साधनदीपिका · अध्याय 7
[राधिकाष्टोत्तर-शत-नाम-स्तोत्रम्]
अथैव सम्प्रवक्ष्यामि नाम्नाम् अष्टोत्तरं शतम् ।
यस्य संकीर्तनाद् एव श्री-कृष्णं वशयेद् ध्रुवम्
राधिका सुन्दरी गोपी कृष्ण-सङ्गम-कारिणी ।
चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा
वीणा-पाणिः स्मितमुखी रक्ताशोक-लतालया ।
गोवर्धन-चरी गोप्या गोपी-वेश-मनोहरा
चन्द्रावली-सपत्नी च दर्पणास्या कलावती ।
कृपावती उप्रतीका तरुणी हृदयङ्गमी
कृष्ण-प्रिया कृष्ण-सखी विपरीत-रति-प्रिया ।
प्रवीणा सुरत-प्रीता चन्द्रास्या चारु-विग्रहा
केकराक्षी हरेः कान्ता महा-लक्ष्मीः सुकेलिनी ।
सङ्केत-वट-संस्थाना कमनीया च कामिनी
वृषभानु-सुता राधा किशोरी ललिता-लता ।
विद्युद्वल्ली काञ्चनाभा कुमारी मुग्ध-वेशिनी
केशिनी केशव-सखी नवनीतैक-विक्रया ।
षोडशाब्दा कला-पूर्णा जारिणी जार-सङ्घिनी
हर्षिणी वर्षिणी वीरा धीराधीरा धराधृतिः ।
यौवनस्था वनस्था च मधुरा मधुराकृतिः
वृषभानु-पुरावासा मान-लीला-विशारदा ।
दान-लीला-दान-दात्री दण्ड-हस्ता भ्रुवोन्नता
सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चम-स्वरा ।
सङ्गीत-कुशला सेव्या कृष्ण-वश्यत्व-कारिणी
तारिणी हारिणी हीर्ला शीला-लीला-ललामिका ।
गोपाली दधि-विक्रेत्री प्रौढा मुग्धा च मध्यका
स्वाधीनपतिका चोक्ता खण्डिता चाभिसारिका ।
रसिका रसिनी रस्या रस-शास्त्रैक-शेवधिः
पालिका लालिका लज्जा लालसा ललना-मणिः ।
बहुरूपा सुरूपा च सुप्रसन्ना महामतिः
मराल-गमना मत्ता मन्त्रिणी मन्त्र-नायिका ।
मन्त्र-राजैक-संसेव्या मन्त्र-राजैक-सिद्धिदा
अष्टादशाक्षर-फला अष्टाक्षर-निषेविता ।
इत्य् एतद् राधिका देव्या नाम्नाम् अष्टोत्तरं शतम्
कीर्तयेत् प्रातर् उत्थाय कृष्ण-वश्यत्व-सिद्धये ।
एकैक-नामोच्चारेण वशीभवति केशवः
मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0