वान्नाटके ऽवश्यं कर्तव्यान्येव वीथ्यङ्गानि वक्ष्यन्ते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) सुकविना तु एतत् सकलविशिष्टमपि नटकं कर्त्त्यमिति मुनिनांक्तत्वात् तेन सर्वभिदं कर्त्तव्यमित्याह---पञ्चसन्धि चतुर्वृत्तीत्यादि कुर्यात्तु नाटकमित्यन्तम् ।
पञ्चसन्धयो मुखसन्ध्याद्याः प्रागुक्ताः पञ्च ।
चतुः षष्ट्यङ्गानि च सन्धीनां प्रागुक्तानि ।
षट्त्रिंशत् लक्षणानि च नाट्यानां प्रागुक्तानि ।
अलङ्कारस्त्रयस्त्रिंशत् सम्प्रत्युक्ताः ।
"त्रयस्त्रिंशत् प्रयोज्यानि वीथ्यङ्गानि त्रयोदशऽ; इत्युक्तत्वात् त्रयस्त्रिंशदलङ्कारोक्त्यनन्तरं वीथ्यङ्गानां वक्तव्यत्वे प्राप्ते वीथिरूपकनाटकविशेषस्य विशिप्य दर्शितत्वात् दर्शयिष्यमाणतदवसरे वीथ्यङ्गानि वक्ष्यन्ते इत्याह---वीथ्यङ्गानीति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
लास्याङ्गान्याह--
गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका

6.213

प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् ।
उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च

6.214

लास्ये दशविधं ह्येतदङ्गमुक्तं मनीषिभिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) दश लास्याङ्गानि वक्तुमाह---लास्याङ्गानीति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र--
तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः

6.215

शुद्धं गानं गेयपदं---
लोचना:
(लो, उ) शुष्कम् अनुकरणीयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---गौरीगृहे वीणां वादयन्ती "मलयवती---
उत्फुल्लकलकेसरपरागगौरद्युते ! मम हि गौरि ! ।
अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) तत्र गेयपदरूपं लास्याङ्गमाह---तन्त्रीभाण्डेति ।
तन्त्रीभाण्डम् तन्त्र्याश्रयां वीणां पुरस्कृत्य प्रधानीकृत्य शुष्कं गानं नृत्यहीनगानम् ।
उत्फुल्लेति---ममाभिवाञ्छितमित्यन्वयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---स्थितपाठ्यं तदुच्यते ।
मदनोत्तापिता यत्र पठति प्राकृतं स्थिता

6.216

अभिनवगुप्तपादास्त्वाहुः---"उपलक्षणं चैतत् ।
क्रोधोद्भ्रान्तस्यापि प्राकृतपठनं स्थितपाठ्यम्" इति ।
निखिलातोद्यरहितं शोकचिन्तान्विताबला ।
अप्रसाधितगात्रं यदासीनासीनमेव तत्

6.217

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) आसीनमङ्गमाह---निखिलातोद्येति ।
मृदङ्गादिवाद्यरहितम् ।
शोकाकुला वस्त्राच्छादितगात्री यत्तिष्ठति तदासीनमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
आतोद्यमिश्रितं गेयं छन्दांसि विविधानि च ।
स्त्रीपुंसयोविपर्यासचेष्टितं पुष्पगण्डिका

6.218

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) पुष्पगण्डिकाख्यमङ्गमाह---आतोद्येति ।
छन्दांसि गद्यपद्यरागाणम् विपर्यासश्चष्टाव्यत्यासः ।
लोचना:
(लो, ऊ) विपर्यासचेष्टितं स्त्रियाः पुरुषस्य चोष्टितं, परुषस्य स्त्रीचेष्टितम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अन्यासक्तं पतिं मत्वा प्रेमविच्छेदमन्युना ।
वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः

6.219

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) प्रच्छेदाख्यमङ्गमाह---अन्यासक्तमिति ।
उक्तमन्युना पतिमवज्ञाय वीणापुरस्सरं गानमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
स्त्रीवेषधारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) त्रिगूढाख्यमङ्गमाह---स्त्रीवेशेति ।
श्लक्ष्णं मनोहरम् ।
मकरन्द इति ।
तेन मालतीप्रतारणाय लवङ्गिकावेशस्य नन्दनप्रतारणाय मालतीवेशधारणात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा मालत्याम्--"मकरन्दः--एषो ऽस्मि मालतीसंवृत्तः" ।
कश्चन भ्रष्टसंकेतः सुव्यक्तकरणान्वितः

6.220

प्राकृतं वचनं वक्तिं यत्र तत्सैन्धवं मतम् ।
करणं वीणादिक्रिया ।
चतुरस्त्रपदं गीतं मुखप्रतिमुखान्वितम्

6.221

लोचना:
(लो, ऋ) चतुरस्त्रपदं भरतादि प्रसिद्धम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
द्विगूढं रसभावाढ्यम्--
---उत्तमोत्तमकं पुनः ।
कोपप्रसादजमधिक्षेपयुक्तं रसोत्तरम्

6.222

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) द्विगूढकमङ्गमाह---चतुरस्त्रपदमिति ।
पादचतुष्टयान्वितं गीतमित्यर्थः ।
तच्च गीतं मुखप्रतिमुखसन्ध्योर्गेयमित्यर्थः ।
उत्तमोत्तमकमङ्गमाह---उत्तमोत्तमकं पुनरिति ।
कोपेति ।
लास्यं कदाचित्कोपजत्वात् अधिक्षेपयुक्तम् ।
कदाचित् प्रसादजत्वात् रसोत्तरमित्यर्थः ।
हावहेलेति ।
हेलाभिन्नो ऽत्र हावो गोवृषन्यायात् हेलाबाहुल्यार्थं तत् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
हावहेलान्वितं चित्रश्लोकबन्धमनोहरम् ।
उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत्

6.223

विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) उक्तप्रत्युक्तमङ्गमाह---उक्तिप्रत्युक्तीति ।
उपालम्भ उपहासः ।
स चालीकार्थमुपन्यस्येत्याह---अलीकवदिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
स्पष्टान्युदाहरणानि ।
एतदेव यदा सर्वैः पताकास्थानकैर्युतम्

6.224

अङ्कैश्च दशभिर्धोरा महानाटकमूचिरे ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) महानाटकाख्यं नाटकप्रभेदमाह---एतदेवेति ।
नाटकमेवेत्यर्थः ।
सर्वैः पताकास्थानकैरिति ।
सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः ।
पताकास्थानकमिदं प्रथमं परिकीर्त्तितम् ॥
इत्यादिभिरुक्तैश्चतुर्भिः पताकस्थानकैरित्यर्थः ।
लोचना:
(लो, ॠ) एवं नटकलक्षणं गोबलीवर्दन्यायेन भिन्नं महानाटकलक्षणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एतदेव नाटकम् ।
यथा---बालरामायणम् ।
अथ प्रकरणम् ---
भवेत्प्रकरणो वृत्तं लौकिकं कविकल्पितम्

6.225

शृङ्गारो ऽङ्गी नायकस्तु विप्रो ऽमात्यो ऽथवा वणिक् ।
सापायधर्मकामार्थपरो धीर शान्तकः

6.226

लोचना:
(लो, ऌ) अथ उद्देश्यकमेण प्रकरणादीन्निरूपयति---भवोदिति ।
लौकिकं न तु दिव्यं मिश्रं वा ।
********** एन्द् ओf चोम्मेन्तर्य् **********
विप्रनायकं यथा मृच्छकटिकम् ।
अमात्यनायकं मालतीमाधवम् ।
वणिड्नायकं पुष्पभूषितम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) नाटकप्रकरणभाणादयो ये रूपकोपरूपकप्रभेदा उत्कीर्त्तिता "विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम्" ।
इत्युक्तत्वादित्थं साङ्गोपाङ्गनाटकलक्षणमुक्त्वा प्रकरणाख्यं द्वितीयरूपकमाह---अथ प्रकरणमिति ।
वृत्तं तन्नाट्यवर्णनीयप्रसङ्गः ।
तच्च कविनैव कल्पितत्वेन पुराणेषु अदृष्टत्वाल्लौकिकम् ।
सापायेति ।
शृङ्गारित्वेन कदाचिद्धर्मस्य नायिकाया मानात् कदाचित्कामस्य कामार्थव्यवसायात् अर्थस्य चापायवानित्यर्थः ।
धीरप्रशान्त इति ।
"सामान्यगुणैर्भूयान् द्विजादिको धरिप्रशान्त"इति ।
तल्लक्षणं प्रागुक्तम् ।
पुष्पभूषितंप्रकरणविशेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ।
तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः

6.227

कितवद्यूतकारादिविटचेटकसंकुलः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) तेन भेदास्त्रयस्तस्येति ।
तस्य प्रकरणस्य कुलजा वेश्या तदुभयनायिकाभेदात् भेदक्षत्रयम् ।
तत्रोभयनायकत्वे तृतीयभेदपात्राण्याह--कितवेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कुलस्त्री पुष्पभूषिते ।
वेश्या तु रङ्गवृत्ते ।
द्वे अपि मृच्छकटिके ।
अस्यनाटकप्रकृतित्वाच्छेषं नाटकवत् ।
अथ भाणः---
भाणः स्याद्धूर्तचरितो नानावस्थान्तरात्मकः

6.228

एकाङ्क एक एवात्र निपुणः पण्डितो विटः ।
रङ्गे प्रकाशयेत्स्वेनानुभूतमितरेण वा

6.229

संबोधनोक्तिप्रत्युक्तो कुर्यादाकाशभाषितैः ।
सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यवर्णनैः

6.230

तत्रैतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारति ।
मुखनिवहणो सन्धी लास्याङ्गानि दशापि च

6.231

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) भाणाख्यं रूपकमाह---अथेति ।
नानावस्थेति ।
नाटकस्यान्तरात्मा नायकः स नानावस्थो यत्र तादृशः ।
पण्डित एव धूर्त्तो बोध्यः ।
स्वन इतरेण वानुभूतार्थमित्यन्वयः ।
सूचयेदिति ।
शौर्य्येण वीरम्, सौभाग्येन शृङ्गारम् ।
सूचयेदित्यर्थः ।
उत्पाद्यं कविनैव ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अत्राकाशभाषितरूपपरवचनमपि स्वयमेवानुवदन्नुत्तरप्रत्युत्तरे कुर्यात् ।
शृङ्गारवीररसौ च सौभाग्यशौर्यवर्णनया सूचयेत् ।
प्रायेण भारती, क्वापि कौशिक्यपि वृत्तिर्भवति ।
लास्याङ्गानि गेयपदादीनि ।
उदाहणं लीलामधुकरः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) व्याचष्टे---अत्रेति ।
लीलामधुकरो भाणाख्यरूपकविशेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ व्यायोगः---
ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः ।
हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रितः

6.232

लोचना:
(लो, ए) प्रकरणाद् भेदो गर्भाविमर्शाभावेन ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः ।
कैशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः

6.233

राजषिरथ दिव्यो वा भवेद्धीरोद्धतश्च सः ।
हास्यशृङ्गारशान्तेभ्य इतरे ऽत्राङ्गिनो रसाः

6.234

यथा सौगन्धैकाहरणम् ।
अथ समवकारः---
वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् ।
सन्धयो निर्विमर्शास्तु त्रयो ऽङ्कास्तत्र चादिमे

6.235

सन्धी द्वावन्त्ययोस्तद्वदेक एको भवेत्पुनः ।
नायका द्वादशोदात्ताः प्रख्याता देवमानवाः

6.236

फलं पृथक्पृथक्तेषां वीरमुख्यो ऽखिलो रसः ।
वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ

6.237

वीथ्यङ्गानि च तत्र स्युर्ययालाभं त्रयोदश ।
गायत्र्युष्णिङ्मुखान्यत्र च्छन्दांसि विविधानि च

6.238

लोचना:
(लो, ऐ) गायत्र्यादीनां छन्दसां लक्षणान्याकारेषु बोद्धव्यानि ।
********** एन्द् ओf चोम्मेन्तर्य् **********
त्रिशृङ्गारस्त्रिकपटः कार्यश्चायं त्रिविद्रवः ।
वस्तु द्वादशनालीभिर्निष्पाद्यं प्रथमाङ्कगम्

6.239

द्वितीये ऽङ्के चतसृभिर्द्वाभ्यामङ्केतृतीयके ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) व्यायोगाख्यं रूपकमाह---अथेति ।
सौगन्धिकाहरणं व्यायोगाख्यरूपकविशेषः ।
समवकाराख्यं रूपकमाह---अथेति ।
आदिमे ऽङ्के अन्त्ययोरङ्कयोरेकः सन्धिरित्यर्थः ।
मन्दकौशिक्यः कौशिक्या एवाम्तरविशेषाः ।
त्रिशृङ्गारादिकं स्वयमेव व्याख्यास्यति---वस्तु इति ।
प्रथमाङ्कगं प्रथमाङ्कबोधनीयं वस्तु ।
घटिकाद्वयात्मकनाडीद्वादशकैरष्टचत्वारिंशद्दण्डैर्निष्पाद्यं कार्य्यमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नालिका घटिकाद्वयमुच्यते ।
बिन्दुप्रवेशकौ च नाटकोक्तावपि नेह विधातव्यौ ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) व्याचष्टे---नाडिका चेति घटिका दण्डद्वयम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र---
धर्मार्थकामैस्त्रिविधः शृङ्गारः, कपटः पुनः

6.240

स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः ।
अचेतनैश्चेतनैश्च चेतनाचेतनैःकृतः

6.241

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) तत्र शृङ्गारादिकं कारिकया आह---धर्मार्थेति ।
त्रिकपटत्वं व्याख्यातुं कपटत्रैविध्यमाह---कपटः पुनरिति ।
त्रिविद्रवत्वं व्याख्यातुमाह---विद्रवः पुनः इति ।
कौतुकेन प्रतारणादिविशेषो विद्रवः ।
स चाचेतनैः काष्ठपुत्तलिकादिभिश्चेतनैः प्रहसनकरैश्चेतनाचेतनैश्चेतनत्वे ऽपि प्रकृष्टचेतनारहितैः पश्वादिभिः तद्वक्ष्यति ।
गजादिभिरिति तत्र धर्मशृङ्गारादिकमिच्छया व्युत्कमेण दर्शयति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः ।
अर्थलाभार्थकल्पितोर्ऽथशृङ्गारः ।
प्रहसनशृङ्गारः कामशृङ्गारः ।
तत्र कामशृङ्गारः प्रथमाङ्कः एव ।
अन्ययोस्तु न नियम इत्याहुः ।
चेतनाचेतना गजादयः ।
समवकीर्यन्ते बहवोर्ऽथा अस्मिन्नति समवकारः ।
यथा---समुद्रमथनम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) तत्र नायिकानायकयोः अर्थलाभार्थः शृङ्गारो वेश्यानां; धर्माविरोधी शृङ्गारः स्वदारेषु पुंसः ।
समवकारपदव्युत्पत्तिमाह---समवकीर्य्यन्त इति ।
लोचना:
(लो, ओ) प्रहसनो हास्ययुक्तः प्रथमोद्दिष्टो ऽपि धर्मशृङ्गारः पश्चाद् विधेयत्वेन पश्चाद् व्याख्यातः ।
अनियमादिति क्वचिद्दिव्यः क्वचिन्नरो वा नायकः अर्थप्रकृतयः आरम्भयत्नाद्याः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ डिमः---
मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।
उपरागैश्च भूयिष्ठो डिमः ख्यातेतिवृत्तकः

6.242

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) डिमसंज्ञकं रूपकमाह--अथेति ।
मायेति ।
मायात्मकत्वात् अदृश्यता ।
इन्द्रजालमलीकनानावस्तुप्रदर्शनम् ।
सङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितमितस्ततो विक्षेपः ।
उपरागः उपद्रवः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अङ्गी रौद्ररसस्तत्र सर्वे ऽङ्गानि रसाः पुनः ।
चत्वारो ऽङ्का मता नेह विष्कम्भकप्रवेशकौ

6.243

नायका देवगन्धर्वयक्षरक्षोमहोरगाः ।
भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः

6.244

वृत्तयः कौशिकीहीना निर्विमर्शाश्च सन्धयः ।
दीप्ताः स्युः षड्रसाः शान्तहास्यशृङ्गारवजिंताः

6.245

अत्रोदाहरणं च "त्रिपुरदाहः" इति महर्षिः ।
अथेहामृगः--
ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्तितः ।
मुखप्रतिमुखे सन्धी तत्र निर्वहणं तथा

6.246

नरदिव्यावनियमौ नायकप्रतिनायकौ ।
ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत्

6.247

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) ईहामृगाख्यं रूपकमाह---अथेहेति ।
मिश्रवृत्तः ख्याताख्यातवृत्तान्तः निर्वहणोपसंहृतिरूपसिद्धिरपि तत्रेत्यर्थः ।
नरदिव्याविति ।
नरौ वा दिव्यौ वा नरदिव्यौ वा नायकप्रतिनायकावित्यर्थः ।
तयोराद्यो धीरः ।
अन्त्य उद्धतः ।
स च मूढभावात् अयुक्तकारी ।
********** एन्द् ओf चोम्मेन्तर्य् **********
दिव्यस्त्रियमनिच्छन्तीकपहारादिनेच्छतः ।
शृङ्गाराभासमप्यस्य किञ्चित्किञ्चित्प्रदर्शयेत्

6.248

पताकानायका दिव्या मर्त्या वापि दशोद्धताः ।
युद्धमानीय संरम्भं परं व्याजान्निवर्तते

6.249

महाध्मानो वधप्राप्ता अपि वध्याः स्युरत्र नो ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) दिव्यस्त्रियमनिच्छन्तीमिच्छतः शृङ्गाराभासमपीत्यन्वयः ।
पताकानायकव्यापिप्रासङ्गिकवृत्तप्रवर्त्तका नायिका "व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते"इत्युक्तत्वात् ।
ते तु दिव्यमर्त्त्या द्वादश इत्यर्थं ।
तथा च नायकप्रतिनायकौ द्वौ, पताकानायका दश इति द्वाधशा ।
युद्धमिति युद्धरूपं संरम्भं विक्रमं परबलमानीय प्रापय्य व्याजात् निवर्त्तयेत् इत्यर्थः ।
तत्र हेतुमाह---माहत्मान इति ।
तेषां वधानर्हत्वादित्यर्थः ।
इत्थं नायकप्रतिनायकयोर्दिव्यमर्त्त्यादित्वात् नियम उक्तः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः

6.250

दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे ।
मिश्रं ख्याताख्यातम् ।
अन्यः प्रतिनायकः ।
पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता दश ।
नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीतीहामृगः ।
यथा---कुसुमशेखरविजयादिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) अन्ये तु दिव्यैकानायकनियममाहुः ।
अन्ये तु षड्नायकमाहुरित्याह--एकाङ्को दिव्य इत्यादि च ।
पताकानायक इत्यादिकं व्याचष्टै---पताकास्था इति नायकप्रतिनायकयोः सम्बन्धिनः पताकास्था नायका मिलिताः सङ्गता दश इत्यर्थः ईहामृगव्युत्पत्तिमाह---नायको मृगवदिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथाङ्कः---
उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः

6.251

रसो ऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितम् ।
प्रख्यातमितिवृत्तं च कविर्बुद्ध्या प्रपञ्चयेत्

6.252

भाणावत्सन्धैवृत्तयङ्गान्यस्मिञ्जयपराजयौ ।
युद्धं च वाचा कर्त्तव्यं निर्वदवचनं बहु

6.253

इसं च केचित् नाटकाद्यन्तः पात्यङ्कपरिच्छेदार्थमुत्सृष्टिकाङ्कनामानम् आहुः ।
अन्ये तु---उत्क्रान्ता विलोमरूपा सृष्टिर्यत्रेत्युत्सृष्टिकाङ्कः ।
यथा--शमिष्ठाययातिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) उत्सृष्टिकाङ्काख्यं रूपकमाह---अथेति ।
बहुस्त्रीणां परिदेवितं शोकः स्थायिभावः इत्यर्थः ।
उत्सृष्टिकाङ्कपदार्थं व्याचष्टे--इमं चेति ।
नाटकाद्यन्तः--पातीति नाटकान्तरे द्वित्र्याद्यङ्काः ।
अस्य च एकाङ्कत्वेन अङ्कान्तरोत्सङ्कात् अमुम् उत्सृष्टिकाङ्कनामानं केचिदाहुरित्यर्थः ।
अन्ये तु वक्ष्यमाणवीथ्यामपि एकाङ्कसत्त्वात् तस्या अपि उत्सृष्टिकाङ्कत्वापत्तेः ।
तत्पदार्थमन्यथाहुस्तदाह---अन्ये त्विति ।
विलोमेति प्राकृतनायकत्वेन विलोमता ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ वीथी---
वीथ्यामेको भवेदङ्कः कश्चिदेको ऽत्र कल्प्यते ।
आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः

6.254

सूचयेद्भरि शृङ्गारं किञ्चिदन्यान्नसान् प्रति ।
मुखनिर्वहणो सन्धई अर्थप्रकृतयो ऽखिलाः

6.255

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) वीथ्याख्यं रूपकमाह--अथेति ।
कश्चिदेक इत्यत्र नायक इति शेषः ।
अर्थप्रकृतय इति बीजं बिन्दुः पताका च प्रकरी कार्य्यमेव इति याः पञ्च प्रकृतयः प्रागुक्तास्ता आखिला अपि अत्रेत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कश्चिदुत्तमो मध्यमो ऽधमो वा शृङ्गारबहुलत्वाच्चास्याः कौशिकीवृत्तिबहुलत्वम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) व्याचष्टे---कश्चिदिति ।
उत्तमाद्यन्यतरो नायक इत्यर्थः ।
कौशिक्या वृत्तेरत्र अनुक्तत्वे ऽपि भूरिशृङ्गारवत्त्वात् तल्लाभ इत्याह--शृङ्गारबहुलत्वादिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः ।
उद्धात्य (त) कावलगिते प्रपञ्चस्त्रिगतं छलम्

6.256

वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृद(मार्द) वानि च तानि तु

6.257

तत्रोद्धात्य(त) कावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) प्रस्तावनाप्रस्तावे इति ।
"पादनि त्वगतार्थनि तदर्थगतये नराः ।
योजयन्ति पदैरन्यैः स उद्घात्यक उच्यते ॥
"इत्युद्धातकलक्षणस्य "यत्रैकत्र समावेशात् कार्य्यमन्यत् प्रसाध्यते ।
प्रयोगे सति तद्ज्ञेयं नाम्नावलगितं बुधैः" ॥
इति अवलगितलक्षणस्य च प्रस्तावनाप्रस्तावे उक्तत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) प्रपञ्चाख्यमङ्गमाह---मिथ इति--असद्भूतम् अलीकार्थम् अत एव हास्यकृत् ।
लोचना:
(लो, औ) मिथः असद्भतूं वाक्यमिति सम्बन्धः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा विक्रमोर्वश्याम्--वलीभीस्थविदूषकचेट्योरन्योन्यवचनम् ।
त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः

6.258

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) त्रिगताख्यमङ्गमाह---त्रिगतमिति ।
श्रुतिसाम्यतः श्रूयमाणशब्दद्वयसाम्यात् तयोर्वस्तुत एकार्थत्वे ऽपि अनेकार्थयोरेकभिन्नार्थयोर्योजनं प्रत्यायनमित्यर्थः
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा तत्रैव---राजा---
सर्वक्षितिभृतां नाथ !, दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्ते ऽस्मिन् मया विरहिता त्वया ॥
(नेपथ्ये तत्रैव प्रतिशब्दः) राजा कथं दृष्टेत्याह ।
अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् ।
नटादित्रितयविषयमेवेदमिति कश्चित् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) सर्वक्षितीति---इदं हिमालयस्य सम्बोधनम् ।
मया विरहिता सर्वाङ्गसुन्दरी रामा उर्वशी रम्ये ऽस्मिन् वनान्ते त्वया दृष्टा इति प्रश्नः ।
कथं दृष्टा इत्याहत्वया विरहिता मया दृष्टेति प्रतिशब्दार्थस्य योजनाद्दर्शनोत्तरणशब्दयोरेकार्थत्वे ऽपि दर्शितरीत्या प्रश्रोत्तरभावेन योजनादनेकार्थता, तद् व्याचष्टे---अत्र प्रश्रेति ।
नटनटीसूत्रधारत्रयप्रयोज्यत्वेनास्य त्रिगतत्वं केचित् व्याचक्षते, तदाह---नटादीति ।
लोचना:
(लो, अ) क्षितिभृतां पर्वतानां राज्ञाञ्च ।
मया विरहिता त्वया दृष्टा; पक्षे त्वया विरहिता मया दृष्टा ।
अत्र राज्ञां प्रथमार्थाभिप्रायेण प्रश्ररूपार्थं वाक्यमिदमुक्त्वा पर्वते प्रतिध्वनिमाकर्ण्य द्वितीयार्थः पर्वतस्योत्तरत्वेनावगतो विरहोन्मादात ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रियाभैरप्रियैर्वाक्यैर्विलोभ्यच्छलनाच्छलम् ।
यथा वेण्याम्--भीमार्जुनौ---
कर्ता द्यूतच्छलानां, जतुमयशरणोद्दीपनः सो ऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वाऽस्ते दुर्योधनो ऽसौ कथयत, न रुषा, द्रष्टुमभ्यागतौ स्वः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) छलाख्यमङ्गमाह---प्रियाभैरिति ।
विलोभ्य प्रतार्य छलनादुपहसनात् ।
कर्त्तेति---पलायितुं दुर्योधनमन्विष्यतो भीमार्जुनयोर्वाक्यमिदम् ।
द्यूतच्छलादिकर्त्तृत्वविशिष्टो यस्तं द्रष्टुमागतौ स्वः न तु रुषा इत्यन्वयः ।
शरणं गृहम् ।
दुः शासनादेरनुजशतस्य गुरुरित्यन्वयः ।
अङ्गराजस्य कर्णस्य ।
अत्र द्रष्टुमेव न रुषेति प्रियाभेन वाक्येन प्रतार्य उपहसनम् ।
लोचना:
(लो, आ) शरणं गृहम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
********** एन्द् ओf चोम्मेन्तर्य् **********
अन्ये त्वाहुश्छलं किञ्चित्कार्यमुद्दिश्य कस्यचित्

6.259

उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् ।
वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तितो भवेत्

6.260

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) अन्ये इति ।
कस्यचित् किञ्चित् कार्यमुद्दिश्य इत्यन्वयः ।
वाक्केलिरूपम् अङ्गमाह---वाक्केलीति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
द्वित्रीत्युपलक्षणम् ।
यथा---
भिक्षो ! मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ।
वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहो ऽपि भवतो, नष्टस्य कान्या गतिः ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) भिक्षो इति ।
परिहासाय मांसं भक्षन्तं भिक्षुं प्रति भिक्षो इत्यादिर्गृहिणः प्रश्रः ।
किं तेन इति भिक्षोः प्रत्युत्तरम् ।
मद्यं चापि इत्यादिकं गृहिणः ।
प्रियमहो वेश्याङ्गनाभिरित्यादिकं भिक्षोः ।
अत्राधिकस्याप्यकार्यस्य सत्त्वे अल्पकार्यप्रश्रात् अहो इत्युक्तम् ।
वेश्यापीत्यादि धनमित्यन्तं गृहिणः ।
द्यूतेनेत्यादिकं भिक्षोः ।
चौर्य्येत्यादिकं गृहिणः ।
नष्टस्येत्यादिकं भिक्षोः प्रत्युक्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
केचित्--"प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्केलिः" इत्याहुः ।
अन्ये "अनेकस्य प्रश्नस्यैकमुत्तरम्" ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) केचिदिति---आकाङ्क्षोत्थापकप्रक्रान्तवाक्यस्य तदनिवृत्तौ तन्निवर्तकवाक्याद्युक्तिः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिबलं मतम् ।
यथा मम प्रभावत्याम्--वज्रनाभः---
अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया ।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥
प्रद्युम्नः---अरे रे असुरापसद ! अलममुना बहुप्रलापेन ।
मम खलु---
अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपातैः ।
आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) अधिबलाख्यमङ्गमाह---अन्योन्येति ।
अस्य वज्ञ इत्यादिकं प्राग व्याख्यातम् ।
अद्य प्रचण्डेति ।
अद्य मम प्रचण्डे भुजदण्डे समर्पितो य उरुः कोदण्डस्ततो निर्गलितानां काण्डानां बाणआनां समूहस्य (सहस्त्रस्य वा पाठभेदात् ) पातैरियं क्षौणी क्षणेन समस्तदैत्यक्षतजैः उक्षिता सती पिशिताशनानां लोभनीय आस्तामित्यन्वयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः

6.261

यथा वेण्याम्--राजा---
अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ! ममोरुग्मम् ॥
अनन्तरम् (प्रविश्य) कञ्चुकी--देव ! भग्नं भग्नम्-इत्यादि ।
अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) गण्डाख्यमङ्गमाह---गण्डमिति ।
सत्वरेणोक्तत्वात् सत्वरं भिन्नार्थं वचो यत् प्रस्तुतस्य प्रक्रान्तस्य वर्णनं तत् सम्बन्धितया प्रतीयते इत्यर्थः ।
राजा दुर्योधनः ।
करभोरु इति भानुमत्याः सम्बोधनम् ।
जघनस्थलस्याध्यासितुम् अध्यासनाय इत्यर्थः ।
भावे तुम्योगात् षष्टी ।
पर्याप्तं योग्यम् ।
अत्र प्रक्रान्तस्य ऊरोर्भङ्गप्रतीतिरित्याह---अत्रेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ।
यथा छिलितरामे--सीता-जाद ! काल्लं क्खु अओज्झाएण गन्तव्वम्, तर्हि सो राआ विणएण पणयिदव्वो ।
लवः--अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यम् ।
सीता--जाद ! सो क्खु तुम्हाणं पिदा ।
लवः--किमावयो रघुपतिः पिता ।
सीता--(साशङ्कम्) मा अण्णधा सङ्कद्धम्, ण क्खु तुम्हाणं सअलाए ज्जेव पुहवीएत्ति ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, श) अवस्यन्दिताख्यमङ्गमाह---व्याख्यानमिति ।
स्वरसोक्तस्य वक्तृभावेन उत्कस्य श्रोतुरस्वरसात् यदन्यथा व्याख्यानं तदवस्यन्दितमित्यर्थः ।
जादेत्यादि लवकुशौ प्रति सीताया उक्तिः ।
जात ! कल्यं खलु युवाभ्यामयोध्यायां गन्तव्यम् ।
तत्र स राजा विनयेन प्रणमितव्यः (इति संस्कृतम्) ।
जादेति ।
जातः स खलु युवयोः पिता (इति संस्कृतम्) ।
सातङ्कमिति ।
वाल्मीकिनेषेधात् आतङ्कः ।
मा अण्णधा इति, मा अन्यथा शङ्केथाम् ।
न खलु युवयोः किं तु सकलाया एव पृथिव्या इति (इति संस्कृतम्) पृथिव्या इत्यत्र पृथिवीस्थलोकस्य इत्यर्थः ।
अत्रपितेति जनकपरतया सीतया स्वरसोक्तस्य लब्धावस्यन्दनात् तया एव पालकतया व्याख्यानं कृतम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्रहेलिकैव हास्येन युक्ता भवति नालिका

6.262

संवरणकार्युत्तरं प्रहेलिका ।
यथा रत्नावल्याम्---सुसङ्गता---सहि जस्स किदे तुमं आअदा सो इद ज्जेव चिट्ठदि ।
सागरिका--कस्स किदे अहं आअदा सुसङ्गता--णं क्खु चित्तफलअस्स ।
अत्र त्वं राज्ञः कृते आगतेत्यर्थः संवृतः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ष) नालिकाख्यमङ्गमाह---प्रहोलिकेति ।
संवरणकारीति व्याख्यानरूपाङ्गे ऽपि संवरणरूपस्य सत्त्वे ऽप्यत्र हास्ययुक्तत्वं विशेषः ।
सहि जस्सेति---सखि यस्य कृते त्वमागता सो ऽत्रैव तिष्ठतीति संस्कृतम् ।
कस्सेति ।
कस्य कृते अहमागता (इति संस्कृतम्) णं चित्तेति ।
ननु चित्रफलकस्य (इति संस्कृतम्)
********** एन्द् ओf चोम्मेन्तर्य् **********
असत्प्रलापो यद्वाक्यमसंबद्धं तथोत्तरम् ।
अगृह्णतो ऽपि मूर्खस्य पुरो यच्च हितं वचः

6.263

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, स) त्रिविधमसत्प्रलापाख्यमङ्गमाह---असदिति ।
असम्बद्धमलीकारोयमाणार्थकं वाक्यमुत्तरञ्च तादृशमित्यर्थः ।
तृतीयमसत्प्रलापाख्यमङ्गमाह---अगृह्णतो ऽपीति ।
हितं वचो ऽगृह्णतो ऽपि मूर्खस्येत्यन्वयः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्राद्यं यथा मम प्रभावत्याम्--प्रद्युम्नः--
(सहकारवल्लीमवलोक्य सानन्दम्) अहो कथमिहैव---
अलिकुलमञ्जुलकेशी परिमलबहला रसावहा तन्वी ।
किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतम् मे ॥
एवमसंबद्धोत्तरे ऽपि ।
तृतीयं यथा--वेण्यां दुर्योधनं प्रति गान्धारीवाक्यम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ह) अलिकुलेति---चूतलतिकायां प्रभावतीभ्रमादियमुक्तिः ।
इहेयं चूतलतिकेति ।
कैव प्रभावती कीदृशी ? अलिकुलम् एव मञ्जुलाः केशआ यस्यास्तादृशी, किसलयमेव पेशलपाणिर्यस्यास्तादृशी ।
कोकिलपदमत्र तद्भाषापरम् ।
तथा च तद्भाषारूपविभाषावतीत्यर्थः ।
न तु कोकिलवद्भाषणशीला इत्यर्थः ।
तदाभेदभाषणात् अभेदारोपानुपपत्तेः ।
अत्र च आहार्यारोपाभावात् न रूपकं किन्तु वास्तवभ्रमात् भ्रान्तिमदलङ्कार एव ।
एवमसम्बद्धोत्तरेष्वपीति ।
तत्र यथा मम-- द्विजः शाखायुक्तस्त्वयि कृतकथः कोकिल इति त्वयाख्येयं मन्दे मयि विरहिपाते कियदघम् ।
इति प्रश्रे वायोर्मुकुलपुलका चूतलतिका ध्रुवं धृत्वा मौलिं न खलु कियदित्युत्तरयति ॥
अत्र हि वातधूतमौलिकायां चूतलतिकायां मन्दवयोः कति मापप्रश्रे मौलिपूननेन पापभावोत्तरारोपः ।
वायोः प्रश्रप्रकारः पूर्वार्द्धार्थः ।
पूर्वप्राप्तपापव्यवस्थके जने एक प्रश्रौचित्यादित्याह---द्विज इति ।
शाखायुक्तविटपस्थितो द्विजः पक्षी ।
कोकिल एव द्रुपदामन्त्रस्य ऋषिः कोकिलनाम वेदशाखायुक्तो द्विजः स त्वयि कृतकथ इत्यतस्त्वया मन्दे वेदरहिते इदमप्याख्येयम् ।
विरहिवधे कियत् पापमिति प्रश्रः ।
मन्दवायोः कामोद्दीपकत्वेन विरहिहन्तृत्वात् अयं प्रश्रः ।
व्यवस्थाकथने हर्षोत्पुलकः ।
तृतीयं यथा वेण्यां दुर्योधनं प्रति गान्धार्या हितवाक्यम् ।
अथवा प्रदीयतां दाशरथये मैथिलीति रावणं प्रति विभीषणस्य वाक्यमिदमपि बोध्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
व्याहारो यत्परस्यार्थे हास्यक्षोभकरं वचः ।
यथा मालविकाग्निमित्र---(लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति) विढूषकः--मा दाव उवदेसमुद्धा गमिस्ससि ।
(इत्युपक्रमेण) गणदासः--(विदूषकं प्रति---) आर्य ! उच्यतां यस्त्वया क्रमभेदो लक्षितः ।
विदूषकः--पढमं बम्भणपूआ भोदि, सा इमाए लङ्घिदा ।
(मालविकास्मर्यते) इत्यादिना नायकस्य विशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकारिण वचसा व्याहारः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) व्याहाररूपकमङ्गमाह---व्याहार इति ।
लास्यावसाने नृत्यसमाप्तौ ।
मा दाव इति ।
मा तावदुपदेशमुग्धा गमिष्यसीति (संस्कृतम्) ।
उपदेशः शास्त्रेपदेशः ।
तद्विसंमुग्धा तर्करुद्धकारिणी भूत्वा इति शेषः ।
पठममिति ।
प्रथमं ब्राह्मणपूजा भवति सा अनया लङ्घिता ।
(इति सं-) ।
अत्र परस्य लाज्ञो लाभार्थं हास्यकरं विदूषकस्य वाक्यमाह--
********** एन्द् ओf चोम्मेन्तर्य् **********
दोषा गुणा गुणा दोषा यत्र स्युर्मृदर्(मादं)वं हि तत्

6.264

क्रमेण यथा---
प्रिय ! जीवितताक्रौर्यं निःस्नेहत्वं कृतघ्नता ।
भूयस्त्वद्दर्शनादेव ममैते गुणतां गताः ॥
तस्यास्तद्रूपसौन्दर्यं भूषितं यौवनश्रिया ।
सुखैकायतनं जातं दुःखायैव ममाधुना ॥
एतानि चाङ्गनि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यं विधेयानि स्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि ।
वीथीव नानारसानां चात्र मालारूपतया स्थितत्वाद्वीथीयम् ।
यथा---मालविका ।
अथ प्रहसनम्---
भाणावत्सन्धिसच्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम् ।
भवेत्प्रहसनं वृत्तं निन्द्यानां कविकल्पितम्

6.265

अत्र नारभटी, नापि विष्कम्भकप्रवेशकौ ।
अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा

6.266

तत्र---
तपस्विभगद्विप्रप्रभृतिष्वत्र नायकः ।
एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुच्यते ।
यथा कन्दर्पकेलिः ।
आश्रित्य कञ्चन जनं संकीर्णमिति तद्विदुः

6.267

यथा---धूर्तचरितम् ।
वृत्तं बहूनां धृष्टानां सङ्कीर्णं केचिदूचिरे ।
तत्पुनर्भवति द्व्यङ्कमथवैकाङ्कनिर्मितम्

6.268

यथा--लटकमेलकादिः ।
मुनिस्त्वाह---
वेश्याचेटनपुंसकविटधूर्ता वन्धकी च यत्र स्युः ।
अविकृतवेषपरिच्छचेष्टितकरणं तु सङ्कीर्णम् ॥
इति ।
विकृतं तु विदुर्यत्र षण्ढकञ्चुकितापसाः ।
भुजङ्गचारणभटप्रभृतेर्वेषवाग्युताः

6.269

इदं तु सङ्कीर्णेनैव गतार्थमिति मुनिना पृथङ्नोक्तम् ।
अथोपरूपकाणि ।
तत्र नाटिका कॢप्तवृत्ता स्यात् स्त्रीप्राया चतुरङ्किका ।
प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः

6.270

स्यादन्तः पुरसम्बद्धा सङ्गीतव्यापृताथवा ।
नवानुरागा कन्यात्र नायिका नृपवंशजा

6.271

सम्प्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः ।
देवो भवेत्पुनर्ज्येष्ठा प्रगल्भा नृपवंशजा

6.272

पदे पदे मानवती तद्वशः सङ्गमो द्वयोः ।
वृत्तिः स्यात्कौशिकी स्वल्पविमर्शाः सन्धयः पुनः

6.273

द्वयोर्नायिकानायकयोः ।
यथा--रत्नावली---विद्धशालभञ्जिकादिः ।
अथ त्रोटकम्-
सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम् ।
त्रोटकं नाम तत्प्राहुः प्रत्यङ्कं सविदूषकम्

6.274

प्रत्यङ्कसविदूषकत्वादत्र शृङ्गारो ऽङ्गी ।
सप्ताङ्कं यथा--स्तम्भितरम्भम् ।
पञ्चाङ्कं यथा--विक्रमोर्वशी ।
अथ गोष्ठी---
प्राकृतैर्नवभैः पुंभिर्दशभिर्वाप्यलंकृता ।
नोदात्तवचना गोष्ठी कौशिकीवृत्तिशालिनी

6.275

हीना गर्भविमर्शाभ्यां पञ्चषड्योषिदन्विता ।
कामशृङ्गारसंयुक्ता स्यादेकाङ्कविनिर्मिता

6.276

यथा---रैवतमदनिका ।
अथ सट्टकम्--
सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम् ।
न च विष्कम्भको ऽप्यत्र प्रचुरश्चाद्भुतो रसः

6.277

अङ्का जवनिकाख्याः स्युः स्यादन्यन्नाटिकासमम् ।
यथा---कर्पूरमञ्जरी ।
अथ नाट्यरासकम्---
नाट्यरासकमेकाङ्कं बहुताललयस्थिति

6.278

उदात्तनायकं तद्वत्पीठमर्देपनायकम् ।
हास्यो ऽङ्ग्यत्र सशृङ्गारो नारी वासकसज्जिका

6.279

मुखनिर्वहणे सन्धई लास्याङ्गानि दशापि च ।
केचित्प्रतिमुखं सन्धैमिह नेच्छन्ति केवलम्

6.280

लोचना:
(लो, इ) तालः चञ्चुपुटादिः ।
पीठमर्द्दे ऽत्रैवोक्तप्रकारः ।
गीतं भरतदि प्रसिद्धम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र सन्धैद्वयवती यथा--नर्मवती ।
सन्धैचतुष्टयवती यथा--विलासवती ।
अथ प्रस्थानकम्--
प्रस्थाने नामको दासो हीनः स्यादुपनायकः ।
दासी च नायिका वृत्तिः कौशिकी भारती तथा

6.281

सुरापानसमायोगादुद्दिष्टार्थस्य संहृतिः ।
अङ्कौ द्वौ लयतालादिर्विलासो बहुलस्तथा

6.282

यथा---शृङ्गारतिलकम् ।
अथोल्लाप्यम्---
उदात्तनायकं दिव्यवृत्तमेकाङ्कभूषितम् ।
शिल्पकाङ्गैर्युतं हास्यशृङ्गारकरुणै रसैः

6.283

उल्लाप्यं बहुसंग्राममस्त्रगीतमनोहरम् ।
चतस्त्रो नायिकास्तत्र त्रयो ऽङ्का इति केचन

6.284

शिल्पकाङ्गानि वक्ष्यमाणानि ।
यथा--देवीमहादेवम् ।
अथ काव्यम्---
काव्यमारभटीहीनमेकाङ्गंहास्यसंकुलम् ।
खण्डमात्राद्विपदिकाभग्नतालैरलंकृतम्

6.285

लोचना:
(लो, ई) खण्डमात्रादय आकरेषु बोद्धव्याः ।
आदौ मुखप्रतिमुखे ।
अन्तिमो निर्वहणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
वर्णमात्राछड्डणिकायुतं शृङ्गारभाषितम् ।
नेता स्त्री चाप्युदात्तात्र सन्धी आद्यो तथान्तिमः

6.286

यथा---यादवोदयम् ।
अथ प्रेङ्खणम्---
गर्भावमर्शरहितं प्रेङ्खणं हीननायकम् ।
असूत्रधारमेकाङ्कमविष्कम्भप्रवेशकम्

6.287

नियुद्धसम्फेटयुतं सर्ववृत्तिसमाश्रितम् ।
लोचना:
(लो, उ) नियुद्धं बाहुयुद्धम् ।
सम्फेटो रोषभाषणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना

6.288

यथा---वालिवधः ।
अथ रासकम्---
रासकं पञ्चपात्रं स्यान्मुखनिर्वहणान्वितम् ।
भाषाविभाषाभूयिष्ठं भारती कौशिकीयुतम्

6.289

लोचना:
(लो, ऊ) भाषेति--भाषाविभागे यथा--भाषार्णवे---
"भाषा मध्यमपात्राणां नाटकादौ विशेषतः ।
महाराष्ट्री सौरसेनीत्युक्ता भाषा द्विधा बुधैः ।
हीनैर्भाष्या विभाषा स्यात् सा च सप्तविधा स्मृता ।
प्राच्यावन्ती मागधी च शाकारी च तथापरा ।
चाण्डाली शावरी चैव तथा भीरीति भेदतः ॥
********** एन्द् ओf चोम्मेन्तर्य् **********
असूत्रधारमेकाङ्कं सवीथ्यङ्गं कलान्वितम् ।
श्लिष्टनान्दीयुतं ख्यातनायिकं मूर्खनायकम्

6.290

उदात्तभावविन्यससंश्रितं चोत्तरोत्तरम् ।
इह प्रतिमुखं सन्धिमपि केचित्प्रचक्षते

6.291

यथा---मेनंकाहितम् ।
अथ संलापकम्---
संलापके ऽङ्काश्चत्वारस्त्रयो वा नायकः पुनः ।
पाषण्डः स्याद्रसस्तत्र शृङ्गारकरुणोतरः

6.292

भवेयुः पुरसंरोधच्छलसंग्रामविद्रवाः ।
न तत्र वृत्तिर्भवति भारती न च कौशिकी

6.293

यथा---मायाकापालिकम् ।
अथ श्रीगदितम्---
प्रख्यातवृत्तमेकाङ्कं प्रख्यातोदात्तनायकम् ।
प्रसिद्धनायिकं गर्भविमर्शाभ्यां विवर्जितम्

6.294

भारतीवृत्तिबहुलं श्रीतिशब्देन संकुलम् ।
मतं श्रीगदितं नाम विद्वद्भिरुपरूपकम्

6.295

यथा---क्रीडारसातलम् ।
श्रीरासीना श्रीगदिते गायेत्किं चित्पठेदपि ।
एकाङ्को भारतीप्राय इति केचित्प्रचक्षते

6.296

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) श्रीगदिताख्यमुपरूपकमाह---अथेति ।
प्रीतिशब्देन प्रीतिजनकशब्देन ।
श्रीरासीनेति ।
श्रीः लक्ष्मीः ।
आसीना प्रविष्टा ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ऊह्यमुदाहरणम् ।
अथ शिल्पकम्---
चत्वारः शिल्पके ऽङ्काः स्युश्चतस्त्रो वृत्तयस्तथा ।
अशान्तहास्याश्च रसा नायको ब्राह्मणो मतः

6.297

वर्णनात्र श्मशानादेर्हेनः स्यादुपनायकः ।
सप्तिविंशतिरङ्गानि भवन्त्येतस्य तानि तु

6.298

आशंसातर्कसंदेहतापोद्वेगप्रसक्तयः ।
प्रयत्नग्रथनोत्कण्ठावहित्थाप्रतिपत्तयः

6.299

विलासालस्यबाष्पाणि प्रहर्षाश्वासमूढताः ।
साधनानुगमोच्छवासविस्मयप्राप्तयस्तथा

6.300

लाभविस्मृतिसंफोटा वैशारद्यं प्रबोधनम् ।
चमत्कृतिश्चेत्यमीषां स्पष्टत्वाल्लक्ष्म नोच्यते

6.301

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) शिल्पकाख्यमुपरूपकमाह---अथेति ।
हीन इति ।
निकृष्टजनो ऽसहायः ।
अस्याशंसाद्यङ्गान्युद्दिश्य तल्लक्षणोदाहरणे स्पष्टत्वादुपेक्षिते ।
********** एन्द् ओf चोम्मेन्तर्य् **********
संफोटग्रथनयोः पूर्वमुक्तत्वादेव लक्ष्म सिद्धम् ।
यथा---कनकावतीमाधवः ।
अथ विलासिका---
शृङ्गारबहुलैकाङ्का दशलास्याङ्गसंयुता ।
विदूषकविटाभ्यां च पीठमर्देन भूषिता

6.302

हीना गर्भविमर्शाभ्यां संधिभ्यां हीननायका ।
स्वल्पवृत्ता सुनेपथ्या विख्याता सा विलासिका

6.303

केचित्तु तत्र विलासिकास्थाने विनायिकेति पठन्ति ।
तस्यास्तु "दुर्मल्लिकायामन्तर्भावः" इत्यान्ये ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) विलासिकाख्यमुपरूपकमाह---अथेति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ दुर्मल्लिका---
दुर्मल्ली चतुरङ्का स्यात् कौशिकीभारतीयुता ।
अगर्भा नागरनरान्यूननायकभूषिता

6.304

त्रिनालिः प्रथमो ऽङ्कास्यां विटक्रीडामयो भवेत् ।
पञ्चनालिद्वितीयो ऽङ्को विदूषकविलासवान्

6.305

षण्णालिकस्तृतीयस्तु पीठमर्दविलासवान् ।
चतुर्थो दशनालिः स्यादङ्कः क्रीडितनागरः

6.306

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) दुर्मल्लिकाख्यमुपरूपकमाह--अथेति ।
अगर्भा गर्भसन्धिरहिता ।
नागरनराः नागरपात्राणि ।
नायको निकृष्टः ।
त्रिनालिः नालिकात्रयसाध्यः ।
एवमुत्तरत्र ।
विटक्रीडा, धूर्तक्रीडा ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---बिन्धुमती ।
अथ प्रकरणिका---
नाटिकैव प्रकरणी सार्थवाहादिनायका ।
समानवंशजा नेतुर्भवेद्यत्र च नायिका

6.307

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) प्रकरणिकाख्यमुपरूपकमाह---अथेति ।
नाटिकैवेति ।
नाटिकालक्षणक्रान्तैवेत्यर्थः ।
ष सार्थवाहाः पथिकाः ।
आदिशब्दात् प्रवासिनश्च ।
********** एन्द् ओf चोम्मेन्तर्य् **********
मृग्यमुदाहरणम् ।
अथ हल्लीशः---
हल्लीश एक एवाङ्कः सप्ताष्टौ दश वा स्त्रियः ।
वागुदात्तैकपुरुषः कौ (कै) शिकीवृत्तिरुज्ज्वला ।
मुखान्तिमौ तथा सन्धी बहुताललयस्थितिः

6.308

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) हल्लीशाख्यमुपरूपकमाह---अथेति ।
मुखेति---मुखनिर्वहणसन्धिद्वयवती ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---कोलिरैवतकम् ।
अथ भाणिका--
भाणिका श्लक्ष्णनेपथ्या मुखनिर्वहणन्विता ।
कौ (कै) शिकीभारतीवृत्तियुक्तैकाङ्कविनिर्मिता

6.309

उदात्तनायिका मन्दनायकात्राङ्गसप्तकम् ।
उपन्यासो ऽथ विन्यासो विबोधः साध्वसं तथा

6.310

समर्पणं निवृत्तिश्च संहार इति सप्तमः ।
उपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्तनम्

6.311

निर्वेदवाक्यव्युत्पत्तिर्विन्यास इति स स्मृतः ।
भ्रान्तिनाशो विबोधः स्यान्मिथ्याख्यानं तु साध्वसम्

6.312

सोपालम्भवचः कोपपीडयेह समर्पणम् ।
निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते

6.313

संहार इति च प्राहुर्यत्कार्यस्य समापनम् ।
स्पष्टान्युदाहरणानि ।
यथा---कामदत्ता ।
एतेषां सर्वेषां नाटकप्रकृतित्वे ऽपि यथैचित्यं यथालाभं नाटकोक्तविशेषपरिग्रहः ।
यत्र च नाटकोक्तस्यापि पुनरुपादानं तत्र तत्सद्भावस्य नियमः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) भाणिकाख्यमुपरूपकमाह---अथेति ।
मन्दो निकृष्टः ।
अस्य कार्याण्याह---उपन्यास इत्यादि ।
तेषां लक्षणान्याह---उपन्यास इति ।
निर्वेदवाक्यस्य व्युत्पत्तिर्विन्यासः, सा च विन्याससंज्ञिका ।
कोपपीडयोपालम्भवचः समर्पणाख्यं कार्यमित्यर्थः ।
निदर्शनस्य दृष्टान्तस्योपन्यास इत्यर्थः ।
कार्यस्य समापनम्---मुख्यकार्यावान्तरकार्यस्येत्यर्थः ।
एषां कार्याणां सर्वनटकेष्वेवोचित्यात्सर्वनाटकानामेवैतत्कार्यत्वमाह---एषामिति ।
नाटकोक्तविशेषे परिग्रह इति विग्रहः ।
तथा च भाणिकोक्तकार्यस्य नाटकान्तरेपि दातव्यमुक्तम् ।
यच्चेति ।
नाटके हि षट्त्रिंशल्लक्षणालङ्कारादयश्चोक्ताः ।
तदुक्तवस्तुनो यच्च पुनरुपादानं नाटकान्तर इति बोध्यम् ।
तत्सद्भावस्येति---तत्सद्भावस्य तत्रावश्यकतारूपनियम् इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ श्रव्यकाव्यानि---
श्रव्यं श्रोतव्यमात्रं तत्पद्यगद्यमयं द्विधा

6.314

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) श्रव्यकाव्यानीति ।
तत्प्रबेदद्वयमाह---पद्यगद्यमिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र पद्यमयान्याह---
छन्दोबद्धपदं पद्यं तेन मुक्तेन मुक्तकम् ।
द्वाभ्यां तु युग्मकं सांदानतिकं त्रिभिरिष्यते

6.315

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ञ) द्वाभ्यामित्यादिचतुर्षु परस्परैकवाक्यतापन्नत्वे सतीति वोध्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम् ।
तत्र मुक्तकं यथा मम---
"सान्द्रानन्दमनन्तमव्ययमजं यद्योगिनो ऽपि क्षणं साक्षात्कर्तुमुपासते प्रति मुहुर्ध्यानैकतानाः परम् ।
धन्यास्ता मधुरापिरीयुवतयस्तद्ब्रह्म या कौतुका--
दालिङ्गन्ति समलपन्ति शतधाऽकर्षन्ति चुम्बन्ति च" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ट) सान्द्रानन्दमिति--यत्परं प्रकृष्टं ब्रह्म क्षणमपि साक्षात्कतुध्यानैकताना ध्यानमात्राविष्टा योगिनः प्रतिमुहुरुपासते तद्ब्रह्म या मथुरापुरयुवतयः कौतुकादालिङ्गन्तीत्यादि ता धन्यः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
युग्मकं यथा मम---
"किं करोषि करोपान्ते कान्ते ! गण्डस्थलीमिमाम् ।
प्रणयप्रवणो कान्ते ऽनैकान्ते नोचिताः क्रुधः ॥
इति यावत्कुरङ्गाक्षीं वक्तुमीहामहे वयम् ।
तावदाविरभूच्चूते मधुरो मधुपध्वनिः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ठ) मानिन्या मानभङ्गप्रकारं सख्यौ कथयन्नाह--किं करोषीत्यादि ।
हे कान्ते ! करोपान्ते इमां गण्डस्थलीं किमर्थं करोषि ? ततः प्रणयप्रवण इत्यादि स्पष्टम् ।
कुरङ्गाक्षीमिति वक्तुं वयं यावदीहामहे तावन्मधुरो मधुपध्वनिः चूते आविरभूत् ।
अत्र प्रथमश्लोकार्थो द्वितीयश्लोक उत्किकर्मत्वेन उक्त इति एकवाक्यता ।
********** एन्द् ओf चोम्मेन्तर्य् **********
एवमन्यान्यपि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ड) एवमिति---सन्दानितकादावपि एवं बोध्यमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः

6.316

सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ।
एकवंशभवा भूपाः कुलजा बहवो ऽपि वा

6.317

शृङ्गारवीरशान्तानामेको ऽङ्गी रस इष्यते ।
अङ्गानि सर्वे ऽपि रसाः सर्वे नाटकसन्धयः

6.318

इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ढ) महाकाव्यलक्षणमाह---सर्गबन्ध इत्यादि ।
परिच्छेदरूपः सर्गो बध्येतऽस्मिन्निति सर्गबन्धः ।
सुरो देवः ।
सर्वे नाटकसन्धयो मुखप्रतिमुखादयः पञ्च ।
सज्जनाश्रयम्---वर्णनीयोत्तमजनस्य वृत्तं वेत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत्

6.319

आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ।
क्वचिन्निन्दा खलादीनां सतां च गुणकीर्तनम्

6.320

एकवृत्तमयैः पद्यैरवसाने ऽन्यवृत्तकैः ।
नास्तिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह

6.321

नानावृत्तमयः कापि सर्गः कश्चन दृश्यते ।
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत्

6.322

संध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः ।
प्रातर्मध्याह्नमृगयाशैलर्तुवनसागराः

6.323

संभागविप्रलम्भौ च मुनिस्वर्गपुनाध्वराः ।
रणप्रयाणोपयममन्त्रमुत्रोदयादयः

6.324

वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ।
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा

6.325

नामास्य सर्गोपादेयकथया सर्गनाम तु ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ण) चत्वार इति---धर्मार्थकाममोक्षा ये चत्वारो वर्गास्तेष्वेकमपि तत्फलमित्यर्थः ।
एकवृत्तमयैरिति---एकच्छन्दोव्याप्तैरित्यर्थः ।
अवसाने सर्गान्ते ।
साङ्गोपाङ्ग इति---अमी सान्ध्यासूर्येन्द्वादयः पुत्रजन्मान्ता इह काव्ये यथायोगं यथासम्भवं साङ्गोपाङ्गा वर्णनीया इत्यर्थः ।
तत्र सन्ध्याङ्गम्--चक्रवाकविरहः, वासराङ्गम्जलकेत्यादिः, रजन्यङ्गम्--मधुपानादि, उपाङ्गम्--तत्रैव परिहासादयः, मुनिः--नारदादिः, प्रयाणम्--यात्रा, उपयमः विवाहः, मन्त्रः--मन्त्रणा, पुत्रोदयः-पुत्रजन्म ।
इतरस्य प्रतिनायकस्य, तन्नाम्नास्य नामेत्यर्थः ।
सर्गोपादेयेति---सर्गे उपादेया वर्णिता या कथा तया सर्गनामेत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सन्ध्यङ्गानि यथालाभमत्र विधेयानि "अवसाने ऽन्यवृत्तकैः" इति बहुवचनमविवक्षितम् ।
साङ्गोपाङ्गा इति जलकेलिमधौपानादयः ।
यथा---रघुवंश---शिशुपालवः---नैषधादयः ।
यथा वा मम---राघवविलासादिः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, त) बहुवचनमविवक्षितमिति---अवसान एकस्यापि अन्यवृत्तिकस्य दृष्ट त्वात् ।
यथा रघुवंशमिति ।
तत्र वृत्तस्य नाम्ना रघुवंशेति ।
एकवंशजा बहुभूपाः ।
प्रतिनायकस्य नाम्ना शिशुपालवध इति ।
नैषधादौ तु नायकस्य नाम्ना ।
नायकस्तु सद्वंराजः क्षत्त्रियः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसंज्ञकाः

6.326

अस्मिन्महाकाव्ये ।
यथा---महाभारतम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, थ) अस्मिन्नार्ष इति---ऋषिप्रणीते ऽस्मिन् महाकाव्य इत्यर्थः ।
आख्यानसंज्ञका इति ।
शिष्यं प्रति गुरुणामाख्यानशास्त्रकथने याः संज्ञा अध्यायरूपास्तादृशसंज्ञका इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
प्राकृतैर्निर्मिते तस्मिन्सर्गा आश्वाससंज्ञकाः ।
छन्दसा स्कन्धकेनैतत्क्वचिद्रलितकैरपि

6.327

यथा---सेतुबन्धः ।
यथा वा मम---कुवलयाश्वचरितम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, द) स्कन्धकगलितके छन्दोविशेषौ ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अपभ्रंशनिबद्धे ऽस्मिन् सर्गाः कुडवकाभिधाः ।
तथापभ्रंशयोग्यानि च्छन्दांसि विविधान्यपि

6.328

यथा---कर्णपराक्रमः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ध) कडवकाभिधाः--कडवकनामानः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
भाषाविभाषानियमात्काव्यं सर्गसमुज्झितम् ।
एकार्थप्रवणैः पद्यैः संधिसामग्र्यवर्जितम्

6.329

यथा---भिक्षाटनम्, आर्याविलासश्च ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, न) भाषाविशेषेति---तादृशवाक्ये संस्कृतप्राकृतभाषयोरनियमः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारि च ।
यथा---मेघदूतादि ।
कोषः श्लोकसमूहस्तु स्यादन्योन्यानपेक्षकः

6.330

व्रज्याक्रमेण रचितः स एवातिमनोरमः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, प) अन्योन्यानपेक्षकः---अन्योन्यनिरपेक्षकः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
सजातीयानामेकत्र सन्निवेशो व्रज्या ।
यथा मुक्तावल्यादिः ।
अथ गाद्यकाव्यानि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, फ) व्रज्यापदार्थमाह---सजातीयानामिति ।
वर्णनीयैक्येन साजात्यम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
तत्र गद्यम्---
वृत्तगन्धोज्जितं गद्यं मुक्तकं वृत्तगन्धि च

6.331

भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् ।
आद्यं समासरिहितं वृत्तभागयुतं परम्

6.332

अन्यद्दीर्घसमासाढ्यं तुर्य चाल्पसमासकम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ब) वृत्तगन्धोज्झितमिति ।
गद्यसामान्यलक्षणम् ।
तच्चातुर्विध्यमाह---मुक्तकमिति ।
आद्यं मुक्तकम् ।
परं वृत्तगन्धिः ।
वृत्तम्--अक्षरसंख्यातं छन्दस्तदकदेशयुक्तमित्यर्थः ।
तुर्यं चतुर्थं चूर्णकम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
मुक्तकं यथा---"गुरुर्वचसि पृथुरुरसि--" इत्यादि ।
वृत्तगन्धि यथा मम--
"समरकण्डूलनिविडभुजदण्डकुण्डलीकृतकोदण्डशिञ्जिनीटंकारोज्जागरितवैरिनगर" इत्यादि ।
अत्र "कुण्डलीकृतकोदण्डऽ--इत्यनुष्टुब्वृत्तस्य पादः, "समरकण्डूल" इति च प्रथमाक्षरद्वयरिहितस्तस्यैव पादः ।
उत्कलिकाप्रायं यथा ममैव---"अणिसविसुमरणिसिदसरविसरविदलिदसमरपरिगदपवरपरवल---" इत्यादि ।
चूर्णकं यथा भम--"गुणरत्नसागर ! जगदेकनागर ! कामिनीमदन ! जनरञ्जन !" इत्यादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, भ) समरकण्डुलेति--समरोत्साहेन कण्डुले निबिडे दृढे भुजदण्डे कुण्डलीकृतकोदण्डस्य शिञ्जिन्याः गुणस्य टङ्कारेण उज्जगरितं वैरिनगरं येन ।
हे तादृशेत्यर्थः ।
अत्र वृत्तभागयुक्तत्वं दर्शयति--अत्रेति ।
प्रथमाक्षरत्रयरहित इति--एतस्यैव अनुष्टुभ एव पादो ऽपरपादः ।
समरेत्यक्षरत्यगे, "कण्डूलनिबिडभूजःऽ; इत्येवंरूपः ।
अणिसेति--अनिशविषमनिशितशरविसरविदलितपरिघगदपरबल इति संस्कृतम् ।
अनिशं विषमानां निशितानां शराणं विसरेण--पातेन विदलिताः परिघाः मुद्रराः गदाश्च यत्र तादृशं परबलं यस्मात्, हे तादृशेत्यर्थः ।
गुणरत्नसागरेत्यादि---अत्र रेफान्तं नाम द्वयं नान्तञ्च सम्बोधनद्वयमल्पसमासकम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कथायां सरसं वस्तु गद्यैरेव विनिमितम्

6.333

क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके ।
आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम्

6.334

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, म) कथारूपकाव्यधरमानह---कथायामिति ।
आर्यामात्राकृतं छन्दः ।
वक्त्रापवक्त्रके--छन्दोविशेषौ ।
तस्य धर्मान्तरानाह---आदाविति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---कादाम्बर्यादिः ।
आख्यायिका कथावत्स्यात्कवेर्वशानुकीर्तनम् ।
अस्यामन्यकवीनां च वृत्तं पद्यं क्वचित्क्वचित्

6.335

कथांशानां व्यवच्छेद आश्वास इति वध्यते ।
आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित्

6.336

अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, य) आख्यायिकात्मककाव्यधर्मानाह---आख्यायिकेति ।
कथावत्सेति---सा कथोक्तधर्मतुल्यधर्मवतीत्यर्थः ।
कथातो विशेषमाह--कवेरिति ।
अस्यामिति--अस्यामाख्यायिकायामन्यकवीनाञ्च वंशादिकीर्तनमित्यर्थः ।
तथा वृत्तक्षरसंख्यातं छन्दः क्वचित् क्वचिदित्यर्थः ।
आश्वास इति--आश्वासनामात्र परिच्छेद इत्यर्थः ।
आर्येति--आर्यादिच्छन्दसां मध्ये येन केनचिच्छन्दसा आश्वसस्य मुखेआदौ अन्यापदेशेन--अन्यच्छलेन भाव्यर्थस्य वक्ष्यमाणार्थस्य सूचनमित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---हर्षचरितादिः ।
"अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्" ।
इति दण्ड्याचार्यवचनात् केचित् आख्यायिका नायकेनैव निबद्धव्या" इत्याहुः, तदयुक्तम् ।
आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः ।
यदुक्तं दण्डिनैव---अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः" ।
इति ।
एषामुदाहरणम्---पञ्चतन्त्रादि ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, र) "आख्यायिका नायकेनैव निबद्धव्या" इति यद् केनचिदुक्तं तद् "आपितु"--इत्यादिदण्ड्याचार्यवचनादयुक्तमित्यर्थः ।
आख्यानादिरूपाणां काव्यान्तरणां पृथग्युक्तिबीजमाह--आख्यानादय इति ।
यदुक्तं दण्डिनैवेति--यतो दण्डिनैवोक्तम्, अत्रैवान्तः--इत्यादीत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अथ गद्यपद्यमयानि---
गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते

6.337

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ल) चम्पूसंज्ञकं काव्यान्तरमाह--गद्यपद्यमयमिति ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---देशराजचरितम् ।
गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते ।
यथा---विरुदमणिमाला ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, व) विरुदमणिमाला प्रबन्धविशेषः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
करम्भकं तु भाषाभिविविधाभिर्विनिर्मितम्

मूल पाठ: Sāhityadarpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc