भाषा

ENहिગુ
ग्रंथ पाठ

साधनदीपिका · अध्याय 5

5.1

इति पञ्चम-कक्षा ।
षष्ठ-कक्षा
श्री-राधिकायै नमः
वन्देऽहं श्रील-राधायाः पद-चिन्तामणिं सदा ।
श्री-कीर्तिदा-गर्भ-खनि-प्रादुर्भूतं सुभास्वरम्

5.2

श्री-गोविन्द-प्रियतमा वरेयं वृषभानुजा ।
तत् सुखं नित्यम् इच्छन्ती वपुषा वचसा धिया

5.3

स यथा गोकुले साक्षाद् व्रजेन्द्र-सुत ईर्यते ।
तस्य कान्ता तथा साक्षाद् वृषभानु-सुता स्मृता

5.4

यदा यथेच्छा भवति निज-प्रियतमस्य हि ।
तदा तथैव कुर्वती तेनैव सह दीव्यति

5.5

मौन-मुद्रां धृते कृष्णे व्रजेऽस्मिन् प्रकटं गते ।
स्वया तन्-मौद्रया युक्ता तत् पूर्वं प्रकटं गता

5.6

अत्रापि श्रूयते काचित् कथा पौरातनी शुभा ।
विप्रो बृहद्-भानु-नामा दाक्षिणात्यः सु-वैष्णवः

5.7

ओड्र-देश-निवासी स राधा-नगर-ग्रामके ।
पुं-स्त्री-भावेन तेनेयं कति वर्षाणि सेविता ।
यद् इयं करुणा यस्यास् तत्र किञ्चिन् न दुर्घटम्

5.8

श्री-गोविन्द-स्थालावासी श्री-गोपालो दयाम्बुधिः ।
साक्ष्यं दातुं ब्राह्मणस्य स्वपदाभ्यां यतो गतः

5.9

अद्यापि राजते ओड्र-देशेऽसौ भक्त-वत्सलः ।
कर्तुं न कर्तुं तत् कर्तुं समर्थो हरिर् ईश्वरः ।
यथा हरिस् तथा सेयं तत्-प्रिया परमेश्वरी

5.10

ततः कियद् दिनान्तेऽस्मिन् ब्राह्मणेऽप्रकटं गते ।
तद्-ग्राम-वासिभिर् गूढं सेव्यते वृषभानुजा

5.11

ततः श्री-रूप-गोस्वामि-द्वारास्मिन् वृन्दिका-वने ।
गोविन्दे प्रकटं गते साक्षाद् गोपेन्द्र-नन्दने

5.12

श्रीमत्-प्रतापरुद्रस्य पुत्रः परम-सुन्दरः ।
महा-भागवतो धीरः संमतं साधु-मण्डलैः

5.13

श्रीमत्-पण्डित-गोस्वामि-शिष्यस् तत्राधिकारवान् ।
तस्मिन्न् आज्ञाभवद् रात्रौ श्री-गोविन्द-प्रिया-मणेः

5.14

मत्-प्राणनाथो गोविन्दः साक्षाच् छ्री-नन्दनन्दनः ।
रूप-द्वारा व्रजे तस्मिन्न् इदानीं प्रकटं गतः

5.15

शीघ्रं यास्यामि तत्राहं नोचितात्र स्थितिर् मम ।
नाम्ना गदाधरः ख्यातो मद्-रूपः पण्डितः सुधीः

5.16

प्रस्थापयतु मां यत्र शिष्य-द्वारा त्वरान्वितः ।
सोऽपि तद्-वचनं श्रुत्वा राजा परम-विस्मितः

5.17

तदानेनैव रूपेण श्रीश्वरी प्रापिता व्रजे ।
राधा-गदाधर-प्रिय-शिष्य-युग्मेन धीमता

5.18

पथि संसेव्य संसेव्य सानीता परमेश्वरी ।
यदा मद्-ईश्वरी राधा गोविन्द-वाम-पार्श्वगा ।
भवेत् तदैवास्य शोभा-विशेषो हि विवर्धते

5.19

अत्र प्रमाणं श्री-गोविन्द-लीलामृते (13.32)-
राधा-सङ्गे यदा भाति तदा मदन-मोहनः ।
अन्यथा विश्व-मोहोऽपि स्वयं मदन-मोहितः ॥
श्री-भागवते च तत्रातिशुशुभे ताभिः (10.33.6) इति ।
अस्याः सौन्दर्य-माधुर्य-सौशील्यादिकम् एव यत् ।
दर्शनाद् एव ज्ञातव्यं तस्मान् नात्र विलिख्यते

मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc