भाषा

ENहिગુ
ग्रंथ पाठ

साधनदीपिका · अध्याय 6

6.1

यथा राधा तथा विष्णोस् तस्याः कुण्डं प्रियं तथा ।
सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति पाद्मोक्तात् ।
सत्त्वं तत्त्वं परत्वं च तत्त्व-त्रयम् अहं किल ।
त्रि-तत्त्व-रूपिणी सापि राधिका मम वल्लभा ॥
प्रकृतेः पर एवाहं सापि मच्-छक्ति-रूपिणी ।
इति बृहद्-गौतमीये श्री-कृष्ण-वचनात् ।
कऋष्णवन् नित्य-सौन्दर्य-वैदग्ध्यादि-गुणाश्रया ।
गोपी-गण-महिषी-गण-लक्ष्मी-गण-प्रकाशिका ॥
सदैव मध्यालक्षणाक्रान्ता, तथा कमलाष्ट-दल-भाग्भिः अर्व-सखी-वर्ग-
मुख्याभिः परमेष्टाभिः श्री-ललिताद्य्-अष्ट-सखीभिः सह विराजमाना श्री-
राधिकैव श्री-वृन्दावनेश्वरी महाराज्ञी, यथा बृहद्-गौतमीये-
देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः संमोहिनी परा ॥ इति ।
यथा मात्स्य-स्कान्दाभ्याम्-
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां च राधा वृन्दावने वने ॥ इति ।
श्री-वृन्दावनेश्वरी राधिका । तस्याम् एव पर्मोत्कर्ष-पराकाष्ठाया दर्शितत्वात्
। श्री-प्रीति-सन्दर्भे च-तत् प्रेम-वैशिष्ट्यं तद् एव मुख्यम् इति । प्रेम-
वैशिष्ट्यं यथा श्रीमद्-उज्ज्वले (5.98)-
कर्तुं शर्म क्षणिकम् अपि मे साध्यम् उज्झत्य् अशेषं
चित्तोत्सङ्गे न भजति मया दत्त-खेदाप्य् असूयाम् ।
श्रुत्वा चान्तर्विदलति मृषाप्य् आर्ति-वार्ता-लवं मे
राधा मूर्धन्य् अखिल-सुदृशां राजते सद्-गुणेन ॥
श्री-भागवते च (10.30.28)-
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । इति ।
यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने ।
सा च मेने तदात्मानं वरिष्ठं सर्व-योषिताम् ॥ (10.30.36)
तापनीभ्यश् च (2.12)-
तासां मध्ये गान्धर्वा श्रेष्ठा इति च ।
केवलं यो भजेद् भक्तो माधवं राधिकां विना ।
माधवो नैव तुष्टः स्यात् साधनं तद् वृथा भवेत् ॥ इति ।
एवं दान-केलि-कौमुद्यां (77)-
नान्दीमुखी: सहि चित्ते सुणाहि इमाए बुन्दाए गदुअ भअबदी बिण्णत्ता "हन्त
जोएसरि, बुन्दाबण-रज्जे अहिसिञ्चज्जौ राही । (सखि चित्रे शृणु अनया वृन्दया गत्वा
भगवती विज्ञप्ता "हन्त योगेश्वरि, वृन्दावन-राज्ये अभिषिच्यतां राधा ।")
मत्तण्ड-महिसीए भणिदं भअबदि, अणदिक्क-मणिज्जं तुम्ह-सासणं णिच्चिदं
क्खु अम्हेहिं सिरे गहीदं, किन्तु कहिं महिट्ठा एसा बच्छा राही, कहिं बा
सोलह-कोहमेत्तबित्थिण्णं एदं बुन्दाबण-रज्जं त्ति ण सुट्ठु पसीदै मे हिअअम्
। (ततः कनिष्ठया मार्तण्ड-महिष्या छायया भणितं भगवति
अनतिक्रमणीयं युष्मत्-शासनं निश्चितं खलु अस्माभिः शिरसि गृहीतं किन्तु क्व
महिष्ठा एषा राधा क्व वा षोडश-क्रोश-मात्र-विस्तीर्णम् इदं वृन्दावन-
राज्यम् इति । न सुष्ठु प्रसीदति मे हृदयं । तेन सर्व-ब्रह्माण्डाधिपत्य
एवाभिषिच्यताम् इति भावः ।)
(इति संस्कृतेन) सखि सवर्णे समाकर्णय-
आम्नायाध्वर-तीर्थ-मन्त्र-तपसां स्वर्गाखिल-स्वर्गिणां
सिद्धीनां महतां द्वयोर् अपि तयोश् चिच्छक्ति-वैकुण्ठयोः ।
वीर्यं यत् प्रथते ततोऽपि गहनं श्री-माथुरे मण्डले
दीव्यत् तत्र ततोऽपि तुन्दिलतरं वृन्दावने सुन्दरि ॥
किं च श्री-राधिका-मध्यायाम् एव (उज्ज्वले 5.42)-
प्रायः सर्व-रसोत्कर्षो मध्यायाम् एव युज्यते ।
यद् अस्यां वर्तते व्यक्ता मौग्ध्य-प्रागल्भ्ययोर् युतिः ॥ इति ।
तथा हि (नरहरि-सरकारस्य राधिकाष्टके, 6)-
भक्तिं न कृष्ण-चरणे न करोमि चार्तिं
राधा-पदाम्बुज-रजः-कण-साहसेन ।
तस्या दृग्-अञ्चल-निपात-विशेष-वेत्ता
दैवाद् अयं मयि करिष्यति दास-बुद्धिम् ॥
पुनः श्री-कृष्ण-सन्दर्भे (289) च--वृन्दावने श्री-राधिकायाम् एव स्वयं-
लक्ष्मीत्वम् । अतएव सतीष्व् अन्यास्व् अपि मुख्याभिप्रायेणैव तस्या एव
वृन्दावनाधिपत्येन नाम-ग्रहणम् ।
तथा श्री-लघु-गणोद्देशे (135)-
आभीर-सुभ्रुवां श्रेष्ठा राधा वृन्दावनेश्वरी ।
अस्याः सख्यश् च ललिता-विशाखाद्याः सुविश्रुताः ॥
तथा हि पाद्मे कार्त्तिक-माहात्म्ये (5.77.39) ब्रह्म-नारद-संवादे-
वृन्दावनाधिपत्यं च दत्तं तस्यै प्रत्युष्यता ।
कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥ इति ।
अन्यत्र साधारण-देशे देव्य्-एवाधिकारिणी श्री-वृन्दावनाभिध-वने श्री-
राधिकैवेत्य् अर्थः ।
अथ श्री-ऊर्ध्वाम्नाये-
ईश्वर उवाच-
अथातः संप्रवक्ष्यामि राधिकाया मनून् शुभान् ।
येषां विज्ञान-मात्रेण वशीकुर्याद् व्रजाधिपम्

6.2

कामो रमा राधिका च णेता पावक-वल्लभा ।
अष्टाक्षरो महा-मन्त्रः सर्वज्ञत्व-प्रदायकः

6.3

अगस्त्यो मुनिर् एतस्य छन्दस् तु जगती स्मृतम् ।
देवता सुन्दरी प्रोक्ता राधिका परमेश्वरी

6.4

माया-बीजं परा शक्तिः स्वाहा शक्तिर् उदीरिता ।
कीलकं काम-बीजाख्यं षड्-दीर्थ-स्वर-भेदतः

6.5

श्री-बीजेन षड्-अङ्गानि कुर्यात् सर्वार्थ-सिद्धये ।
ध्यानम् अस्याः प्रवक्ष्यामि श्री-कृष्ण-प्रीति-कारकम्

6.6

अशोक-वन-मध्यस्थां सर्वावयव-सुन्दरीम् ।
गोपीं षोडश-वर्षीयां पीनोन्नत-पयोधराम्

6.7

दक्ष-हस्त-समाक्रान्त-कृष्ण-कण्ठावलम्बिनीम् ।
वाम-हस्तेन कमलं भ्रामयन्तीं सुलोचनाम्

6.8

नीलाम्बर-परीधानां तडित्-काञ्चन-विग्रहाम् ।
सङ्केत-वट-सुच्छाय-रत्न-वेदी-परिस्थिताम्

6.9

रहस्य-चेटिका-युग्म-पृष्ठ-देशानुसेविताम् ।
मिथश् चुम्बनम् आलाप-परीरम्भ-परायणाम्

6.10

सम्पूर्ण-चन्द्र-साहस्र-वदनां रुचिर-स्मिताम् ।
एवंविधां महेशानि भावयेद् वृषभानुजाम्

6.11

शुक्ला-चतुर्दशीतः कृष्णाष्टमी-पर्यन्तं लक्ष-जप-विधिर् दश-दिवस-प्रयोगः
।
लक्ष-मात्रं जपेन् मन्त्रं शुभे देशे सुसंयुतः ।
राधा-कुण्डेऽथ सङ्केते श्रीमद्-गोवर्धनाचले

6.12

किं वा मानस-गङ्गायां यमुनायास् तटेऽथवा ।
वृन्दावने महा-कुञ्जे माधवी-मण्डपान्तरे

6.13

वैशाखे कार्त्तिके वापि मासे चैवाग्रहायणे ।
सर्व एव शुभः कालः पुरश्चर्या-जपादिषु

6.14

चम्पकै रक्त-पदमैर् वा दशांशं जुहूयात् ततः ।
यथोक्त-विहिते कुण्डे त्रि-मध्व्-आक्तैर् महेश्वरि

6.15

बिल्वी-दलैः किंशुकैर् वा शर्करातिल-सर्पिषा ।
तत्-तत्-कामेन होतव्यं तैस् तैर् द्रव्यैर् विधानतः

6.16

राज्य-कामेन होतव्यं पद्माक्षैः पायसेन च ।
विद्या-कामेन होतव्यं ब्रह्म-वृक्ष-प्रसूनकैः

6.17

लक्ष्मी-कामेन होतव्यं विशेषात् तिल-सर्पिषा ।
स्तम्भनार्थी च जुहुयात् किंशुकैश् चम्पकैस् तथा

6.18

वश्यार्थी जुहुयाद् देवि द्राक्षया सितया पुनः ।
उच्चाटे केतकी-पत्रैः सर्वत्र तिल-सर्पिषा

6.19

भूति-कामेन होतव्यं मधुना सर्पिषा तथा ।
एवं सिद्ध-मनुर् मन्त्री साधयेत् सकलेप्सिताम्

6.20

विशेषाद् अमुना नूनं कृष्ण-वश्यत्वम् आप्नुयात् ।
यो न जानाति राधाया मन्त्रं सर्वार्थ-साधकम्

6.21

तस्य कोटि-प्रजप्तोऽपि गोपालो नात्र सिद्धिदः ।
तस्माद् यथोक्त-विधिना साधयेद् वृषभानुजाम्

मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc